छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.16
छुप्भ्_2,15.2 विरूपांश्च सुरूपांश्चाजाविप्रभृतीन्पशूनवरुन्धे प्राप्नोतीत्यर्थः ।
वर्षन्तं न निन्देत्तद्व्रतम् ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य पञ्चदशः खण्डः
=======================================================================
स्तर्त् छुप् 2,16.1
वसन्तो हिङ्कारः ।
ग्रीष्मः प्रस्तावः ।
वर्षा उद्गीथः ।
शरत् प्रतिहारः ।
हेमन्तो निधनम् ।
एतद् वैराजम् ऋतुषु प्रोतम्
छुप्भ्_2,16.1 वसन्तो हिंङ्कारः प्राथम्यात् ।
ग्रीष्मः प्रस्ताव इत्यादि पूर्ववत् ॥1 ॥
स्तर्त् छुप् 2,16.2
स य एवम् एतद् वैराजम् ऋतुषु प्रोतं वेद ।
विराजति प्रजया ।
पशुभिर् ब्रह्मवर्चसेन ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
महान् प्रजया पशुभिर् भवति ।
महान् कीर्त्या ।
ऋतून् न निन्देत् ।
तद् व्रतम्
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0