छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.8
छुप्भ्_3,7.4 स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत्ततो द्विगुणं कालं दक्षिणत उदेतोत्तरतो ऽस्तमेता रुद्राणां तावद्भोगकालः ॥4॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य सप्तमः खण्डः
=======================================================================
स्तर्त् छुप् 3,8.1-4
अथ यत् तृतीयम् अमृतं तद् आदित्या उपजीवन्ति वरुणेन मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतद् एवामृतं दृष्ट्वा तृप्यन्ति
त एतद् एव रूपम् अभिसंविशन्ति ।
एतस्माद् रूपाद् उद्यन्ति
स य एतद् एवम् अमृतं वेदादित्यानाम् एवैको भूत्वा वरुणेनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति ।
स एतद् एव रूपम् अभिसंविशति ।
एतस्माद् रूपाद् उदेति
स यावद् आदित्यो दक्षिणत उदेतोत्तरतो ऽस्तम् एता द्विस् तावत् पश्चाद् उदेता पुरस्ताद् अस्तम् एतादित्यानाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0