ग्रंथ पाठ
छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.22
7.22.1
छुप्भ्_7,21.1 यदा वै करोति ।
कृतिरिन्द्रियसंयमश्चित्तैकाग्रताकरणं च ।
सत्यां हि तस्यां निष्ठादीनि यथोक्तानि भवन्ति विज्ञानावसानानि ॥1॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्यैकविंशः खण्डः
स्तर्त् छुप् 7,22.1
यदा वै सुखं लभते ऽथ करोति ।
नासुखं लब्ध्वा करोति ।
सुखम् एव लब्ध्वा करोति ।
सुखं त्व् एव विजिज्ञासितव्यम् इति ।
सुखं भगवो विजिज्ञास इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0