भाषा

ENहिગુ
ग्रंथ पाठ

Buddhacarita (अन्य संस्करण) · अध्याय 9

9.1

इति बुद्धचरिते महाकाव्ये ऽन्तःपुरविलापो नामाष्टमः सर्गः ॥ 8 ॥
चन्तो इx
ततस्तदा मन्त्रिपुरोहितौ तौ बाष्पप्रतोदाभिहतौ नृपेण ।
विद्धौ सदश्वाविव सर्वयत्नात्सौहार्दशीघ्रं ययतुर्वनं तत्

9.2

तमाश्रमं जातपरिश्रमौ तावुपेत्य काले सदृशानुयात्रौ ।
राजर्द्धिमुत्सृज्य विनीतचेष्टावुपेयतुर्भार्गवधिष्ण्यमेव

9.3

तौ न्यायतस्तं प्रतिपूज्य विप्रं तेनार्चितौ तावपि चानुरूपम् ।
कृतासनौ भार्गवमासनस्थं छित्त्वा कथामूचतुरात्मकृत्यम्

9.4

शुद्धौजसः शुद्धविशालकीर्तेरिक्ष्वाकुवंशप्रभवस्य राज्ञः ।
इमं जनं वेत्तु भवानधीतं श्रुतग्रहे मन्त्रपरिग्रहे च

9.5

तस्येन्द्रकल्पस्य जयन्तकल्पः पुत्रो जरामृत्युभयं तितीर्षुः ।
इहाभ्युतेपः किल तस्य हेतोरावामुपेतौ भगवानवैतु

9.6

तौ सो ऽब्रवीदस्ति स दीर्घबाहुः प्राप्तः कुमारो न तु नावबुद्धः ।
धर्मो ऽयमावर्तक इत्यवेत्य यातस्त्वराडाभिमुखो मुमुक्षुः

9.7

तस्मात्ततस्तावुपलभ्य तत्त्वं तं विप्रमामन्त्र्य तदैव सद्यः ।
खिन्नावखिन्नाविव राजभक्त्या प्रसस्रतुस्तेन यतः स यातः

9.8

यान्तौ ततस्तौ मृजया विहीनमपश्यतां तं वपुषोज्ज्वलन्तम् ।
उपोपविष्टं पथि वृक्षमूले सूर्य घनाभोगमिव प्रविष्टम्

9.9

यानं विहायोपययौ ततस्तं पुरोहितो मन्त्रधरेण सार्धम् ।
यथा वनस्थं सहवामदेवो रामं दिदृक्षुर्मुनिरावैर्वशेयः

9.10

तावर्चयामासतुरर्हतस्तं दिवीव शुक्राङ्गिरसौ महेन्द्रम् ।
प्रत्यर्चयामास स चार्हतस्तौ दिवीव शुक्राङ्गिरसौ महेन्द्रः

9.11

कृताभ्यनुज्ञावभितस्ततस्तौ निषेदतुः शाक्यकुलध्वजस्य ।
विरेजतुस्तस्य च संनिकर्षे पुनर्वसू योगगताविवेन्दोः

9.12

तं वृक्षमूलस्थमभिज्वलन्तं पुरोहितो राजसुतं बभाषे ।
यथोपविष्टं दिवि पारिजाते बृहस्पतिः शक्रसुतं जयन्तम्

9.13

त्वच्छोकशल्ये हृदयावगाढे मोहं गतो भूमितले मुहूर्तम् ।
कुमार राजा नयनाम्बुवर्षो यत्त्वामवोचत्तदिदं निबोध

9.14

जानामि धर्म प्रति निश्चयं ते परैमि ते भाविनमेतमर्थम् ।
अहं त्वकाले वनसंश्रयात्ते शोकाग्निनाग्निप्रतिमेन दह्ये

9.15

तदेहि धर्मप्रिय मत्प्रियार्थ धर्मार्थमेव त्यज बुद्धिमेताम् ।
अयं हि मा शोकरयः प्रवृद्धौ नदीरयः कूलमिवाभिहन्ति

9.16

मेघाम्बुकक्षाद्रिषु या हि वृत्तिः समीरणार्काग्निमहाशनीनाम् ।
तां वृत्तिमस्मासु करोति शोको विकर्षणोच्छोषणदाहभेदैः

9.17

तद्भुङ्क्ष्व तावद्वसुधाधिपत्यं काले वनं यास्यासि शास्त्रदृष्टे ।
अनिष्टबन्धौ कुरु मय्यपेक्षां सर्वेषु भूतेषु दया हि धर्मः

9.18

न चैष धर्मो वन एव सिद्धः पुरे ऽपि सिद्धिर्नियता यतीनाम् ।
बुद्धिश्च यत्नश्च निमित्तमत्र वन च लिङ्गं च हि भीरुचिन्हम्

9.19

मौलीधरैरसविषक्तहारैः केयूरविष्टब्धभुजैर्नरेन्द्रैः ।
लक्ष्भ्यङ्कमध्ये परिवर्तमानैः प्राप्तो गृहस्थैरपि मोक्षधर्मः

9.20

ध्रुवानुजौ यौ बलिवज्रबाहू वैभ्राजमाषाढमथान्तिदेवम् ।
विदेहराजं जनकं तथैव शाल्वद्रुमं सेनजितश्च राज्ञः

9.21

एतान् गृहस्थान्नृपतीनवेहि नैःश्रेयसे धर्मविधौ विनीतान् ।
उभे ऽपि तस्माद्युगपद्भजस्व चित्ताधिपत्यं च नृपश्रियं च

9.22

इच्छामि हि त्वामुपगुह्य गाढं कृताभिषेकं सलिलार्द्रमेव ।
धृतातपत्त्रं समुदीक्षमाणस्तेनैव हर्षेण वनं प्रवेष्टुम्

9.23

इत्यब्रवीद्भूमिपतिर्भवन्तं वाक्येन बाष्पग्रथिताक्षरेण ।
श्रुत्वा भवानर्हति तत्प्रियार्थ स्नेहेन तस्नेहमनुप्रयातुम्

9.24

शोकाम्भसि त्वत्प्रभवे ह्यगाधे दुःखार्णवे मज्जति शाक्यराजः ।
तस्मात्तमुत्तारय नाथहीनं निराश्रयं मग्नमिवार्णवे नौः

9.25

भीष्मेण गङ्गोदरसंभवेन रामेण रामेण च भार्गवेण ।
श्रुत्वा कृतं कर्म पितुः प्रियार्थ पितुस्त्वमओप्यर्हसि कर्तुमिष्टम्

9.26

संवर्धयित्री समवेहि देवीमगस्त्यजुष्टां दिशमप्रयाताम् ।
प्रनष्टवत्सामिव वत्सलां गामजस्रमार्ता करुणं रुदन्तीम्

9.27

हंसेन हंसीमिव विप्रयुक्तां त्यक्तां गजेनेव वने करेणुम् ।
अर्ता सनाथामपि नाथहीनां त्रातुं वधूमर्हसि दर्शनेन

9.28

एकं सुतं बालमनर्हदुःखं संतापमन्तर्गतमुद्वहन्तम् ।
तं राहुलं मोक्षय बन्धुशोकाद्राहूपसर्गादेव पूर्णचन्द्रम्

9.29

शोकाग्निना त्वद्विरहेन्धनेन । निःस्वासधूमेन तमःशिखेन ।
त्वद्दर्शनाम्ब्विच्छति दह्यमानमन्तःपुरं चैव पुरं च कृत्स्नम्

9.30

स बोधिसत्त्वः परिपूर्णसत्त्वः श्रुत्वा वचस्तस्य पुरोहितस्य ।
ध्यात्वा मुहूर्तं गुणवद्गुणज्ञः प्रत्युत्तरं प्रश्रितमित्युवाच

9.31

अवैमि भावं तनये पितॄणां विशेषतो यो मयि भूमिपस्य ।
जानन्नपि व्याधिजराविपद्भ्यो भीतस्त्वगत्या स्वजनं त्यजामि

9.32

द्रष्टुं प्रियं कः स्वजनं हि नेच्छेन्नान्ते यदि स्यात्प्रियविप्रयोगः ।
यदा तु भूत्वापि चिरं वियोगस्ततो गुरुअं स्निन्धमपि त्यजामि

9.33

मद्धेतुकं यत्तु नराधिपस्य शोकं भवानाह न तत्प्रियं मे ।
यत्स्वप्नभूतेषु समागमेषु संतप्यते भाविनि विप्रयोगे

9.34

एवं च ते निश्चयमेतु बुद्धिर्दृष्ट्वा विचित्रं जगतः प्रचारम् ।
संतापहेतुर्न सुतो न बन्धुरज्ञाननैमित्तिक एष तापः

9.35

यथाध्वगानमिह संगतानां काले वियोगो नियतः प्रजानाम् ।
प्राज्ञो जनः को तु भजेत शोकं बन्धुप्रतिज्ञातजनैर्विहीनः

9.36

इहैति हित्वा स्वजनं परत्र प्रलभ्य चेहापि पुनः प्रयाति ।
गत्वापि तत्राप्यपरत्र गच्छत्येवं जने त्यागिनि को ऽनुरोधः

9.37

यदा च गर्भात्प्रभृति प्रवृत्तः सर्वास्ववस्थासु वधाय मृत्युः ।
कस्मादकाले वनसंश्रयं मे पुत्रप्रियस्तत्रभवानवोचत्

9.38

भवत्यकालो विषयाभिपत्तौ कालस्तथैवार्थविधौ प्रदिष्टः ।
कालो जगत्कर्षति सर्वकालान्निर्वाहके श्रेयसि नास्ति कालः

9.39

राज्यं मुमुक्षुर्मयि यच्च राजा तदप्युदारं सदृशं पितुश्च ।
प्रतिग्रहीतुं मम न क्षमं तु लोभादपथ्यान्नमिवातुरस्य

9.40

कथं नु मोहायतनं नृपत्वं क्षमं प्रपत्तुं विदुषा नरेण ।
सोद्वेगता यत्र मदः श्रमश्च परापचारेण च धर्मपीडा

9.41

जाम्बूनदं हर्म्यमिव प्रदीप्तं विषेण संयुक्तमिवोत्तमान्नम् ।
ग्राहाकुलं चाम्ब्विव सारविन्दं राज्यं हि रम्यं व्यसनाश्रयं च

9.42

इत्थं च राज्यं न सुखं न धर्मः पूर्वे यथा जातघृणा नरेन्द्राः ।
वयःप्रकर्षे ऽपरिहार्यदुःखे राज्यानि मुक्त्वा वनमेव जग्मुः

9.43

वरं हि भुक्तानि तृणान्यरण्ये तोषं परं रत्नमिवोपगृह्य ।
सहोषितं श्रीसुलभैर्न चैव दोषैरदृश्यैरिव कृष्णसर्पैः

9.44

श्लाध्यं हि राज्यानि विहाय राज्ञां धर्माभिलाषेण वनं प्रवेष्टुम् ।
भग्नप्रतिज्ञस्य न तूपपन्नं वनं परित्यज्य गृहं प्रवेष्टुम्

9.45

जातः कुले को हि नरः ससत्त्वो धर्माभिलाषेण वनं प्रविष्टः ।
काषायमुत्सृज्य विमुक्तलज्जः पुरंदरस्यापि पुरं श्रयेत

9.46

लोभाद्धि मोहादथवा भयेन यो वान्तमन्नं पुनराददीत ।
लोभात्स मोहादथवा भयेन संत्यज्य कामान् पुनराददीत

9.47

यश्च प्रदीप्ताच्छरणात्कथंचिन्निष्क्रम्य भूयः प्रविशेत्तदेव ।
गार्हस्थ्यमुत्सृज्य स दृष्टदोषो मोहेन भूयो ऽभिलषेद्ग्रहीतुम्

9.48

या च श्रुतिर्मोक्षमवाप्तवन्तो नृपा गृहस्था इति नैतदस्ति ।
शमप्रधानः क्व च मोक्षधर्मो दण्डप्रधानः क्व च राजधर्मः

9.49

शमे रतिश्चेच्छिथिलं च राज्यं राज्ये मतिश्चेच्छमविप्लवश्च ।
शमश्च तैक्ष्ण्यं च हि नोपपन्नं शीतोष्णयोरैक्यमिवोदकाग्न्योः

9.50

तन्निश्चयाद्वा वसुधाधिपास्ते राज्यानि मुक्त्वा शममाप्तवन्तः ।
राज्याङ्गिता वा निभृतेन्द्रियत्वादनैष्ठिके मोक्षकृताभिमानाः

9.51

तेषां च राज्ये ऽस्तु शमो यथावत्प्राप्तो वनं नाहमनिश्चयेन ।
छित्त्वा हि पाशं गृहबन्धुसंज्ञं मुक्तः पुनर्न प्रविविक्षुरस्मि

9.52

इत्यात्मविज्ञानगुणानुरूपं मुक्तस्पृहं हेतुमदूर्जितं च ।
श्रुत्वा नरेन्द्रात्मजमुक्तवन्तं प्रत्युत्तरं मन्त्रधरो ऽप्युवाच

9.53

यो निश्चयो धर्मविधौ तवायं नायं न युक्तो न तु कालयुक्तः ।
शोकाय दत्त्वा पितरं वयःस्थं स्याद्धर्मकामस्य हि ते न धर्मः

9.54

नूनं च बुद्धिस्तव नातिसूक्ष्मा धर्मार्थकामेष्वविचक्षणा वा ।
हेतोरदृष्टस्य फलस्य यस्त्वं प्रत्यक्षमर्थ परिभूय यासि

9.55

पुनर्भवो ऽस्तीति च केचिदाहुर्नास्तीति केचिन्नियतप्रतिज्ञाः ।
एवं यदा संशयितो ऽयमर्थस्तस्मात्क्षमं भोक्तुमुपस्थिता श्रीः

9.56

भूयः प्रवृत्तिर्यदि काचिदस्ति रंस्यामहे तत्र यथोपपत्तौ ।
अथ प्रवृत्तिः परतो न काचित्सिद्धौ ऽप्रयत्नाज्जगतो ऽस्य मोक्षः

9.57

अस्तीति केचित्परलोकमाहुर्मोक्षस्य योगं न तु वर्णयन्ति ।
अग्नेर्यथा ह्यौष्ण्यमपां द्रवत्वं तद्वत्प्रवृत्तौ प्रकृतिं वदन्ति

9.58

केचित्स्वभावादिति वर्णयन्ति शुभाशुभं चैव भवाभवौ च ।
स्वाभाविकं सर्वमिदं च यस्मादतो ऽपि मोघो भवति प्रयत्नः

9.59

यदिन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेषु चैव ।
संयुज्यते यज्जरयार्तिभिश्च कस्तत्र यत्नो ननु स स्वभावः

9.60

अद्भिर्हुताशः शममभ्युपैति तेजांसि चापो गमयन्ति शोषम् ।
भिन्नानि भूतानि शरीरसंस्थान्यैक्यं च गत्वा जगदुद्वहन्ति

9.61

यत्पाणिपादोदरपृष्ठमूर्ध्ना निर्वर्तते गर्भगतस्य भावः ।
यदात्मनस्तस्य च तेन योगः स्वाभाविकं तत्कथयन्ति तज्ज्ञाः

9.62

कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा ।
स्वभावतः सर्वमिदं प्रवृत्तं न कामकारो ऽस्ति कुतः प्रयत्नः

9.63

सर्ग वदन्तीश्वरतस्तथान्ये तत्र पर्यत्ने पुरुषस्य को ऽर्थः ।
य एव हेतुर्जगतः प्रवृत्तौ हेतुर्निवृत्तौ नियतः स एव

9.64

केचिद्वदन्त्यात्मनिमित्तमेव प्रादुर्भवं चैव भवक्षयं च ।
प्रादुर्भवं तु प्रवदन्त्ययत्नाद्यत्नेन मोक्षाधिगमं ब्रुवन्ति

9.65

नरः पितृणामनृणः प्रजाभिर्वेदैऋषीणां क्रतुभिः सुराणाम् ।
उत्पद्यते सार्धमृणैस्त्रिभिस्तैर्यस्यास्ति मोक्षः किल तस्य मोक्षः

9.66

इत्येवमेतेन विधिक्रमेण मोक्षं सयत्नस्य वदन्ति तज्ज्ञाः ।
प्रयत्नवन्तो ऽपि हि विक्रमेण मुमुक्षवः खेदमवाप्नुवन्ति

9.67

तत्सौम्य मोक्षे यदि भक्तिरस्ति न्यायेन सेवस्व विधिं यथोक्तम् ।
एवं भविष्यत्युपपत्तिरस्य संतापनाशश्च नराधिपस्य

9.68

या च प्रवृत्ता तव दोषबुद्धिस्तपोवनेभ्यो भवनं प्रवेष्टुम् ।
तत्रापि चिन्ता तव तात मा भूत पूर्वे ऽपि जग्मुः स्वगृहान्वनेभ्यः

9.69

तपोवनस्थो ऽपि वृतः प्रजाभिर्जगाम राजा पुरमम्बरीषः ।
तथा महीं विप्रकृतामनार्यैस्तपोवनादेत्य ररक्ष रामः

9.70

तथैव शाल्वाधिपतिर्द्रुमाख्यो वनात्ससूरनुर्नगरं विवेश ।
ब्रह्मार्षिभूतश्च मुनेर्वसिष्ठाद्दध्रे श्रियं सांकृतिरन्तिदेवः

9.71

एवंविधा धर्मयशःप्रदीप्ता वनानि हित्वा भवनान्यतीयुः ।
तस्मान्न दोषो ऽस्ति गृहं प्रयातुं तपोवनाद्धर्मनिमित्तमेव

9.72

ततो वचस्तस्य निशम्य मन्त्रिणः प्रियं हितं चैव नृपस्य चक्षुषः ।
अनूनमव्यस्तमसक्तमद्रुतं धृतौ स्थितो राजसुतो ऽब्रवीद्वचः

9.73

इहास्ति नास्तीति य एष संशयः परस्य वाक्यैर्न ममात्र निश्चयः ।
अवेत्य तत्त्वं तपसा शमेन च स्वयं ग्रहीष्यामि यदत्र निश्चितम्

9.74

न मे क्षमं संशयजं हि दर्शनं ग्रहीतुमव्यक्तपरस्पराहतम् ।
बुधः परप्रत्ययतो हि को व्रजेज्जनो ऽन्धकारे ऽन्ध इवान्धदेशिकः

9.75

अदृष्टतत्त्वस्य सतो ऽपि किं तु मे शुभाशुभे संशयितु शुभे मतिः ।
वृथापि खेदो हि वरं शुभात्मनः सुखं न तत्त्वे ऽपि विगर्हितात्मनः

9.76

इमं तु दृष्ट्वागममव्यवस्थितं यदुक्तमाप्त्तैस्तदवेहि साध्विति ।
प्रहीणदोषत्वमवेहि चाप्ततां प्रहीणदोषो ह्यनृतं न वक्ष्यति

9.77

गृहप्रवेशं प्रति यच्च मे भवानुवाच रामप्रभृतीन्निदर्शनम् ।
न ते प्रमाणं न हि धर्मनिश्चयैष्वलं प्रमाणाय परिक्षतव्रताः

9.78

तदेवमप्येव रविर्मही पतेदपि स्थिरत्वं हिमवान् गिरिस्त्यजेत् ।
अदृष्टतत्त्वो विषयोन्मुखेन्द्रियः श्रयेय न त्वेव गृहान् पृथग्जनः

9.79

अहं विशेयं ज्वलितं हुताशनं न चाकृतार्थः प्रविशेयमालयम् ।
इति प्रतिज्ञां स चकार गर्वितो यथेष्टमुत्थाय च निर्ममो ययौ

9.80

ततः सबाष्पौ सचिवद्विजाबुभौ निशम्य तस्य स्थिरमेव निश्चयम् ।
विषण्णवक्त्रावनुगम्य दुःखितौ शनैरगत्या पुरमेव जग्मतुः

9.81

तत्स्नेहादथ नृपतेश्च भक्तितस्तौ सापेक्षं प्रतिययतुश्च तस्थतुश्च ।
दुर्धर्ष रविमिव दीप्तमात्मभासा तं द्रष्टुं न हि पथि शेकतुर्न मोक्तुम्

9.82

तौ ज्ञातुं परमगतेर्गतिं तु तस्य प्रच्छन्नांश्चरपुरुषाञ्छुचीन्विधाय ।
राजानं प्रियसुतलालसं नु गत्वा द्रक्ष्यावः कथमिति जग्मतुः कथंचितु

मूल पाठ: Buddhacarita · Edition: E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I. Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc