चमत्कारचन्द्रिका · अध्याय 4
इति श्री सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासारशीतलायां चमत्कारचन्द्रिकाया मर्थगुणदोषप्रबन्धविशेषविवेको नाम तृतीयो विलासः ॥
चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता चतुर्थो विलासः ।
रूपादय इवाङ्गस्य स्वरूपोत्कर्षहेतवः ।
काव्यस्यैतान्विजानन्ति गुणान् गुणविवेकिनः
श्लेषप्रसादौ समता माधुरी सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजः कान्तिरुदात्तता
प्रेयान् समाधिरौर्जिंत्यं सौम्यं गाम्भीर्यविस्तरौ ।
संक्षेपः शब्दसंस्कारो भाविकत्वं च सम्मितः
गत्युक्तिरीतयः काव्ये ते त्रायोविंशतिर्मताः ।
तत्र श्लेषः
मसृणश्लिष्टपदता श्लेष इत्यभिधीयते
यथा
अव्याजसुन्दरमनिन्दितसच्वसार- माजानुवाहुमरविन्ददलायताक्षम् ।
श्रीसिङ्गभूपमवलोकयतां जनाना- मानन्दितानि नयनानि सुधाम्बुनेव ॥ च्क्च्_4.*1 ॥
अत्र भिन्नानामपि पदानामेकपदवत्पाठसमये प्रतिभानं श्लेषः ।
द्रागर्थावगतिर्यत्र स प्रसादो निगद्यते
यथा सौगन्धिके च घनसारिणि चन्दने च बिम्बाधरे च सुदृशां वदने च तासाम् ।
श्रीसिङ्गभूपरचिते च गिरां कदम्बें को वा न नन्दति जनो जगदेकसारे ॥ च्क्च्_4.*2 ॥
अत्र पादानां समकालमेवार्थसमर्पकत्वात् प्रसादः ।
मृदुस्फुटविमिश्राणां वर्णानां बन्धक्ल्टप्तिषु ।
आमूलचूडं निर्वाहः समता धीमतां मता
अत्र स्फटवर्णनिर्वाहो यथा
युद्धेषु प्रतिपक्षलक्षतुरगप्रध्वंसनोत्तंसिते त्वत्कौक्षेयकशिक्षितैरपि परं सिङ्गक्षमारक्षक ।
सप्ताश्वे प्रतिभेदमात्रमरिभिः प्रायेण संधार्यते कष्टं क्लिष्टधियां गुरोरपि वृथा सर्वैव विद्या भवेत् ॥ च्क्च्_4.*3 ॥
अत्र पादचतुष्टये ऽपि घोषपराक्षरप्रायत्वनिर्वहणात्स्फुटवर्णा समता ।
मिश्रवर्णबन्धनिर्वाहो यथा
आक्षेपोक्तिविधायिनां क्षितिभुजामात्मावरोधान्तिके युद्धाग्रे तु निरीक्ष्य साध्वसवतां त्वां खड्गनारायण ।
रूक्षोदग्र तृणाङ्कुरग्रसनता जिह्वाग्रविच्छेदनं दण्डो ऽभूदत एव ते हि भवता स्वे स्वे पदे स्थापिताः ॥ च्क्च्_4.*4 ॥
अत्र पादचतुष्टये ऽपि नातिवर्णमृदुप्रायता नातिरूक्षाक्षरप्रायता चेति मिश्रबन्धसमता ।
अग्रन्थिला पृधग्भूतिः पतानां माधुरी मता
यथा
चम्मं पोम्मोत्त उत्तं .... .... .... .... .... .... .... .... .... .... .... .... .... .... ।
बोम्मो कापूण सोम्मं त्विहुवण रअणं कण्णअं कित्ति सण्णं द्विहा उंतिए णाहं कुण इव रौणं मंगलं सिंगभूवम् ॥ च्क्च्_4.*5 ॥
अत्र पाठसमय एव पदविभागः प्रतिभातीति माधुर्यम् ।
संयुक्ताक्षरसच्वे ऽपि श्रव्यत्वं सुकुमारता
यथा
युष्माभिः प्रतिगण्डभैरवरणे प्राणाः कथं रक्षिता इत्यन्तः पुरपृच्छया यदरिषु प्राप्तेषु चाज्ञावशम् ।
शंसत्युन्नतमान्स व्यतिकरव्यापारपारङ्गता गण्डान्दोलितकर्णकुण्डलहरिन्माणिक्य वर्णाङ्कुराः ॥ च्क्च्_4.*6 ॥
अत्र संयुक्ताक्षरप्रायत्वे श्रुतेरकटुत्वात्सौकुमार्यम् ।
अद्याहारानपेक्षत्व मर्थव्यक्तिरितीरिता
यथा
नमन्ति सिङ्गभूपालं राजानो नीतिकोविदाः ।
निजराज्यप्रतिष्ठायै शरणागतवत्सलम् ॥ च्क्च्_4.*7 ॥
अत्र वाक्यस्य संपूर्णता स्पष्टैव ।
विकटाक्षरता बन्धे प्राज्ञैरौदार्य मीर्यते
यथा
गर्जद्घूर्जरगर्वपर्वतभिदे नेपालभूपालक-ध्वान्तध्वान्तविरोधिने कटुरटत्सौराष्ट्रराष्ट्रद्रुहे ।
दृप्यत्केरलमौलिमोटनकृते श्रीसिङ्गपृथ्वींपते भूयासुर्भुवनाभयव्रतभृते श्रेयांसि भूयांसि ते ॥ च्क्च्_4.*8 ॥
अत्र विकटाक्षरतया नृत्यद्भिरिव पदैर्या बन्धरचना तदौदार्यम् ।
ओजस्समास्बाहुल्यमेतद् द्वेधा निगद्यते ।
समासानामदीर्घाणां प्राचुर्यात्प्रथमं भवेत्
इदं कोमलमार्गानुसारिणां प्राणसंमितम् ।
समासस्यातिदीर्घत्वाद् द्वितीयं गौडसम्मतम्
अत्राल्पसमासप्राचुर्यं यथा नायकस्यैव
आकीर्णघर्मजलमाकुलकेशपाशम् आमीलिताक्षियुगमादृतपारवश्यम् ।
आनन्दकन्दलितमस्तमितान्यभावम् आशास्महे किमपि चेष्टितमायताक्ष्याः ॥ च्क्च्_4.*9 ॥
यथा च
सङ्गीतक्रमचङ्क्रमप्रियसखी शृङ्गारसंजीवनी सौजन्यद्रुमसारणी चतुरतासाम्राज्यसिंहासनम् ।
श्रीसिङ्गक्षितिपालशेखरमणेर्वैयात्यघण्टापथश् चाटुव्याहृतिवैखरी विजयते साहित्यशिल्पावधिः ॥ च्क्च्_4.*10 ॥
अत्र स्वल्पसमासत्वं (?) स्पष्टमेव --- --- --- दीर्घसमासत्वं यथा
... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ।
पिशाचाः सह सहचटैः हस्ततालानुकूलं (?) क्रीडन्ति क्रेंक्रियाभिः कहकहनिनदाडम्बरालम्बिनीभिः ॥ च्क्च्_4.*11 ॥
अत्र दीर्घसमासत्वं स्पष्टमेव ।
कान्तिश्छाया हि बन्धस्य कथिता बन्धकोविदैः
यथा
आकृष्टा मूर्ध्नि कृष्णा गहनमणिगता मैथिली पूर्वमूर्वोश् छन्ना पर्णैरपर्णा किल नलमहिषी कल्पिता शित्पिनीति ।
आस्तां तत्तद्दशायामपि दधति शुचं यावदाक्षेपरूपैर् आख्यातैः सिङ्गभूप त्वदरिमृगदृशां स्थैर्यवत्यो जरत्यः ॥ च्क्च्_4.*12 ॥
यथा (वा)
ललितरसविलाकव्यासविन्यासधन्यां प्रथयति मधुरार्थां भारतीं सिङ्गभूपे ।
गरनिगरणरूक्षैरक्षरैर् वावदूको विषधरकुलमूर्धा न स्फुटी यः स्फुटीति ॥ च्क्च्_4.*13 ॥
अत्र बन्धस्यात्युज्ज्वलत्वं छाया सैव कान्तिः ।
श्लाग्यैर्विशेषणैर्योगं बुधा विदुरुदात्तताम्
यथा
आकल्पमाकल्पविशेषभाजा भुजेन रेखाकुलिशाङ्कितेन ।
श्रीसिङ्गभूपाल तवायतेन रक्षावती सागरमेखलेयम् ॥ च्क्च्_4.*14 ॥
अत्र भुजविशेषणानां भाग्यविशेषप्रतिपादकत्वादतिश्लाघ्यत्वम् ।
प्रेयान् प्रियोक्तेर्विन्यासश्चाटुसाहित्यजीवितम्
यथा
सौभाग्यभाग्य युवतीजनचित्तचोर दाक्षिण्यगण्य धरणीतलपारिजात ।
शृङ्गारभाव करुणाकर सिङ्गभूप गां रक्ष रक्ष तव रक्षणमेव धर्मः ॥ च्क्च्_4.*15 ॥
अत्र नायकं प्रति दूत्याः प्रियोक्तिः स्पष्टैव ।
समाधिरिह शब्दस्य वृत्तिस्स्यादौपचारिकी
यथा
अध्यास्ते फणिलोकपुङ्गवफणानिर्व्यूढपर्यङ्किकाम् आक्रामत्यनुवेलमब्धिरशना काञ्चीगुणाडम्बरम् ।
निंस्ते विस्मयधूतधूर्जटिजटाकूलंकषाहंक्रियां श्रीसिङ्गक्षितिपालकीर्तिमहिमासाकल्यकल्पोदयः ॥ च्क्च्_4.*16 ॥
अत्राध्यासनाक्रमणचुम्बनानामुपचरितत्वं कीर्तेरचेतनत्वात् ।
यद्बन्धस्यातिगाढत्वं तदौर्जित्यमुदाहृतम्
यथा
करिपतिदृढकुम्भालम्बन्प्रक्रमां च .... .... घोरकोणः कृपाणः ।
तव रचयति धनुरध्वंसनं सिङ्गभूप प्रदनकदनगन्धप्रङ्वणब्वान् पिशाचान् ॥ च्क्च्_4.*17 ॥
अत्र ह्रस्वाक्षराणां संयुक्तपूर्वतया गुरुत्वे यद्गाढत्वं तदौर्जित्यं नाम ।
अन्तस्संजल्पसामर्थ्यं शब्दानां सौक्ष्म्यमुच्यते
यथा
भूधातुं कर्तृभावादनुगतमनुना मानयत्यात्ममाने पर्याये संपदां स्यादभिपरिसहितं विद्विषां कर्मभावः ।
पुंलिङ्गे त्वन्मनो ऽब्जं स्पृशति शिवपदं त्वद्गृहाली न पुंसि स्त्रीलिङ्गे शात्रवाणां निखिलमपि पुरं सिङ्गभूपालचन्द्र ॥ च्क्च्_4.*18 ॥
अत्र नायकः सम्पदो ऽनुभवतीति, द्विषः परिभवति, नायकस्य मानसं शिवो महादेवः स्पृशति, तद्विरोधिनगरं शिवा जम्बूकः स्पृशतीति पदानां भूधातुं कर्तुभावादित्यादिषु गर्भितत्वादन्तः संजल्पनशक्तिःप्रतीयत इति सौक्ष्म्यमिदम् ।
ध्वनिमत्ता तु गाम्भीर्यं
यथा
एकेनैव तुरङ्गमेण ककुभो व्याक्रम्य सौम्यक्रमा- नङ्गीकृत्य करान् कदाचिदगतः कांचित्तमोग्रस्तताम् ।
उल्लासाय सतामनन्तमुदयं धत्ते तथापि स्फुटं त्वं प्राज्ञैर्ननु सिङ्गभूपतिलक ज्ञातो ऽसि भासां निधिः ॥ च्क्च्_4.*19 ॥
अत्र सूर्यस्तु दिशस्तुरङ्गमैस्सप्तभिराक्रमति, तीव्रान् किरणानङ्गीकरोति, रहुग्रस्ततां गच्छति नक्षत्राणामनुल्लासाय सान्तमुदयं धत्त इति ध्वनिर्विद्यते ।
तस्माद्गम्भीरत्वम् ।
प्रपञ्चोक्तिस्तु विस्तरः
पुण्यैः पूर्वमुपार्जितैस्तनुमतो जन्मास्तु सन्मानुषं जन्माप्यस्य तदान्ध्रदेशतिलके राजाचले संभवेत् ।
तत्राप्येष दधातु तां परिणतिं भाग्यस्य योग्यां तथा गत्वा नन्दति सिङ्गभूवर गिरं त्वत्कां चमत्कारिणीम् ॥ च्क्च्_4.*20 ॥
अत्र नायकस्य सन्निधौ सर्वदा स्थातुमिच्छामीति विवक्षितार्थस्यातिविवृत्य करणाद्विस्तरः ।
संक्षेपस्तु समस्योक्तिरनल्पस्यापि वस्तुनः
यथा
षड्भिः षोडशभिर्भूपैगौरेका महिषी कृता ।
सैव श्रीसिङ्गभूपालकुञ्जरेण वशीकृता ॥ च्क्च्_4.*21 ॥
अत्र षड्भिरित्यनेन
"हरिश्चन्द्रो नलो राजा पुरुकुत्सः पुरूरवाः ।
सगरः कार्तवीर्यश्च षडेते चक्रवर्तिनः" ॥
इति श्लोकार्थस्य, षोडशभिः भूपैरित्यनेन,
"गयो ऽम्बरीषः शशिबिन्दुरङ्ग पृथुर्मरुत्तो भरतस्सुहोत्रः ।
रामो दिलीपः शिबिरन्तिदेवौ ययातिमान्धातृभगीरथाश्च" ॥
इति श्लोकार्थस्य च प्रपञ्चकथनप्रसिद्धस्यात्रातिसङ्कोचेन कथनाच्चमत्कारातिशयकारी संक्षेपो नाम गुणः अयम् --- "स मारुतसुतानीतमहौषधिधृतव्यथः" ।
इत्यादौ कविभिरङ्गीकृतो लक्षणीयः ।
सुपां तिङां च व्यत्पत्तिश्शब्दसंस्कार उच्यते
यथा
दिक्कूलङ्कषवैभवा घनपथव्याप्तिप्रियंभावुका श्रीसिङ्गक्षितिपालकीर्तिविभवाः शम्भोस्तुलालम्बिनः ।
गामध्यासितुमीशते प्रगुपते पर्याप्तमार्योत्सवान् कल्पान्ते तव कल्पितां विवृणुते धाम्रा महिम्रां श्रियम् ॥ च्क्च्_4.*22 ॥
अत्र दिक्कूलंकषेति प्रियंभावुकेति गामध्यासितुमित्यादौ सुबन्तानामीशत इत्यादिषु तिङ्न्तानां च दिग्व्यापिनो ऽन्तरिक्षव्यापिनो गवि तिष्ठन्त्यादिभि र्विशेषप्रतिभानाच्छब्दसंस्कार इत्युच्यते ।
हर्षादि भाववशतो वाग्वृत्तिर्भाविकं मतम्
यथा
विद्यादैवत तात तावकगुरो सर्वज्ञचूडामणे स्तोतव्यो ऽसि मनीषिणां त्वमथवा वन्द्यो जवाकैरलम् ।
इत्थं सिङ्गमहीपतिं गुरुजनो ऽप्याभाषते तोषवान् तत्तत्पद्धतिधर्ममर्मणि परिच्छेदानि संवादिनम् ॥ च्क्च्_4.*23 ॥
परिछेदसंभूतसंतोषवशेन प्रवृत्तत्वाद् भाविकत्वम् ।
तत्सम्मितत्वं शब्दार्थकूलाबधृतिरुच्यते
यथा
विक्रमे न क्रमे केचित्क्रमे केचिन्न विक्रमे ।
विक्रमे च क्रमे चायं दक्षः श्रीसिङ्गभूपतिः ॥ च्क्च्_4.*24 ॥
अत्र यावदर्थपदत्वं सम्मितत्वम् ।
आरोहमवरोहञ्च स्वराणां गतिरीरिता
यथा
श्रीसिङ्गक्ष्मापाले क्षोणीं धारयति सारधौरेये ।
अकरणि मदयति फणिपतिहरिदिभकुलकुधर कपटकमठानाम् ॥ च्क्च्_4.*25 ॥
पूर्वार्धे दीर्वतयास्वराणामारोहः ।
उत्तरार्धे ह्रस्वतयावरोहश्चेति गतिः ।
उक्तिर्विवक्षितस्या न्यभङ्ग्या भणनमुच्यते
यथा तस्याः किं गुणजीवितस्य कुशलं राजन् सती जीवति प्रश्नस्तत्कुशलक्रमो हि कथितं सा जीवतीति स्फुटम् ।
भद्रे दूति पुनस्तदेव किमिदं मुग्धेव संभाषसे श्वासे तिष्ठति सा मृतेति गदितुं श्रीसिङ्ग किं युज्यते ॥ च्क्च्_4.*26 ॥
अत्र तस्याः किं कुशलमिति नायकप्रश्ने दूत्या कुशलमकुशलं वेति प्रतिवक्तव्यजीवतीत्यादियुक्तिभङ्ग्या यो ऽयं त्वद्विरहे जीवितमात्रशेषेति सूचनाप्रकारस्सो ऽयमुक्तिर्नाम गुणः ।
उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते
एकं याचितमर्थिना द्बिगुणितं चित्ते त्वदीये पुनर्- वाक्ये तन्त्रिगुणं चतुर्गुणयुतं हस्ते ततस्त्वर्थिनः ।
पाणौ पञ्जगुणं प्रकल्पितमहो षाड्गुण्यदीक्षागुरो- रौदार्ये तव सिङ्गभूप नितरामाश्चर्यमाचार्यकम् ॥ च्क्च्_4.*27 ॥
अर्त्रकादीनां षडन्तानां यथाक्रमं निर्वाहो रीतिः ।
इति गुणविवेकः ।
रीतिः पदानां घटना प्रोक्ता रीतिविशारदैः ।
रीङ् गतावित्यतो धातोरियं रीतिरितीर्यते
असमासा समासेन मध्यमेव विभूषिता ।
अतिदीर्घसमासा चमिश्रा चेति चतुर्विधा
असमासा यथा
राजानः सन्तु लोके दिनरजनिकृतोरत्र वंशावतंसा विष्णोरैतिह्यसिद्धानभिदधति गुणान् कीर्तिगन्धाः प्रवन्धाः ।
अद्य क्षोणी कृतार्था नृपतिकुलगुरू चक्षुषी यस्य सौऽयं देवो रेचर्लवंशो विहरति भगवान् सिङ्गभूपालमूर्तिः ॥ च्क्च्_4.*28 ॥
नन्वत्र समासः श्रूयते कथमसमासेति चेत् श्रूयताम् ।
अत्र नञा समासस्वरूपनिषेधो नाभिधीयते ।
किन्तु तस्य तीर्गत्वं द्राघीयस्त्वं च ।
यथा-अनुदरेयं कन्या; निस्सारः पुमान्; इति ।
तस्माद् द्वयोः त्रयाणां वा (न) पदानां समासे रीतेः सहृदयहृदयानामनुद्वेगदायिनामसमासत्वमेव ।
यथा च दृष्टमसमासमार्गानुसारिणां महाकवीनां प्रबन्धरत्नेषु ।
"तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी" ॥ च्क्च्_4.*29 ॥
इत्यादि मेघसन्देशे
"वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना ।
अपचितकुसुमापि वल्लरीयं समजनि वृन्तनिलीनषट्पदा" ॥ च्क्च्_4.*30 ॥
इति कर्णामृते ।
"उत्फुल्लगण्डयुगमद्भुतमन्दहासमुद्वेलरागमुररीकृतकामतन्त्रम् ।
हस्तेन हस्तमवलम्ब्य कदा नु सेवे सल्लापरूपममृतं सरसीरुहाक्ष्याः ॥ च्क्च्_4.*31 ॥
इति सिङ्गभूपालीये ।
"मुखप्रधानैरवलंबपूर्वैः कण्ठग्रहैर्विप्रतिपीडिताङ्गैः ।
नखप्रचारै श्शिथिलोपगूढैर्लब्धैः प्रियाया मुमुदे मुकुन्दः ॥ च्क्च्_4.*32 ॥
इति कन्दर्पसंभवे ।
एवनम्येष्वपि वैदर्भमार्गानुसारिणां प्रबन्धेषु तत्र तत्र च तुन्नपदसमासस्यासमासत्वकीर्तनानुप्रवेशाकारो ऽवगन्तव्यः ।
अपरञ्च न्यूनानामदशाधिकानां पदानां समासो मध्यमः तद्वती मध्यमसमासा
यथा
श्रीसिङ्गभूप भवदीयवचोविलास- धारासुधामधुरिमानुभवानुभावात् ।
आमीलिताञ्चलविलोचनयुग्मनिर्य- दानन्दबाष्णकणिकाः सुधियो भवन्ति ॥ च्क्च्_4.*33 ॥
दशाधिकपदसमासातिदीर्घसमासा
यथा
श्रीसिङ्गक्षोणिपालप्रबलबलभरोद्धूतधूलीवितान- छन्नच्छायासहायद्युतिहरिदुदरस्कन्धबद्धान्धकारे ।
व्योम्नि व्यामप्रमेयस्तनयुवतिपरीरंभसंहभकेली- प्रत्यूहव्यूहशान्तिप्रमुदितमनसस्तं प्रशंसन्ति सिद्धाः ॥ च्क्च्_4.*34 ॥
असमासादिरीतीना सहकारान्मिश्रा ।
असमासातिदीर्घसमासयोर्मिश्रणे
यथा
अवितुरकृतभङ्गं सिङ्गभूपालमौले- स्त्रिभूवनमपि शुद्धं कीर्तिकल्लोलिनीभिः ।
विषमविषमचक्षुर्जूटकोटीकुलुङ्ग- स्खलितफलितफेनस्वह्धुनीस्पर्धिनीभिः ॥ च्क्च्_4.*35 ॥
अत्र प्रथमार्धे ऽसमासोत्तरार्धे ऽतिदीर्घसमासा ।
असमासामध्यमसमासयोर्
यथा
प्रतिनृपतिपुरन्ध्रीचारुपाटीरचर्चा- परिकरपरिचर्याद्रोहिणी खड्गधारा ।
जयति विजयलक्ष्म्या वेणिकाश्रेणिकान्ती रणभुवि तव बाहासङ्गिनी सिङ्गभूप ॥ च्क्च्_4.*36 ॥
अत्र प्रथमार्धे मध्यमसमासोत्तरार्घे ऽसमासा ।
अतिदीर्घमध्यमसमासयोर्
यथा
सिङ्गक्ष्मापाल युद्धे प्रतिभटरथिनीनाथकोटीरकोटी- स्फायल्लीलाकलाची भरितनववसाविस्रकीलालहालाम् ।
पायं पायं पिशाचाः सह सह चरीहस्ततालानुकूलं क्रीडन्ति क्रेंक्रियाभिः कहकहनिनदाडम्बरालम्बिनीभिः ॥ च्क्च्_4.*37 ॥
अत्र प्रथमार्धे ऽतिदीर्घसमासोत्तरार्धे मध्यमसमासा ।
एवमन्यदप्येतज्जातीयं द्रष्टव्यम् ।
इति रीतिविवेकः ।
या विकासे च विक्षेपे विक्षोभे विस्तरे तथा ।
(चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षड्विधा)
कैशिक्यारभटी चैव भारती सात्वती तथा ।
मध्यमारभटी चैव तथा मध्यमकैशिकी
मृदू शृङ्गारकरुणौ स्वल्पौ हासायाद्भुतौ पुनः ।
उद्धतौ रौद्रबीभत्सौ किंचिद्वीरभयानकौ
शब्दार्थयोर्मृदुत्वेन कैशिकीवृत्तिरिष्यते
यथा अलोलैराश्चर्यादविरलितलज्जापरिमलैः प्रमोदादुद्वेलैश्चकितहरिणीप्रेक्षणसखैः ।
अमन्दैरौत्सुक्यात्प्रणयलहरीमर्मपिशुनै- रपाङ्गैस्सिङ्गक्ष्मारमणमबला वीक्षितवती ॥ च्क्च्_4.*38 ॥
वृत्तिमारभटीमाहुः प्रौढत्वादर्थशब्दयोः
यथा सावष्टम्भ सदम्भजम्भगिरिसद्व्यालम्भनोत्तम्भित प्रारम्भाद्भूतजम्भभेदिभिदुरत्विङ्गेन खड्गेन ते ।
श्रीसिङ्गक्षितिरक्षक प्रतिमृधं सिद्ध्येदरि क्ष्माभृतां सा रम्भाकुचकुम्भसम्भ्रमपरी रम्भादिसम्भावना ॥ च्क्च्_4.*39 ॥
अत्र स्निग्धप्राणवर्णप्रायत्वं सन्दर्भस्य मृदुत्वम् ।
श्रुङ्गारत्वादर्थस्त मृदुत्वम् ।
अत्र रूक्षमहाप्राणवर्णप्रमायत्वेन संदर्भस्य गाढत्वम् ।
प्रतिभटध्वंसनरुपत्वादर्थस्यगाढत्वम् ।
मृद्वर्था प्रौढसंदर्भा भारतीवृत्तिरिष्यते
यथा तज्जित्वा परिरम्भणप्रभृतिकं द्यूते सखीनां पुरः शार्यारोपणसूचिते पणविधौ श्रीशिङ्गपृथ्वीक्षिता ।
हासोत्फुल्लकपोलकान्तिलहरीसंक्रान्तवक्रेक्षणा सा स्विन्नाङ्गुलि शारिकापरिकरं सज्जीकरोति प्रिया ॥ च्क्च्_4.*40 ॥
अत्र शृङ्गारत्वादर्थस्य मृदुत्वम् ।
बन्धस्य महाप्रणरूक्षवर्णप्रायत्वं प्रौढत्वम् ।
प्रौढार्थमृदुसंदर्बा सात्वती वृत्तिरिष्यते
यथा
श्रीसिङ्गभूपकरवालहलारिमौलेर्- मुक्ताफलानि पतितान्यभितः स्फुरन्ति ।
कीलालमांसकलितासु रणस्थलीषु बीजाङ्कुराणि यशसामिव निर्मलानि ॥ च्क्च्_4.*41 ॥
अत्र रिपुहिंसनरूपत्वा दर्थस्य प्रौढत्वम् ।
अल्पप्राणवर्णप्रायत्वात्संदर्भस्य मृदुत्वम् ।
मृद्वर्थ ईषत्प्रौढसंदर्भा मध्यमकैशिकी
यथा
त्वामाश्रितेष्ववसरो ऽपि न हि क्रशिम्नां तच्चितमाश्रयति च त्वयि सा नतभ्रूः ।
आख्याति हन्त तनिमानमिति प्रसङ्गे कस्यायशो विमृश चेतसि सिङ्गभूप ॥ च्क्च्_4.*42 ॥
अत्र विप्रलम्भत्वादर्थस्य मृदुत्वम् ।
बन्धस्य संयुक्तवर्णह्रस्वाक्षरप्रायत्वेनोर्जितत्वादीषद्गाढत्वम् ।
मद्यमारभटी प्रौढे ऽप्यर्थे नातिमृदुक्रमा
यथा
संवर्तपावकशिखा किमु किं नु जिह्वा मृत्योरियं किमु युगान्तकृतान्तदंष्ट्रा ।
इत्यूह्यते समरसीमनिषेव्यदेशे श्रीसिङ्गभूपकरकम्पितखड्गरेखा ॥ च्क्च्_4.*43 ॥
अत्र समरक्रियारूपत्वादर्थस्य प्रौढत्वम् ।
मिश्रवर्णारब्धत्वात्संदर्भस्य नातिमृदुत्वम् ।
इति वृत्तिविवेकः ।
पाकं वाचां परीपाकमाहुराखादमेदुरम् ।
सो ऽयं मृदुः खरश्चेति समासेन द्विधा भवेत्
अत्र मृदुपाको यथा
किं कामेन किमिन्दुना सुरभिणा किं वा जयन्तेन वा मद्बाग्यादनवोतसिङ्गनृपते रूपं मया वीक्षितम् ।
धन्यास्तत्परिचर्ययैव सुदृशौ हन्तेति रोमाञ्चिता स्विद्यद्गण्डतलं सगद्गदपदं साख्याति सख्याः पुरः ॥ च्क्च्_4.*44 ॥
अत्र द्राक्षापाक इवाक्लेशेन समास्वाददायी शब्दपरिणामो मृदुपाक इत्युच्यते ।
सो ऽयं प्रायेण सहजसाहित्यरेखासमुल्लेखानां सरसकवीश्वराणामानन्दनिष्यन्दफले प्रबन्धेषु दृश्यते ।
तथा हि --- कालिदासस्य ।
"विवृण्वती शैलसुतापि भावमङ्गैऽ; रित्यादि कुमारसंभवे ॥ च्क्च्_4.*45 ॥
तथा च श्रीहर्षदेवस्य ।
"फुल्लो जणाणुरावो लज्जा गुरुई परप्पसो अव्वा ।
पिअसहि विसमं पेम्मं मरणं सरणं च चरम एत्तंऽ; ॥ च्क्च्_4.*46 ॥
तथा च ममैव
चिक्षेप लक्ष्मीर्निटले नखाग्रैः प्रस्वेदवारातपमाक्षिपन्ती ।
जुगोप देवो ऽपि स रोमहर्षं जवाब्धि वाताहतिकैतवेन ॥ च्क्च्_4.*47 ॥
इति कन्दर्पसंभवे ।
एवमन्यत्रापि द्रष्टव्यम् ।
खरपाको यथा
कल्याणेक्षण हेषया प्रकटितस्तम्भप्रतिष्ठाक्रमे मन्दाक्षच्छवि सुन्दरे ललितदृक्कोणक्रियातोरणे ।
भावोल्लासविलासके वरतनोरस्या मनोमण्टपे श्रीसिङ्गक्षितिपालमूर्तिरयते साम्राज्यसिंहासनम् ॥ च्क्च्_4.*48 ॥
अत्र नारिकेलपाक इव विमर्शक्लेशेन विलंब्यास्वाददायी शब्दपरिणामः खरपाक इत्युच्यते ।
सो ऽयमभ्यस्तकविभूमिकानां वक्रोक्तिवासनावासितान्तः करणानां विदग्धानां व्युत्पत्तिमात्रफलेषु लक्ष्यते ।
तथा हि मुरारेः
तदात्वप्रोन्मीलन्म्रदिमरमणीयाः कठिनतां विचिन्त्य प्रत्यङ्गादिव तरुणभावेन नमितौ ।
स्तनौ संबिभ्राणाः क्षणविनयवैयात्यमसृण- स्मरोन्मेषाः केषामुपरि सरसानां युवतयः ॥ च्क्च्_4.*49 ॥
तथा नैषधकारस्य
सर्वाणि रोमाण्यपि बालभावाद्वरस्त्रियं वीक्षितुमुत्सुकानि ।
तस्यास्तथा कोरकिताङ्गयष्टेरुद्ग्रीविकादानमिवान्वभूवन् ॥ च्क्च्_4.*50 ॥
यथा तस्यैव
साधु त्वया तर्कितमेतदेव स्वेनानलं यत्किल संश्रयिष्ये ।
विनामुना स्वात्मनि तु प्रहर्तुं मृषा गिरं त्वां नृपतौ न कर्तुम् ॥ च्क्च्_4.*51 ॥
एवमन्यत्राप्यनुसंधेयम् ।
इति पाकविवेकः ।
शय्या पदानामन्योन्यमैत्री विनिमयासहा ।
स एवास्य पराकाष्ठा शय्या देशविभेदनः
लोके प्रसिद्धमित्येषा प्राज्ञैः शय्येति कीर्तिता
मूल पाठ: Camatkāracandrikā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0