भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.15

2.15.1

छुप्भ्_2,14.2 स य इत्यादि पूर्ववत् ।
तपन्तं न निन्देत्तद्व्रतम् ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य चतुर्दशः खण्डः
=======================================================================
स्तर्त् छुप् 2,15.1
अभ्राणि संप्लवन्ते स हिङ्कारः ।
मेघो जायते स प्रस्तावः ।
वर्षति स उद्गीथः ।
विद्योतते स्तनयति स प्रतिहारः ।
उद्गृह्णाति तन् निधनम् ।
एतद् वैरूपं पर्जन्ये प्रोतम्

2.15.2

छुप्भ्_2,15.1 अभ्राण्यब्भरणात्, मेघ उदकसेक्तृत्वात् ।
उक्तार्थमन्यत् ।
एतद्वैरूपं नाम साम पर्जन्ये प्रोतम् ।
अनेतरूपत्वात् अभ्रादिभिः पर्जन्यस्य वैरूप्यम् ॥1 ॥
स्तर्त् छुप् 2,15.2
स य एवम् एतद् वैरूपं पर्जन्ये प्रोतं वेद ।
विरूपांश् च सुरूपंश् च पशून् अवरुन्धे ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
महान् प्रजया पशुभिर् भवति ।
महान् कीर्त्या ।
वर्षन्तं न निन्देत् ।
तद् व्रतम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc