छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.9
इति छान्दोग्योपनिषदि तृतीयाध्यायस्याष्टमः खण्डः
=======================================================================
स्तर्त् छुप् 3,9.1-4
अथ यच् चतुर्थम् अमृतं तन् मरुत उपजीवन्ति सोमेन मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतद् एवामृतं दृष्ट्वा तृप्यन्ति
त एतद् एव रूपम् अभिसंविशन्ति ।
एतस्माद् रूपाद् उद्यन्ति
स य एतद् एवम् अमृतं वेद मरुताम् एवैको भूत्वा सोमेनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति ।
स एतद् एव रूपम् अभिसंविशति ।
एतस्माद् रूपाद् उदेति
स यावद् आदित्यः पश्चाद् उदेता पुरस्ताद् अस्तम् एता द्विस् तावद् उत्तरत उदेता दक्षिणतो ऽस्तम् एता मरुताम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0