भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.21

5.21.1

छुप्भ्_5,20.1,2 अथ यां द्वितीयां चतुर्थीं पञ्चमीमिति समानम् ॥1-2 ॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य विंशः खण्डः
=======================================================================
स्तर्त् छुप् 5,21.1-2
अथ यां तृतीयां जुहुयात् तां जुहुयाद् अपानाय स्वाहेति ।
अपानस् तृप्यति

5.21.2

अपाने तृप्यति वाक् तृप्यति ।
वाचि तृप्यन्त्याम् अग्निस् तृप्यति ।
अग्नौ तृप्यति पृथिवी तृप्यति ।
पृथिव्यां तृप्यन्त्यां यत् किं च पृथिवी चाग्निश् चाधितिष्ठतस् तत् तृप्यति ।
तस्यानुतृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc