भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.7

5.7.1

छुप्भ्_5,6.2 तस्मिन्नित्यादि समानम् ।
तस्या आहुतेरन्नं व्रीहियवादि सम्भवति ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य षष्ठः खण्डः
=======================================================================
स्तर्त् छुप् 5,7.1
पुरुषो वाव गौतमाग्निः ।
तस्य वाग् एव समित् ।
प्राणो धूमः ।
जिह्वार्चिः ।
चक्षुर् अङ्गाराः ।
श्रोत्रं विस्फुलिङ्गाः

5.7.2

छुप्भ्_5,7.1 पुरुषो वाव गौतमाग्निः ।
तस्य वागेव समित् ।
वाचा हि मुखेन समिध्यते पुरुषो न मूकः ।
प्राणो धूमो धूम इव मुखान्निर्गमनात् ।
जिह्वार्चिर्लोहितत्वात् ।
चक्षुरङ्गारा भास आश्रयत्वात् ।
श्रोत्रं विस्फुलिङ्गाः ।
विप्रकीर्णत्वसाम्यात् ॥1 ॥
स्तर्त् छुप् 5,7.2
तस्मिन्न् एतस्मिन्न् अग्नौ देवा अन्नं जुह्वति ।
तस्या आहुतेर् रेतः सम्भवति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc