भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.17

2.17.1

छुप्भ्_2,16.2 एतद्वैराजमृतुषु प्रोतं वेद विराजति ऋतुवद्यथर्तव आर्तवैर्धर्मैर्विराजन्त एवं प्रजादिभिर्विद्वानित्युक्तमन्यत् ।
ऋतीन्न निन्देत्तद्व्रतम् ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य षोडशः खण्डः
=======================================================================
स्तर्त् छुप् 2,17.1
पृथिवी हिङ्कारः ।
अन्तरिक्षं प्रस्तावः ।
द्यौर् उद्गीथः ।
दिशः प्रतिहारः ।
समुद्रो निधनम् ।
एताः शक्वर्यो लोकेषु प्रोताः

2.17.2

छुप्भ्_2,17.1 पृथिवी हिङ्कार इत्यादि पूर्ववत् ।
शक्वर्य इति नित्यं बहुवचनं रेवत्य इव ।
लोकेषु प्रोताः ॥1 ॥
स्तर्त् छुप् 2,17.2
स य एवम् एताः शक्वर्यो लोकेषु प्रोता वेद ।
लोकी भवति सर्वम् आयुर् एति ।
ज्योग् जीवति ।
महान् प्रजया पशुभिर् भवति ।
महान् कीर्त्या ।
लोकान् न निन्देत् ।
तद् व्रतम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc