छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.16
छुप्भ्_5,15.2 सन्देहस्त्वेष सन्देहो मध्यमं शरीरं वैश्वानरस्य ।
दिहेरुपचयार्थत्वान्मांसरुधिरास्थ्यादिभिश्च बहुलं शरीरं तत्सन्देहस्ते तव शरीरं व्यशीर्यच्छीर्णमभविष्यद्यन्मां नाऽगमिष्य इति ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य पञ्चदशः खण्डः
=======================================================================
स्तर्त् छुप् 5,16.1
अथ होवाच बुडिलम् आश्वतराश्विम् ।
वैयाघ्रपद्य कं त्वम् आत्मानम् उपास्स इति ।
अप एव भगवो राजन्न् इति होवाच ।
एष वै रयिर् आत्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से ।
तस्मात् त्वं रयिमान् पुष्टिमान् असि
छुप्भ्_5,16.1 अथ होवाच बुडिलमाश्वतराश्विमित्यादि समानम् ।
एष वै रयिरात्मा वैश्वानरो धनरूपः ।
अद्भ्यो ऽन्नं ततो धनमिति ।
तस्माद्रयिमान्धनवांस्त्वं पुष्टिमांश्च शरीरेण;पुष्टेश्चान्ननिमित्तत्वात् ॥1 ॥
स्तर्त् छुप् 5,16.2
अत्स्य् अन्नं पश्यसि प्रियम् ।
अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते ।
बस्तिस् त्व् एष आत्मन इति होवाच ।
बस्तिस् ते व्यभेत्स्यद् यन् मां नागमिष्य इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0