भाषा

ENहिગુ
ग्रंथ पाठ

चीवरवस्तु · अध्याय 1

1.1

चीवरवस्तु
( म्स्व् इइ 3 )( 239व्8 = ग्ब्म् 6.791.8 ) चीवरवस्तुनि पिण्डोद्दानम्* ।
जीवको भाङ्गकश् चैव तथा दीर्घदशानि च ।
वर्षाछिन्नश् च विज्ञेयः
कालक्रिया उपनन्दो ग्लानो भवति पश्चिमः ॥
पिण्डोद्दानम्* ।
जीवकश् छिन्नकास् त्रीणि वर्षाशाटी निषीदनम्* ।
कण्डुसुगतकौशेया ऊर्णाशाणकक्षौमकाः ॥
उद्दानम्* ।
खण्डो गोपश् च सिंहश् च वैशालीगमनं तथा ।
चेला ऋषिकोपश् च आम्रपाल्यभयेन च ॥
श्रेष्ठीभार्या जीवकोत्पत्तिः वैद्यकस्य च आगमः ।
तक्षशिला भद्रङ्कर उदुम्बरः कार्षमापकः ॥
रोहितकः राजोद्यानं मथुरा मल्लस्त्रियाहि च ।
यमुना शिवपथिका वैशाल्याम् अक्षि शतपदी सप्त ।
राजगृहे पंचवस्तूनि जीवकवर्गः समुद्दितः ॥
विदेहेषु विदेहराजो ( 240र्1 = ग्ब्म् 6.792 ) राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । तस्य खण्डप्रमुखानि पंचामात्यशतानि । खण्डो ऽग्रामात्यो धर्मेण राज्यं कारयति न्यायतश् च व्यवहारान् पश्यति यतः सर्व एव जनकायस् तन्मुखो ऽवस्थितः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति ( म्स्व् इइ 4 ) रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः । तस्य त्रीणि सप्तकान्य् एकविंशति दिवसान् पूर्ववद् यावद् गोप इति नामधेयं व्यवस्थापितम्* । भूयो ऽप्य् अस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः । तस्यापि पूर्ववद् विस्तरेण सिंह इति नामधेयं व्यवस्थापितम्* । गोपः सिंहश् च क्रमशस् तरुणौ संवृत्तौ । खण्डो ऽग्रामात्यः पूर्वम् एव शूरो विक्रान्तः पञ्चसु स्थानेषु कृतावि येनामात्यानाम् अग्रः । यदा पुत्रबली जातस् तदा भूयस्या मात्रया सर्वामात्यान् अभिभूयावस्थितः । ततस् ते ऽमात्या उपहततेजसः परस्परं संजल्पं कृत्वा संजातामर्षा राज्ञः सकाशं गताः । ततो ऽवसरं ज्ञात्वा राजानम् ऊचुः । देव को राजा । राजा कथयति । कुतो भवतां विमर्षो ऽहं राजा को ऽन्य इति । ते कथयन्ति । देव खण्डो राजा न देवः । यदि तस्याभिरुचितं स्याद् देवं राज्याच् च्यावयित्वा स्वयम् एव पट्टं बद्धा राज्यैश्वर्याधिपत्यं कारयेद् इति । राजा संलक्षयति । सर्व एते तेनाभिभूतास् तेन भेदं कुर्वन्तीति । यावद् अपरेण समयेन राजा अमात्यगणपरिवृतस् तिष्ठति । खण्डश् चाग्रामात्यो ऽर्थिप्रत्यर्थिशतसहस्रपरिवृतो राजकुलं प्रविष्टः । पूर्णं तद् राजकुलम् अवस्थितम्* । यदा तु राजकृतिं कृत्वा निष्क्रान्तस् तदा तद् राजकुलं शून्यम् अवस्थितम्* । राजा कथयति । भवन्तः सर्व एवायं जनकायो निष्क्रामति । अमात्यैर् अवतारो लब्धः । ते कथयन्ति । साक्षात्कृतं देवेन यतो विज्ञापयामः । यदि ( म्स्व् इइ 5 ) खण्डस्याभिरुचितं स्याद् एव राज्याच् च्यावयित्वा स्वयम् एव पट्टं बद्धा राज्यैश्वर्याधिपत्यं कारयेद् इति । काकशङ्किनो हि राजानः । स संलक्षयति । यथैते कथयन्ति नूनम् एवम् इति । स तस्यावतारप्रेक्षी संवृत्तः । मित्रामित्रमध्यमा लोकाः । यावद् अपरैः खण्डस्यारोचितम्* । राजा तवावतारप्रेक्ष्य् अवतिष्ठते । क्षमं मन्यस्वेति । तस्य शंका समुत्पन्ना । स विचारयितुं प्रवृत्तः । क्व गच्छामीति । यदि श्रावस्तीं गामिष्यामि राजाधीना श्रावस्ती तत्राप्य् एष एवादीनवः । एवं वाराणस्यां राजगृहे चण्पायाम् एकाधीनत्वाद् एष एवादीनवः । वैशाली गणाधीना । यदृशानाम् अभिप्रेतं तद् विंशतीनां नाभिप्रेतम्* । सर्वथा वैशालीं गच्छामीति । तेन वैशालकानां लिच्छवीनां दूतसंप्रेषणं कृतम्* । गच्छाम्य् अहं भवतां बाहुच्छायायां वस्तुम् इति । तैर् आदरजातैः प्रतिसन्देशो दत्तः । इयम् एव वैशाली स्वागतम् आगच्छेति । ततः खण्डेनाग्रामात्येन ज्ञातय आहूय उक्ताः । भवन्तो वैशालीं संप्रस्थितो येषां युष्माकम् अभिरुचितम् इहावस्थानं ते ( 240व्1 = ग्ब्म् 6.793 ) ऽभितिष्ठन्तु येषां नाभिरुचितं ते सज्जा भवन्तु गच्छामः । गोपालकाः पशुपालकाश् चोक्ताः । यूयं गोमहिषीः येन वैशालीं तेन खटयत । पौरुषेया उक्ताः । सन्नाहयत वैशालीं गच्छाम इति । ततो जनकायम् एवं प्रेरयित्वा राज्ञः सकाशं गतः पादयोर् निपत्य कथयति । देव किंचित् करणीयम् अस्ति । उद्यानं गच्छाम्य् ( म्स्व् इइ 6 ) अवलोकितो भवेति । राजा कथयत्य् एवं भवतु गच्छेति । सोद्यानशोभां कारयित्वा सारादानं शकटेष्व् आरोप्य उपरि खादनीयभोजनीयेन आच्छाद्य संप्रस्थितः । अमात्यैः श्रुतम्* । खण्डो निष्पलायतीति । ते त्वरितं त्वरितं राज्ञः सकाशं गत्वा कथयन्ति । देव खण्डो निष्पलायतीति । राजा कथयति । भवन्तो गच्छत निर्वर्तयतेति । ते चतुरङ्गं बलकायं सन्नाह्य निर्गताः कथयन्ति । खण्ड देवो शब्दयतीति निवर्तयस्वेति । स कथयति । भवन्तो युष्माकं दीर्घरात्रम् अयम् आश्वासकः । अहो बत खण्डः कालं कुर्यान् निष्पलायेत इति वा इति । स युष्माकम् अल्पकृच्छ्रेण परिपूर्णः । गच्छत निष्पलायत्य् अयम् इति । ते राज्ञश् चित्तानुरक्षया काण्डकाण्डिं कृत्वा निवृत्ता राज्ञः कथयन्ति । देव निष्पलायितः खण्डो अग्रामात्य इति । राजा कथयति । न शोभनम् इति कृत्वा तूष्णीम् अवस्थितः । खण्डो ऽप्य् अनुपूर्वेण वैशालीं गतः ।
तेन खलु समयेन वैशाली त्रिभिः स्कन्धैः प्रतिवसति । प्रथमे स्कन्धे सप्त कूटागारसहस्राणि सुवर्णमयैर् निर्यूहैर् मध्यमे स्कन्धे चतुर्दश रूप्यमयैर् निर्यूहैर् अधरिमे स्कन्धे एकविंशतिस् ताम्रमयैर् निर्यूहैस् तेषु यथायोगं मनुष्याः प्रत्वसन्ति । उत्तमा मध्यमा अधमा । वैशाल्यां गणेन क्रियाकारा व्यवस्थापिताः । या प्रथमे ( म्स्व् इइ 7 ) स्कन्धे दारिका जायते सा प्रथम एव स्कन्धे दीयते न मध्यमे नाधरिमे । या मध्यमे सा प्रथमे स्कन्धे दीयते मध्यमे वा नाधरिमे । याधरिमे सा त्रिष्व् अपि स्कन्धेषु दीयते । कन्याया अनिर्वाहः नान्यत्र दीयते इति । वैशालीस्त्रीरत्नं न कस्यचिद् दीयते । गणसामान्यं परिभोज्यम् एव । खण्डस्य प्रधानपुरुष इति कृत्वा प्रथमे स्कन्धे गृहं दत्तम्* । तत्र प्रतिवस्तुम् आरब्धः ।

यदा गणः संनिपतति तदासाव् आहूयमानो ऽपि न संनिपतति । स वैशालकैर् उच्यते । खण्ड कस्मात् त्वं न संनिपतसीति । स कथयति । संनिपतिताद् एव अयम् आदीनवः प्रादुर्भूतो नाहं संनिपतामीति । वैशालकाः कथयन्ति । खण्ड संनिपाते को ऽत्र आदीनवो भविष्यतीति । स संनिपतितुम् आरब्धः । मतं नानुप्रयच्छति । ते कथयन्ति । खण्ड मतम् अनुप्रयच्छेति । स कथयति । मतम् अपि नानुप्रयच्छामि यस्मान् मताद् एव मे आदीनवाः प्रादुर्भूता इति । ते कथयन्ति । अनुप्रयच्छ मतम्* । को ऽत्रादीनवो भविष्यतीति । स च निगमे संनिपतति मतं चानुप्रयच्छति । पूर्वं वैशालका लिच्छवयो यस्य कस्यचिल् लेखम् अनुप्रेषयन्ति सकर्कशम् अनुप्रेषयन्ति । यदा तु खण्डो मतं दातुम् आरब्धस् तदा सानुनयं लिखन्ति । ( म्स्व् इइ 8 ) येषां सानुनयो ( 241र्1 = ग्ब्म् 6.794 ) लेखो नीतो भवति । ते परस्परं संजल्पं कुर्वन्ति । भवन्तः को योगो येन वैशालको गणः पूर्वं सकर्कशं लिखति इदानीं तु सानुनयम् इति । अपरे कथयन्ति । अस्ति विशेषः । विदेहराजस्य खण्डो नामाग्रामात्य इहागतस् तस्य मतेनानुव्यवहरन्ति येनाधुना सानुनयं लिखन्तीति ।
खण्डेन गोपस्य सिंहस्य च निवेशनं कृतम्* । सिंहस्य क्रीडतो रममाणस्य परिचारयतो दुहिता जाता । तस्यापि विस्तरेण जातिमहं कृत्वा चेलेति नामधेयं व्यवस्थापितम्* । सा नैमित्तिकेन दृष्ट्वा व्याकृता पुत्रं जनयिष्यति । स पितरं जीविताद् व्यपरोप्य स्वयम् एव पट्टं बद्ध्वा राज्यं कारयिष्यतीति । भूयो ऽस्य क्रीडतो रममाणस्य परिचारयतो दुहिता जाता । तस्य अपि विस्तरेण जातिमहं कृत्वोपचेलेति नामधेयं व्यवस्थापितम्* । सापि नैमित्तिकेन व्याकृता पुत्रं जनयिष्यति लक्षणसंपूर्णम् इति । गोपो व्याडो विक्रान्तो वैशालकानां लिच्छवीनाम् उद्यानानि विनाशयति । उद्यानपालैर् उच्यते । वैशालका लिच्छवयो व्याडा विक्रान्ताः । मा तेषाम् उद्यानानि विनाशयेति । स निवार्यमाणो ऽपि न संतिष्ठते । उद्यानपालैः खण्डस्यारोचितम्* । पुत्रस् ते वैशालकानां लिच्छवीनाम् उद्यानानि विनाशयति । निवारयैनम्* । लिच्छवयो व्याडा विक्रान्ता मास्यानर्थं करिष्यन्ति । स तेनाहूयोक्तः । पुत्र वैशालका लिच्छवयो व्याडा विक्रान्ता मा तेषाम् उद्यानानि विनाशय मा ते अनर्थं करिष्यन्तीति । स कथयति । तात एषाम् उद्यानानि सन्ति अस्माकं तु न सन्ति । स कथय्ति । पुत्र उद्यानस्यार्थाय गणं ( म्स्व् इइ 9 ) विज्ञापयामीति । तेन गणो विज्ञप्तो मम पुत्रयोर् उद्यानं नास्ति ।तद् अर्हं मम उद्याने प्रसादं कर्तुम् इति । तैस् ताभ्यां जीर्णोद्यानं दत्तम्* । तस्मिन् महाशालवृक्षः । तत्रैकेन भगवतः प्रतिमा कारिता । द्वितीयेन विहारः प्रतिष्ठापितः । तथा स्थविरैर् अपि सूत्रान्ते उपनिबद्धं बुद्धो भगवान् वैशाल्यां विहरति गोपसिंहशालवने इति । गोपः अक्रियासहस्राणि करोति । लिच्छवयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । ततः खण्डेनाहूयोक्तः । पुत्र गच्छ त्वम् अमुक कर्वटं तत्र स्वाधिष्ठितान् कर्मान्तान् कारय । तिष्ठ मा गणप्रकोपो भविष्यतीति । स तत्र गत्वा स्वाधिष्ठितान् कर्मान्तान् कारयितुम् आरब्धः । यावद् अपरेण समयेन वैशाल्यां सेनापतिः कालगतः । तैः खण्डो ऽग्रामात्यः सेनापत्ये स्थापितः । सो ऽपि कंचित् कालं धर्मेण सेनापत्यं कारयित्वा कालगतः । वैशालको गणः संनिपतितः । कं सेनापतिं स्थापयाम इति । तत्र एके कथयन्ति । खण्डेनाग्रामात्येन गणः परिपालितः । तस्यैव पुत्रं स्थापयाम इति । अपरे कथयन्ति । तस्य पुत्रो गोपो व्याडो विक्रान्तः । यद्य् असौ सेनापत्ये स्थाप्यते नियतं गणस्य भेदं करिष्यति यस् तु तस्य भ्राता सिंहः स सूरतः ( 241व्1 = ग्ब्म् 6.795 ) सुखसंवासः शक्नोति गणस्य चित्तम् आरागयितुम्* । यदि गणस्याभिरुचितं तं सेनापतिं स्थापयाम इति । सर्वेषाम् अभिरुचितम्* । ते संभूय सिंहस्य सकाशं गताः । सिंह सेनापतित्वं प्रतीच्छेति । स कथयति । मम ( म्स्व् इइ 10 ) ज्येष्ठो भ्राता गोपस् तं सेनापतिं स्थापयतेति । ते कथयन्ति । सिंह न युष्माकं कुलक्रमागतं सेनापत्यं यो गणस्याभिरुचितः स सेनापतिर् भवति । यदि भवतो नाभिरुचितं वयम् अन्यं सेनापतिं स्थापयाम इति । स संलक्षयति । यद्य् अस्माकं गृहात् सेनापत्यम् अन्यत्र गमिष्यति नैतद् युक्तम्* । सर्वथा प्रतीच्छामीति । तेनाध्यवसितम्* । स तैर् महता सत्कारेण सेनापत्ये प्रतिष्ठापितः । वैशालकाः पूर्वं यस्य लेखम् अनुप्रेषयन्ति तस्य खण्डप्रमुखो गण आज्ञापयतीति लिखन्ति । यदा सिंहः सेनापतिः संवृत्तस् तदा सिंहप्रमुखो गण आज्ञापयतीति । यावद् अपरेण समयेन यस्मिन् कर्वटके गोपः स्वाधिष्ठितान् कर्मान्तान् कारयति तदा कर्वटकं लेखो गतः । गोपेनोद्घाट्य वाचितः । स कथयति । भवन्तः पूर्वं वैशालको गणः खण्डप्रमुखो गण आज्ञापयतीति लिखन्ति । इदानीं सिंहप्रमुखो गणः आज्ञापयतीति लिखन्ति । किम् अस्माकं पिता कालगतः । ते कथयन्ति । कालगतः । स संजातामर्षो वैशालीं गत्वा कथयति । भ्रातः युक्तं नाम तव मयि ज्येष्ठतरे तिष्ठति सेनापत्यं कर्तुम् इति । सिंहेन तस्य यथावृत्तम् आरोचितम्* । स वैशालकानां लिच्छवीनां संजातामर्षः संलक्षयति । मम वैशालकैर् असत्कारः प्रयुक्तो गच्छामि राजगृहम् इति । तेन रज्ञो बिम्बिसारस्य दूतप्रेषणं कृतम्* । इच्छामि देवस्य बाहुच्छायायां वस्तुम्* । तेनास्य लिखितम्* । स्वागतम्* । आगच्छेति । स राजगृहं गतः । ततो राज्ञा बिम्बिसारेण अग्रामात्ये स्थापितः । यावद् अपरेण समयेन राज्ञो बिम्बिसारस्याग्रमहिषी कालगता । स ( म्स्व् इइ 11 ) करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । गोपेन स दृष्ट उक्तश् च । देव कस्यार्थाय देवः करे कपोलं दत्वा चिन्तापरो व्यवस्थित इति । स कथयति । अग्रमहिषी मे कालगता किम् इति न चिन्तापरस् तिष्ठामि । अलं देव त्यज्यतां शोकः । अस्ति मम भ्रातुर् दुहितृद्वयं रूपयौवनसंपन्नं देवार्हम् एव । तत्रैका व्याकृता पितृमारकं पुत्रं जनयिष्यतीति द्वितीया तु लक्षणसंपन्नम् इति । तत् कतरां देवस्यार्थाय आनयामि । या सा व्याकृता लक्षणसंपन्नं पुत्रं जनयिष्यतीति । ततो गोपेन सिंहस्य लेखो ऽनुप्रेषितः । राज्ञो बिम्बिसारस्याग्रमहिषी कालगता त्वम् उपचेलाम् इह प्रेषयाग्रमहिषी भविष्यतीति । तेन तस्य प्रतिलेखो विसर्जितः

। दूरम् अपि परम् अपि गत्वा त्वम् एवास्माभिः प्रष्टव्यः । यद् भवता कृतं तत् परं प्रमाणम् इति । त्वम् एव जानीषे यथा गणेन क्रियाकारः कृतो नान्यत्र कन्या दातव्या ऋते वैशालकान् इति । किं तु त्वम् आगत्योद्याने तिष्ठ अहम् एनाम् ( 242र्1 = ग्ब्म् 6.796 ) उद्यानं निष्काषयिष्यामि । त्वं गृहीत्वा गमिष्यसीति । ततो गोपो राजानम् अवलोक्य रथम् आरुह्य वैशालीं संप्रस्थितः । अनुपूर्वेण संप्राप्तः । उद्याने व्यवस्थितः । तेन खलु समयेन वैशाल्यां दौवारिकः कालगतो ऽमनुष्यकेषूपपन्नः । तेन वैशालकानां निर्देशितम्* । अहम् अमनुष्येषूपपन्नो मम यक्षस्थानं ( म्स्व् इइ 12 ) कारयत घण्टां च ग्रीवायां प्रलम्बयत । यदि कश्चिद् वैशालकानां प्रत्यर्थिकः प्रत्यमित्र आगमिष्यति अहं तावद् घण्टाशब्दं करिष्यामि यावद् गृहीतो वा निष्पलायितो वेति । तैर् यक्षः प्रतिरूपं कृत्वा घण्टां च ग्रीवायां बद्ध्वा नृत्यगीतवादित्रशब्देन बलिमाल्योपहारेण द्वारकोष्ठके प्रतिष्ठापितः । गोपेन सिंहस्य संदिष्टम्* । अहम् उद्याने तिष्ठामि निर्गच्छेति । स वैशालकं गणम् अवलोक्य गृहं गत्वा उपचेलाम् आह । त्वं राज्ञे बिम्बिसाराय दत्ता । अलंकुरुष्वेत्य् उक्ता । उद्यानं निर्गच्छ । सा अलंकर्तुम् आरब्धा । चेलया दृष्टा । सा कथयति । किमर्थम् अलंकरोषि । अहं दत्ता । कस्मै । राज्ञे बिम्बिसाराय । सा कथयति । अहं ज्येष्ठतरा त्वं कथं दत्ता । यद्य् एवं त्वम् अलंकुरु । सा चालंकरोति । घण्टा च रवितुम् आरब्धा । वैशालको गणः क्षुब्धः प्रत्यमित्रो ऽस्माकं वैशालीं प्रविष्ट इति । सिंहः संत्रस्त उपचेलेति कृत्वा चेलाम् आदाय लघु लघ्व् निर्गतः । गोपो ऽपि संत्रस्तः चेलां रथे आरोप्य संप्रस्थितः । वैशालकैर् दृष्टः । ते तेन सार्धं संग्रामयितुम् आरब्धाः । स पंचसु स्थानेषु कृतावी तेन पंच लिच्छविशतानि मर्मणि ताडितानि । स कथयति । भवन्तो मया युष्माकं पंचशतानि मर्मणि ताडितान्य् अवशिष्टं जीवितेनाच्छादयामि निवर्ततेति । ते कथयन्त्य् एकसत्वो ऽप्य् अस्माकं न प्रघातितः मुंचत सन्नाहम्* । तैः सन्नाहो ( म्स्व् इइ 13 ) मुक्तः । पंचशतानि भूमौ निपतितानि प्राणैश् च वियुक्तानि । ततस् ते पुरुषराक्षसो ऽयम् इति कृत्वा भीता निष्पलायिताः । वैशालीम् आगत्य संजल्पं कर्तुम् आरब्धाः । एतद् वैरम् अस्माभिर् भवन्तो बिम्बिसारपुत्राणां निर्यातयितव्यम्* । पत्रलेख्यं कृत्वा पेडायां प्रक्षिप्य जतुमुद्रातापं कृत्वा स्थापयतेति । तैस् तथा कृत्वा स्थापितं* । गोपो ऽप्य् अनुपूर्वेण राजगृहम् अनुप्राप्तः कथयति । उपचेले अवतरेति । सा कथयति । तात नाहम् उपचेला । चेलाहं । किं त्वया मम नारोचितम्* । सा तूष्णीम् अवस्थिता । ततो ऽसौ दुःखी दुर्मना राज्ञः सकाशं गतः । राज्ञा दृष्ट उक्तश् च । स्वागतं गोप । आगतो ऽसि । आगतो ऽस्मि देव । आनीता उपचेला । देव आनीता न आनीता च । किं कथयसि । उपचेलेति कृत्वा चेला आनीता । आनीयतां पश्यामः । सा प्रवेशिता । राज्ञा दृष्टा । अतीव रूपयौवनसंपन्ना हारी स्त्रीविषये । सहदर्शनाद् एव राजा आक्षिप्तः कथयति । भवन्तो यो हि पुत्रः पितरं घातयति स राज्यहेतोः । यदि मे पुत्रो भविष्यति तस्य जातस्यैवाहं पट्टबन्धं करिष्यामीति । ततस् तेन महता श्रीसमुदयेन परिणीता । विदेहविषयाद् आनीता वैदेहीति ( 242व्1 = ग्ब्म् 6.797 ) संज्ञा संवृत्ता । स तया सार्धं क्रीडति रमते परिचारयति । यावद् अपरेण समयेन राजा बिम्बिसारो मृगया निर्गतः । अन्यतमस्मिंश् चाश्रमपदे ऋषिः पंचाभिज्ञः प्रतिवसति । यावन् मृगः शरपरम्परया संत्रासितस् तस्य ऋषेर् ( म्स्व् इइ 14 ) आश्रमपदान् निर्गतो राज्ञा शरेण मर्मणि ताडितः । ततो ऽसौ ऋषिः क्रुद्धः कथयति । कलिराज मम चण्डमृगो ऽप्य् आश्रमपदं परिहरति । त्वया तु शरणोपगतो मृगः प्रघातित इति । स च राजैवम् ऋषिणा परिभाष्यते । बलकायश् चागतः कथयति । देव को ऽयं परिभाषते । राजा कथयति । अहं भवन्तः । यो राजानं परिभाषते तस्य को दण्डो देव । तस्य बधो दण्डः । यद्य् एवं परित्यक्तो मे अयम् ऋषिः । स प्रघातितुम् आरब्धः । स प्रघात्यमानो मिथ्या प्रणिधानं करोति । यद् अहम् अनेन कलिराजेन अदूषणम् अकारि बध्यः । उत्सृष्टस् तत्रोपपद्येयं यत्रैनं जीविताद् व्यपरोपयेयम्* । पुनः संलक्षयति । राजान एते सुगुप्ताः सुगोपिताः । यद्य् अहम् अन्यत्रोपपत्तिं ग्रहिष्यामीति कदाचित् प्रत्ययं नारागयिष्यामि । सर्वथा अनेन मे प्रणिधानेन अस्यैवाग्रमहिष्याः कुक्षाव् उपपत्तिः स्याद् इति । स मिथ्या प्रणिधानं कृत्वा चेलायाः कुक्षाव् उपपन्नः । यम् एव दिवसं प्रतिसन्धिर् गृहीतस् तम् एव दिवसं रुधिरवर्षं पतितम्* । चेलायाश् च दोहदः समुत्पन्नः । अहो बताहं देवस्य पृष्ठमांसान्य् उत्पाट्योत्पाट्य भक्षयेयम् इति । एष च वृत्तान्तो राज्ञे निवेदितः । राज्ञा नैमित्तिका आहूय पृष्टाः । ते ऊचुः । देव यो ऽयं सत्वो देव्याः कुक्षिम् अवक्रान्तस् तस्यायम् अनुभाव इति । ( म्स्व् इइ 15 ) राजा चिन्तापरो व्यवस्थितः । कथम् अस्या दोहदः प्रतिविनोद्यत इति । अपरैः कुशलजातीयैः समाख्यातम्* । देव तूलिकायां मांसपूर्णां प्रावृतिं देव्या आत्मानम् उपनय इति । ततो राज्ञा मांसपूर्णया तूलिकया आत्मानं वेष्टयित्वा चेलाया उपनामितम्* । तया पृष्ठमांसम् इति कृत्वा भक्षितम्* । ततस् तस्या यो दोहदः स प्रतिविगतः । भूयो ऽप्य् अस्या दोहदः उत्पन्नः । अहो बताहं देवस्य रुधिरं पिबेयम् इति । एतद् अपि राज्ञे निवेदितम्* । ततो राज्ञा पंचेङ्खिकाः शिरा मोचयित्वा रुधिरं पायिता । सो ऽप्य् अस्या दोहदः प्रतिविगतः । यावत् परिपूर्णैर् नवभिर् मासैः प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः । यस्मिन्न् अपि दिवसे जातस् तस्मिन्न् अपि रुधिरवर्षं पतितम्* । भूयो राज्ञा नैमित्तिका आहूय पृष्टास् ते कथयन्ति । देव यथा शास्त्रे दृश्यते नियतम् अयं दारकः पितरं जीविताद् व्यपरोप्य स्वयम् एव पट्टं बद्ध्वा राज्यं कारयिष्यतीति । राजा संलक्षयति
। सर्वथा राज्यार्थम् अयं मां जीविताद् व्यपरोपयति । तद् अस्मै स्वयम् एव राज्यं दास्यामि । किमर्थं मां जीविताद् व्यपरोपयिष्यतीति ।

तेन खलु समयेन वैशाल्यां महानामो लिच्छविः प्रतिवसति । तस्योद्याने आम्रवनम्* । तस्मिन्न् अप्य् अकस्माद् एव कदलीस्कन्धो ( म्स्व् इइ 16 ) जातः । आरामिकेण च दृष्टः । तत्समनन्तरम् एव पुष्पितः । ( 243र्1 = ग्ब्म् 6.798 ) तेन विस्मयजातेन महानामाय निवेदितम्* । तेन नैमित्तिका आहूय पृष्टाः । ते कथयन्ति । देव प्रतिपाल्यताम्* । सप्तमे दिवसे स्फुटिष्यति । तन्मध्याद् दारिका भविष्यति । श्रुत्वा महानामो गृहपतिर् भूयस्या मात्रया विस्मयम् आपन्नस् तस्मिंश् चोद्याने आरक्षकान् पुरुषान् समन्ततः स्थापयित्वा दिवसान् गणयितुम् आरब्धः । यावत् सप्तमे दिवसे तस्मिन्न् उद्याने अपगतपाषाणशर्करकठल्लं व्यवस्थापिते चन्दनवारिपरिषिक्ते सुरभिधूपघण्टिकोपनिबद्धे आमुक्तपट्टदामकलापे पुष्पावकीर्णे अनेकगीतवादित्रनिनादिते सुहृत्संबन्धिबान्धवजनपरिवृतो महता श्रीसमुदयेन अन्तःपुरसहितो निर्गतस् तस्य तस्मिंश् चोद्याने क्रीडतो रममाणस्य परिचारयतः कदलीस्तम्भः स्फुटितः । दारिका जाताभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । ततो महानामस्याग्रमहिष्याः संन्यस्तः । सा कथयति । देवास्य नामधेयं व्यवस्थाप्यते । महानामः कथयति । इयं दारिकाम्रवनाल् लब्धा । भवत्व् अस्यामरपाली नामेति । यावन् महानामो गृहपतिर् उद्यानात् स्वगृहं गत आम्रपाली दारिका उन्नीयते चर्यते पूर्ववद् यावन् महती संवृत्ता । तस्या वरा आगच्छन्ति क्रौञ्चाः शाक्याश् चान्ये नानादेशनिवासिनो राजपुत्राः । अमात्यपुत्राः । धनिनः । श्रेष्ठिनः । सार्थवाहाः । महानामो गृहपतिः ( म्स्व् इइ 17 ) संलक्षयति । यस्यैव न दास्यामि तस्यैव द्विड् भविष्यामि । अपि तु गणेन क्रियाकारः कृतः । गणं तावद् अवलोकयिष्यामीति । तेन वैशालको गणः संनिपातितः । शृण्वन्तु भवन्तो ब्राह्मणा गृहपतयो ममोद्याने दारिका उत्पन्ना । सा मया आपायिता पोषिता संवर्धिता । ताम् अहं स्वकुलवंशप्रतिरूपकस्य कस्यचिद् भार्यार्थम् अनुप्रयच्छामि । गण अवलोकितो भवत्व् इति । ते कथयन्ति । गृहपते गणेन पूर्वम् एव क्रियाकारः कृतः कन्या अनिर्वाहा स्त्रीरत्नं गणभोग्यम् इति । तदानीयतां तावद् असौ । दारिकां पश्यामः कीदृशीति । सा तेन गणमध्यं नीता । तां रूपयौवनसंपन्नां दृष्टा सर्व एव गणो विस्मयोत्फुल्लदृष्टिः समन्ततो निरीक्षितुम् आरब्धः कतयति च । गृहपते स्त्रीरत्नम् एतद् गणभोग्यं न कस्यचिद् देयम् इति । ततो महानामो गृहपतिर् दुर्मनाः स्वगृहं गतः । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । आम्रपाल्या दृष्टः पृष्टश् च । तात किम् असि चिन्तापरः । पुत्रि त्वं स्त्रीरत्नम् इति कृत्वा गणभोग्या संवृत्ता । मम मनोरथो न परिपूर्णः । तात किं त्वं पराधीनः । पुत्रि गणेन पूर्वम् एव क्रियाकारः कृतः स्त्रीरत्नं गणभोग्यम् इति । त्वं च स्त्रीरत्नम् अतो ऽहम् अनीश्वर इति । सा कथयति । समयो ऽहं गणभोग्या भवामि यदि मे गणः ( म्स्व् इइ 18 ) पंच वरान् अनुप्रयच्छति । प्रथमे स्कन्धे गृहं ददाति । एकस्मिन् प्रविष्टे द्वितीयो न प्रविशति । यश् च प्रविशति स पंचकार्षापणशतान्य् ( 243व्1 = ग्ब्म् 6.799 ) आदाय । यदा गृहविचयो भवति तदा मम गृहं सप्तमे दिवसे प्रत्यवेक्ष्यते । निष्कासः प्रवेशश् च मद्गृहं प्रवेक्ष्यतां न विचार्यत इति । महानामेन गणस्याम्रपालीसन्देशो निवेदितः । गणः कथयत्य् एवं भवतु । यत् कथयति प्रथमे स्कन्धे गृहम् इति । स्त्रीरत्नम् असाव् अर्हत्य् एव प्रथमे स्कन्धे गृहम्* । यत् कथयत्य् एकस्मिन् प्रविष्टे द्वितीयेन न प्रवेष्टव्यम् इति । एतद् अपि युक्तम्* । प्रतिक्रुष्टम् एतद् वैराणां यदुत स्त्रीवैरम्* । यद्य् एकस्मिन् प्रविष्टे द्वितीयः प्रविशति नियतम् अन्योन्यविप्रघातिको भविष्यति । यत् कथयति यः प्रविशति तेन पंचकार्षापणशतान्य् आदाय प्रवेष्टव्यम् इति । एतद् अपि युक्तम्* । अवश्यं तस्या वस्त्रालंकारेण प्रयोजनम्* । यत् कथयति सप्तमे दिवसे गृहविचयः कर्तव्य इत्य् एतद् अपि युक्तम्* । पूर्वं वा क्रियेत पश्चाद् वा को ऽत्र विरोधः । यत् कथयति निष्कासः प्रवेशो वा मनुष्याणां न विचारणीय इत्य् एतद् अपि युक्तम्* । वेश्यासौ । यदि पुरुषाणां निष्कासः प्रवेशो वा विचार्यते कस् तस्या गृहं प्रवेक्ष्यति । ततो गणेन तस्याः पंच वरा दत्ताः । गणभोग्या संवृत्ता । वैशालका लिच्छवयस् तस्या गृहं प्रवेष्टुम् आरब्धाः परिचारयितुम्* । ( म्स्व् इइ 19 ) तत्र केषांचिद् उत्तप्तविटत्वात् सहदर्शनाद् एव रागो विगच्छति । केषांचित् स्पर्शनाद् एव । कश्चित् तया पुरुषकार्यं करोति । सा संलक्षयति । अपुमांस एते । उपायसंविधानं कर्तव्यम् इति । तया नानादेशनिवासिनश् चित्रकरा आहूय उक्ताः । भवन्तो येन यादृशो राजा वा राजमात्रो वा धनी वा श्रेष्ठी वा वणिग् वा सार्थवाहो वा दृष्टः स तत् तादृशं भित्तौ लिखत्व् इति । तैर् यथा दृष्टा लिखिताः । तत आम्रपाली नानालंकारविभूषिता चित्रकर्म प्रत्यवेक्षते पृच्छति च । अयं भवन्तः कतरः । अयं राजा प्रद्योतः । अयम् अपरः कः । राजा प्रसेनजित् कोशलः । अयम् अपरः कः । उदयनो वत्सराजः । अयम् अपरः कः । राजा मागधः श्रेण्यो बिम्बिसारः । एवं सर्वे तया पृष्टास् तैर् अपि सर्वैः समाख्याताः । ततस् तस्या सर्वान् प्रत्यवेक्ष्य बिम्बिसारे दृष्टिर् निपातिता । सा संलक्षयति । यादृशो ऽस्य पुरुषस्यारोहपरिणाहः शक्ष्यत्य् एष मया सार्धं परिचारयितुम् इति । यावद् अपरेण समयेन राजा मागधः श्रेण्यो बिम्बिसार उपरि प्रासादतलगतो ऽमात्यगणपरिवृतः सत्कथया तिष्ठति । भवन्तः केन कीदृशी वेश्या दृष्टा । गोपः कथयति । देव तिष्ठन्तु तावद् अन्याः । वैशाल्याम् आम्रपाली नाम वेश्या अतीव रूपयौवनसंपन्ना चतुःषष्टिकलाभिज्ञा देवस्यैवोपभोग्या । स कथयति । गोपः यद्य् एवं गच्छामो वैशालीं तया सार्धं परिचारयामः । ( म्स्व् इइ 20 ) स कथयति । देवस्य वैशालका लिच्छवयो दीर्घरात्रं बाधकाः प्रत्यर्थिनः प्रत्यमित्राः । मा ते अनर्थं करिष्यन्ति । राजा कथयति । भवति खलु पुरुषाणां पुरुषसाहसम्* । गच्छामः । स कथयति । यदि देवस्यावश्यनिर्बन्धो गच्छामः । स रथम् अभिरुह्य गोपेन सार्धं वैशालीं संप्रस्थितो ऽनुपूर्वेण वैशालीं गतः । गोप उद्याने स्थितः । राजा आम्रपाल्या गृहं प्रविष्टः । यावद् घण्टा ( 244र्1 = ग्ब्म् 6.800 ) रटितुम् आरब्धा । वैशालका क्षुब्धाः । भवन्तः को ऽप्य् अस्माकम् अमित्रकः प्रविष्टः । घण्टा रटतीति । उच्चशब्दो महाशब्दो जातः । राजा बिम्बिसार आम्रपालीं पृच्छति । भद्रे किम्

एतत्* । देव गृहविचयः क्रियते । कस्यार्थाय । देवस्य प्रतिपत्तव्यम्* । किं निष्पलाये । देव मा काहलो भव । सप्तमे दिवसे मम गृहविचय आपद्यते । सप्ताहं तावत् क्रीड रमस्व परिचारय सप्ताहस्यात्ययात् कालज्ञा भविष्यामीति । स तया सार्धं क्रीडति रमते परिचारयति यावद् आम्रपाली आपन्नसत्वा संवृत्ता । तदा बिम्बिसाराय निवेदितम्* । देव आपन्नसत्वास्मि संवृत्तेति । तेन तस्या विरली अङ्गुलिमुद्रा च दत्ता । उक्ता च । यदि दारिका भवति तवैव । अथ दारकः । एतां विरलीं प्रावृत्य ( म्स्व् इइ 21 ) अङ्गुलिमुद्रां च ग्रीवायां बद्ध्वा मत्सकाशं प्रेषयसि । स निर्गत्य गोपेन सार्धं रथम् अभिरुह्य संप्रस्थितः । घण्टा तूष्णीम् अवस्थिता । ते कथयन्ति । भवन्तो ऽमित्रको निर्गतः समन्वेषयाम इति । पंच लिच्छविशतानि बद्धगोधाङ्गुलित्राणानि राज्ञो बिम्बिसारस्य पृष्ठतः समनुबद्धानि । गोपेन दृष्टानि । स कथयति । देव वैशालिका लिच्छवय आगताः । किम् एभिः सार्धं देवो युध्यते । आहोस्विद् रथं वाहयसीति । स कथयति । अहं श्रान्तको रथं वाहयामि । त्वम् एव एभिः सार्धं युध्यस्वेति । स तैः सार्धं योद्धुम् आरब्धः । वैशालकैः प्रत्यभिज्ञातः । ते कथयन्ति । भवन्तः स एवायं पुरुषराक्षसो निवर्तामह इति । ते प्रतिनिवृत्ता वैशालीं गताः संनिपत्य पुनः क्रियाकारं कृताः । भवन्त एतद् अपि वैरम् अस्माभिर् बिम्बिसारपुत्राणां निर्यातयितव्यम् इति ।
यावन् नवानां मासानाम् अत्ययाद् आम्रपाली प्रसूता । दारको जातः । अभिरूपो दर्शनीयः प्रासादिको यावद् उन्नीतश् चरितो महान् संवृत्तः । स वैशालकैर् लिच्छविदारकैः सार्धं क्रीडंस् तैर् अप्रियम् उक्तः । भवन्तो ऽस्य दासीपुत्रस्य कः पिता । अनेकशतसहस्रनिर्जातो ऽयम् इति । स प्ररुदन् मातुः सकाशम् उपसंक्रान्तस् तयोच्यते । पुत्र किमर्थं रोदिषीति । तेन सर्वं विस्तरेण समाख्यातम्* । सा कथयति । पुत्र यदि भूयः पृच्छन्ति वक्त्यव्यास् तादृशो मम पिता यो युष्माकम् एकस्यापि नास्तीति । यदि कथयन्ति । कतर इति । वक्तव्या राजा बिम्बिसार ( म्स्व् इइ 22 ) इति । यावत् स तैर् सार्धं भूयः क्रीडितुम् आरब्धः स तैस् तथैवोक्तः । स कथयति । तादृशो मे पिता यो युष्माकम् एकस्यापि नास्तीति । कतरः । राजा बिम्बिसारः । ते भूयस्या मात्रया ताडयितुम् आरब्धाः । भवन्तो यो ऽस्माकं शत्रुः सो ऽस्य पितेति । तेन रुदता यथावृत्तं मातुर् आख्यातम्* । सा संलक्षयति । वैशालका लिच्छवयो व्याडा विक्रान्ताः । स्थानम् एतद् विद्यते ( 244व्1 = ग्ब्म् 6.801 ) यद् एनं प्रतिघातयिष्यन्ति । सा चैवं चिन्तापरा । संबहुलाश् च वणिजः पण्यम् आदाय राजगृहं संप्रस्थिताः । तया त उपलब्धा उक्ताश् च अनेनाङ्गुलिमुद्रेण भाण्डं मुद्रयित्वा गच्छत । अशुल्का गमिष्यथ । एतं च दारकं राजगृहं नयत । एतद् अङ्गुलिमुद्रकं ग्रीवायां बद्धा राजकुलद्वारे स्थापयिष्यथ । तैः प्रतिज्ञातम्* । एवं भवत्व् इति । पुत्रो ऽपि मुक्ताहारं दत्वाभिहितः । पुत्र त्वया राज्ञो ऽर्थाधिकरणे निषण्णस्य मुक्ताहारं पादयोः स्थापयित्वाभिरुह्योत्सङ्गे निषत्तव्यम्* । यदि कश्चित् कथयति नायं दारको बिभेतीति । स वक्तव्यः । अस्ति कश्चित् पुत्रः पितुर् बिभेतीति । स वणिग्भिः सार्धम् अनुपूर्वेण राजगृहं गतः । तैः स्नपयित्वाङ्गुलिमुद्रकेणालंकृत्य राजद्वारे स्थापितः । स येन राजा तेनोपसंक्रान्तः । उपसंक्रम्य मुक्ताहारं पादयोः स्थापयित्वोत्सङ्गम् अभिनिषण्णः । राजा कथयति । भवन्तो नायं दारको बिभेतीति । स कथयति । तात अस्ति कश्चित् पुत्रः पितुर् बिभेतीति । ततो राज्ञाभयशब्देन समुदाचरित इति । अभयो राजकुमारो ऽभयो राजकुमार इति संज्ञा संवृत्ता ।

राजा बिम्बिसारो ऽतीव परदाराभिरतः । उपैति हस्तिस्कन्धाभिरूढो नगरे रथ्याः । आलोलेक्षणो ऽन्वाहिण्डते । तेन खलु समयेन राजगृहे ऽन्यतरः श्रेष्ठी आढ्यो महाधनो महभोगी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । पूर्ववत् परिचारयति । सो ऽपरेण समयेन पत्नीम् आमन्त्रयते । भद्रे गच्छामि पण्यम् आदाय देशान्तरम् इति । सा कथयत्य् आर्यपुत्र एवं कुरुष्वेति । स पण्यम् आदाय देशान्तरं गतः । सोपसृष्टाम्बरवसना क्लेशैर् बाधितुम् आरब्धा । राजा बिम्बिसारो हस्तिस्कन्धाभिरूढस् तस्या गृहसमीपेन गच्छति । तया च वातायनस्थया राज्ञः स्रग्दामं क्षिप्तम्* । ततो राज्ञा दृष्टा उक्ता च । आगच्छेति । सा कथयति । देव जिह्रेमि । त्वम् एव प्रविशेति । ततो राजा प्रविष्टः । स तया सार्धं परिचारयति । सा तस्मिन् समये कल्याणी ऋतुमती आपन्नसत्वा संवृत्ता । तय राज्ञे निवेदितम्* । देव आपन्नसत्वास्मि संवृत्ता । ततो राज्ञा तस्यापि अङ्गुलिमुद्रकञ्चित्रा च विरली दत्ता । उक्ता च । यदि तावद् दारको भवति । एतां विरलिकां प्रावृत्य अङ्गुलिमुद्रकं च ग्रीवायां बद्ध्वा मम प्रेषयिष्यसि । अथ दारिका तवैवेत्य् उक्ता । राजा प्रक्रान्तः । यावद् असौ सार्थवाहः संपन्नार्थे राजगृहसमीपम् आगतः । तेन पत्न्यादि संदिष्टं भद्रे प्रामोद्यम् उत्पादय । स्वस्तितः संपन्नार्थो ऽहम् आगतः । कियत् तमैर् दिवसैर् ( म्स्व् इइ 24 ) आगत एवेति । सा श्रुत्वा कथिता । मया एवं ( 245र्1 = ग्ब्म् 6.802 ) रूपम् अकृत्यं कृतं स चागतः । कथम् अत्र प्रतिपत्तव्यम् इति । तया एष वृत्तान्तो राज्ञे निवेदितः । ततो राज्ञा प्रतिदेशो दत्तः । निर्विशंका तिष्ठ । अहं तथा करिष्ये यथा न शीघ्रम् आगमिष्यतीति । राज्ञा तस्य दूतो ऽनुप्रेषितः । सार्थवाह ममामुकेनामुकेन च रत्नेन प्रयोजनम्* । तेन विना त्वया इह न प्रवेष्टव्यम् इति । स तेषां रत्नानाम् अर्थाय दूरतरं प्रविष्टः । सापि नवानां मासानाम् अत्ययात् प्रसूता । दारको जातः । अभिरूपो जातः प्रासादिकः । अशिक्षितपण्डितो मातृग्रामः । तया पेडायां प्रक्षिप्य घृतस्य मधुनश् चाप्यं पूरयित्वा अंगुलिमुद्रकं ग्रीवायां बद्ध्वा विरलिकया प्रच्छाद्य प्रेष्यदारिका अभिहिता । गच्छ त्वम् एतां पेडां राजकुलद्वारं नीत्वा मण्डलकं कृत्वा प्रदीपं प्रज्वाल्य एकान्ते तिष्ठ यावत् केनचिद् गृहीत इति । तया यथाकृतं यावद् राजा उपरि प्रासादतलगतो अभयेन राजकुमारेण सार्धं तिष्ठति । तेन राजकुलद्वारे प्रदीपो दृष्टः । ततः पौरुषेयाणाम् आज्ञा दत्ता । पश्यत भवन्तः किम् एष राजकुलद्वारे प्रदीपो ज्वलतीति । तैर् दृष्ट्वा निवेदितम्* । देव पेडा तिष्ठतीति । स कथयत्य् आनय इति । अभयेन च राजकुमारेणाभिहितम्* । देव यद् अत्र पेडायां तन् मम दातुम् अर्हसीति । राज्ञा प्रत्यभिज्ञात एवम् अस्त्व् इति । यावद् राज्ञा पेडा उपनामिता । राजा कथयत्य् उद्घाटयत । उद्घाटिता यावद् दारकः । राजा कथयति ।( म्स्व् इइ 25 ) किम् अयं जीवत्य् आहोस्विन् मृत इति । तैः समाख्यातं जीवतीति । ततो राज्ञा अंगुलिमुद्रकं विरलिकां च प्रत्यभिज्ञाय अभयाय स राजकुमाराय दत्तः । स तेनापायितः पोषितः संवर्धितः । राज्ञा जीवकवादेन समुदाचरितो ऽभयेन च राजकुमारेण भृत इति जीवकः कुमारभृतो जीवकः कुमारभृत इति संज्ञा संवृत्ता । यावद् अपरेण समयेन जीवकः कुमारभृतो महान् संवृत्तः । सो ऽभयेन सार्धं संगणिकया तिष्ठति । अजातशत्रुः कुमारो ऽज्ञात एव राजत्वे व्याकृतः । वयम् अपि किंचिच् छिल्पं शिक्षामहे यद् अस्माकम् उत्तरकालं जीविका भविष्यतीति । तौ चैवं मन्त्रयितौ । रथकारश् च शुक्लवासाः शुक्लवासोभिः पुरुषैः परिवृतो राजकुलं प्रविशति । सो ऽभयेन राजकुमारेण दृष्टस् तेनान्ये च राजपुरुषाः पृष्टाः क एष इति । ते च कथयन्ति रथकारः । किम् एष लभते । वृत्तिम्* । स संलक्षयति । अहम् अपि रथकारत्वं शिक्षे । देवम् अवलोकयामीति । स राज्ञः सकाशम् उपसंक्रम्य कथयति । देव अहम् अपि रथकारत्वं शिक्षे इति । राजा कथयति । पुत्र किं तवैषा जीविका भविष्यतीति । तात राजपुत्रेण सर्वशिल्पानि शिक्षितव्यानि । पुत्र यद्य् एवं शिक्षस्व । ( 245व्1 = ग्ब्म् 6.803 ) रथकारत्वं स शिक्षयितुम् आरब्धः । जीवकेनापि वैद्यो दृष्टः शुक्लवासाः शुक्लवासोभिः पुरुषैः परिवृतो राजकुलं प्रविशन् । तेनापरे च पृष्टाः क एष इति । तैः समाख्यातम्* । वैद्यः । किम् अयं करोति । चिकित्साम्* । यद्य् आतुरो जीवत्य् अभिसारं लभते । ( म्स्व् इइ 26 ) अथ प्रेतो न मार्ग्यो न पृच्छ्यः । स संलक्षयति । वैद्यकं शिक्षेय इति । स पितुः सकाशम् उपसंक्रम्य कथयति । देव अनुजानीहि वैद्यकम् शिक्षे इति । राजपुत्रस् त्वं किं वैद्यकत्वेन करोषि । देव राजपुत्रेण सर्वशिल्पानि शिक्षितव्यानि । पुत्र यद्य् एवं शिक्षस्व । स वैद्यकं शिक्षयितुम् आरब्धः । तेन वैद्यकं शिक्षितम्* । स कपालीमोचनीं तु विद्यां न जानाति । तेन श्रुतं तक्षशिलायाम् आत्रेयो नाम वैद्यराजः । स कपालमोचनीं विद्यां जानीते इति । स राज्ञः सकाशम् उपसंक्रम्य कथयति । देव गच्छामि तक्षशिलाम्* । किमर्थम्* । तत्रात्रेयो नाम वैद्यराजः । स कपालमोचनीं विद्यां जानीते । तां ग्रहीष्यामि । पुत्र किं नु तवैषा जीविका । देव वैद्यको ऽथवा न शिक्षितव्यः । अथवा शिक्षितः कर्तव्यः । पुत्र यद्य् एवं गच्छ । तेन राज्ञे पुष्करसारिणे संदिष्टम्* । एष मम पुत्रो वैद्यकं शिक्षितुम् आत्रेयस्य सकाशं गच्छत्य् अस्य सर्वयोगोद्वहनं कर्तव्यम् इति । सो ऽनुपूर्वेण तक्षशिलाम् अनुप्राप्तः । पुष्करसारिणा च लेखं वाचयित्वा आत्रेयस्य समर्पितः । एष राजपुत्रस् त्वत्सकाशम् उपेत्यागतो वैद्यकम् एनं शिक्षयस्वेति । आत्रेयस् तस्योपदेशं करोति । सो ऽल्पतरम् उपदिशति जीवकः सविशेषं गृह्णात्य् आचरति । आत्रेयस्य यदा ग्लानावलोकको गच्छति तदा एकम् आदाय गच्छति । सो ऽपरेण समयेन जीवकम् ( म्स्व् इइ 27 ) आदाय गतः । तेनातुरस्य भैषज्यं व्युपदिष्टम्* । इदं चेदं दास्यथ । इत्य् उक्त्वा निष्क्रान्तः । जीवकः संलक्षयति । क्षीणो ऽयम् उपाध्यायः । यद्य् एष एतद् भैषज्यम्

उपयुंक्ते अद्यैव कालं करोति । न शोभनम् उपाध्यायेन व्युपदिष्टम्* । उपायसंविधानं कर्तव्यम् इति । स आत्रेयेण सार्धं निष्क्रम्य पुनः प्रविष्टः । कथयति । उपाध्याय एवम् आह । यन् मया भैषज्यं व्युपदिष्टं तन् न देयम् इदं चेदं च देयम् इति । तैस् तथैव कृतम्* । स्वस्थीभूतः । यावद् अपरस्मिन् दिवसे पुनर् अप्य् आत्रेयस्य सकाशं गतः । पृच्छति का वार्ता । स्वस्थीभूतः । एवं पुनर् अप्य् एतद् एव देयम्* । तत् किं यत् पूर्वम् आदिष्टम्* आहोस्वित् पश्चात्* । किं मया पूर्वम् आदिष्टं किं वा पश्चात्* । तैः समाख्यातम् इदं त्वया साक्षाद् व्युपदिष्टं इदं जीवकेन संदिष्टम् इति । स संलक्षयति । हम्* जीवकः प्राज्ञ इति विदित्वा कथयति यद् जीवकेन व्युपदिष्टं तद् दातव्यम् इति । जीवकस्यान्तिके अनुनय उत्पन्नः । स यत्र गच्छति तत्र जीवकम् आदाय । ते ऽन्ये माणवकाः कथयन्त्य् उपाध्याय त्वम् अस्य राजपुत्र इति कृत्वा यत्नतो ( 246र्1 = ग्ब्म् 6.804 ) व्युपदेशं करोष्य् अस्माकं न करोषीति । स कथयति । जीवकः प्राज्ञः । अल्पं व्युपदिशामि यत् स्वशक्त्या विभजति । यूयं तु न तथेति । तेन कथयन्ति उपाध्याय कथं ज्ञायते । यद्य् एवाहं भवतां प्रत्यक्षीकरोमि । तेन ते माणवकाः सर्वे वीथीं प्रेषितास् त्वयामुकस्य द्रव्यस्य मूल्यं प्रष्टव्यं त्वयामुकस्येति । जीवको ऽपि ( म्स्व् इइ 28 ) संदिष्टस् त्वयाप्य् अमुकस्येति । तैर् माणवकैर् यथासंदिष्टम् एवानुष्ठितम्* । जीवको यथासंदिष्टं कृत्वा संलक्षयति । यद्य् उपाध्यायो ऽन्यस्य द्रव्यस्य मूल्यं प्रक्ष्यति किं मया वक्तव्यम्* । सर्वथा सर्वद्रव्याणां मूल्यं पृच्छामीति । ते सर्वे उपाध्यायसकाशम् आगत्य यथासंदिष्टं निवेदितवन्तः । आत्रेयो ऽसंदिष्टस्य द्रव्यस्य मूल्यं प्रष्टुम् आरब्धः । माणवक अमुकस्य द्रव्यस्य किं मूल्यम् इति । स कथयति । न जाने । अपरे पृष्टाः । कथयन्ति न जानीमह इति । जीवकः पृष्टः । तेन सर्वद्रव्याणां मूल्यं समाख्यातम्* । आत्रेयः कथयति । माणवकाः श्रुतं वः । श्रुतम्* । इत्य् अर्थम् अहं कथयामीति जीवकः प्राज्ञो ऽहम् अल्पं व्यपदिशाम्य् अयं स्वशक्त्या विभजतीति । भूयो ऽपि प्रत्यक्षीकरिष्यामि । ते तेनोक्ता गच्छत सरलकं पर्वतम् अभैषज्यम् आनयतेति । ते गतास् तेषां यद् यद् अभैषज्यम् अभिरुचितं तत् तेन गृहीतम्* । जीवकः संलक्षयति । नास्ति किंचिद् अभैषज्यम् इति । तेन शरमूलं पाषाणवर्तिका च गृहीता । यावज्जीवकेनार्धपथे गोपांगना दृष्टा दधिघटकिटालपिण्डं चादायात्रेयसकाशं संप्रस्थितातीवाक्षिरोगार्ता । सा तेन पृष्टा । क्व गच्छसीति । तया समाख्यातम्* । तेन तस्यास् तस्मिन्न् एव स्थाने संनिहितभैषज्यं व्युपदिष्टम्* । तया कृतम्* । सद्यः स्वस्थीभूता साभिप्रसन्ना कथयति । अयं ते दधिघटः किटालपिण्डकश् चेति । तेन किटालपिण्डको गृहीतो दधिघटस् तु तया एव दत्तः । स ( म्स्व् इइ 29 ) किटालपिण्डम् आदाय संप्रस्थितः । यावत् तैर् माणवकैर् अन्तर्मार्गे हस्तिपदं दृष्टम्* । ते तं निरीक्षितुम् आरब्धाः । जीवकश् चागतः कथयति । किम् एतत्* । हस्तिपदम्* । नैतद् धस्तिपदम्* । हस्तिन्या एतत् पदम्* । सा च दक्षिणकाणाद्यैव कलभकं जनयिष्यति । तत्र स्त्री अभिरूढा । सापि दक्षिणकाणा । गुर्विणी । अद्यैव पुत्रं जनयिष्यति । यावद् आत्रेयसकाशं गतः । येन यदानीतं तत् तेनोपदर्शितम्* । आत्रेयः कथयति । माणवकाः सर्वम् एतद् भैषज्यम् एतन् तावद् उदकेनैवं विधिनामुकस्य रोगस्य । एवम् अन्यान्य् अपीति । जीवकः पृष्टः । त्वया किम् आनीतम्* । स कथयत्य् उपाध्याय सर्वम् एव भैषज्यं नास्ति किञ्चिद् अभैषज्यम्* । अपि तु मया शरमूलम् आनीतं पाषाणवर्तिका किटालपिण्डश् चेति । किम् एभिः प्रयोजनम्* । शरमूलैर् वृश्चिकविद्धस्य धूपो दीयते । किटालपिण्डेनोपनाहो दीयते । पाषाणशर्करया काले दधिघटका भिद्यन्ते । आत्रेयेण विपुष्पितम्* । माणवकाः संलक्षयन्त्य् उपाध्यायो ऽस्य रुषित इति । ते कथयन्त्य् उपाध्याय किम् एतद् एव । अस्माभिर् आगच्छद्भिर् अन्तर्मार्गे हस्तिपदं दृष्टम्* । एष कथयति । हस्तिन्या एतत् पदम्* । सा च दक्षिणकाणा । गुर्विणी । अद्यैव प्रसविष्यति । कलभकं जनयिष्यति । स्त्री तत्राभिरूढा । सापि दक्षिणकाणा । गुर्विणी । अद्यैव प्रसविष्यति । पुत्रं जनयिष्यतीति । ( म्स्व् इइ 30 ) आत्रेयः पृच्छति सत्यम्* । सत्यम् उपाध्याय । कथम् एतद्* ज्ञायते हस्तिपदं हस्तिन्याः पदम् इति । स कथयत्य् उपाध्याय वयं राजकुले संवृद्धाः ( 246व्1 = ग्ब्म् 6.805 ) कथं न जानीमः । हस्तिपदं परिमण्डलं हस्तिन्यास् तु दीर्घम्* । कथं ज्ञायते दक्षिणकाणेति । वामेन पार्श्वेन चरन्ती गता । कथं ज्ञायते गुर्विणीति । पश्चिमौ पादौ निपीडयन्ति गता । कथं ज्ञायते ऽद्यैव प्रसविष्यतीति । सशुक्रप्रस्रावः कृतः । कथं ज्ञायते कलभकं प्रसविष्यतीति । भूयसा दक्षिणं पादम् अभिपीडयन्ती गता । कथं ज्ञायते तत्र स्त्री अभिरूढेति । अवतीर्य पादयोर् मध्ये प्रस्रावः कृतः । कथं ज्ञायते सापि दक्षिणकाणेति । वामेन पार्श्वेन पुष्पाण्य् उचिन्वन्ती गच्छति । कथं ज्ञायते सापि गुर्विणीति । भूयसा पार्ष्णिं निपीडयन्ती गता । कथं ज्ञायते ऽद्यैव प्रसविष्यतीति । सशुक्रप्रस्रावः कृतः । अपि तु यद्य् उपाध्यायस्य विमर्षः स सार्थो ऽमुष्मिन् प्रदेशे तत्र कञ्चिन् माणवं प्रेषय । तेन माणवः प्रेषितः । सर्वं तथैव यथा जीवकेन समाख्यातम्* । आत्रेयो माणवकान् आमन्त्रयते । माणवकाः श्रुतं वः । उपाध्याय श्रुतम्* । इदृशो जीवकः प्राज्ञः ।

जीवकेन सर्वं शिक्षितं स्थापयित्वा कपालमोचनीं विद्याम्* । यावद् अन्यतमः पुरुषः कपालव्याधिना स्पृष्ट आत्रेयसकाशं गतः कथयत्य् आत्रेय मम चिकित्सां कुरु । स कथयति । भोः पुरुष अद्य तावद् गर्तां खानय गोमयं च समुपानय । श्वो ऽहं तव चिकित्सां करोमीति । जीवकेन श्रुतम्* । स तस्य पृष्ठतः समनुबद्धः । भोः ( म्स्व् इइ 31 ) पुरुष यत् किंचिद् अहं शिक्षे सर्वं तत् सत्वहितहेतोः । मया कपालमोचनी न शिक्षिता । स त्वं सम्प्रति गुप्ते स्थापय यथा तव कर्म क्रियमाणं पश्यामीति । स कथयति । तथा भवत्व् इति । स तेन प्रतिगुप्ते प्रदेशे स्थापितः । तत आत्रेयेणागत्य स पुरुषो गर्तायां निखातः । कपालमोचन्या विद्यया कपालं मोचितम्* । स तं प्राणकं संदंशेन ग्रहीतुम् आरब्धः । जीवकः कथयत्य् उपाध्याय मा साहसं करिष्यसि । अद्यैवायं कुलपुत्रः कालं करिष्यतीति । स कथयति । जीवक आगतो ऽसि । स कथयति । उपाध्यायागतो ऽहम्* । तत् कथम् अयं प्राणकैर् ग्रहीतव्यः । उपाध्याय संदंशं तापयित्वा पृष्ठे स्पृश । पादौ संकोचयिष्यति । ततो ऽपनयिष्यसीति । तेन तथा कृतम्* । स्वस्थीभूतः । आत्रेयः कथयति । जीवक परितुष्टो ऽहं स्नात्वागच्छ कपालमोचनीं विद्यां दास्यामीति । स स्नात्वागतः । तेन तस्य कपालमोचनी विद्या दत्ता । उक्तञ् च । जीवकास्माकं जीविकैषा न त्वयेह विषये प्रयोक्तव्या । उपाध्याय तथा भवतु । जीवक आत्रेयम् उपामंत्र्य पुष्करसारिणो राज्ञः सकाशं गत्वोपामंत्रयति । मया वैद्यकं शिक्षितम्* । गच्छामीति । तेन खलु समयेन पुष्करसारिणो राज्ञः पाण्डवा नाम खषा विरुद्धाः । ( म्स्व् इइ 32 ) स कथयति । जीवक मम पाण्डवा नाम खषा विरुद्धांस् तावत् संनामय पश्चाद् यास्यसि । एवम् अस्माकं लोकयात्रा कृता भवति । यस्मात् त्वं प्राज्ञः शक्तश् चेति । तेन तस्य प्रतिज्ञातम्* । ततस् तेन चतुरंगं बलकायं दत्वा प्रेषितः । तेन ते पाण्डवाः खषाः सन्नामिताः । वन्दिगोग्रहकरप्रत्यायांश् च गृहीत्वा स्वस्तितः प्रत्यागतः । यथानीतं च राज्ञे उपनामितम्* । तेन परितुष्टेन तस्यैवानुमोदितम्* तेनापि आत्रेयाय दत्तम्* ।
ततो जीवको ऽनुपूर्वेण भद्रंकरं नगरम् अनुप्राप्तः । तत्रैव वर्षारात्रम् अवस्थितम्* । तत्र तेन सर्वभूतरुतं नाम शास्त्रं शिक्षितम्* । स भद्रंकरान् नगरात् संप्रस्थितः । ( 247र्1 = ग्ब्म् 6.806 ) अन्यतमश् च पुरुषः काष्ठभारम् आदाय नगरं प्रविशत्य् अस्थिचर्मावशेषः समन्ताद् गात्रेणाधरतः । स जीवकेन दृष्ट उक्तश् च । भोः पुरुष केन ते ईदृशी समवस्था इति । स कथयत्य् अहम् अपि न जाने । अपि तु मया चैष चाष्ठभारको गृहीतो भवति । मम चेदृशी समवस्था इति । स दारुपरीक्षायां कृतावी । स कथयति । भोः पुरुष किम् अयं काष्ठभारको विक्रीयते । विक्रीयते । कियता मूल्येन । पंचभिः कार्षापणशतैः । तेनासौ क्रीतः । ततः प्रत्यवेक्षता सर्वभूतप्रसादनो नाम मणिर् दृष्टः । तस्येदृशः प्रभावो यदा व्याधितस्य पुरस्तात् स्थाप्यते तदा व्याधिर् यथाभूता च दृश्यते प्रदीपेणेव गृहगतं द्रव्यम्* ।
सो ऽनुपूर्वेण उदुम्बरिकाम् अनुप्राप्तः । तत्रान्यतम आढकमापकः पुरुषः । स द्रोणं मापयित्वाढकेन शिरसि प्रहारं ददाति । जीवकेन दृष्टः उक्तश् च भोः पुरुष किमर्थम् एव करोषि । शिरो मे अतीव कण्डूयते । आगच्छ पश्यामः । तेन तस्य निषद्य शिरो दर्शितम्* । ततो जीवकेन सर्वभूतप्रसादको मणिस् तस्य शिरसि स्थापितो यावत् पश्यति शतपदीम्* । ततः कथयति । भोः पुरुष तव शिरसि शतपदी तिष्ठतीति । स पादयोर् निपत्य कथयति चिकित्सां मे कुरुष्वेति । तेन प्रतिज्ञातम्* । जीवकः संलक्षयति । उपाध्यायस्यैवोपदेशेन चिकित्साम् अस्य करोमीति । स तेनोक्तः । भोः पुरुषाद्य गर्तं खानय पाषिं च समुपानय चिकित्सां करिष्यामीति । स पदयोर् निपत्य प्रक्रान्तः । जीवकेनाप्य् अपरस्मिन् दिवसे स पुरुषो गर्ते निखाते निखात्य कपालमोचन्या विद्यया कपालं मोचयित्वा सप्तेन संदंशेन शतपदी स्पृष्टा । तया पादाः संकोचिताः । ततस् तेन संदंशेन गृहीत्वा क्षिप्ता । स्वस्थीभूतः । तेन तस्य पंच कार्षापणशतानि दत्तानि । तेनात्रेयाय प्रेषितानि ।
ततो जीवको रोहीतकम् अनुप्राप्तः । रोहीतके ऽन्यतमस्य गृहपतेर् उद्यानं पुष्पफलसलिलसंपन्नम्* । स तत्रातिवाध्यवसितः कालं कृत्वा तस्मिन्न् एवामनुष्यकेषूपपन्नः । तस्य पुत्रो गृहस्वामी संवृत्तः । तेन तस्मिन्न् उद्याने आरक्षकः पुरुषः स्थापितः । स तेनामनुष्यकेण प्रघातितः । द्वितीयः स्थापितः । सो ऽपि प्रघातितः । तेन गृहपतिपुत्रेण ( म्स्व् इइ 34 ) तद् उद्यानम् उत्सृष्टम्* । यावद् अन्यतर उदरी मनुष्यः सर्ववैद्यप्रत्याख्यातस् तद् उद्यानं गत्वा रात्रिं वासम् उपगतः । अहो बत मामनुष्यकः प्रघातयेद् इति । तस्मिन्न् एव च जीवको रात्रिं वासम् उपगतः । यावद् असाव् अमनुष्यकस् तम् उदरिणम् अभिद्रवितुम् आरब्धः । स जलोदरो रोगो निष्क्रम्य कथयति । मयायं पूर्वं गृहीतः । किमर्थम् एनम् अभिद्रवसि । नास्ति ते कश्चित्* छागसटाया धूपं दाता येन त्वं द्वादश योजनानि निष्पलायेर् इति । सो ऽपि कथयति । तवापि नास्ति कश्चिन् मूलकबीजम् उदश्विना पिष्टा दाता येन त्वं खण्डं खण्डं विशीर्येथा इति । जीवकेन सर्वं श्रुतम्* । स कल्यम् एवोत्थाय तस्य गृहपतेः सकाशं गतः । कथयति गृहपते उद्यानं पुष्पफलसलिलसंपन्नं किमर्थम् उत्सृष्टम् इति । गृहपतिनास्य यथावृत्तम् आरोचितम्* । स कथयति । गृहपते छागलसटाया धूपं देहि । ( 247व्1 = ग्ब्म् 6.807 ) द्वादशयोजनान्य् अमनुष्यको निष्पलायति । गृहपतिना छागलसटाया धूपो दत्तः । अमनुष्यको द्वादश योजनानि निष्पलायितः । तेनापि गृहपतिना पंच कार्षापणशतानि जीवकाय दत्तानि । तान्य् अपि तेनात्रेयाय प्रेषितानि ।
ततो जीवकेन उदरी पृष्टः । भोः पुरुष किमर्थं त्वम् अत्रामनुष्यकाध्युषिते उद्याने तिष्ठसीति । तेनास्य यथावृत्तम् आरोचितम्* । ( म्स्व् इइ 35 ) जीविकेनाभितम्* । मूलकबीजम् उदश्विना पिष्ट्वा पिव । स्वस्थो भविष्यतीति । तेन पीतम्* । स्वस्थीभूतः । तेनापि पुरुषेण पंच कार्षापणशतानि जीवकाय दत्तानि । तान्य् अपि तेनात्रेयाय प्रेषितानि ।

ततो जीवको ऽनुपूर्वेण मथुराम् अनुप्राप्तः । बहिर् मथुराया वृक्षमूले विश्रान्तः । यावन् मल्लेन मल्लो निहतः । तस्यान्त्राणि परावृत्तानि । स मृत इति बहिर् निष्कास्यते । तस्मिंश् च वृक्षे वृध्रिणी सपोतका तिष्ठति । सा तैः पोतकैर् उच्यते । अम्ब मांसम् अनुप्रयच्छेति । सा कथयति । पुत्र कुतो मांसम्* । ते कथयन्ति । अम्ब एष मल्लो मल्लेन निहतः कालगतो नीयते । पुत्र जीवको ऽत्र वैद्यराज आगतः । स्थानम् एतद् विद्यते यद् एनं स्वस्थीकरिष्यति । अम्ब केनैष स्वस्थो भवति । यद्य् अस्य चूर्णैर् अन्त्राणि स्पृश्यन्ते । जीवकेन तत् सर्वं श्रुतम्* । ततो ऽसाव् उत्थाय मृतसकाशं गत्वा पृच्छति भवन्तः किम् एतद् इति । ते कथयन्ति । मल्लेन मल्लो निहतः । कालगतः । जीवकः कथयति । स्थापयत । पश्यामि । तैः स्थापितम्* । ततो जीवकेन च सर्वभूतप्रसादकमणिः शिरसि स्थापयित्वा प्रत्यवेक्षितः । यावत् पश्यत्य् अन्त्राणि व्याकुलीकृतानि । तेन नाडिकायां चूर्णं प्रक्षिप्य मुखे वायुना प्रेरितम्* । चूर्णेनान्त्राणि स्पृष्टानि । स्वस्थीभूतः । तेनापि जीवकस्य पंच कार्षापणशतानि दत्तानि । तेनाप्य् आत्रेयाय प्रेषितानि ।
मथुरायाम् अन्यतमो गृहपतिः । तस्य पत्नी रूपयौवनसंपन्ना । स तस्याम् अत्यर्थम् अध्यवसितः कालगतः । तस्याम् एव योनौ कृमिः प्रादुर्भूतः । सा येन सार्धं परिचारयति स कालं करोति । ततस् तया सार्धं न कश्चित् परिचारयति । तया श्रुतं जीवको वैद्य इहागतः इति । सा तस्य सकाशं गत्वा कथयति । जीवक मम व्याधिर् अस्ति । चिकित्सां कुरु । जीवकस् तां दृष्ट्वा कथालापं च श्रुत्वा संरक्तः कथयति । समयतः चिकित्सां करोमि यदि च मया सार्धं परिचारयसीति । सा कथयति । जिह्रेमि । स कथयति । नास्ति ते ऽन्यथा चिकित्सा । नास्त्य् आत्मसमं प्रेम । तया प्रतिज्ञातम्* । ततस् तयात्मना नग्नीभूता । योनिद्वारे मांसपेशी दत्ता । ततो ऽसौ कृमिस् तस्यां लग्नः । स तेन गृहीत्वा क्षिप्तः । स्वस्थीभूता । सा कामरागाध्यवसिता निमित्तम् उपदर्शयति । स कर्णौ पिधाय कथयति भगिनी त्वं मम । तवैषा चिकित्सेति मयैवं कृतम् इति । तया तस्मै पंच कार्षापणशतानि दत्तानि । तान्य् अप्य् तेनात्रेयाय प्रेषितानि ।
ततो जीवको ऽनुपूर्वेण यमुनातटम् अनुप्राप्तः । तेन तत्र मानुषकुणपं दृष्टम्* । तस्य मत्स्यैः पार्ष्णिप्रदेशं स्नायुजालम् आकृष्यते । सो ऽक्षिणी उन्मीलयति निमीलयति च । जीवकेन तत् सर्वम् उपलक्षितं यथा सन्धिबन्धायाः स्नायुगुल्फादयः ( 248र्1 = ग्ब्म् 6.808 ) एवम् अवस्थिता इति ।
सो ऽनुपूर्वेण वैशालीं गतः । यावन् मल्लेन मल्लस्य तलप्रहारेणाक्षिपेलांकोलंभितः । स जीवकस्य सकाशं गतः । तेन तस्यां पार्ष्ण्यां स्नायुजालम् आकृष्य प्रवेशितम्* । तेन तस्य पंच कार्षापणशतानि दत्तानि । तेनाभयस्य मातुर् दत्तानि ।
वैशाल्याम् अन्यतमः पुरुषः । तस्य शतपदी कर्णं प्रविष्टा । सा तत्र प्रसुता । सप्तशतान्य् अपत्यानां जातानि । स कर्णशूलाभ्याहतो जीवकस्य सकाशं गतः । चिकित्सां कुरुष्वेति । जीवकः संलक्षयति । पूर्वं मया उपाध्यायोपदेशेन कर्म कृतम् इदानीं स्वमतेन कर्म करिष्यामीति । तेनासौ पुरुषो ऽभिहितः । गच्छ भोः पुरुष पत्रमण्डपं कारयत । नीलैर् वस्त्रैर् वेष्टयित्वास्याधस्ताद् भेरीं स्थापय । भृमिं च तापय इति । तेन यथासंदिष्टं सर्वम् अनुष्ठितम्* । ततो जीवकेन तं पुरुषं भूमौ निपातयित्वा सा भूमिर् उदकेन सिक्ता । ततो भेरी पराहता । शतपदी प्रावृट्काल इति कृत्वा निष्क्रान्ता । ततो जीवकेन कर्णमूले मांसपेशी स्थापिता । सा पुनः प्रविष्यापत्यानि गृहीत्वा निर्गता । सहापत्यैर् मांसपेश्यां सिक्ता । ततो जीवकेन सा मांसपेशीच्छोरिता । स पुरुष स्वस्थीभूतः । तेन पंच कार्षापणशतानि दत्तानि । तान्य् अपि तेनाभयस्य मातुर् दत्तानि ।
सो ऽनुपूर्वेण राजगृहं गतः । राज्ञा बिम्बिसारेण श्रुतं यथा जीवक आगत इति । तेनाजातशत्रोः कुमारस्याज्ञा दत्ता पुत्र भ्राता ते आगच्छति प्रत्युद्गमको गच्छेति । स प्रत्युद्गतः । जीवकेन श्रुतं यथा अजातशत्रुः कुमारः प्रत्युद्गच्छतीति । स संलक्षयति । यद्य् अहम् अस्य प्रत्युद्गमनं स्वीकरिष्यामीति यदा राजा भविष्यति तदानर्थं मे करिष्यतीति । स परावृत्यान्येन द्वारेण प्रविष्टः । अपरेण समयेन जीवको महाजनकायपरिवृतो व्याक्षिप्तचित्तो गच्छति । तावद् अन्यतरो ब्राह्मणो ऽक्षिरोगार्तो जीवकस्य सकाशं गतः । भैषज्यं मे व्यपदिशेति । तेन संजातामर्षेणोक्तः । भस्मना पूरय इति । तेन ऋजुकेन भस्मना पूरितम्* । स्वस्थीभूतः ।
अपरस्याप्य् अक्षिरोगः । स जीवकसकाशं संप्रस्थितः । तेन ब्राह्मणेन दृष्टः पृष्टश् च । भोः पुरुष क्व गच्छसीति । तेन यथाभूतम् आख्यातम्* । स कथयति । किं ते जीवकेन । यत् तेन ममोपदिष्टं तत् कुरुष्वेति । श्रद्दधानो ऽसौ । तेन भस्मना पूरिते अन्धीभूतः ।

अपरेण समयेन राज्ञो बिम्बिसारस्य मूर्ध्नि पिटको जातः । तेनामात्यानाम् आज्ञा दत्ता । भवन्त आहूयतां वैद्य इति । अमात्यैर् आहूतः । राज्ञाभिहितः । भवन्तो मूर्ध्नि पिटको जातः । चिकित्सां कुरुष्वेति । ते कथयन्ति । देव जीविके महावैद्ये ऽव तिष्ठमाने कथं वयं करिष्यामः । राजा कथयत्य् आहूयतां भवन्तो जीवकः । तैर् आहूतः । राजा कथयति । जीवक चिकित्सां कुरुष्वेति । जीवकः कथयति । देव समयतः करोमि यद्य् अहम् एव देवं स्नपयामि । एवं कुरु । ततो ( म्स्व् इइ 39 ) जीवकेनामलकं ददता पाचनीयानि द्रव्याणि दत्तानि । पंच च घटशतानि पाचनीयैर् द्रव्यैर् भावितानि । यदा पक्वः तदा प्रच्छन्नं क्षुरेण स्पृष्टः स्फुटितः । ततो रोहिणीयानि द्रव्याणि दत्तानि । पंच घटशतानि रोहिणीयैर् द्रव्यैर् भावितानि । तद् व्रणं रूढं समच्छवि समरोमं संवृत्तम्* । राजा स्नातमात्रः कथयति । जीवक चिकित्सां कुरुष्वेति । स कथयति । देव भुंक्ष्व । ( 248व्1 = ग्ब्म् 6.809 ) तावद् राज्ञा भुक्तम्* । जीवक चिकित्सां कुरु । देव कृता । स तदन्ते पाणिना परामार्ष्टि । न संजानीते कतरस्मिन् प्रदेशे व्रणम् इति । आदर्शं गृहीत्वा व्यवलोकयति तथापि न पश्यति । देवीं पृच्छति । सापि न संजानीते कतरस्मिन् प्रदेशे व्रणम् आसीद् इति । राजा परं विस्मयम् आपन्न अमात्यानां कथयति । भवतो जीवकस्य वैद्यराजाभिषेकं कुरुतेति । सो ऽन्धः पुरुषः कथयति । देव किं पुत्रस्नेहाद् अस्याभिषेकः क्रियते । आहोस्विद् वैद्यवैचक्षण्याद् इति । स कथयति । वैद्यचैक्षण्यात्* । यद्य् एवम् अहम् एवानेनान्धीकृतः । जीवकः कथयति । भोः पुरुष तवाहं दर्शनम् अपि न समनुपश्यामि कुतः स्वस्थीकरिष्यामि । स कथयति । सत्यम् एतद् अपि तु यस्य त्वयोपदेशः कृतस् तेन ममोपदिष्टम्* । किम् उपदिष्टम्* । अमुकम्* । जीवकः कथयति । तस्यान्यो धातुः । तवाप्य् अन्यः । इदानीम् इदं चेदं च कुरु । स्वस्थीभविष्यसीति । तेन कृतम्* । ( म्स्व् इइ 40 ) स्वस्थीभूतः । कथयति । देव क्रियताम् अस्य वैद्यराजाभिषेक इति । स हस्तिस्कन्धाभिरूढो महता श्रीसमुदयेन वैद्यराज्ये ऽभिषिक्तः ।
राजगृहे ऽन्यतमो गृहपतिर् गुल्मव्याधिना स्पृष्टः । सर्ववैद्यप्रत्याख्यातः । स संलक्षयति । जीवकस्य सकाशं गच्छामीति । यदि चिकित्सां करिष्यत्य् अतीव कुशलं नो चेद् आत्मानं घातयिष्यामीति । स जीवकसकाशं गतः । जीवक चिकित्सां मे कुरु । स कथयति । भोः पुरुष दुर्लभानि तव भैषज्यानीति । स संलक्षयति । जीवकेनाप्य् अहं प्रत्याख्यातः । किम् अत्र प्राप्तकाल आत्मानं घातयिष्यामीति । श्मशानं गतः । तत्र चितायां ज्वलन्त्यां बभ्रुनकुलश् चन्दनगोधा च युध्यमानौ पतितौ । तेन क्षुधार्तेन ताव् उभाव् अपि भक्षितौ । देवश् च वृष्टः । श्मशानात् प्रघरत् तच् चितोदकं पीतम्* । श्मशानस्य नातिदूरे गोकुलम्* । तत्र गत्वा कोद्रवोदनं मथितं च पीतम्* । गुल्मः स्फुटितः । ऊर्ध्वम् अधश् च विरिक्तो यथा पौराणः संवृत्तः ।
अपरेण समयेन वैदेह्या गुह्यप्रदेशे पिटको जातः । तया राज्ञे निवेदितम्* । राज्ञा जीवको ऽभिहितः । अपरमातुश् चिकित्सां कुरुष्वेति । तेन प्रतिज्ञातम्* । ततः सत्कून् पिण्डीकृत्य धात्र्या दत्ताः । अस्यान्तिके निषादयितव्येति । तया सा निषादिता । जीवकेन सत्कुपिण्डं दृष्टा संलक्षितः । अमुष्मिन् प्रदेशे इति । ततः पाचनीयानि द्रव्याणि दत्तानि । पक्वं ज्ञात्वा सत्कुपिण्डमध्ये शस्त्रकं प्रक्षिप्य धात्र्याभिहिता । अस्यान्तिके ईषन् निषादयितव्या देवी । निषद्याकाशे धारयितव्येति । तया तथाकृतम्* । शस्त्रसंपातसमकालम् ( म्स्व् इइ 41 ) एव पिटकः स्फुटितः । ततो रोहणीयद्रव्यपरिभावितेन कषायाम्भसा शोचितः । रोहिणीयानि द्रव्याणि दत्तानि । स्वस्थीभूता । जीवको राज्ञः सकाशं गतः । राजा कथयति । जीवक कृता ते ऽपरमातुश् चिकित्सा । देव कृता । मा ते विनग्ना दृष्टा । देव न दृष्टा । कथं कृता । तेन यथावृत्तम् आरोचितम्* । राजा परं विस्मयम् आपन्नः । तेनामात्या उक्ताः । द्विर् अपि जीवकस्य वैद्यराजाभिषेकं कुरुथेति । यो ऽसौ गुल्मी पुरुषो जीवकेनाभिहितो दुर्लभानि भैषज्यानीति स कथयति । देव किं पुत्रस्नेहाद् अस्याभिषेकः क्रियते । आहोस्विद् वैद्यवैचक्षण्यात्* । वैद्यवैचक्षण्यात्* । यद्य् एवम् अहम् अनेन न स्वस्थीकृतः । जीवकः कथयति । भोः पुरुष न मया तव चिकित्सा कृता । अपि ( 249र्1 = ग्ब्म् 6.810 ) तु मयोक्तं दुर्लभानि ते भैषज्यानीति । स कथयति । कीदृशानि मम भैषज्यानीति । जीवकः कथयति । यदि कृष्णचतुर्दश्याम् एकपिण्डलः पुरुषः कालं करोति । तस्य श्मशाने ध्माप्यमानस्य बभ्रुनकुलश् चन्दनगोधा च चितायां पतितः । तौ त्वं भक्षयसि । महेन्द्रो देवो वर्षति । श्मशानाच् च प्रघरितं चोदकं पिबसि । ततः कोद्रवोदनं भुंक्षे मथितं च पिबसि एवं त्वं स्वस्थो भवस्य् एतन् मत्वा मयोक्तं दुर्लभानि ते भैषज्यानीति । स कथयति । साधु सुष्ठु परिज्ञातम्* । एतद् एव मयोपयुक्तम्* । ततो ऽभिप्रसन्नः कथयति । देव शक्यो ऽस्य वैद्यराजाभिषेकः । अभिषिच्यताम् इति । द्विर् अपि वैद्यराज्ये ऽभिषिक्तम्* ।

यदा अजातशत्रुणा देवदत्तकल्याणमित्रविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः तदास्य गुल्मरोगः प्रादुर्भूतः । तेन वैद्यानाम् आज्ञा दत्ता । चिकित्सां कुरुष्वेति । ते कथयन्ति । देव जीवको ऽनुत्तरो वैद्यराजो देवस्य भ्राता । तस्मिन् स्थिते का शक्तिर् अस्माकं चिकित्सां कर्तुम् इति । तेनामात्यानाम् आज्ञा दत्ता । आहूयतां भवन्तो जीवक इति । तैर् आहूतः । जीवक गुल्मरोगो मे प्रादुर्भूतः । चिकित्सां कुरुष्वेति । देव करोमि । स संलक्षयति । द्वाभ्यां कारणाभ्यां गुल्मो भिद्यते । अत्यन्तहर्षेण वा अत्यन्तरोषेण वा । तद् अयं पापकारी सत्वः । कुतो ऽस्यात्यन्तहर्षः । सर्वथा रोषयितव्य इति विदित्वा कथयति । देव समयेन चिकित्सां करोमि । यद्य् उदायिभद्रस्य कुमारस्य मांसं परिभुंक्ष्वेति । श्रुत्वा राजा रुषितः कथयति । शोभनम्* । मया पिता जीविताद् व्यपरोपितः । त्वम् अप्य् उदायिभद्रं जीविताद् व्यपरोपय । अहम् अपि स्वयम् एव रोगेण कालं करिष्यामि । त्वम् अपि राजा भविष्यसीति । स कथयति । देव एषा चिकित्सा । न शक्यम् अन्यथा स्वस्थेन भवितुम् इति । नास्त्य् आत्मसमं प्रेम । तेनाभ्युपगतम्* । ततो जीवकेन उदायिभद्र कुमारः सर्वालंकारविभूषितः कृत्वा राज्ञ उपनामितः । देव अयम् उदायिभद्रः कुमारः सुनिरीक्षितम् एनं कुरु । न भूयो द्रक्ष्यसीति । ततस् तेनोपदर्श्य गृहं नीत्वा स्थापितः । ततो जीवको मांसार्थी शीतवनं श्मशानं गतः । अशून्यं च शीतवनं श्मशानं मृतकुणपेन । ( म्स्व् इइ 43 ) ततस् तेन कुणपमांसं गृहीत्वोपकरणविशेषैः साधयित्वा भोजनकाले राज्ञ उपनामितम्* । ततो राजा अजातशत्रुः मांसशरावं गृहीत्वा भक्षयिष्यामीति जीवकेनाच्छिद्य कपोले प्रहारो दत्तः । पापकारिन् त्वया पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः । इदानीं पुत्रमांसम् अपि भक्षयसीति । स रुषितः कथयति । यद्य् एवं किमर्थं प्रघातितः । संजातामर्षस्य चास्य गुल्मः स्फुटितः ऊर्ध्वम् अधश् च विरिक्तः । स रुधिर एव मुखेनागतः । यं दृष्ट्वा मूर्च्छितः पृथिव्यां पतितः । ततो जलाभिषेकप्रत्यागतप्राणं स्नपयित्वा सांप्रेयभोजनं दत्तम्* । यथा पौराणः संवृत्तः । ततो जीवक उदायिभद्रं कुमारं सर्वालंकारविभूषितम् आदाय राज्ञः सकाशम् उपसंक्रान्तः । पादयोर् निपत्य कथयति । देव अयम् उदायिभद्रः कुमारो न शक्यं मया कुन्तपिपीलकम् अपि प्राणिनं जीविताद् व्यपरोपयितुं ( 249व्1 = ग्ब्म् 6.811 ) प्राग् एव कुमारम्* । अपि त्व् अनेनोपायेन चिकित्सेति मयोपायसंविधानं कृतम् इति । राजा परं विस्मयम् उपगतः । तेनामात्यानाम् आज्ञा दत्ता । जीवकस्य वैद्यराजाभिषेकं कुरुष्वेति । अमात्यैर् हस्तस्कन्धाभिरूढो महता श्रीसमुदयेन त्रिर् अपि वैद्यराजाभिषेकेणाभिषिक्तः ।

ततो जीवकस्य मद उत्पन्नः । न मया समः कश्चिद् वैद्यो ऽस्ति । अहं कायचिकित्सकानाम् अग्रः । भगवान् अपि चित्तचिकित्सकानाम् अग्र इति । सो ऽपरेण समयेन भगवत्सकाशम् उपसंक्रान्तः । स मदावलेपेन सत्यानि न पश्यति । भगवान् संलक्षयति । जीवको वैद्यराज आहृतकुशलमूलः किमर्थं सत्यानि न पश्यति । मदावलेपनात्* । मदापनयो ऽस्य कर्तव्य इति । तत्र भगवान् जीवकं वैद्यराजम् आमन्त्रयते । दृष्टस् ते जीवक हिमवत्पर्वतराजः । नो भदन्त । गृहाण तथागतस्य चीवरकर्णकः । तेन गृहीतम्* । अथ भगवान् जीवकं वैद्यराजम् आदाय येन हिमवान् पर्वतराजस् तेनोपसंक्रान्तः । तत्र नानाविधौषधयो दीपवज् ज्वलन्ति । भगवां जीवकं वैद्यराजम् इदम् अवोचत्* । गृहाण जीवक यथाभिप्रेता ओषधीः । भगवन् बिभेमि । तत्र भगवान् यक्षं वज्रपाणिम् आमन्त्रयते । गच्छ वज्रपाणे जीवकस्यारक्षां कुरु । स गतस् तेन नानाविधा ओषधयो गृहीताः । भगवान् कथयति । जीवक किं नामेयम् ओषधिः । स कथयति । भगवन्न् अमुका । अनेन विधानेनामुकस्य व्याधेर् उपशमनीति । इयम् अप्य् अमुका । अमुकस्य व्याधेः प्रशमनीति । अपरासां नामानि न जानीते । यां न जानीते तां भगवान् कथयति । जीवक इयम् अमुका । अमुकेन विधानेनामुकस्य व्याधेः प्रशमनी । इयम् अप्य् अमुकस्येति । जीवकः कथयति । वैद्यकम् अपि भगवान् जानीत इति । तत्र भगवान् जीवकं वैद्यराजम् आमन्त्रयते । चतुर्भिर् जीवकाङ्गैः समन्वागतो ( म्स्व् इइ 45 ) भिषक् छल्याहर्ता राजार्हश् च भवति राजयोग्यश् च राजाङ्गत्वे च संख्यां गच्छति । कतमैश् चतुर्भिर् इह भिषक् छल्याहर्ता । आबाधकुशलो भवति । आबाधसमुत्थानकुशलश् च । उत्पन्नस्याबाधस्य प्रहाणकुशलः । प्रहीणस्यायत्याम् अनुत्पादकुशलः । कथम् आबाधकुशलो भवति । इह भिषक् छल्याहर्ताबाधं जानात्य् अयम् आबाध एवंरूपश् चैवंरूपश् चेत्य् एवम् आबाधकुशलो भवति । कथम् आबाधसमुत्थानकुशलो भवति । इह भिषक् छल्याहर्ताबाधं जानात्य् अयम् आबाधो वातसमुत्थो वा विपत्तिसमुत्थो वा श्लेष्मसमुत्थो वात्मोपक्रमिको वा परोपक्रमिको वा सांनिपातिको वा ऋतुपरिणामिको वेत्य् एवम् आबाधसमुत्थानकुशलो भवति । कथम् उत्पन्नस्याबाधस्य प्रहाणकुशलो भवति । इह भिषक् छल्याहर्ताबाधं जानात्य् अयम् आबाधो ऽंजनेन वा प्रत्यंजनेन वा वामनेन वा विरेचनेन वोर्ध्वविरेचनेन वाधोविरेचनेन वा नस्तकर्मणा वा धूपदानेन वा स्वेदपरिकर्मणा वा प्रहास्यतीत्य् एवम् उत्पन्नस्याबाधस्य प्रहाणकुशलो भवति । कथं प्रहीणस्याबाधस्यायत्याम् अनुत्पादकुशलो भवति । इह भिषक् छल्याहर्ताबाधं जानात्य् अयम् आबाध ( 250र्1 = ग्ब्म् 6.812 ) एवंरूपाभिश् चैवंरूपाभिश् च सांप्रेयाभिः क्रियाभिः क्रियमाणाभिः प्रहीण आयत्यां नोत्पत्स्यत इत्य् एवं प्रहीणस्याबाधस्यायत्याम् अनुत्पादकुशलो ( म्स्व् इइ 46 ) भवति । एवं चतुर्भिर् अंगैः समन्वागतो भिषक् छल्याहर्ता राजार्हश् च भवति राजयोग्यश् च राजांगत्वे च संख्यां गच्छति । एवम् एव चतुरंगैः समन्वागतस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरो भिषक् छल्याहर्ता इत्य् उच्यते । कतमैश् चतुर्भिः । इह जीवक तथागतो ऽर्हन् सम्यक्संबुद्धः । इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति । इदं दुःखसमुदय इदं दुःखनिरोध इदं दुःखनिरोधगामिनीप्रतिपद् आर्यसत्यम् इति यथाभूतं प्रजानाति । न खलु जीवक भिषक् छल्याहर्ता जातिमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति । नापि जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति । तथागतस् तु जीवक जातिमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति । जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति । तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरो भिषक् छल्याहर्तेत्य् उच्यते । अस्मिन् खलु धर्मपर्याये भाष्यमाणे जीवकस्य कुमारभृत्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्* । अथ जीवकः कुमारभृतो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकांक्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुः शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलिं प्रणम्य भगवन्तम् इदम् अवोचत्* । अभिक्रान्तो ऽहं भदन्ताभिक्रान्तः । एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघां चोपासकं च । मां धारयाद्याग्रेण ( म्स्व् इइ 47 ) यावज्जीवं प्राणोपेतं शरणगतम् अभिप्रसन्नम्* । अथ जीवको वैद्यराजो भगवत पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः ।
हिमवान् पर्वतराजो हिमसंयोगान् नित्यं शीतलो भगवतः साभिष्यन्दं ग्लानम् उत्पन्नम्* । जीवको वैद्यराजः संलक्षयति । स्वयम् एवाहं भगवत उपस्थानं करोमि तद्यथा राज्ञश् चक्रवर्तिन इति । ततो जीवकेन द्वात्रिंशद् उत्पलानि स्रंसनीयैर् द्रव्यैर् भावयित्वा भगवते दत्तानि । जिघ्रतु भगवान् एतानीति । भगवता घ्रातानि । द्वात्रिंशद् एवोत्थानानि लब्धानि । ततो भगवन्तं पृच्छति । कश्चिद् भगवान् सम्यग्विरिक्त इति । भगवान् आह । सन्ति जीवक ते दोषाः । ये च्युता न स्रुताः सन्ति । स्रुता न च्युताः सन्ति । स्रुताश् च्युताश् च सन्ति । नैव स्रुता न च्युता इति । जीवकः कथयति । भगवन् यद्य् एवं गुडहरीतकीं भक्षय । मण्डानुपूर्वीं च कुरुष्वेति । भगवता तथाकृतम्* स्वस्थो जातः ।

आचरितं जीवकस्य यस्य कस्यचिद् राज्ञो वा राजमात्रस्य वा चिकित्सां करोति स तस्मै ग्रामं वा ग्रामवरं वा प्रयच्छति । यावद् अपरेण समयेन जीवकेन विदेहराजस्य चिकित्सा कृता । तेन तस्मै शतसहस्रमूल्यं बृहतिकाप्रावरणं दत्तम्* । स तम् आदाय ( म्स्व् इइ 48 ) येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते ( 250व्1 = ग्ब्म् 6.813 ) निषण्णो जीवकः कुमारभृतो भगवन्तम् इदम् अवोचत्* । आचरितं भदन्त मम यस्य राज्ञो वा राजमात्रस्य वा चिकित्सां करोमि स मे ग्रामं वा ग्रामवरं वानुप्रयच्छति । तन् मया विदेहराजस्य चिकित्सा कृता । तेन मे शतसहस्रमूल्यं बृहतिकाप्रावरणं दत्तम्* । तद् अहं भगवते ऽनुप्रयच्छामि । तद् भगवान् प्रतिगृह्णात्व् अनुकम्पाम् उपादायेति । प्रतिगृह्णाति भगवां जीवकस्य कुमारभृतस्यान्तिकाच् छतसहस्रमूल्यं बृहतिकाप्रावरणम्* । तेन खलु समयेनायुष्मान् आनन्दो भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा भगवन्तं वीजयन्* । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते । गृहाणानन्द शतसहस्रमूल्यं बृहतिकाप्रावरणं ममार्थाय शस्त्रलूनं कुरुष्वेति । तत आयुष्मान् आनन्दो गृहीत्वा विस्तीर्णावकाशं पृथिवीप्रदेशं गत्वा मापयितुम् आरब्धः । पश्यति बहूनि चीवराणि संपद्यन्ते । ततस् तेन भगवतस् त्रिचीवरं कृतम् आत्मनः सान्तरोत्तरम् आयुष्मतश् च राहुलस्य कुसूलकः । तं खलु वर्षावासं भगवतः पंच पटशतानि संपन्नानि । भिक्षुसंघस्य चानेकानि । भिक्षवो न जानीते कथं प्रतिपत्तव्यम् इति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तस्माद् अनुजानामि । भिक्षुभिर् गृहपतिचीवरकाणि शस्त्रलूनानि दुर्वर्णीकृत्य धारयितव्यानि ।
आचरितं रज्ञो बिम्बिसारस्य भिक्षुं वा भिक्षुणीं वा दृष्ट्वा हस्तिस्कन्धाद् अवतीर्य पादाभिवन्दनं करोति । सो ऽपरेण समयेन हस्तिनम् अभिरुह्य भगवतः पादाभिवन्दकः संप्रस्थितः । यावत् पश्यत्य् अन्तर्मार्गे आजीवकम्* । स तस्य जातसंभ्रमो हस्तिस्कन्धाद् अवतीर्य पादयोर् निपतितः । तत्र ये अश्राद्धास् ते संलक्षयन्ति । न केवलं देवो भिक्षुष्व् एवाभिप्रसन्नः । आजीवकेष्व् अप्य् अभिप्रसन्न इति । ये तु श्राद्धास् ते संलक्षयन्ति । नूनं देवो भिक्षुर् इति कृत्वा ससंभ्रमो ऽस्य हस्तिस्कन्धाद् अवतीर्य पादयोर् निपतित इति । ते सन्दिग्धमनसो राजानम् ऊचुः । कस्य देवेन वन्दना कृता । भगवतः श्रावकस्य । देव आजीवक एष न भगवतः श्रावकः । अथ राज्ञो बिम्बिसारस्यैतद् अभवत्* । एतद् एव मे करणीयं भवत्व् इति । स येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः । एकान्तनिषण्णो राजा मागधः श्रेण्यो बिम्बिसारः भगवन्तम् इदम् अवोचत्* । आचरितं मम भदन्त भिक्षुं वा भिक्षुणीं वा दृष्ट्वा हस्तिस्कन्धाद् अवतीर्य तस्य पादाभिवन्दनां कर्तुम्* । तद् अहं संजातसंभ्रमो हस्तिस्कन्धाद् अवतीर्य कृत्वा आजीवकस्य पादयोर् निपतितः । अहो बत भगवन्न् आर्यकाणां चीवरकेषु किंचिच् चिह्न प्रज्ञापयेद् अनुकम्पाम् उपादायेति । अधिवासयति भगवान् राज्ञो बिम्बिसारस्य तूष्णींभावेन । अथ राजा बिम्बिसारो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा प्रक्रान्तः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म हंभो ( म्स्व् इइ 50 ) भिक्षवः स आजीव उपहतश् च येन दृष्टसत्यस्यान्तिकाद् वन्दना स्वीकृतेति । ( 251र्1 = ग्ब्म् 6.814 )
तेन खलु समयेनायुष्मान् आनन्दो भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा भगवन्तं वीजयन्* । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते । द्ष्टस् ते आनन्द वैदेहकः पर्वतः । नो भदन्त । गृहाण तथागतस्य चीवरकर्णकम्* । तेन गृहीतम्* । अथ भगवान् तत एव रिद्ध्या उपरि विहायसा प्रक्रान्तः । राजगृहे ऽन्तर्हितो वैदेहके पर्वते प्रातिष्ठत । तेन खलु समयेन मागधकानां मनुष्याणां क्षेत्राणि समानि समोपविचाराणि आवलीविनिबद्धानि भक्तिरचनाविशेषविचित्राणि दृष्ट्वा च पुनर् आयुष्मन्तम् आनन्दम् आमन्त्रयते । दृष्टानि ते आनन्द एतानि क्षेत्राणि समानि समोपविचाराण्य् आवलीविनिबद्धानि भक्तिरचनाविशेषविचित्राणि । दृष्टानि भदन्त । तस्माद् आनन्द अनेनाकारेण भिक्षुभिश् चीवराणि छित्वा सेतव्यानि । स्थविरानन्देन भिक्षूणाम् आरोचितम्* । युष्माभिर् अनेनाकारेण चीवरकानि पाटयित्वा सेतव्यानीति । भिक्षवः पाटयित्वा चीवराणि सेतुम् आरब्धाः । एकेन पार्श्वेन पत्रमुखानि पातयन्ति । न शोभन्ते । आयुष्मान् आनन्दः संलक्षयति । किंचापि भगवता नानुज्ञातम्* । ( म्स्व् इइ 51 ) स्थानम् एतद् विद्यते यद् एतद् एव प्रत्ययं कृत्वा अनुज्ञास्यतीति । तेनोभयपार्श्वयोः पत्रमुखानि दत्तानि । तथाप्य् अनुपातं विना न शोभते इत्य् अनुपातो दत्तः । ततः कृतनिश्चितं भगवत उपनामितम्* । भगवान् आह । साधु साध्व् आनन्द यन् मया नानुज्ञातं तत् त्वया विजातम्* । तस्माद् अनुजानामि भिक्षुभिर् अनेनाकारेण चीवराणि छित्वा सेवितव्यानि । भिक्षव एवैकं चीवरं छित्वा स्यूत्वा धावयितुं प्रवृत्ताः । अवशिष्टान्य् अच्छिन्नानि ।
ततो भगवान् मगधेषु जनपदेषु चारिकां चरन्न् आटविकाम् अनुप्राप्तः । आटविकायां विहरत्य् अग्राटविके दावे । आटविका नदी समीपसंयोगाच् छीतला प्रवाता च । भगवता प्रथमे यामे अन्तर्वासः प्रावृतः । मध्यमे यामे उत्तरासङ्गः । पश्चिमे यामे आयुष्मन्तम् आनन्दम् आमन्त्रयते । अनुप्रयच्छ मे आनन्द संघाटीम् इति । तत आयुष्मतानन्देन हस्तौ प्रक्षाल्य भगवत उपरिष्टाद् दत्ता संघाटी । सा रात्रिर् भगवता त्रिचीवरेणातिनामिता । ततः प्रभातायां रजन्यां संलक्षयति । ये केचिल् लोके सुकुमारकाः सुखैषिणः । अहं तेषाम् अग्रः । तद् अहं शक्नोमि त्रिचीवरेण यापयितुं किं पुनर् मे श्रावका इति विदित्वा भिक्षून् आमन्त्रयते स्म । तस्मात् तर्हि भिक्षवो भिक्षुभिश् छिन्नं त्रिचीवरं धारयितव्यम् इति ।

उक्तं भगवता छिन्नं त्रिचीवरं धारयितव्यम् इति । अन्यतमस्य भिक्षोस् त्रिचीवरं नास्ति । तस्य नमतं संपन्नम्* । स तच् छेत्तुम् आरब्धः । भगवाण्श् च तं प्रदेशम् अनुप्राप्तः पृच्छति । भिक्षो किम् इदम्* । उक्तं भदन्त भगवता भिक्षुणा छिन्नं त्रिचीवरं धारयितव्यम् इति । मम ( 251व्1 = ग्ब्म् 6.815 ) तृतीयं चीवरं नास्ति । पर्येषमाणस्य मे इदं नमतं संपन्नम्* । छित्वा चीवरं करोमि । नैतद् भिक्षो छेदनार्हम् अपि त्व् आसीवकार्हम्* । सीवकं कृत्वा धारय । इत्य् उक्ता प्रक्रान्तः । भिक्षुसंघं सन्निपात्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म । अमुकस्य भिक्षवो भिक्षोश् चीवरं नास्तीति नमतं छेदयतीति । तस्मात् तर्हि भिक्षवः पंचाछेद्यानि । सर्वं नमतं । सर्वं प्रावारकं । सर्वं कोचवं । सर्वं लेलोहितं । सर्वं स्थूलकम्बलञ् चेति । आसीवकांस् तु दत्वा धारयितव्यम्* ।
श्रावस्त्यां निदानम्* । राज्ञः प्रसेनजितः कोसलस्य मृगारो नाम अग्रामात्यः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया ( म्स्व् इइ 53 ) सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः । एवं यावत् सप्त पुत्राः जाताः । तत्र षण्णां यथाभिप्रेतव्यवस्थम्* । तेन नामानि व्यवस्थापितानि । यस् तु कनीयांस् तस्य विशाख इति नामधेयं व्यवस्थापितम्* । यावन् मृगारस्य पत्नी कालगता । तेन षण्णां पुत्राणां निवेशः कृतः । ते स्वकस्वकाभिः पत्नीभिः सार्धं मण्डनपरमा व्यवस्थिताः । गृहकार्यं न चिन्तयन्ति । मृगारो गृहपतिः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । तस्य सप्रेमको ब्राह्मण आगतः । स तेन चिन्तापरो दृष्टः । स कथयति । गृहपते किम् असि चिन्तापरः । ममामी पुत्राः स्वकस्वकाभिः पत्नीभिः सार्धं मण्डनपरमा व्यवस्थिताः । गृहकार्यं न चिन्तयन्ति । गृहम् अवसादं गमिष्यतीति । स कथयति । विशाखस्य कस्मान् निवेशो न क्रियते । को जानीयात् कदाचित् सो ऽपि पापतरो भवेत्* । एतद् अपि न ज्ञायते कदाचिच् छोभनतरो भवेत्* । यदि ते ऽनुमतं समन्वेषयामि दारिकम्* । एवं कुरु । स गवेषमाणो ऽनुपूर्वेण चण्पाम् अनुप्राप्तः ।

चण्पायां बलमित्रो नाम गृहपतिः । तस्य विशाखा नाम दुहिता रूपयौवनवती नयविनयसंपन्ना पण्डिता पटुप्रचारा । सा यथाभिप्रेतमनोहराभिर् दारिकाभिः सार्धम् उद्यानभूमिं संप्रस्थिता । स च ब्राह्मणस् तं प्रदेशम् आगतः । तेन सा दारिका दृष्टा । स संलक्षयति । आसाम् एव तावत् परीक्षा कर्तव्येति । स च आसाम् अवधानतत्परो मन्दगतिप्रचारतया पृष्ठो ऽनुबद्धः । प्रायो नार्यश् चलत् स्वभावाः । ( म्स्व् इइ 54 ) तासां काचिद् धावति काचिद् उत्पतति काचिन् निपतति काचिद् हसति काचिद् गात्रविक्षेपं करोति काचिद् गायति । इमानि चान्यानि च दुर्वृत्तचेष्टितानि कुर्वति । सा तु विनयसंपन्ना मन्दगतिप्रचारा ताभिः सार्धं गच्छति । यावद् उद्यानं संप्राप्तास् ता दारिकाः पुष्करिण्यास् तीरे वस्त्राणि स्थापयित्वा सहसावतीर्य क्रीडितुम् आरब्धाः । सा तु यथा यथा पानीयम् अवतरति तथा तथा वस्त्रम् उत्क्षिप्यावतीर्णा तथैव शान्तेनेर्यापथा यथा यथा व्युत्तिष्ठते तथा तथा वस्त्रम् अवतारयति । ततः स्नातप्रयता एकस्मिन् स्थाने स्थिता । ता दारिका आत्मना प्रथमतो भुक्त्वा परिजनं परिवेष्टुम् ( 252र्1 = ग्ब्म् 6.816 ) आरब्धाः । सापि पूर्वं परिजनं परिवेष्य पश्चाद् आत्मना परिभोक्तुम् आरब्धा । ततो भुक्तपीता उद्यानसुखम् अनुभूय संप्रस्थिता । यावद् अन्तर्मार्गे पानीयम् उत्तर्तव्यं ता दारिका उपानहौ छोरयित्वोत्तीर्णाः । सा तु सोपानत्कैव पुनः संप्रस्थिता । तासाम् आरामसंप्रवेशो जातः । सा छत्रम् आदाय आम्रवनम् अतिक्रान्ता । अन्याभिश् छत्राणि छोरितानि । ततो वातवर्षं प्रादुर्भुतम्* । तदा दारिका देवकुलं प्रविश्यावस्थिता । सा त्व् अभ्यवकाश एव । स ब्राह्मणस् तस्यास् तादृशलक्षणप्रचारान् दृष्ट्वा ततो जातकुतूहलस् तां दारिकां प्रष्टुम् आरब्धः । दारिके कस्य त्वम्* । बलमित्रस्य दुहिता । पुत्रि पृच्छामि । तेन किञ्चित् त्वया कोपः करणीयः । सा स्मितपूर्वंगमा कथयति । तात पृच्छ । को ऽत्र कोपः । पुत्रि सर्वा एव दारिका धावन्त्य उत्पतन्त्यो निपतन्त्यो गात्रविक्षेपं कुर्वन्त्य इमानि चान्यानि च दुर्वृत्तचेष्टितानि कुर्वन्त्यो गच्छन्ति त्वं पुनर् विनयसंपन्ना मन्दगतिप्रचारतया आभिः ( म्स्व् इइ 55 ) सार्धम् उद्यानं गच्छसीति । सा कथयति । सर्वा दारिका मातापित्रोर् विक्रेयं द्रव्यम्* । यदि मम उत्पतन्त्या निपतन्त्या वा हस्तः पादो वा भिद्यते को मां प्रार्थयते । न त्व् अहं यावज्जीवम् एव मातापित्रोः पोष्या भविष्यामि । पुत्रि शोभनं गतम् एतत्* । इदम् अपरं पृच्छामि । एता दारिका वस्त्राण्य् एकान्ते स्थापयित्वा द्वितीयवस्त्रवियुक्ताः सहसावतीर्य क्रीडितुम् आरब्धाः । त्वं पुनर् यथा पानीयम् अवतरति तथा तथा वस्त्रम् अनयसि । तात ह्रीव्यपत्राप्यसंपन्नो मातृग्रामः । यदि मां कश्चित् पश्यत्य् अपावृताम् अयुक्तम्* । पुत्रि कस् त्वां तत्र पश्यति । तात त्वयैव तावद् अहं दृष्टा स्याम्* । पुत्रि शोभनम् एतद् अपि गतम्* । इदम् अपरं पृच्छामि । एता दारिकाः पूर्वम् आत्मना भुक्त्वा पश्चात् परिजनं भोजयन्ति । त्वं पुनः पूर्वं परिजनं भोजयित्वा पश्चाद् आत्मना भुंक्षे । तात वयं पुण्यफलोपजीविन्यः सततम् एवास्माकं पर्व । एता कुस्थानफलोपजीविन्यः कदाचित् कर्हिचिद् उदारभोजनं लभन्ते । पुत्रि शोभनम् एतद् अपि गतम्* । इदम् अपरं पृच्छामि । सर्वलोकः शुष्के उपानहौ धारयन्ति । त्वं पुनः उदके । किम् एतत्* । तात मूर्खो लोकः । उदक एव उपानहौ धारयितव्यौ । यत् कारणं स्थले स्थाणुर् दृश्यते कण्टकः पाशाणशर्करः शुक्तिशकलिका शंखसूके खण्डिका च । ( म्स्व् इइ 56 ) जले त्व् एते न दृश्यन्ते । अतो जल एवोपानहौ धारयितव्या न स्थले । पुत्रि शोभनम् एतद् अपि गतम्* । इदम् अपरं पृच्छामि । एता दारिका आतपे छत्रं धारयन्ति त्वं पुनर् आरामे वृक्षच्छायायाम्* । कात्र युक्तिः । तात मूर्खो लोकः । आराम एव छत्रं धारयितव्यम्* । यत् कारणं नित्यम् आरामः शाखामृगैः पक्षिभिर् आकीर्णः । पक्षिण उच्चारप्रस्रावं कुर्वन्ति । अस्थिखण्डं पातयन्ति । शाखामृगा उच्चारप्रस्रावं कुर्वन्ति । अर्धपरिभुक्तानि फलानि पातयन्ति । चलस्वभावत्वाद् इतश् चामुतश् च शाखान्तरे संक्रामं कुर्वन्ति । काष्ठखण्डानि पातयन्ति । अभ्यवकाशे च तन् नास्ति । कदाचित् स्यात् तंतु लघुनिपाति । अत आराम एव छत्रं धारयितव्यं ( 252व्1 = ग्ब्म् 6.817 ) नाभ्यवकाशे । पुत्रि शोभनम् एतद् अपि गतम्* । इदम् अपरं पृच्छामि । एता दारिका वातवर्षे देवकुलं प्रविष्टास् त्वं पुनर् अभ्यवकाशे स्थिता । तात अभ्यवकाश एव स्थातव्यम्* । न देवकुलं प्रवेष्टव्यम्* । पुत्रि कात्र युक्तिः । तात एतानि शून्यदेवकुलानि नित्यम् एव विटवातपुत्रधूर्तकैर् अशून्यानि । यदि मम प्रविष्टाया कश्चिद् अंगप्रत्यंगानि परामृशति न त्व् एवं मातापित्रोर् मे अयशस्यता भवति । वरम् अभ्यवकाशे प्राणवियोगः । न त्व् एव शून्यदेवकुलप्रवेशः ।
ततो ऽसौ ब्राह्मणस् तत्प्रचारावर्जितजनितसौमनस्यो बलमित्रस्य गृहपतेर् निवेशनं प्रविश्य कन्याप्रतिलम्भतृष्णाया ससंभ्रमः स्वस्ति स्वस्तीत्य् उवाच । गृहपरिजनः कथयति । ब्राह्मण न तावद् भिक्षावेला । किं प्रार्थयसे । कन्याभिक्षाम्* । कस्यार्थाय । श्रावस्त्यां मृगारो नामाग्रामात्यः । तस्य पुत्रो विशाखो नाम । ते कथयन्ति । सदृशम् अस्माकं तत् कुलम्* । किं तर्हि । अतिविप्रकृष्टो देशः । स कथयति । दूर एव दारिका दातव्या । किं कारणम्* । यदि तावत् सुखिता भवति श्रुत्वा प्रामोद्यम् उत्पादयिष्यति । अथ दुःखिता दानमानसत्कारक्रियया खेदम् आपद्यते ऽर्थापचयश् च भवति । ते कथयन्ति । यद्य् एवं दत्ता भवतु । ततो ब्राह्मणः स्वस्तीत्य् उक्त्वा प्रक्रान्तो ऽनुपूर्वेण श्रावस्तीं गतः । मार्गश्रमं प्रतिविनोद्य मृगाराग्रामात्यस्य सकाशं गतः । ततो दारिकाया आहारविहारतां चेष्टां रूपयौवनशोभां वैचक्षण्यं च यथावदाख्याय कथयति । मया महता परिखेदेन नानादिग्देशाधिष्ठानान् पर्यटित्वा सा कृच्छ्रेण प्रतिलब्धा । गच्छेदानीं परिणयेति । ततो मृगारेणाग्रामात्येन दिवसतिथिमुहूर्तनक्षत्रप्रतिग्रहं कृत्वा चण्पाम् आगत्य महता श्रीसमुदयेन विशाखस्य परिणीता ।
सा मात्रा गमनदेशकाले शिक्ष्यते । पुत्रि नित्यं त्वया सूर्याचन्द्रमसौ नमस्यौ । अग्निः परिचर्तव्यः । आदर्शो निर्मादयितव्यः । शुक्लानि वासांसि प्रावरितव्यानि । ग्रहीतव्यं न दातव्यम्* । वाणी ( म्स्व् इइ 58 ) रक्षितव्या । न कस्यचिद् उत्थायासनं दातव्यम्* । मिष्टं भोक्तव्यम्* । सुखं स्वप्तव्यम्* । निःश्रेणी बद्धव्येति । ततो मृगारेण श्रुतम्* । स संलक्षयति । इयं दारिका मिथ्यादृष्टिर् ग्राह्यते । अहम् एनां मिथ्यादर्शने विवेच्य सम्यग्दर्शनं ग्राहयिष्यामीति विदित्वा ताम् आदाय संप्रस्थितः ।

ततो ऽस्या माता स्नेहव्याकुलहृदया अश्रुव्याकुलेक्षणा कण्ठे परिष्वज्य सस्वरं रुदन्ती कथयति । पुत्रि इदं ते पश्चिमं दर्शनम् इति । सा ताम् अनुसंज्ञापयन्ती कथयति । अम्ब पृच्छामि । तावत् किं त्वम् अत्र जाताहोस्विज् ज्ञातिगृहे । पुत्रि ज्ञातिगृहे । तत् तव गृहम् आहोस्विद् इदम्* । इदम्* । अहम् अपीह जाता । तत्र मया वस्तव्यम्* । संयोगो नियतं वियोगान्तः । तूष्णींभव । किमर्थं रोदिषि ।
ततो मृगारः स्थलेन संप्रस्थितः । विशाखा स्वामिना सार्धं स्वगृहलब्धेन च परिजनेन नौयानेन संप्रस्थिता । तत्र वडवा अचिरप्रसूता नावम् अधिरोह्यते । किशोरकः स्थले खेदम् ( 253र्1 = ग्ब्म् 6.818 ) आपत्स्यतीति । सा यत्नेनापि नाभिरोहतीति कोलाहलो जातः । विशाखया श्रुतम्* । सा कथयति । किमर्थम् अयं कोलाहल इति । तैर् यथावृत्तम् आख्यातम्* । विशाखा कथयति । किशोरकं पूर्वम् अभिरोहयत स्वयम् अभिरोक्ष्यतीति । तैस् तथा कृतम्* । अभिरूढा । ततो मृगारेण ते पृष्टाः । किमर्थं चिरेण यूयम् आगताः । वडवा ( म्स्व् इइ 59 ) नावं नाभिरोहति । अथ कथम् अभिरूढा । चाण्पेयिकया उपायसंविधानम् आख्यातं किशोरकं पूर्वम् अभिरोहयत । पण्डिता चाण्पेयिका ।
यावद् अन्तर्मार्गो सार्था रात्रिं वासम् उपगताः । मृगारस्य प्राग्भारे शय्या प्रज्ञप्ता । विशाखा दृष्ट्वा पृच्छति । कस्यैषा शय्या । मृगारस्य । अपनयत । किं कारणम्* । यदि सुप्तस्य प्राग्भार उपरि निपतति नियतम् अवष्टब्धः कालं करोति । मम यावज्जीवम् अयशस्यम्* । ईदृशी दारिका परिणीता यद् अन्तर्मार्ग एव श्वशुरः कालगतो गृहम् अपि न संप्राप्त इति । तच् च शयनासनम् अपनीतं प्राग्भारश् च पतितः । समन्तान् महाजनकायः प्रधावितो गृहपतिर् अवष्टब्धः इति । गृहपतिः कथयति । भवन्तो मा बिभीत । इहाहं तिष्ठामि । शय्यां प्रत्यवैक्षन्त । अपनीता शय्या । केन । विशाखया । पण्डिता चाण्पेयिका । पुनर् अपि जीर्णोद्याने वासम् उपगताः । मृगारस्य शून्यदेवकुले शय्या प्रज्ञप्ता । विशाखया दृष्टा । पृच्छति । कस्यैषा शय्या । आर्यस्य । अपनयत । किं कारणाम्* । यदि देवकुलं पतति ततो ऽवष्टब्धः कालं करोति । ननु मे पूर्ववद् यशस्यम्* । सा चापनिता । देवकुलं च पतितम्* । महाजनकायो प्रधावितः पूर्ववद् यावत् पण्डिता चाण्पेयिका ।
यावद् अनुपूर्वेण श्रावस्तीम् अनुप्राप्ता । मार्गश्रमे प्रतिविनोदिते सुहृत्संबन्धिबान्धवजने च प्रेषिते विशाखा स्वकुलानुरूपं गृहे ( म्स्व् इइ 60 ) कर्म कार्यते । मृगारस्य षट् स्नुषा वारेण वारं गृहजनस्य भक्तं संपादयन्ति । विशाखापि तथैव नियुक्ता । त्वयापि सप्तमे दिवसे वारः कर्तव्य इति । तस्या वार आगमिष्यतीति । ये श्वशुरश्वश्रूस्वामिनां गन्धा अवशिष्यन्ते चर्पटिकां कृत्वा प्रतिदिवसं शोषयति । यान् सक्तून् प्रतिदिनं लभते ततः प्रस्थानि विशाखा अपनीय स्थापयति । परिशिष्टं घृतेन मोदयति तत्प्रमाणा एव भवन्ति । मद्यपानागतस् तु श्वो वारो भविष्यतीति । यत् स्वामिनो निर्माल्यम् आत्मनश् च तच्छीतले स्थापितम्* । यावत् प्रभातायां रजन्यां कर्मकराणां आमलकं दत्तं गन्धः पुष्पाणि भोजनं मद्यं च । ते परितुष्टाश् चिरेण वयं पुराणगृहपतिपत्न्या अवलोकिता इति । तैस् तस्मिन् दिवसे द्विगुणं कर्म कृतम्* । यावन् मृगारः कालवेलायां कर्मान्तान् अवलोकयन् पश्यति प्रभूतं कर्म कृतम्* । स पृच्छति । किं युष्माभिर् अपरे भृतकपुरुषा गृहीताः । न । केनचित् को ऽत्र योगो येनाद्य द्विगुणं कर्म कृतम्* । ते कथयन्ति । आर्या यादृशं भक्तं तादृशं कर्म । किम् एतत्* । तैर् यथावृत्तं विस्तरेण समाख्यातम्* । मृगारपुत्रैस् स्वकस्वकानां पत्न्यः ( म्स्व् इइ 61 ) आरोचिताः । ताः कथयन्ति । वयम् अपि गृहाद् अपहृत्य भृतकपुरुषाणां प्रियं कुर्याम । वयम् अप्य् आर्यस्य युष्माकं भृतकपुरुषाणां ( 253व्1 = ग्ब्म् 6.819 ) च प्रिया भवेम यथा विशाखया कृतम्* । ततो मृगारेण विशाखा पृष्टा । पुत्रि कथं त्वया भक्तं प्रतिजागरितम्* । तया विस्तरेण समाख्यातम्* । मृगारस् तुष्टः । तेन सैव गृहव्यापारे नियुक्ता । अन्तर्जनश् च सर्वो ऽभिहितः । यो युष्माकं विशाखया दत्तेन परितुष्यति तेन स्थातव्यम् आनुकूल्येन वा चरितव्यं यावद् असौ गृहस्वामिनी संवृत्ता । साचारविहारतया सौरत्येन च सर्वम् अन्तर्जनं तोषयति । यावद् अपरेण समयेन विशाखाया गृहस्योपरिष्टाद् हंसा उत्तरकुरुद्वीपाद् अकृष्टोप्तं तण्डुलफलशालिम् आदाय संप्रस्थिताः । राज्ञश् च गृहे हंसस् तिष्ठति । तेन तान् दृष्ट्वा कूजितम्* । तैर् अपि समयोनिविश्वासोद्वेगम् असहमानैः कूजितम्* । राज्ञश् चरणकोष्ठे शालिबल्लर्यो निपतिताः । ततो राज्ञो ऽमात्यानाम् एकैका दत्ता । मृगारेण स्वप्रत्यंशो विशाखाया दत्तः । तया समुद्गके स्थापयित्वा कार्षिकाणां आज्ञा दत्ता । ते ऽपि सुतरां परितुष्टाः । तैः क्षेत्रस्तोकं सुपरिकर्षीकृत्य कालं ज्ञात्वा उप्तः । देवः कालवर्षी संवृत्तः । बीजानुरूपा संपत्तिर् जाता । अपरस्मिन् वर्षे प्रभूतं संपन्नम् अपरस्मिन्न् अपि वर्षे प्रभूततरम्* । ( म्स्व् इइ 62 ) एवं यावत् सर्वाणि कोष्ठागाराणि हंसाहृतकुशूलैः {म्स् हंसाहृतकशालैः } परिपूर्णानि । यावद् राज्ञः प्रसेनजितः कोसलस्य ग्लान्यम् उत्पन्नम्* । तेन वैद्या आहूय प्र्ष्टाः । ते कथयन्ति । देव यदि हंसाहृतशालिः संपद्यते तेन मण्डं साधयितुम् अर्हसि । पीत्वा स्वस्थो भविष्यसीति । राज्ञा अमात्या आहूय पृष्टाः । भवन्तो मया युष्माकं हंसाहृतानि शालिशीर्षाणि दत्तानि । तानि युष्माभिः किं कृतानि । तत्र केचित् कथयन्ति । देव अस्माभिर् देवकुले दत्तानीति । अपरे कथयन्ति । अस्माभिर् अग्नौ प्रक्षिप्तानि इति । अपरे कथयन्ति । अस्माभिर् द्वारशालायां बद्धानीति । मृगारः कथयति । देव मया विशाखाया दत्तानि । पृच्छामि तावत् तया किं कृतानीति । तेन विशाखा पृष्टा । सा कथयति । तात किं हंसाहृतशालिना प्रयोजनम्* । राज्ञो ग्लान्यम् उत्पन्नम्* । वैद्यैर् हंसाहृता शालिर् व्यपदिष्टा । ततो विशाखया सौवर्णं भाजनं हंसाहृतस्य तण्डुलस्य मण्डेन पूरयित्वा राज्ञः प्रेषितम्* । राज्ञा परिभुक्तम्* । स्वस्थीभूतः ।

अपरेण समयेन जानपदैः राज्ञे बडवाद्वयं प्रेषितम्* । माता च दुहिता च । तत्र न कश्चिज् जानीते कतरा माता कतरा दुहिता इति । राज्ञा अमात्यानाम् आज्ञा दत्ता । भवन्तः सुविचारितं कृत्वा मम निवेदयत इति । अमात्याः सकलदिवसं विचारयन्तः खिन्नाः । न निर्लोडितम्* । मृगारश् चिरकाले गृहं गतः । विशाखा ( म्स्व् इइ 63 ) पादयोर् निपत्य कथयति । तात किम् अद्य चिरेणागतः । तेन यथावृत्तं विस्तरेण समाख्यातम्* । विशाखा कथयति । तात किम् अत्र ज्ञातव्यम्* । ताभ्यां योग्याशनं समं देयम्* । या दुहिता सा शीघ्रं भक्षयित्वा मातुः प्रत्यंशं भक्षयिष्यति । या माता अपरिपन्थिनी मुखं निक्षिप्य स्थास्यति । एतच् चिह्नम् इति । मृगारेण अमात्यानां निवेदितम्* । तैर् अपि यथा समादिष्टा परीक्षा कृता । ततः प्रभातायां रजन्यां राज्ञे निवेदितम्* । देव ( 254र्1 = ग्ब्म् 6.820 ) इयं माता इयं दुहिता इति । राजा कथयति । कथं युष्माभिः परिज्ञातम्* । देव एवं चैवं च । ह्यस्तनिके न परिज्ञातम्* । देव का शक्तिर् अस्माकं परिज्ञातुम्* । विशाखया एवं संदिष्टम्* । राजा कथयति । पण्डिता चाण्पेयिकेति ।
अन्यतमः पुरुषस् तीर्थे कम्बलं स्थापयित्वा स्नाति । अन्यतमश् च पुरुष आगतः । स तेन कम्बलेन शिरो वेष्टयित्वा तत्रैव स्नातुम् आरब्धः । स पुरुषः स्नात्वोत्थितो न पश्यति कम्बलम्* । पुरुषः कथयति । भोः पुरुष किं समन्वेषसे । कम्बलम्* । कुतस् तव कम्बलम्* । स्याद् यथाहं शिरो वेष्टयित्वावतीर्णस् तथा त्वम् अप्य् अवतीर्णः स्या इति । स कथयति । एष एवासौ मदीयः कम्बलः । त्वदीयो मदीय इति तयोर् विवादो जातः । तौ राज्ञः सकाशं गतौ । राज्ञा अमात्यानाम् आज्ञा दत्ता । भवन्तः परीक्षित्वा यस्य सन्तकस् तस्यानुप्रयच्छत ( म्स्व् इइ 64 ) इति । ते परीक्षितुम् आरब्धाः । एकः पृष्टः । स कथयति मदीय इति । अपरः पृष्टः । स कथयति मदीय इति । त्वदीयो मदीय इति दिवसो ऽतिक्रान्तः । अमात्याः खिन्नाश् चिरकाले अनिर्लोडयित्वैव गृहं गताः । विशाखया मृगारः पूर्ववत् पृष्टः । तेन यथावृत्तम् आरोचितम्* । विशाखा कथयति । तात किम् अत्र ज्ञातव्यम्* । तौ वक्तव्यौ । एको ऽपि अर्धं गृह्णात्व् अपरो ऽप्य् अर्धम् इति । यस्य सन्तकः स वक्ष्यति । किमर्थं मदीयः कम्बलश् छिद्यते इति । यस्य न सन्तकः स संलक्षयिष्यत्य् अर्धम् अपि तावन् मे भवतु । को ऽत्र मम व्यय इत्य् एषात्र परीक्षा इति । मृगारेण गत्वा अमात्यानां निवेदितम्* । देव पूर्ववद् यावद् राजा कथयति । पण्डिता चाण्पेयिकेति ।
राज्ञो यानपात्रकेण वणिजा चन्दनगण्डीरकः प्रावृतो ऽनुप्रेषितः । तस्य न विज्ञायते कतरद् अग्रं कतरन् मूलम् इति । राजा अमात्यानाम् आज्ञा दत्ता । विचारयथ इति । तैः कृत्स्नं दिवसं विचारितम्* । न परिज्ञातम्* । चिरकाले गृहं गताः । विशाखया पूर्ववद् यावन् मृगारः पृष्टः । तेन यथावृत्तं विस्तरेण समाक्यातम्* । विशाखा कथयति । तात किम् अत्र ज्ञातव्यम्* । उदके प्रक्षेप्तव्यः । यन् मूलं तद् अधस्ताद् भवति । यद् अग्रं तद् उपरिष्टाद् भवति । एषा तत्र परीक्षेति । मृगारेण अमात्यानां निवेदितम्* । पूर्ववद् यावद् राजा कथयति । पण्डिता चाण्पेयिकेति ।
अन्यतमस्मिन् कर्वटके गृहपतिः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । तस्य न पुत्रो न दुहिता । तेन पुत्राभिनन्दिना द्वितीया पत्नी आनीता । तस्याः प्रथमपत्न्या ईर्य्षाप्रकृत्या योनिविनाशनप्रयोगो दत्तः । तस्याः सुतरां योनिर् विशुद्धा आपन्नसत्वा संवृत्ता । यावन् नवानां मासानाम् अत्ययात् प्रसूता । दारको जातः । सा संलक्षयति । प्रतिक्रुष्टम् एतद् वैराणां यदुत सापत्नकम्* । नियतम् एनम् अपरा माता येन वा तेन वोपायेन घातयति । किं मम स्वामी करिष्यति । किं वा अहम्* । कियन्तं च कालं रक्षितव्यः । सर्वथा अस्या एव दातव्य इति तया स्वामिना सह संप्रधार्य लब्धानुज्ञया सा प्रथमपत्नी उक्ता । भगिनि तवैवैष पुत्रो दत्तो मया । संवर्धय एनम् इति । सा संलक्षयति । यस्याः पुत्रस् तस्या गृहम्* । संवर्धयामि । गृहस्वामिनी भविष्यामीति । ( 254व्1 = ग्ब्म् 6.821 ) स तया संवर्धितः । पिता चास्य कालगतः । तयोर् गृहनिमित्तं विवादो जातः । एका कथयति । ममैव पुत्रो द्वितीया कथयति ममैष पुत्र इति । ते राज्ञः सकाशं गते । राज्ञा अमात्यानाम् आज्ञा दत्ता । गच्छत भवन्तो विचारयथेति । तेषां विचारयतां दिवसो ऽतिक्रान्तो न निर्लोडितम्* । चिरकाले गृहं गताः । विशाखा मृगारं पृच्छति । पूर्ववद् यावत् किम् अत्र ज्ञातव्यम्* । ते वक्तव्ये न वयं जानीमः कस्य पुत्र इति या युवयोर् बलवती सा गृहीत्वा गच्छतु । ते बाहुद्वयेन गृहीत्वा आकर्क्ष्यतः । स दुःख्यमानो ( म्स्व् इइ 66 ) रोदिष्यति । यास्य माता सा सानुनया प्रतिमोक्ष्यति । जीवन्तम् अपि तावद् एनं द्रक्षामीति । सान्या निर्दया न प्रतिमोक्ष्यति । यदा कषाभिस् ताडिता भवति तदा यथाभूतं करिष्यति । इयम् अत्र परीक्षेति । मृगारेणामात्यानाम् एवं निवेदितम्* । पूर्ववद् यावद् राजा कथयति । पण्डिता चाण्पेयिकेति ।
अथापरेण समयेन मृगारो ग्लानिपतितः । तस्य वैद्य एकं दिवसं भैषज्यं ददाति पुनर् ग्लानो भवति । विशाखा संलक्षयति । किमर्थं तात एकस्मिन् दिवसे स्वस्थो भवति द्वितीये दिवसे पुनर् ग्लानो भवति । यैर् भैषज्यैः स्वस्थो भवति तानि निमित्तीकृतानि । ततस् तया वैद्यानां द्वारं धारयित्वा स्वयम् एव चिकित्सा कृता । स्वस्थीभूतः । मृगारः संलक्षयति । को ऽत्र योगो येनाहम् एकस्मिन् दिवसे स्वस्थो भवाम्य् एकस्मिन् ग्लानः । यदा वैद्यो न प्रविशति तदा नित्यम् एव स्वस्थ इति । तेन विशाखा पृष्टा । पूर्ववद् यावत् पण्डिता चाण्पेयिका ।

राज्ञः प्रसेनजितः कोसलस्य श्रीवर्धनो नाम हस्तिविश्वासिकः । सो ऽपरेण समयेन राज्ञा अवसादितः । विशाखया श्रुतम्* । तया मृगार उक्तः । तात सर्वेषाम् अमात्यानाम् अन्त्यम् अवसादनम्* । अर्हसि श्रीवर्धनस्य देवं क्षमयितुम्* । स कथयति । पुत्रि क्षमयामि । ततस् तेन राजाभिहितः । देव श्रीवर्धनो देवस्य भक्तः । क्षम्यताम् ( म्स्व् इइ 67 ) अस्येति । राजा कथयति । क्षान्तम्* । देव यदि क्षान्तं तान्य् अस्य वृत्तिपदानि दीयन्ताम्* । एवं भवतु । दत्तानि । श्रीवर्धनेन विज्ञातं यथा विशाखया मम राजा क्षमापित इति । स तस्याः प्रत्युपकारबुद्ध्या स्थितः । अपरेण समयेन मृगारस्य पुरुषव्याधिर् उत्पन्नः । विशाखा अस्योपस्थानं करोति । स जिह्रेति । सा कथयति । तात किमर्थं जिह्रेषि । किं न दुहिता पितुर् उपस्थानं करोति । तथाप्य् असौ जिह्रेति । सा संलक्षयति । नायं ममान्तिकाद् उपस्थानं स्वीकरोति । दारसंग्रहम् अस्य करोमीति । सा श्रीवर्धनस्य गृहं गता । तेन स्वागतवादेन समुदाचरित्वा आसनं दत्तम्* । निषण्णा श्रीवर्धनस्य दुहिता । सा तेनोक्ता । दारिके विशाखापादयोः गृहाणेति । विशाखा कथयति । स्थानम् एतद् विद्यते यन् मयैवैषा पादयोर् ग्रहीतव्या भवतीत्य् उक्त्वा कथयति । स्वस्ति सुते इति । श्रीवर्धनः कथयति । किं प्रार्थयसे । कन्याभिक्षाम्* । कस्यार्थाय । सा कथयति । तातस्य । स तूष्णीम् अवस्थितः । श्रीवर्धनस्य पत्नी कथयति । वृद्धः । कथं तस्य दीयत इति । विशाखा कथयति । धनयौवने हि पुरुषाः । किं विचारेण दीयताम् इति । श्रीवर्धनः कथयति । भद्रे अस्माकं विशाखोपकारिणी । दीयताम्* । यद्य् एवं दत्ता भवतु । ततो ( 255र्1 = ग्ब्म् 6.822 ) मृगारेण महता श्रीसमुदयेन परिणीता । सा तस्योपस्थानं कर्तुं प्रवृत्ता । विशाखा न तथा ।
मृगारः कथयति । पुत्रि वाचम् अनुप्रयच्छेति । सा कथयति । सा कथयति । तात मा किञ्चित् परिहीयते । पुत्रि यस् त्वं मात्रा ( म्स्व् इइ 68 ) शिक्षिता तन् न किञ्चित् समादाय वर्तसे । तात सर्वं समादाय वर्ते । यत् कथयति सूर्याचन्द्रमसौ नमस्याव् इति । दारिकायाः सूर्याचन्द्रमसःस्थानीयौ श्वश्रूश्वशुरौ । तान् अहं नमस्यामि । यत् कथयति अग्निः परिचर्तव्य इति । स्त्रिया भर्ताग्निस्थानीयः । भर्तुर् आसन्नया भवितव्यम्* । नातिदूरस्थया । साहं स्वामिनम् अग्निवत् परिचरामि । यत् कथयत्य् आदर्शो निर्मादयितव्य इति । तद् गृहम् आदर्शस्थानीयं नित्यम् उपलेप्तव्यं संमार्ष्टव्यं च । तद् अहं गृहसंस्कारम् अनुदिवसं करोम्य् एव । यत् कथयति शुक्लानि वासांसि प्रावरितव्यानीति । अन्यैर् वस्त्रैर् गृहपरिकर्म कर्तव्यम्* । शुक्लानि वस्त्राणि प्रावृत्य देवशुश्रूषा कर्तव्या स्वाभिसंस्कारं चोपसंक्रम्यम् इति । एतद् अप्य् अहं करोम्य् एव । यत् कथयति ग्रहीतव्यं न दातव्यम् इति । किं ग्रहीतव्यम्* । लोकसकाशाद् दुरुक्तवचनानि । न च किञ्चिद् दुरुक्तं वचनीयम्* । एतद् अप्य् अहं समादाय वर्ते । यत् कथयति वाणी रक्षितव्येति । गुह्यवचनं न प्रकटीकर्तव्यम्* । तन् मे वाक्संयमो ऽस्त्य् एव । यत् कथयति न कस्यचिद् उत्थायासनं दातव्यम् इति । एवं कथयति । त्वं कुलवधू त्वया प्रतिगुप्ते स्थाने निषेत्तव्यम्* । साहं प्रतिगुप्त एव निषीदामि । यत् कथयति मृष्टं भोक्तव्यम् इति । सुबुभुक्षितया भोक्तव्यम् इति । साहं नित्यं गृहजने भुक्ते बुभुक्षिता च भुंजे । यत् कथयति सुखं शयितव्यम् इति । सर्वं गृहकार्यं कृत्वा रात्रौ भाण्डं प्रतिशाम्य शय्या ते कल्पयितव्या यथा ( म्स्व् इइ 69 ) न पुनर् उत्तिष्ठसि इदं सुनिहितम् इदं दुर्निहितम् इति । तद् अहम् एवम् एव करोमि । यत् कथयति निःश्रेणी बद्धव्येति । एवं कथयति । त्वं पूर्वकैर् दशभिः कर्मपथैः समन्वागता येन देवगतिं प्राप्य इह मनुष्यलोके उपपन्ना । तद् इयं कर्मभूमिः । इहापि त्वया दानानि दातव्यानि पुण्यानि कर्तव्यानि पापं न करणीयम्* । एषापि पुण्यमयी निःश्रेणी स्वर्गसोपानभूतेति । एतद् अप्य् अहं शक्त्या संपादयामि । साधु साधु विशाखे । पण्डिता तव माता । त्वं तु पण्डिततरा यया मातुः सन्धाय भाषितं विज्ञातम्* ।
अथ मृगारस्यैतद् अभवत्* । यदि भगवान् अनुजानीयाद् अहं विशाखां मातरं घोषयेयम् इति विदित्वा येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् इदम् अवोचत्* । लभ्यं भदन्त स्नुषां मातरं घोषयितुम् इति । भगवान् आह । सचेत् पंचभिर् धर्मैः समन्वागतो भवति । कतमैः पंचभिः । ग्लानम् उपतिष्ठति । प्रतिरूपेषु दारेषु प्रतिष्ठापयति । जीवितेनाच्छादयति । धनं रक्षति । प्रज्ञया च संविधानं करोति ।
अन्तरोद्दानम्* ।
ग्लानोपस्थानं दारा च जीवितस्य धनस्य च ।
प्रज्ञया उपसंहर्षी पञ्चैता मातरः स्मृताः ॥
अथ मृगारो येन राजा प्रसेनजित् कोसलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं कोसलम् इदम् अवोचत्* । इच्छाम्य् अहं ( म्स्व् इइ 70 ) देव विशाखां मातरम् उद्घोषयितुम्* । राजा कथयति । ममापि विशाखयोपस्थानं कृतम् अहम् अप्य् आर्यकां पृष्ट्वा तां भगिनीम् ( 255व्1 = ग्ब्म् 6.823 ) उद्घोषयामि । तेनार्यका पृष्टा । सा कथयति । उद्घोषय मा वा । भगिन्य् एवासौ । कथं कृत्वा । पुरानु ब्रह्मदत्तो ऽस्य {एद्. ब्रह्मत्तो ऽस्य ; म्स्: अराडब्रह्मदत्तस्य ; भ्स्द् स्.व्. पुराण } प्रेष्यदारिकया सार्धं संवासं गतः । तस्याः पुत्रो जातः । तस्य बलमित्र इति नाम कृतम्* । स वृद्धराजेन कस्मिंश्चिद् एवाधिकरणे प्रवासितः । चण्पां गत्वावस्थितः । तस्यासौ दुहिता । तव भगिनी भवति । ततो राज्ञा हस्तिस्कन्धे आरोप्य उद्घोषिता । इयं विशाखा मृगारस्य माता । राज्ञः प्रसेनजितो भगिनीति । तया पूर्वारामे विहारं कारयित्वा चातुर्दिशाय भिक्षुसंघाय निर्यातितम्* । तथा स्थविरैर् अपि सूत्रान्त उपनिबद्धम्* । भगवान् श्रावस्त्यां विहरति पूर्वारामे मृगारमातुः प्रासाद इति ।

अपरेण समयेन विशाखा द्वात्रिंशद् अण्डानि प्रसूता । मृगारः श्रुत्वा करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । जनपदकल्याणी कीदृशो ऽनर्थः प्रादुर्भूत इति । मृगारस् तानि च्छोरयितुम् आरब्धः । विशाखा कथयति । तात मा च्छोरय । भगवतस् तावद् आरोचयेति । तेन भगवत आरोचितम्* । भगवान् आह । मा च्छोरयेति । तद् द्वात्रिंशत् पुटं ( म्स्व् इइ 71 ) कच्छपुटं कारयित्वा कुलस्योपरि एकैकम् अण्डं प्रत्येकं पुटेषु स्थापयेति । विशाखां च वद । त्रिष्कालं पाणिना परामृष । सप्तमे दिवसे स्फुटिष्यन्ति । द्वात्रिंशत् कुमारा भविष्यन्तीति । तेन तथा कृतम्* । सप्तमे दिवसे स्फुटितानि । द्वात्रिंशत् कुमारा जाताः । उन्नीता वर्धिता महान्तः संवृत्ता व्याडविक्रान्ताः । अपरेण समयेन ते रथाभिरूढा बहिर् निर्गताः प्रविशन्ति । पुरोहितपुत्रश् च रथाभिरूढो निर्गच्छति । यावद् अन्योन्यधुरातुण्डो लग्नः । पुरोहितपुत्रः कथयति । अपनयतेति । ते ऽपि कथयन्ति । त्वम् एवापनयेति । पुरोहितपुत्रो ऽहम् इति पुरुषं वक्तुम् आरब्धः । ततो विशाखापुत्रैः धुरातुण्डकेन गृहीत्वा क्षिप्तः । संकारकूटे पतितः । स भस्मावगुण्ठितशिराः पितुः सकाशं गतः । अश्रुपर्याकुलेक्षणः कथयति । तात विशाखापुत्रैर् मम ईदृशी समवस्था कृतेति । पुत्र किमर्थम्* । तेन विस्तरेण समाख्यातम्* । स कथयति । पुत्र यद्य् एवं क्रमघात्यास् ते । मा शोकं कुरु । उपायसंविधानं करिष्यामि । स तेषां रन्ध्रान्वेषणतत्परो व्यवस्थितः । अपरेण समयेन राज्ञः प्रसेनजितः कोसलस्य कार्वटिको विरुद्धः । तस्य राज्ञा एकं दण्डस्थानं प्रेषितम्* । हतप्रहतम् आगतम्* । एवं यावत् सप्तदण्डस्थानानि हतप्रत्याहतानि । राजा स्वयम् एव चतुरंगेण बलकायेन निर्गच्छति । ( म्स्व् इइ 72 ) विशाखापुत्राश् च प्रविशन्ति । तैर् असौ दृष्ट उक्तश् च । देवः संप्रस्थित कार्वटिकां सन्नामयितुम् इति । तिष्ठतु देव । वयं गच्छामः । एवं कुरुथेति । तेन तेषां चतुरङ्गो बलकायो दत्तस् तैर् गत्वासौ कार्वटिकः सन्नामितः । वन्दिग्रहकरप्रात्यायांश् च गृहीत्वा आगताः । पुरोहितः कथयति । देव एते अतीव विक्रान्ताः । यद् देवस्य कृच्छ्रसाध्यं तद् एषाम् अल्पसाध्यम्* । देवेनैतच् चिन्तनीयम् इति । काकशंकिनो हि राजानः । तत्* हृदि कृत्वा व्यवस्थितः । पुनः ( 256र्1 = ग्ब्म् 6.824 ) पुरोहितं पृच्छति । कथम् अत्र प्रतिपत्तव्यम्* । स कथयति । देव किम् अत्र प्रतिपत्तव्यम्* । यद्य् एषाम् अभिरुचितं देवं राज्याच् च्यावयित्वा स्वयम् एव राज्यं कारयन्ति । राजा सुतरां खिन्नः संलक्षयति । स्याद् एवम्* । कथं घातयितव्य इत्य् उपायसंविधानं चिन्तयति । न कंचित् पृच्छति । मा मन्त्रस्रावो भविष्यतीति स्वयम् एवास्य विचारयतो बुद्धिर् उत्पन्ना । इहैवोपनिमन्त्र्य घातयितव्या इति । तेन विशाखाया सन्दिष्टम्* । भागिनेयैश् च इह भोक्तव्यम् इति । सा संलक्षयति । श्वो दारका मातुलस्य सकाशे भोक्ष्यन्ते । अहम् अपि बुद्धप्रमुखं भिक्षुसंघं भोजयामीति विदित्वा येन भगवांस् तेनोपसंक्रान्ता । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा । एकान्तनिषण्णां विशाखां मृगारमातरं भगवान् धर्म्यया कथया पूर्ववद् यावत् संप्रहर्ष्य तूष्णीं भूतः । अथ विशाखा मृगारमाता उत्थायासनाद् येन भगवांस् तेनांजलिं प्रणम्य भगवन्तम् ( म्स्व् इइ 73 ) इदम् अवोचत्* । अधिवासयतु मे भगवान् पूर्ववद् यावत् पुरस्ताद् भिक्षुसंघस्य । प्रज्ञप्त एवासने निषण्णा । तेषां च राज्ञः सकाशाद् दूत आगतः । दारका आगच्छन्त्व् इति । ततो राज्ञा हालाहलेन विषेण च सहयोगेन विह्वलीकृताः । शिरांसि छिन्नानि । ततः पेडां पूरयित्वा ज्येष्ठपुत्रस्य शिर उपरि दत्वा जतुमुद्रया लक्षयित्वा विशाखायाः प्रेषिताः । विशाखा संलक्षयति । नूनं देवेन भागिनेयानाम् आच्छादनं प्रेषितम्* । अहम् अपि बुद्धप्रमुखं भिक्षुसंघम् आच्छादयामीति । ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन पूर्ववद् यावद् भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं पेडाम् उद्धाटयितुम् आरब्धा । भगवान् संलक्षयति । सचेद् विशाखा अदृष्टसत्या पुत्रबधं द्रक्ष्यति स्थानम् एतद् विद्यते यत् सत्यानाम् अभाजनीभविष्यतीति विदित्वा विशाखाम् आह । निषीद तावद् धर्मं शृणु । पश्चाद् यथाभिप्रेतं करिष्यसीति । सा भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च जात्वा पूर्ववद् यावत् सत्यदर्शनं कृतम्* । ततो दृष्टसत्या सा पेडाम् उद्धाटित्वा पश्यति पुत्रशिरांसि । ततः कथयति । भगवन् एवम् अनित्याः सर्वसंस्कारा इति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । हंभो भिक्षवो राजा प्रसेनजित् कोसलो येन विशाखायाः पुत्राः प्रघातिताः । ते चेन् न ( म्स्व् इइ 74 ) प्रघातिताः स्युः । एभिर् एव सहायैः कृत्स्ना तेन वसुमती करतले स्थापिता स्याद् इति ।

अथ राजा प्रसेनजित् कोसलो रजसावचूर्णितगात्रो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णं राजानं प्रसेनजितं कोसलं भगवान् इदम् अवोचत्* । कुतस् त्वं महाराजैतर्ह्य् आगच्छसि रजसावचूर्णितगात्रः । यानि तानि भदन्त राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यस्था म वीर्यम् अनुप्राप्तानां महान्तं पृथिवीमण्डलम् अभिनिर्जित्याध्यावसतां ( 256व्1 = ग्ब्म् 6.825 ) पृथग्भवन्ति राजकृत्यानि राजकरणीयानि तान्य् अहं कृत्वा परिप्राप्य एतर्ह्य् आगच्छामि रजसावचूर्णितगात्रः । तेन हि महाराज त्वाम् एव प्रक्ष्यामि । यथा ते क्षमते तथैनं व्याकुरु । तद्यथा महाराज इह ते पूर्वस्यां दिशि पुरुष आगच्छेच् छ्रद्धितः प्रत्ययितः स्थेय अविसंवादितो लोकस्य । स एवं वदेत् । ततो ऽहं तवैतर्ह्य् अगच्छामि पूर्वस्याम् दिशि । सो ऽहं तत्राप्राक्षम्* । महाशैलं पर्वतम् अखण्डम् अछिद्रम् असुषिरं सुसंवृत्तम् एकघनं यावच् च पृथिवी यावच् च नभो ऽत्रान्तरे सर्वान् सत्वान् सर्वान् प्राणिनः सर्वाणि भूतानि सर्वं च तृणकाष्ठशाखापर्णशदम् ( म्स्व् इइ 75 ) अभिनिष्पेषयन्न् आगच्छति {म्स्: अभिनिष्पीषं नागच्छन्ति} । यत् ते देव कृत्यं वा करणीयं वा तत् कुरुष्वेति । एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां दिशि पुरुष आगच्छेत्* । पूर्ववद् यत् कृत्यं वा करणीयं वा तत् कुरुष्वेति । एवं भूपते महाराज महति महाभये प्रत्युपस्थिते दारुणे पुरुषसंक्षये दुर्लभे मनुष्यप्रतिलंभे किं स्यात् करणीयम्* । एवं रूपे मे भदन्त महति महाभये प्रत्युपस्थिते दारुणे पुरुषसंक्षये दुर्लभे मनुष्यप्रतिलंभे किं स्यात् करणीयं नान्यत्रार्थचर्यायां धर्मचर्यायां पुण्यचर्यायां कुशलचर्यायां कल्याणचर्यायां बुद्धानां च शासने योगम् आपत्तुम्* । कस्मात् त्वं महाराज एवं वदसि । एवं रूपे मे महति महाभये पूर्ववद् यावद् बुद्धानां शासने योगम् आपत्तुम् इति । यानि तानि भदन्त राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश् चर्यस्था म वीर्यम् अनुप्राप्तानां महान्तं पृथिवीमण्डलम् अभिनिर्जित्याध्यावसतां पृथग्भवन्ति हस्तिभिर् हस्तियुद्धान्य् अश्वैर् अश्वयुद्धानि रथै रथयुद्धानि पत्तिभिः पत्तियुद्धानि मन्त्रैर् मन्त्रयुद्धानि धनैर् धनयुद्धानि । तानि तेषां तस्मिन् समये अस्थामान्य् अबलान्य् अपराक्रमाणि युद्धाय । तस्माद् अहम् एवं वदामि । एवं रूपे मे भदन्त महति महाभये प्रत्युपस्थिते पूर्ववद् यावद् बुद्धानां ( म्स्व् इइ 76 ) शासने योगम् आपत्तुम् इति । एवम् एव महाराज सततसमितम् अभिमर्दत एव प्राणिनो जरामरणम्* । एवं जरामरणाभिमर्दनेन महाराज पुरुषपुद्गलेन किञ्चित् स्यात् करणीयं नान्यत्रार्थचर्यायाः पूर्ववद् यावद् बुद्धानां शासने योगम् आपत्तुम् इति विदित्वा तस्यां वेलायां गाथां भाषते ।
यथा महान्तो विपुला नभ आसाद्य पर्वताः
महान्ताद् अनुसंयान्ति निष्पीषन्तो वसुन्धराम्* ।
न तत्र हस्तिनां भूमिर् न पत्तिरथवाजिनाम्*
न चापि मन्त्रयुद्धेन जयो लभ्यो धनेन वा ॥
एवं जरा च मृत्युश् च मनुष्यान् अभिमर्दति ।
क्षत्रियान् ब्राह्मणान् वैश्याञ् छूद्रांश् चण्डालपुक्वसान्* ।
दुःशीलाञ् छीलसंयुक्तान् गृहस्थान् गृहिणस् तथा ।
दहरांश् चैव वृद्धांश् च तथा मध्यमपौरुषान्* ॥
विमर्दयति सर्वान् हि न किञ्चिद् अनुरक्षति ।
तस्माद् धि पण्डितः पोषः संपश्यन्न् अर्थम् आत्मनः ।
बुद्धे निवेशयेच् छ्रद्धां धर्मे संघे चाप्य् अनुत्तरे ॥
स धर्मचारी कायेन वाचा वाप्य् अथ चेतसा ।
इह चानिन्दितो भवति प्रेत्य स्वर्गो च मोदते ॥
अथ राजा प्रसेनजित् कोसलो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ।
भिक्षवो संशयजाताः ( 257र्1 = ग्ब्म् 6.826 ) सर्वसंशयछेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त विशाखया मृगारमात्रा कर्म कृतम्* । यस्य कर्मणो विपाकेन द्वात्रिंशदण्डाः प्रसूताः । तेन द्वात्रिंशत् पुत्रा जाता व्याडा विक्रान्ताः संवृत्ता इति । भगवान् आह प्रणिधानवशात्* । कुत्र प्रणिधानं कृतम्* ।
भूतपूर्वं भिक्षवो वाराणस्यां नगर्याम् अन्यतमो गृहपतिपुत्रः कालगतः । तस्य सा पत्नी नित्यं पुत्राभिनन्दिनी । यदा भगवान् काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपाधिशेषे निर्वाणधातौ परिनिर्वृतः । तस्मिंश् च समये वाराणस्यां कृकिर् नाम राजा बभूव । तेन भगवतः काश्यपस्य सम्यक्संबुद्धस्य चतूरत्नमयस्तूपः प्रतिष्ठापितः । तत्र या सा अपुत्रा युवतिः पुत्राभिनन्दिनी सा वृद्धा संवृत्ता । तस्मिन् स्तूपे परिकर्म कृत्वा तिष्ठति । तया छन्दकभिक्षणं कृत्वा तस्मिन् स्तूपे पूजा कृता प्रणिधानं च । यन् मया भगवतः काश्यपस्य सम्यक्संबुद्धस्य सत् काराः कृताः । अनेन मम कुशलमूलेन बहवः पुत्रा भवेयुर् इति कृत्वा प्रक्रान्ता नगरं प्रविष्टा । तत्रान्यतरा स्त्री प्रसूयमाना दुःखवेदनाभ्याहता विरौति । तया अपरा पृष्टा । किमर्थम् एषा विरौति । तया यथावृत्तम् आरोचितम्* । सा संलक्षयति । ( म्स्व् इइ 78 ) यद्य् अहं प्रसूता भवेयम् अहम् अप्य् एवंविधं दुःखम् अनुभवेयम्* । यावत् पुनर् अपि द्वात्रिंशता गोष्ठिकैस् तस्मिन् स्तूपे पूजा कृता । सा युवतिस् तत्र सन्निहितैव । पूजां कृत्वा प्रणिधानं कृतम्* । अनेन वयं कुशलमूलेन महान्तो ऽग्रबलिनः स्याम । ते तया पृष्टाः । पुत्राः किं युष्माभिः प्रणिधानं कृतम्* । ते कथयन्ति अम्ब इदं चेदं च । सा कथयति । पुत्राः यद्य् एवम् अहम् एव युष्माकं माता भवेयम्* । ते कथयन्ति । अम्ब एवं भवत्व् इति । इत्य् उक्त्वा ते प्रक्रान्ताः । सा संलक्षयति । सा तावत् स्त्री एकवारं प्रसूयमाना दुःखवेदनाभ्याहता तथा विरौति अहं पुनर् द्वात्रिंशद् वारान् प्रसूयमाना कथं करिष्यामि इति । सा चैवं विकल्पयति । स्तूपसमीपे कुक्कुटी प्रसूता । सा मुहूर्तमात्रेण द्वात्रिंशदण्डानि प्रसुता न च विरौति । सा संलक्षयति । अयं शोभनप्रसवनोपाय इति विदित्वा तस्मिन् स्तूपे तीव्रेण प्रसादेन निपत्य प्रणिधानं कर्तुम् आरब्धा यथेयं कुक्कुटी मुहूर्तमात्रेण द्वात्रिंशदण्डानि प्रसूता एवम् एव अहम् अपि सकृद् द्वात्रिंशदण्डानि प्रसूयेयेति ।
किं मन्यध्वे भिक्षवः । या सा वृद्धा युवतिर् एषैव सा विशाखा । तेन कालेन तेन समयेन ये ते द्वात्रिंशद् गोष्ठिका एत एव ते द्वात्रिंशद् विशाखापुत्राः । यद् अनया तत्र प्रणिधानं कृतं तस्य कर्मणो विपाकेन द्वात्रिंशदण्डानि प्रसूतानि ।
किं भदन्त विशाखापुत्रैः कर्म कृतं यस्य कर्मणो विपाकेन अदूष्यनपकारिणो राज्ञा प्रसेनजिता प्रघातिताः । तेषां च शिरांसि ( म्स्व् इइ 79 ) पेडायां प्रक्षिप्य विशाखाया उपनामितानि । भगवान् आह । एभिर् एव भिक्षवः कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* ।

भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके शौण्डिकः प्रतिवसति । संबहुलाश् ( 257व्1 = ग्ब्म् 6.827 ) चौरा मद्यं पर्येषमाणाः तस्य सकाशम् उपसंक्रान्ताः । अस्ति मद्यम् इति पृच्छन्ति । शौण्डिकपत्न्याभिहिता अस्तीति । तेषां मद्यं दत्तम्* । अवद्रगो नास्ति । तया वृषो दर्शितः । एतं प्रघातयत । ते कथयन्ति । शस्त्रं नास्ति । तया बन्धकं गृहीतम्* । शस्त्रं दत्तम्* । ते तं प्रघातयितुम् आरब्धाः । स हन्यमानश् चेतनां पुष्णाति । यद् अहं घात्ये तत् सर्वम् अनया शौण्डिकपत्न्या । तत्रोपपद्ये ऽहं यत्रैषां शिरांसि छित्वा पेडायां पूरयित्वा एतस्यां प्रेषयेयम् इति ।
किं मन्यध्वे भिक्षवः । यो ऽसौ वृष एष एवासौ राजा प्रसेनजित् कोसलः तेन कालेन तेन समयेन । ये ते चौरा एत एव ते विशाखापुत्राः । या सा शौण्डिकपत्नी एषैव सा विशाखा तेन कालेन तेन समयेन इति विस्तरः ।
बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे । तेन खलु समयेन पञ्चाभिज्ञस्य ऋषेर् आश्रमपदम्* । तेन तस्मिन् पर्यटता आश्रमपदस्य नातिदूरे चिरंखले भूप्रदेशे प्रस्रावः कृतः । दैवयोगात् तृषार्ता मृगी तं प्रदेशम् अनुप्राप्ता । तयासौ तृष्णार्तया पीतः ( म्स्व् इइ 80 ) स्त्रीन्द्रियं च घ्रातम्* । अचिन्त्यः सत्वानां कर्मविपाकः । आपन्नसत्वा संवृत्ता । यावद् अपरेण समयेन तस्मिन्न् एव प्रदेशे आगत्य प्रसूता । दारको जातः । सा तं घ्रात्वा विसभागसत्व इति छोरयित्वा प्रक्रान्ता । यावत् तेन ऋषिणा तद् आश्रमं पर्यटता स दारको दृष्टः । स समन्वाहर्तुं प्रवृत्तः कस्यायं पुत्र इति । यावत् पश्यत्य् आत्मानम्* । तेनासौ आश्रमपदं प्रवेशित आपायितः पोषितः संवर्धितः । तस्य मृगस्य यादृशं शिर इति मृगशिरो मृगशिर इति संज्ञा संवृत्ता । अपरेण समयेन स ऋषिः कालगतः । मृगशिरसा कपालाकोटनी विद्या शिक्षिता । स कपालम् आकोट्य सर्वं व्याकरोति । यदि तावत् खंखटस्वरो भवति ऊर्ध्वगामी भवति देवोपपत्तिं व्याकरोति । अथ मध्यो भवति ऊर्ध्वगामी भवति मनुष्योपपत्तिं व्याकरोति । एतत् सुगतिनिमित्तम्* । अथ दुर्गतिनिमित्तम्* । यदि तावद् गद्गदस्वरो भवति अधोगामी भवति नरकोपपत्तिं व्याकरोति । अथ मध्यस्वरो भवति अधोगामी भवति तिर्यगुपपत्तिं । अथ मृदुस्वरो ऽधोगामी भवति प्रेतोपपत्तिम्* ।
ततो भगवता तस्य विनयकालं ज्ञात्वा आयुष्मान् आनन्द उक्तः । गच्छानन्द चत्वारि शिरांस्य् आधाय स्रोतआपन्नस्य सकृदागामिनो ऽनागामिनो ऽर्हतश् चेति । एवं भदन्तेत्य् अयुष्मान् आनन्दो भगवतः प्रतिश्रुतः । चत्वारि शिरांस्य् आधाय तस्य ऋषेः सकाशं गतः । व्याकुरुष्वेति । स स्रोतआपन्नस्येति कपालम् आकोट्य कथयत्य् अयं देवेषूपपन्नः । सकृदागामिनो ऽप्य् एवम् एव । अनागामिनो ऽप्य् एवम् एव । अर्हतः कपालम् ( म्स्व् इइ 81 ) आकोत्य विषयं न जानाति न विजानाति । तस्यैतद् अभवत्* ।
भ्रष्टो ऽस्मि तस्माद् उपदेशतः किं अथवा न चार्यकुले प्रसूतः ।
किं वा निमित्तानि न तादृशानि येनास्य न जानामि तं हि प्रचारम्* ।
आयुष्मान् आनन्दः कथयति ।
न सर्वविद्यासु कृतश्रमस् त्वं येनास्य जानासि तं हि प्रचारम्* ।
अधीष्व तावन् निखिलां विद्यां लोकस्य पश्चाद् व्यपदेक्ष्यसि त्वम् इति ।
मृगशिराः ( 258र्1 = ग्ब्म् 6.828 ) कथयति । अस्ति कश्चि त् त्वया सर्वविद्यासु कृतावी दृष्टः । स कथयति । अस्ति । तथागतो ऽर्हत् सम्यक्संबुद्धः सर्वविद्यायां पारंगतः । अथ मृगशिरा येन बहगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तम् इदम् अवोचत्* ।
तिर्यक् प्रेतमनुष्यदेवनिरये जानासि जन्तोर् गतिम्*
शिष्टं नोपलभे च सत्वचरितं विद्यापराधे सति ।
आचक्ष्व त्रिभवार्णवस्य महतो विस्तीर्णपारं प्रभो
किं तत् सर्वपरप्रवादिविजय शिष्टं न विज्ञायते ॥ इति ॥
भगवान् आह ।
अयोघनहतस्यैव ज्वलतो जातवेदसः
अनुपूर्वोपशान्तस्य यथा न ज्ञायते गतिः ।{च्f. उव् 30.35}
तथा सम्यग्विमुक्तानां कामपङ्कौघतारिणाम्*
प्रज्ञप्तं वा गतिर् नास्ति प्राप्तानाम् अचलं पदम्* ॥ इति ॥
एवम् उक्ते मृगशिरा भगवन्तम् इदम् अवोचत्* । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवता प्रव्राजित उपसंपादितः । प्रव्राज्योपसंपाद्य यथाभिरम्यं राजगृहे विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः । अनुपूर्वेण चारिकां चरन् श्रावस्तीम् अनुप्राप्तः । श्रावस्त्यां विहरति पूर्वारामे मृगारमतुः प्रासादे । अभ्यवकाशे चंक्रम्यमाणेन नक्षत्राणि विपरीतानि दृष्टानि । दृष्ट्वा च पुनर् आयुष्मन्तं मृगशिर स म् आमन्त्रयते । समन्वाहर मृगशिरः कियच् चिरेण देवो वर्षिष्यतीति । स कथयति । नष्टो ऽयं भदन्त लोकः प्रनष्टो ऽयम्* । यथा नक्षत्राणि व्यवस्थितानि द्वादशभिर् वर्षैः । भगवता नक्षत्राणि समान्य् अधिष्ठायोक्तोः । पुनर् जानीष्वेति । स कथयति । षड्भिर् वर्षैर् एवम्* । भगवता पुनः पर्यनुयुक्तो ब्रवीति । पंचभिर् वर्षैः । एवं यावत् सप्तभिर् दिवसैर् इति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । शयनासनं भिक्षवश् छन्ने गोपयत । अद्यैव शलभसंनिपातेन देवो वर्षिष्यति । तत्र ये स्नास्यन्ति तेषाम् उत्पादगण्डपिटकानि न ( म्स्व् इइ 83 ) भविष्यन्तीति । इति हि मृगशिरो नक्षत्राणि चपलानि चंचलान्य् अनवस्थायीनि । जीवितम् अपि चंचलम् अनवस्थितम् इत्य् एवम् उक्तः । मृगशिरा भगवतो ऽभिप्रसन्नः । तथाभिप्रसन्नेन चार्हत्वं साक्षात्कृतम्* । ततो विमुक्तिप्रीतिसुखसंवेदी गाथा भाषते ।
गतिर् मृगाणां पवनम् आकाशं पक्षिणां गतिः ।
गतिर् विरागिणां धर्मो निर्वाणं गतिर् अर्हताम्* ॥ इति ॥

अश्रौषीद् विशाखा मृगारमाता भगवान् कोसलेषु जन्पदेषु चारिकां चरन् श्रावस्तीम् अनुप्राप्तः श्रावस्त्यां विहरत्य् अस्माकम् एवाराम इति । श्रुत्वा च पुनर् येन भगवांस् तेनोपसंक्रान्ता । ( 258व्1 = ग्ब्म् 6.829 ) उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा । एकान्तनिषण्णां विशाखां मृगारमातरं भगवान् धर्म्यया कथया संदर्शयति पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* । अथ विशाखा मृगारमाता उत्थायासनाद् येन भगवांस् तेनांजलिं प्रणम्य भगवन्तम् इदम् अवोचत्* । अधिवासयतु मे भगवां श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । अधिवासयति भगवान् पूर्ववद् यावद् उदकमणिं प्रतिष्ठाप्य । भगवतः प्रेष्यदारिकया कालारोचिकया कलाम् आरोचयति । यावद् असौ प्रेष्यदारिका पूर्वारामं गत्वा पश्यति भिक्षून् कवाटविवरेण नग्नान् स्नायिनः । दृष्ट्वा च पुनः संलक्षयति । नूनम् आर्यकाः प्रक्रान्ताः एभिः पुत्रमोटिकापुत्रैर् आजीविकैर् अयं विहारो ऽवष्टब्ध इति । सा ( म्स्व् इइ 84 ) त्वरितत्वरितम् आगत्य कथयति । यत् खल्व् आर्ये जानीया आर्याः प्रक्रान्ताः । पुत्रमोटिकापुत्रैर् आजीवकैर् असौ विहारो ऽवष्टब्ध इति । विशाखा संलक्षयति । अस्थानम् अनवकाशो यद् भगवान् अधिवास्याभुक्त्वा प्रक्रमिष्यति । नूनम् अनया भिक्षवो विनग्ना दृष्टा इति । तयान्यः कालारोचकः पुरुषः प्रेषितः । समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति पूर्ववद् यावद् भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रम्* । वृद्धान्ते निषद्य भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त अष्टौ महादानानि प्रज्ञापयितुम्* । आगन्तुके दानं गमिके दानं ग्लाने दानं ग्लानोपस्थायिके दानं ध्रुवं यवागुं ध्रुवं भैषज्यं भिक्षूणां वर्षाशाटीचीवरं भिक्षुणीनां चोदकशाटिकाम् इति । भगवान् आह । किं पुनस् तद् विशाखे आनुशंसं समनुपश्यन्ती आगन्तुके दानं ददासि । आगन्तुको भदन्त भिक्षुर् न गोचरकुशलो भवति न वीथीकुशलः । स मदीयं पिण्डपातं परिभुज्य गोचरकुशलो भविष्यति । वीथीकुशलश् च । साधु साधु विशाखे गतम् एतत्* । किमर्थं समनुपश्यन्ती गमिकदानं ददासि । गमिको भदन्त भिक्षुः पिण्डपातं पर्येषमाणः सार्थात् परिभृश्यते । यूथपरिभृष्टो विहन्यते । स मदीयं पिण्डपातं परिभुज्य सार्थान् न परिभृश्यते । नापि यूथपरिभृष्टो विहन्यते । साधु साधु विशाखे एतद् अपि गतम्* । किमर्थवशं समनुपश्यन्ती ग्लाने दानं ददासि । ग्लानो भदन्त भिक्षुः पिण्डपातं ( म्स्व् इइ 85 ) पर्येषमाणः क्लामेद् वा कालं वा कुर्यात्* । स मदीयं पिण्डपातं परिभुज्य ग्लान्याद् उत्थास्यति सुखस्पर्शं विहरिष्यति । साधु साधु विशाखे एतद् अपि गतम्* । किमर्थवशं समनुपश्यन्ती ( 259र्1 = ग्ब्म् 6.830 ) ग्लानोपस्थायिको दानं ददासि । ग्लानोपस्थायिको भदन्त भिक्षुर् आत्मार्थं पिण्डकं पर्येषमाणो ग्लानस्य कृत्यं हापयति । स मदीयं पिण्डपातं परिभुज्य संपादयिष्यति । साधु साधु विशाखे एतद् अपि गतम्* । किमर्थवशं समनुपश्यन्ती संघे ध्रुवयवागुं ददासि । सन्ति भदन्त भगवतः श्रावका दीप्ताग्नयो मन्दाग्नयश् च । तत्र ये मन्दाग्नयस् तेषाम् अग्निसंरक्षणं ये तु दीप्ताग्नयस् तेषां बलोपचयः । साधु साधु विशाखे । एतद् अपि गतम्* । किमर्थवशं समनुपश्यन्ती संघे ध्रुवभैषज्यं ददासि । सन्ति भदन्त भगवतः श्रावका बह्वाबाधाः स्वल्पाबाधाश् च । तत्र ये बह्वाबाधास् तेषां कृतम् एव तावत्* । ये त्व् अल्पाबाधास् ते परिभुज्य भूयस्या मात्रया सुखस्पर्शं विहरिष्यन्ति । साधु साधु विशाखे एतद् अपि गतम्* । किमर्थवशं समनुपश्यन्ती भिक्षूणां वर्षाशाटीचीवरं ददासि । अद्यैव मया भदन्त प्रेष्यदारिका कालारोचिका प्रेषिता । तया भिक्षवो दृष्टा नग्नाः स्नातुम्* । सा मे आगत्य कथयति । आर्यकाः प्रक्रान्ताः पुत्रमोटिकापुत्रैर् आजीविकैर् विहारो ऽवष्टब्ध इति । ते मदीयेन वर्षाशाटीचीवरेण गुप्ताः स्नास्यन्ति । साधु साधु विशाखे एतद् अपि गतम्* । किमर्थवशं समनुपश्यन्ती भिक्षुणीनाम् उदकशाटिकां ददासि । एको ऽयं भदन्त समयः संबहुलाश् च भिक्षुण्यो ऽजिरवत्यां नग्नाः स्नान्ति । ( म्स्व् इइ 86 ) ता गृहिण्यो विपुष्प्य विपुष्प्य भिक्षुणीनाम् अङ्गुल्यग्रेण गुह्यस्थानान्य् उपदर्शयन्ति । ताः उपदर्श्यमानाः मद्गुवो भवन्ति । मदीयया तु उदकशाटिकया ता गुप्ताः स्नास्यन्ति । साधु साधु विशाखे यानि त्वया अष्टौ पुण्यक्रियावस्तूनि समाख्यातानि संदृश्यन्ते एतानि । सप्तस्व् औपधिके षु पुण्यक्रियावस्तुष्व् अन्तर्गतान्य् एतानि । सप्तस्व् औपधिकेषु पुण्यक्रियावस्तुषु न लभ्यं पुण्यस्य प्रमाणम् उद्ग्रहीतुम् एतावत् पुण्यं वा पुण्यफलं वा पुण्यफलविपाको वेति । अपि तु बहुत्वात् पुण्यस्य महापुण्यः पुण्यस्कन्ध इति संख्यां गच्छति ।

इदं चाहं भदन्त श्रोष्यामि । अमुको भिक्षुः स भगवता प्रतिपद्येव व्याकृताः । एषो ऽपि भिक्षुस् त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नो भवत्य् अविनिपातधर्मो नियतं संबोधिपरायणः सप्तकृत्वो भवपरमाः सप्तकृत्वो देवांश् च मनुष्यांश् च संधाय्य संसृत्य दुःखस्यान्तं करिष्यतीति । स कदाचित् श्रावस्तीम् आगमिष्यति पुनश् च गमिष्यति । स मदीयम् आगन्तुकभक्तं पूर्ववद् यावद् वर्षाशाटीचीवरं परिभोक्ष्यति । भिक्षुणी च यावद् उदकशाटिकाम् इति । श्रुत्वा च पुनर् अधिगमिष्यामि प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रम्योपसंहितम्* । ( 259व्1 = ग्ब्म् 6.831 ) अमुको भिक्षुः ( म्स्व् इइ 87 ) भगवता व्याकृतः । एष भिक्षुस् त्रयाणां संयोजनानां प्रहाणाद् रागद्वेषमोहानां च तनुत्वात् सकृदागामी भविष्यति । सकृद् इमं लोकम् आगत्य दुःखस्यान्तं करिष्यतीति । सो ऽपि कदाचित्* श्रावस्तीम् आगमिष्यति । स मदीयम् आगन्तुकभक्तं पूर्ववद् यावत्* वर्षाशाटीचीवरं भिक्षुणी चोदकशाटिकाम् इति । श्रुत्वा च पुनर् अधिगमिष्यामि प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रम्योपसंहितम्* । अमुको भिक्षुः स भगवता व्याकृतः । एष भिक्षुः पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामी । भविष्यत्य् अनागन्ता पुनर् इमं लोकम् इति । सो ऽपि कदाचित्* श्रावस्तीम् आगमिष्यति पुनश् च गमिष्यति । स मदीयम् आगन्तुकभक्तं पूर्ववद् यावद् वर्षाशाटीचीवरं भिक्षुणी चोदकशाटिकाम् इति । श्रुत्वा च पुनर् अधिगमिष्यामि प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रम्योपसंहितम्* । अमुको भिक्षुः स भगवता व्याकृतः । एष भिक्षुः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृत्वा निरुपधिशेषे निर्वाणधातौ प्रवेक्ष्यतीति । सो ऽपि कदाचित्* श्रावस्तीम् आगमिष्यति पुनश् च गमिष्यति । स मदीयम् आगन्तुकभक्तं पूर्ववद् यावद् वर्षाशाटीचीवरं भिक्षुणी चोदकशाटिकाम् इति । श्रुत्वा च पुनर् अधिगमिष्यामि प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रम्योपसंहितम्* । अथ भगवान् विशाखां मृगारमातरं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः ।
अथ भगवान् यथाभिरम्य श्रावस्त्यां विहरति । येन वैशाली तेन चारिकां प्रक्रान्तः । अनुपूर्वेण चारिकां चरन् वैशालीम् अनुप्राप्तः । वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्* । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैशालीं पिण्डाय प्राविक्षत्* ( म्स्व् इइ 88 ) तेन खलु समयेन संबहुला भिक्षव आरामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयन्त्य् आतापयन्ति प्रविषजन्ति । अद्राक्षीद् भगवान् संबहुलान् भिक्षून् आरामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयत आतपयतः प्रविषजतः । दृष्ट्वा च पुनर् अस्यैतद् अभवत्* । यद् अपि श्राद्धा ब्राह्मणगृहपतयः प्रपीड्य प्रपीड्य त्वङ्मांसशोणितं दानानि ददति पुण्यानि कुर्वन्ति तद् अपि भिक्षवो मात्रया प्रतिसंख्याय परिभुंजन्त इति विदित्वा वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिशामय्य पादौ प्रक्षाल्य विहारं प्राविक्षत् प्रतिसंलयनाय । अथ भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थाय पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । ( 260र्1 = ग्ब्म् 6.832 ) निषद्य भगवान् भिक्षून् आमन्त्रयते स्म । इहाहं भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैशालीं पिण्डाय प्राविक्षम्* । अद्राक्षम् अहं भिक्षवः संबहुलान् भिक्षून् आरामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयत आतपयतः प्रविषजतः । दृष्ट्वा च पुनर् मे एतद् अभवत्* । यद् अपि श्राद्धा ब्राह्मणगृहपतयः प्रपीड्य प्रपीड्य त्वङ्मांसशोणितं दानानि ददति पुण्यानि कुर्वन्ति तद् अपि भिक्षवो मात्रया प्रतिसंख्याय परिभुंजन्ते । साधु भिक्षवः श्रद्धादेयस्य मात्रापरिभोजितायाः काल परि भोजिताया वीचिपरिभोजितायाः संख्यापरिभोजिताया मितपरिभोजितायाः । ( म्स्व् इइ 89 ) अथ भगवाञ् छ्रद्धादेयस्य मात्रादिपरिभोजितानां वर्णं भाषित्वा भिक्षून् अमन्त्रयते स्म । तस्मात् तर्हि भिक्षवो न विना प्रत्यास्तरणेन सांघिकं शयनासनं परिभोक्तव्यम् अशुचिम्रक्षितं शयनासनं च । तत्क्षणाद् एव शोचयितव्यम् अन्यथा सातिसारः ।
अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैशालीं पिण्डाय प्राविक्षद् आयुष्मतानन्देन पश्चाच्छ्रमणेन । अद्राक्षीद् भगवान् अन्यतरं पुरुषं कालकपृष्ठम्* । दूराद् एव दृष्ट्वा च पुनर् आयुष्मन्तम् आनन्दम् आमन्त्रयते । पश्यसि त्वम् आनन्द एतं पुरुषं कालकपृष्ठम्* । एवं भदन्त । एष आनन्द पुरुषः काश्यपस्य सम्यक्संबुद्धस्य प्रवचने प्रव्रजित आसीत्* । तत्रानेन सांघिकं शयनासनं कल्पप्रत्यास्तरणेन मलप्रत्यास्तरणेन पट्टिकां सुरुचिकां लोढकं कृत्वा परिभुक्तम्* । तस्य कर्मणो विपाकेन पंच जन्मशतानि कालकप्र्ष्ठो जातः । यावद् एतर्ह्य् अपि कालकपृष्ठो जात इति । विदित्वा वैशालीं पिण्डाय चरित्वा पूर्ववद् यावत् प्रतिसंलयनाद् व्यूत्थाय पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म । अद्याहं भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैशालीं पिण्डाय ( म्स्व् इइ 90 ) प्रविष्टः । तत्राहम् अद्राक्षं पुरुषं कालकपृष्ठम्* । स काश्यपस्य सम्यक्संबुद्धस्य प्रवचने भिक्षुर् आसीत्* । तत्रानेन सांघिकं शयनासनं कल्पप्रत्यास्तरणेन पूर्ववद् यावत् पंच जन्मशतानि कालकपृष्ठो जातः । तस्मात् तर्हि भिक्षवो ऽद्याग्रेण न भिक्षुणा कल्पप्रत्यास्तरणेन सांघिकं शयनासनं परिभोक्तव्यम्* । परिभुंक्ते । सातिसारः । अपि तु द्वाभ्यां प्रत्यास्तरणाभ्यां परिभोक्तव्यं घनेन वा एकपुटेन । पैलोत्तिकेन वा द्विपुटेन ।
भिक्षवश् चित्रोपचित्राणि प्रत्यास्तरणानि धारयन्ति दीर्घदशानि । ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । भगवान् आह । नीलं कर्दमं कषायं वा प्रत्यास्तरणं शस्त्रलूनं कृत्वा धारयितव्यम्* । अन्यथा सातिसारः ।
भिक्षवः कुण्डूरो गेण ( 260व्1 = ग्ब्म् 6.833 ) बाध्यन्ते । तस्य चीवरकाणि पूयशोणितोपलिप्तानि दुर्गन्धितानि मक्षिकाकीर्णानि । स पिण्डपातं प्रविष्टः । तं दृष्ट्वा ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तस्माद् अनुजानामि कण्डूप्रच्छादनं धारयितव्यम्* । पंचभिः षड्भिर् वा दिवसैः शोचयितव्यम्* । अन्यथा सातिसारः ।

भिक्षवः कुष्ठरोगेण बाध्यन्ते । ते सांघिकानि शयनासनानि परिभुंजते । प्रासादेषु पुष्करिण्यां द्वारकोष्ठके परिषण्डायां चंक्रमेषु संस्थानवृक्षेषु तिष्ठन्ति । दुर्गन्धान् मक्षिकाभिर् आकीर्णान्* । ( म्स्व् इइ 91 ) तान् दृष्ट्वा ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । कुष्ठरोगाभिभूतस्याहं भिक्षवो भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञापयिष्यामि । कुष्ठरोगाभिभूतेन भिक्षुणा सांघिकम् शयनासनं लयनं च न परिभोक्तव्यम्* । प्रासादादिषु यथापरिकीर्तितेषु स्थानेषु स्थातव्यम्* । साम्घिकी प्रस्रावकुटी वर्चःकुटी च न प्रवेष्टव्या । प्रतिगुप्ते स्थाने संघेन तस्य वासो देयः । उपस्थानं च कर्तव्यम्* । कुष्ठरोगाभिभूतो भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते संघो वा सातिसारो भवति ।
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । लभ्यं भदन्त सुगतचीवरम् अतिरेकचीवरकल्पेन धारयितुम्* । न लभ्यम् उपालिन्* । लभ्यं भदन्त कौशेयं चीवरं त्रिचीवराधिष्ठानेन अतिरेकचीवराधिष्ठानेन धारयितुम्* । लभ्यम् उपालिन् यथेष्ठतः । एवं पूर्णकं शाणकं लभ्यम् ।
उद्दानम्* ।
भाङ्गेयं केशचीवरं नाग्न्यं केशलुचनं पर्णशाटीम्* ।
अजिनं सान्तरोत्तरं तिरीटिम् अङ्गनीलकम्* ।
श्रावस्त्यां निदानम्* । अथान्यतमो भिक्षुर् येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ( म्स्व् इइ 92 ) अस्थात्* । एकान्तस्थितः स भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त भाङ्गेयं चीवरं धारयितुम्* । भगवान् आह । तीर्थिकध्वज एष मोहपुरुषः यदुत भाङ्गेयं चीवरम्* । तस्मान् न भिक्षुणा भाङ्गेयं चीवरं धारयितव्यम्* । धारयति सातिसारो भवति ।
अपरो भिक्षुर् गत्वा भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त केशचीवरं धारयितुम्* । भगवान् आह । तीर्थिकध्वज एष मोहपुरुषः । पूर्ववद् यावत् सातिसारो भवति ।
अपरो भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त नाग्न्यं समादातुम्* । भगवान् आह । तीर्थिकध्वज एष मोहपुरुषः यदुत नाग्न्यम्* । अपि तु त्रिचीवरं मयानुज्ञातं किमर्थं नाग्न्यं समाददासि । तस्मान् न भिक्षुणा नाग्न्यं समादातव्यम्* । समाददाति । आपद्यते स्थूलात्ययः । अथ स ( 261र्1 = ग्ब्म् 6.834 ) भिक्षुर् नाग्न्यम् अलभमानः शिक्षां प्रत्याख्याय हानायावृत्तः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्तासौ भिक्षुर् नाग्न्यम् अलभमानः शिक्षां प्रत्याख्याय हानायावृत्तम्* । भगवान् आह । न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि अह्रीक्यदोषाद् दारिकां न लब्धवांस् तच् छ्रूयताम्* ।
भूतपूर्वं भिक्षवो धृतराष्ट्रो नाम हंसराजो बभूव । तस्य दुहिता स्वयंवरावतीर्णा । श्रुत्वा नानादिग्देशनिवासिनः पक्षिणः सन्निपतिताः । एकैकः संलक्षयति मां वरयिष्यतीति । तया ( म्स्व् इइ 93 ) दारिकया मयूरो दृष्टः । सा कथयति । एष मम भर्तेति । तस्यापरैः समाख्यातम्* । त्वम् अनया वृत इति । स कलापं पूर्वीकृत्य नर्तितुम् आरब्धः । स धृतराष्ट्रेण दृष्टः । कथयति । किमर्थम् अयम् नृत्यतीति । अपरैः समाख्यातम्* । तव दुहिता वृता इति । स कथयति । ह्रीव्यपत्राप्यवियुक्तो ऽयं नाहम् अस्मै दुहितरं ददामीति । स श्रुत्वा मयूरो धृतराष्ट्रसकाशं गत्वा गाथां भाषते ।
स्वरो मनोज्ञो रुचितरश् च वर्णो व्यामप्रमाणानि च वर्हकाणि ।
ग्रीवा च वैदूर्यमणेः समाना ददासि कस्मान् न भवान् सुतां मे ॥
धृतराष्ट्रः प्राह ।
स्वरो मनोज्ञो रुचितरश् च वर्णो व्यामप्रमाणानि च वर्हकाणि ।
ग्रीवा च वैदूर्यमणेः समानाह्रीक्यदोषात् तु न ते ददामि ॥ इति ॥
किं मन्यध्वे भिक्षवः । यो ऽसौ मयूरः एष एवासौ भिक्षुस् तेन कालेन तेन समयेन । तदाप्य् एष अह्रीक्यदोषाद् दारिकाम् अलभमानो दुःखी दुर्मना पक्षिणमध्याद् अवक्रान्तः । एतर्ह्य् अप्य् असौ नाग्न्यम् अल्भमानो दुःखी दुर्मना भिक्षुसंघमध्यात् प्रक्रान्तः ।
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त केशान् लुंचितुम्* । भगवान् आह । मुण्डनं मया समनुज्ञातम्* । कस्मात् त्वं केशान् लुंचसि । तीर्थिकधृत एष मोहपुरुषः यदुत केशलुंचनम्* । तस्मान् न हि भिक्षुणा केशा लुंचितव्याः । लुंचति । सातिसारो भवति । ( म्स्व् इइ 94 )
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त पर्णशाटिकां धारयितुम्* । भगवान् आह । तीर्थिकधृतम् एतन् मोहपुरुषः । पूर्ववद् यावत् सातिसारो भवति ।
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त अजिनं धारयितुम्* । भगवान् आह । तीर्थिकध्वजम् एतन् मोहपुरुषः । यदुत अजिनम्* । धारयति पूर्ववद् यावत् सातिसारो भवति ।
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त सान्तरोत्तरेण चीवरेण यापयितुम्* । त्रिचीवरं मया मोहपुरुष समनुज्ञातम्* । कस्मात् त्वं सान्तरोत्तरेण यापयसि । तस्मान् न भिक्षुणा सान्तरोत्तरेण चीवरेण यापयितव्यम्* । यापयति । सातिसारो भवति ।
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं ( 261व्1 = ग्ब्म् 6.835 ) भदन्त तिरीटिं धारयितुम्* । तिरीटि इति वल्कलः । भगवान् आह । तीर्थिकध्वज एष पूर्ववद् यावत् सातिसारो भवति ।
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त अंगनाडिकां धारयितुम्* । भगवान् आह । आगारिकधर्मस् तर्ह्य् एषाहो मोहपुरुषा यदुतांगनाडि का । पूर्ववद् यावत् सातिसारो भवति ।
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त सर्वनीलं चीवरं धारयितुम्* । भगवान् आह । आगारिका ह्य् एनं धारयन्ति । तस्मान् न भिक्षुणा सर्वनीलं चीवरं धारयितव्यम्* । पूर्ववद् यावत् सातिसारो भवति । एवं सर्वपीतं सर्वलोहितम् अवदातं न कल्पयत्य् एव ।
उद्दानम्* ।
दीर्घदशं छन्नदशं {म्स् फणदशं } कम्बुकोष्णीषवेष्टनम्* ।
कुतपम् उष्ट्रकम्बलं प्लीहकानन्दः सान्तरोत्तरम्* ॥
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त दीर्घदशं चीवरं धारयितुम्* । भगवान् आह । तीर्थिकध्वजः पूर्ववद् यावत् सातिसारो भवति ।
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त छन्नदशं {म्स् फणदशं } चीवरं धारयितुम्* । भगवान् आह । तीर्थिकध्वज एष मोहपुरुष पूर्ववद् यावत् सातिसारो भवति ।
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त कम्बुकं धारयितुम्* । भगवान् आह । आगारिकध्वज एष मोहपुरुष पूर्ववद् यावत् सातिसारो भवति ।

अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त उष्णीषं धारयितुम्* । भगवान् आह । आगारिकध्वज एष मोहपुरुष पूर्ववद् यावत् सातिसारो भवति । ( म्स्व् इइ 96 )
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त शिरोवेष्टनं धारयितुम्* । भगवान् आह । आगारिकध्वज एष मोहपुरुष पूर्ववद् यावत् सातिसारो भवति ।
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त कुतपं धारयितुम्* । भगवान् आह । आगारिकध्वज एष पूर्ववद् यावत् सातिसारो भवति ।
अपरो ऽपि भिक्षुर् भगवन्तम् इदम् अवोचत्* । इच्छाम्य् अहं भदन्त उष्ट्रकम्बलं धारयितुम्* । भगवान् आह । आगारिकध्वज एष पूर्ववद् यावत् सातिसारो भवति ।
आयुष्मान् प्लीहकानन्दः अन्यतमस्मिन्न् अभिक्षुके आवासे अकवाटके वर्षा उपगतः । तस्य बहिर् निगतस्य संघाट्य् उपहृता । एतद् यावद् भगवान् आह । न भिक्षुणा अभिक्षुके आवासे अकवाटके वर्षा उपगन्तव्यम्* । न च विना संघाट्या क्वचिद् गन्तव्यम्* । गच्छति । सातिसारो भवति ।
आयुष्मान् प्लीहकानन्दो ग्लानः । तस्यायुष्मान् आनन्दो ग्लानोपस्थायकः । देवश् च वर्षितुम् आरब्धः । स नोत्सहते संघाटीं प्रावृत्य गन्तुम्* । ( 262र्1 = ग्ब्म् 6.836 ) भगवान् आह । सान्तरोत्तरेण गन्तव्यम्* ।
अपि तु संघाट्या पंचोपनिक्षेपणकल्पा । सभिक्षुक आवासः सकवाटः । देवो वर्षति । वर्षाशङ्के च । नदीपारं वा गन्तुकामो ( म्स्व् इइ 97 ) भवति । आस्तीर्णः कठिन आवासो भवति । संघेन संमतिर् दत्ता भवति ।
अन्तरोद्दानम्* ।
वार्षिकश्रमणोद्देशा उत्पादेनापि च द्वयम्* ।
कुलोपकाश् च कौकृत्यं संघलाभेन तस्य तत्* ॥
उक्तं भगवता भिक्षूणां चीवरपातो देय इति । भिक्षवः संघप्रवारित एव जनपदे चारिकां प्रक्रामन्ति । तेषां न कश्चिल् लाभं गृह्णाति । भगवान् आह । भिक्षुम् अवलोकयित्वा गन्तव्यं यो ऽस्य लाभं गृह्णाति । अपरे ऽपि भिक्षव अनवलोकिता एवं गृह्णन्ति । भिक्षूणां परस्परं विरोधो भवति । भगवान् आह । न भिक्षुणा अनवलोकितेन लाभो ग्रहीतव्यः । गृह्णाति । सातिसारो भवति । अपरे ऽपि भिक्षवः अवलोकिता अपि प्रतिज्ञाय न गृह्णन्ति । भगवान् आह । ते सर्वं दाप्याः । श्रमणेराणां प्रक्रान्तानां न कश्चिल् लाभं गृह्णाति । भगवान् आह । तेषाम् आचार्योपाध्यायैर् ग्रहीतव्यम्* । भिक्षवः कुलाभं ( म्स्व् इइ 98 ) भाजयन्ति । विप्रक्रान्तानां नानुप्रयच्छन्ति कुलाभ इति कृत्वा । भगवान् आह । ये ऽवलोकितास् तैर् ग्रहीतव्यम्* । अपरे ऽनवलोक्यैव गताः । तेषां न कश्चिद् गृह्णाति । भिक्षवः कौकृत्येन न गृह्णन्ति । भगवान् आह । ग्रहीतव्यम्* । नात्र कौकृत्यं करणीयम्* । अपरं नैव शक्यते भाजयितुम् अल्पं कृत्वा । भगवान् आह । अन्येन मिश्रीकृत्य विहारस्थैर् भाजयितव्यम्* । नात्र कौकृत्यं करणीयम्* । कुलाभम् अवलोकितो न गृह्णाति । पंच पणान् उपादाय स्फुटं दापयितव्यम्* ।

अन्यतमस्मिन् कर्वटके गृहपतिः । तेन विहारः कारितः । तत्र यदि भिक्षुशतं प्रतिवसति पटकशतं ददाति । एवं यावद् एको ऽपि भिक्षुः प्रतिवसति पटकशतम् एव ददाति । यावद् अपरेण समयेन तस्मिन्न् एव विहारे द्वौ महल्लौ वर्षोषितौ । तेन गृहपतिना पटकशतं प्रेषितम्* । तौ गृहीत्वा परस्परं विचारयतः । एकः कथयति संघस्यायं लाभः प्रतिपद्यत इति । द्वितीयः कथयति । अस्माकम् एव प्रापद्य इति । यद्य् एवं गृहाण । स कथयति । मा परस्परविरोधः स्यात्* । यावद् एकेनापि न गृहीतम्* । तौ पुनर् विचारयतः । कथम् अत्र प्रतिपत्तव्यम्* । एकः कथयति । भिक्षव आहूयन्ताम्* । तैः सह भाजयिष्यामः । द्वितीयः कथयति । एवं भवतु । को गच्छतु । यो नवकः । को वस्त्राणि गोपायति । यो नवकः । न शक्यम् एवम्* ( म्स्व् इइ 99 ) यो नवकः स गच्छतु यो वृद्धः स वस्त्राणि गोपायतु । एवं भवतु । नवकः श्रावस्तीं गतो भिक्षूणाम् आनयनाय । ( 262व्1 = ग्ब्म् 6.837 ) आचरितं षड्वर्गिकाणाम्* । अशून्यं जेतवनद्वारम् अन्यतमान्यतमेन षड्वर्गिकेण । उपनन्दो जेतवनद्वारे तिष्ठति । तेनासौ दूरत एव दृष्टो बकाकारशिराः प्रलम्बभ्रूः । स संलक्षयति । को ऽप्य् अयं स्थविरो भिक्षुर् आगच्छति । प्रत्युद्गच्छामीति । स प्रत्युद्गतः । स्वागतं स्वागतं स्थविर । वन्दे आचार्य । स संलक्षयति । नायम् आचार्यं जानीते नाप्य् उपाध्यायम्* । महल्लो ऽयम् इति विदित्वा कथयति । सालोहित कुतस् त्वम् आगच्छसि । अमुकस्मात् कर्वटकात्* । किं तत्र विहारः । विहारः । किम् असौ विहार आहोस्विद् विघातः । तेन यथावृत्तं विस्तरेण समाख्यातम्* । त्वं किमर्थम् आगतः । भोजनाय भिक्षून् नयामि । यद्य् एवम् अहम् एव युष्माकम् अनुकम्पार्थं गच्छामि । आचार्य शोभनम्* । उपनन्दः संलक्षयति । यद्य् अयं मत्सकाशाद् अन्यत्र गमिष्यति महाजनप्रतिसंविदितं करिष्यति । सुरक्षितः कर्तव्य इति । स तेन प्रतिशामितः । अकालपानको दत्तः । कथासंलापेन तावाद् विधारितो यावद् विकालीभूतम्* । शय्या शोभना प्रज्ञप्ता । पादशौचं पादम्रक्षणं च दत्तम्* । तावच् चावस्थितो यावन् मिद्धम् अवक्रान्तम्* । तत उपनन्देन सा रात्रिः कृच्छ्रेणातिनामिता । मा मन्त्रस्रावः स्याद् इति । ततः स रात्रम् एवोत्थाय सालोहितम् आदाय त्वरितत्वरितं ( म्स्व् इइ 100 ) संप्रस्थितः । अनुपूर्वेण कर्वटकम् अनुप्राप्तः । ततस् तेन द्वितीयेन सालोहितेन विहारस्थेन स्वागतवादसमुदाचारेण समुदाचर्य विश्रामितः । अथ त्रयो ऽपि जना एकस्मिन् स्थाने निषण्णाः । उपनन्दः कथयति । भाजयामो लाभं स्थविराः । भाजयामः । उपनन्देनैको महल्ल उक्तः । सालोहित त्वं भाजय । स्थविर नाहं भाजयामि । किमर्थम्* । मा मे प्रत्यवायः स्यात्* । द्वितीयो ऽप्य् उक्तः । सालोहित त्वं भाजय । सो ऽप्य् एवम् एव कथयति । उपनन्दः कथयति । युवां प्रत्यवायभीरुकौ किम् इच्छथः । उपनन्द ऊर्ध्वपादोवाङ्मुखो नरकं गमिष्यतीति । उपनन्द संलक्षयति । सालोहिताव् एतौ महल्लौ भेत्तव्याव् इति । ततस् तयोर् ध्रुवप्रचारं कल्पकारं पृष्ट्वा एकस्य सकाशम् उपसंक्रम्य पृच्छति । सालोहित त्वयात्र किं कृतम्* । स्थविर नित्यं मया विहारः सिक्तः संमृष्टः सुकुमारी गोमयकार्षी दत्तेति । सालोहित यदि सेचनेन संमार्जनेन वा लाभो लभ्येत उपनन्दः सर्वविहारान् सिञ्चेत् संमार्जयेच् च । अपि तु यो ऽत्र लाभः संपन्नः स तस्यान्यस्य सालोहितस्यानुभावात्* । सो ऽस्मिन् विहारे कालानुकालं धर्मश्रवणं ददाति । धर्मश्रवणार्थिन्यो देवता औत्सुक्यम् आपन्नाः । ( 263र्1 = ग्ब्म् 6.838 ) ये ऽत्र लाभसंपन्नाः । ततस् तस्यानुभा वा द् अयं लाभः संपन्नः । यम् असौ ददाति सः ग्रहीतव्यो नो तु विचारयितव्यः । स तेनाभ्याहत इति प्रतिभिन्नस् ( म्स्व् इइ 101 ) तूष्णीम् अवस्थितः । ततो द्वितीयस्य सकाशम् उपसंक्रम्य कथयति । सालोहित त्वयात्र किं कृतम्* । स्थविर मयात्र कालानुकालं धर्मश्रवणं दत्तम्* । सालोहित यदि धर्मश्रवणेन लाभो लभ्येत उपनन्दस् तिष्ठन् गच्छन् निषण्णो निषण्णः सर्वकालं धर्मं देशयेत्* । यः कश्चिद् अयं लाभः संपन्नः सर्वो ऽसौ तस्यान्यस्य सालोहितस्यानुभावात्* । तेनायं विहारो नित्यकालं सिक्तः संमृष्टः सुकुमारी गोमयकार्षी तु प्रदत्ता । उक्तं भदन्त भगवता पंचानुशंसाः संमार्जने । कतमे पंच । आत्मनश् चित्तं प्रसीदति । परस्य चित्तं प्रसीदति । देवता आत्तमनसो भवन्ति । प्रासादिकसंवर्तनीयं कुशलमूलम् उपचिनोति । कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यत इति । तद् अत्र विहारे संमार्जनेन दानपतयो ऽभिप्रसन्नाः । देवता चात्तमनसः संवृत्ताः । तेनात्र लाभसंपन्नाः । अतस् तस्यानुभावाद् अयं लाभः संपन्नः । यम् असौ ददाति स ग्रहीतव्यो नो तु विचारयितव्य इति । सो ऽप्य् अभ्याहतः प्रतिभिन्नस् तूष्णीम् अवस्थितः । तौ निष्प्रतिभातौ कृत्वा कथयति । सालोहिताव् अस्त्य् अन्य उपायः । ज्ञप्तिं कृत्वा भाजयामः । ज्ञप्तिकर्माकोप्यम् उक्तं भगवतेति । तौ पूर्वम् एवाभ्याहतौ कथयतः । स्थविर यथेच्छसि तथा कुरुष्वेति । तत उपनन्देन त्रयो भागाः कृताः । द्वयोर् भागयोर् मध्ये स्वयं निषण्णः । तयोर् द्वयोर् मध्ये एकं भागं स्थापयित्वा ज्ञप्तिं कर्तुम् आरब्धः । शृणुतं युवां सालोहितौ द्वौ । अयम् एकः । इमौ द्वौ । अहम् एक एव । तत् त्रयम् ( म्स्व् इइ 102 ) इत्य् एषा ज्ञप्तिः । ततो द्वौ भागाव् आत्मना गृहीत्वा तयोर् एको दत्तः । तौ कथयतः स्थविर स एवास्माकं कलिः संवृत्तः । त्वम् एवास्माकं भाजय । स भाजयितुम् आरब्धः । तत्राप्य् एकः पटको ऽतिरिक्तः । तम् अप्य् आदाय पटकानां भारं बद्ध्वा संप्रस्थितः । ततो ऽनुपूर्वेण श्रावस्तीम् अनुप्राप्तः । भिक्षुभिर् दृष्ट उक्तश् च । भदन्तोपनन्द कस् त्वया पश्चाच्छिराशयनो दृष्टः । तेन यथावृत्तं विस्तरेण समाख्यातम्* । ते कथयन्ति । कल्पते तवैवं कर्तुम्* । अमित्राणां पादं गले दत्वा । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् संलक्षयति । यः कश्चिद् आदीनवो भिक्षवः परकीये लाभे सन्निपतन्ति । तस्मान् न भिक्षुणा परकीये लाभे सन्निपतितव्यम्* । सन्निपतति । सातिसारो भवति । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छति । पश्य भदन्त आयुष्मता उपनन्देन ( 263व्1 = ग्ब्म् 6.839 ) तन् महल्लद्वयं धर्ममुखिकया व्यंसितम्* । भगवान् आह । न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वन्य् अनेन महल्लद्वयं व्यंसितम्* । तच् छ्रूयताम्* ।

भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् नदीतीरे उद्रद्वयं प्रतिवसति । तद् यदा जलेन गच्छति तदा मत्स्याः स्थलम् अभिरुहन्ति । यदा ( म्स्व् इइ 103 ) तु स्थलेन गच्छति तदा मत्स्या जले निपतन्ति । न किञ्चिद् अघं साधयन्ति । ततस् तैः सामीचिः कृता । एको ऽस्माकं जलेन गच्छतु द्वितीयः स्थलेन । यत् संपद्यते तद् अस्मात् सामान्यम् इति । तत्रैको जलेन संप्रस्थितो द्वितीयः स्थलेन । तत्र ये जलस्थेन मत्स्याः संत्रासिताः स्थलम् अभिरोहन्ति । तान् स्थलस्था प्रघातयति जलस्थाञ् जलस्थ एव । यावन् मत्स्यानां महानुराशिः संवृत्तः । एकः कथयति । त्वं भाजय । द्वितीयः कथयति । नाहं भाजयामि । किमर्थम्* । मा मे प्रत्यवायः स्यात्* । सो ऽपि कथयति । यद्य् अप्य् एवं ममाप्य् एव एष दोषः । तौ चिन्तापरौ व्यवस्थितौ । यावत् पूर्णमुखो नाम शृगालस् तयोः सकाशम् उपसंक्रान्तः । स कथयति । भागिनेयौ किं चिन्तापरस् तिष्ठतः । मातुल अस्माकं मत्स्याः संपन्नाः । किं न भाजयथः । मातुल प्रत्यवायभयात्* । युवां प्रत्यवायभीरूकौ किम् इच्छथः । पूर्णमुख ऊर्ध्वपादो ऽवाङ्मुखो नरकं पतिष्यतीति । पूर्णमुखः संलक्षयति । सहिताव् एतौ भेत्तव्याव् इति । ततस् तयोर् ध्रुवप्रचार कल्पकारं दृष्ट्वा एकस्य सकाशम् उपसंक्रम्य पृच्छति । भागिनेय त्वयात्र किं कृतम्* । मातुलं अहं जलेन गतः । ये मया जलेन गच्छता मत्स्याः संत्रासिताः स्थलम् अभिरूढाः ते अनेन प्रघातिताः । भागिनेय यदि जलगमनेन किञ्चित् संपद्येत पूर्णमुखो नित्यं जलेन यायात्* । तस्य जलेन गच्छता स्थाणुभयं कण्टभयं ( म्स्व् इइ 104 ) श्वापदभयं कूलपातभयम्* । अपि तु यद्य् असौ न प्रतिघातयति किं त्वं त्रासयित्वा करोषि । सर्वथा ये ऽत्र मत्स्याः संपन्नास् ते तस्यानुभावान् न तव । यद् असौ ददाति न ग्रहीतव्यो नो तु विचारयितव्यः । स तेनाभ्याहतः प्रतिभिन्नस् तूष्णीम् अवस्थितः । ततो द्वितीयस्य सकाशम् उपसंक्रम्य कथयति । भागिनेय त्वयात्र किं कृतम्* । मातुलो ऽहं स्थलेन गतो मया स्थलम् अभिरूढा मत्स्याः प्रतिघातिताः । भागिनेय यदि स्थलगमनेन किञ्चिल् लभ्येत पूर्णमुखो नित्यम् एव स्थलेन यायात्* । तस्य जलेन गच्छता ऊर्मिभयं कूर्मभयं शिशुमारभयं कुम्भीरभयं जालभयम्* । अपि तु यद्य् असौ न संत्रासयति कथं त्वं प्रघातयसि । सर्वथा ये तु मत्स्याः संपन्नास् ते तस्यानुभावात्* । यद् असौ ददाति ( 264र्1 = ग्ब्म् 6.840 ) स ग्रहीतव्यो नो तु विचारयितव्यः । स तेनाभ्याहतः प्रतिभिन्नस् तूष्णीम् अवस्थितः । पूर्णमुखो कथयति । भागिनेय अस्त्य् अन्य उपायः । गाथाभिगीतेन तान् भाजयामः । अकोप्यं भविष्यति । तौ पूर्वम् एवाभ्याहतौ कथयतः । मातुल यथेच्छसि तथा कुरु । पूर्णमुखेन त्रयो भागाः कृताः । पुच्छानाम् एको मत्स्यराशिः शिरसां द्वितीयो मध्यमखण्डानां तृतीय इति । गाथां च भाषते ।
स्थलचारिणो हि लाङ्गूलं शिरो गंभीरचारिणः ।
यस् तु मध्यमको गण्डः धर्मस्थस् तं हरिष्यति ॥ इति ॥
पूर्णमुखः संलक्षयति । व्यंसिताव् एतौ । संपन्नो मे लाभः । स महतो रोहितस्य मत्स्यस्य मध्यगण्डम् आदाय पितुः सकाशम् उपसंक्रान्तः । ततो ऽस्य माता परितुष्टा गाथाभिगीतेन परिपृच्छति ।
कुतस् त्वं पूर्णिक एषि कुत एषि सुपूर्णिक ।
अशिरस्कम् अलाङ्गूलं मत्स्यम् आदाय रोहितम्* ॥ इति
स कथयति ।
विवदन्ते येन मूढा धर्मा ध र्मेष्व् अकोविदाः ।
अल्पेच्छास् तेन जीवन्ति राजकोषश् च वर्धते ॥ इति ॥
सापि पुनर् गाथां भाषते ।
साधु ते सुपराक्रान्तं पूर्णिक प्रियदर्शन ।
त्वं च लाभेन संयुक्तस् तौ चापि परितोषितौ ॥ इति ॥
किं मन्यध्वे भिक्षवः । यो ऽसौ पूर्णमुखः शृगाल एष एवासौ उपनन्दः । तेन कालेन तेन समयेन यौ ताव् उद्राव् एतौ तौ महल्लौ । तदाप्य् अनेन तौ व्यंसिताव् एतर्ह्य् अपीति ।
श्रावस्त्यां निदानम्* । अन्यतमस्मिन् कर्वटके गृहपतिः । तेन विहारः कारितः । तत्र भिक्षुशतं वार्षा उपगतम्* । तस्य गृहपतेर् बुद्धिर् उत्पन्ना पटकशतं समुदानयामि । भिक्षुसंघं भोजयित्वा प्रत्येकम् एकैकं भिक्षुं पटेनाच्छादयिष्यामीति । यावद् उपनन्देन श्रुतम्* । अमुको गृहपतिर् भिक्षुसंघं भोजयित्वा प्रत्येकम् एकैकं भिक्षुं पटेनाच्छादयिष्यतीति । श्रुत्वा च पुनः संलक्षयति । न भवाम्य् उपनन्दो यदि ( म्स्व् इइ 106 ) तस्मात् पटकं न निष्पादयामीति । सो ऽनिमन्त्रित एष गतः । गृहपतिर् भिक्षुसंघं भोजयित्वा चारयति । उपनन्दः पटकं गृहीत्वा लघुलघ्व् एव प्रक्रान्तः । यावद् एकस्य भिक्षोः पटको नास्ति । गृहपतिः कथयत्य् आर्य पटकशतं मया सुगणितम् आनीतम्* । मा केनचिद् आर्येण पटद्वयं गृहीतं भवेद् इति । भिक्षवः कथयन्ति । गृहपते को ऽसाव् एवं करिष्यति । अपि तु भदन्तोपनन्दस् त्वयोपनिमन्त्रितः । आर्य नाहम् उपनिमन्त्रयामि । स तं पटकम् आदाय प्रक्रान्तः । ततो ऽसौ गृहपतिर् अवध्यायितुम् आरब्धः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । यः कश्चिद् आदीनवो भिक्षवो ऽनिमन्त्रिताः परकीये ( 264व्1 = ग्ब्म् 6.841 ) लाभे संनिपतन्ति । तस्मान् न भिक्षुणानिमन्त्रितेन परकीये लाभे संनिपतितव्यम्* । संनिपतति । सातिसारो भवति ।
भिक्षवः संशयजाताः । सर्वसंशयच्छेतारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त आयुष्मान् उपनन्दो ऽनिमन्त्रित एव परकीये लाभे संनिपतित इति । भगवान् आह । न भिक्षव एतर्हि । यथा अतीते ऽप्य् अध्वन्य् उपनन्दो ऽनिमन्त्रितः परकीये लाभे संनिपतितः । तच् छ्रूयताम्* ।
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके ब्राह्मणः पर्षन्महत्तरः । तेन माणवशतं त्रैमासीम् उपनिमन्त्र्य माणवशतं भोजिताम्* । तस्य बुद्धिर् उत्पन्ना प्रत्येकम् एकैकं माणवकं पटेनाच्छादयिष्यामीति । ( म्स्व् इइ 107 ) तस्य नातिदूरे वृद्धो ब्राह्मणः प्रतिवसति । तेन श्रुतम्* । स प्रथमतरं वृद्धान्ते भुक्त्वा पटम् आदाय प्रक्रान्तः । गृहपतिना पटकाच् छोरिताः । यावद् एकस्य माणवकस्य पटो नास्ति । स पृच्छति । भवन्तो मया पटकशतं सुगणितम् आनीतम्* । मा केनचिन् माणवकेन पटकद्वयं गृहीतं भवेद् इति । ते कथयन्ति । क एवं करिष्यति । अपि तु त्वया वृद्धो ब्राह्मण उपनिमन्त्रितः । नाहम् उपनिमन्त्रयामि । स तं पटकम् आदाय प्रथमतरं प्रक्रान्तः । स ब्राह्मणो ऽवध्या यि तुम् आरब्धः ।
किं मन्यध्वे भिक्षवः । यो ऽसौ ब्राह्मणो वृद्धः एष एवासाव् उपनन्दस् तेन कालेन तेन समयेन । तदाप्य् एषो ऽनिमन्त्रितः परकीये लाभे संनिपतित एतर्ह्य् अपीति ।

श्रावस्त्यां निदानम्* । अन्यतमस्मिन् कर्वटके गृहपतिः । तेन विहारः कारितः । तत्रैको भिक्षुर् वर्षा उपगतः । स उत्थानसंपन्नः । तेनासौ विहारः प्रतिदिनम् उपलिप्तसंमृष्टः क्रियते । प्रतिपत्त्य् एवासौ विहारः शोभने विविक्तावकाशे च भूभागे प्रतिष्ठापितः नानावृक्षोपशोभिते हंसक्रौंचमयूरशुकशारिकाकोकिलाभिनिकूजिते विविधपुष्पफलोपशोभिते । यावद् विस्तीर्णविभवः सार्थवाहस् तस्मिन् विहारे रात्रिवासम् उपगतः । तेन तां विहारशोभाम् उपवनशोभां च दृष्ट्वाभिप्रसन्नेनादृष्ट्वैव भिक्षुसंघम् उद्दिश्य प्रभूतो लाभः प्रेषितः । स रात्रम् एवोत्थाय प्रक्रान्तः । स भिक्षुः कौकृतिकः संघस्यायं लाभ इति कौकृत्या न गृह्णाति । भिक्षून् एव समन्वेषते भाजयितुम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति भगवान् ( म्स्व् इइ 108 ) आह । गोमयगृहम् अपि चेद् भिक्षुर् निशृत्य वर्षा उपगतो भवति तत्र चेद् ब्राह्मणगृहपतयः संघम् उद्दिश्य लाभम् अनुप्रयच्छन्त्य् अल्पं वा प्रभूतं वा यस् तत्र वसति एको वा द्वौ वा संबहुला वा तेषाम् एव सः । नात्र कौकृत्यं करणीयम्* ।
उद्दानम्* । ( 265र्1 = ग्ब्म् 6.842 )
भिन्नानां देयप्रत्यंशं ऋषिलस्य च चारिकाम्* ।
संघस्य चीवरं चैव अष्टौ लाभेन कारयेत्* ॥
श्रावस्त्यां निदानम्* । आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । अन्तर्वर्षे भदन्त संघो भिद्येत । देयो लाभो न देयः । भगवान् आह । कस्यचिद् उपालिन् देयः कस्यचिन् न देयः । कस्य देयः । धर्मपाक्षिकस्य

1.2

अन्तर्वर्षे भदन्त भिक्षुः शिक्षां प्रत्याख्याय हानायावर्तते । देयो लाभो न देयः । कस्यचिद् उपालिन् देयः कस्यचिन् न देयः । कस्य देयः । यद्भूयो ऽपि तस्य

1.3

अन्तर्वर्षे भदन्त भिक्षुः कालं कुर्यात्* । देयो लाभो न देयः । कस्यचिद् उपालिन् देयः कयचिन् न देयः । कस्य देयः । यद्भूयो ऽपि तस्य

मूल पाठ: Cīvaravastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc