भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.18

2.18.1

छुप्भ्_2,17.2 लोकी भवति लोकफलेन युज्यत इत्यर्तः ।
लोकान्न निन्देत्तद्व्रतम् ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य सप्तदशः खण्डः
=======================================================================
स्तर्त् छुप् 2,18.1
अजा हिङ्कारः ।
अवयः प्रस्तावः ।
गाव उद्गीथः ।
अश्वाः प्रतिहारः ।
पुरुषो निधनम् ।
एता रेवत्यः पशुषु प्रोताः

2.18.2

छुप्भ्_2,18.1 अजा हिङ्कार इत्यादि पूर्ववत् ।
पशुषु प्रोताः ॥1 ॥
स्तर्त् छुप् 2,18.2
स य एवम् एता रेवत्यः पशुषु प्रोता वेद ।
पशुमान् भवति ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
महान् प्रजया पशुभिर् भवति ।
महान् कीर्त्या ।
पशून् न निन्देत् ।
तद् व्रतम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc