Buddhacarita (अन्य संस्करण) · अध्याय 4
इति बुद्धचरिते महाकाव्ये संवेगोत्पत्तिर्नाम तृतीयः सर्गः ॥ 3 ॥
चन्तो इव्
ततस्तस्मात्पुरोद्यानात्कौतूहलचलेक्षणाः ।
प्रत्युज्जग्मुर्नृपसुतं प्राप्तं वरमिव स्त्रियः
अभिगम्य च तास्तस्मै विस्मयोत्फुल्ललोचनाः ।
चक्रिरे समुदाचारं पद्मकोशनिभैः करैः
तस्थुश्च परिवार्यैनं मन्मथाक्षिप्तचेतसः ।
निश्चलैः प्रीतिविकचैः पिबन्त्य इव लोचनैः
तं हि ता मेनिरे नार्यः कामो विग्रहवानिति ।
शोभितं लक्षणैर्दीप्तैः सहजैर्भूषाणैरिव
सौम्यत्वाच्चैव धैर्याच्च काश्चिदेनं प्रजज्ञिरे ।
अवतीर्णो मही साक्षाद् गुढांशुश्चन्द्रमा इति
तस्य ता वपुषाक्षिप्ता निगृहीतं जजृम्भिरे ।
अन्योन्यं दृष्टिभिर्हत्वा शनैश्च विनिशश्वसुः
एवं ता दृष्टिमात्रेण नार्यो ददृशुरेव तम् ।
न व्याजहुर्न जहसुः प्रभावेणास्य यन्त्रिताः
तास्तथा नु निरारम्भा दृष्ट्वा प्रणयविक्लवाः ।
पुरोहितसुतो धीमानुदायी वाक्यमब्रवीत्
सर्वाः सर्वकलाज्ञाः स्थ भावग्रहणपण्डिताः ।
रुपचातुर्यसंपन्नाः स्वगुणैर्मुख्यतां गताः
शोभयेत गुणैरेभिरपि तानुत्तरान् कुरून् ।
कुबेरस्यापि चाक्रीडं प्रागेव वसुधामिमाम्
शक्ताश्चलियितुं यूयं वितरागानुषीनपि ।
अप्सरोभिश्च कलितान् ग्रहीतुं विबुधानपि
भावज्ञानेन हावेन रूपचातुर्यसंपदा ।
स्त्रीणामेव च शक्ताः स्थ संरागे किं पुनर्नृणाम्
तासामेवंविधानां वो वियुक्तानां स्वगोचरे ।
इयमेवंविधा चेष्टा न तुष्टो ऽस्म्यार्जवेन वः
इदं नववधूनां वो ह्रीनीकुञ्चितचक्षुषाम् ।
सदृशं चेष्टितं हि स्यादपि वा गोपायोषिताम्
यदपि स्यादयं धीरः श्रिप्रभावान्महानिति ।
स्त्रीणामपि महत्तेज इतः कार्यो ऽत्र निश्चयः
पुरा हि काशिसुन्दर्या वेशवध्वा महानृषिः ।
ताडितो ऽभूत्पदा व्यासो दुर्धर्षो देवतैरपि
मन्थालगौतमो भिक्षुर्जङ्घया वारमुख्यया ।
पिप्रीषुश्च तदर्थार्थं व्यसून्निरहरत्पुरा
गौतमं दीर्घतपसं महर्षि दीर्घजीविनम् ।
योषित्संतोषयामास वर्णस्थानावरा सती
ऋष्यशृङ्गं मुनिसुतं तथैव स्त्रीष्वपण्डितम् ।
उपायैर्विविधैः शान्ता जग्राह च जहार च
विश्वामित्रो महर्षिश्च विगाढो ऽपि महत्तपः ।
दश वर्षाण्यहर्मेने घृताच्याप्सरसा हृतः
एवमादीनृषीस्तांस्ताननयन्विक्रियां स्त्रियः ।
ललितं पूर्ववयसं किं पुनर्नृपतेः सुतम्
तदेवं सति विश्रब्धं प्रयतध्वं तथा यथा ।
इयं नृपस्य वंशश्रीरितो न स्यात्पराङ्मुखी
या हि काश्चिद्युवतयो हरन्ति सदृशं जनम् ।
निकृष्टोत्कृष्टयोर्भावं या गृह्णन्ति तु ताः स्त्रियः
इत्युदायिवचः श्रुत्वा ता विद्धा इव योषितः ।
समारुरुहुरात्मानं कुमारग्रहणं प्रति
ता भ्रूमिः प्रेक्षितैर्हावैर्हसितैलीडितैर्गतैः ।
चक्रुराक्षेपिकाश्चेष्टा भीतभीता इवाङ्गनाः
राज्ञस्तु विनियोगेन कुमारस्य च मार्दवात् ।
जहुः क्षिप्रमविश्रम्भं मदेन मदनेन च
अथ नारीजनवृतः कुमारो व्यचरद्वनम् ।
वासितायूथसहितः करीव हिमवद्वनम्
स तस्मिन् कानने रम्ये जज्वाल स्त्रीपुरःसरः ।
आक्रीड इव विभ्राजे विवस्वानप्सरोवृतः
मदेनावर्जिता नाम तं काश्चित्तत्र यिषितः ।
कठिनैः पस्पृशुः पीनैः संहतैर्वल्गुभिः स्तनैः
स्रस्तांसकोमलालम्बमृदुबाहुलताबला ।
अनृतं स्खलितं काचित्कृत्वैनं सस्वजे बलात्
काचित्ताम्राधरोष्ठेन मुखेनासवगन्धिना ।
विनिशश्वास कर्णे ऽस्य रहस्यं श्रूयतामिति
काचिदाज्ञापयन्तीव प्रोवाचार्द्रानुलेपना ।
इह भक्तिं कुरुष्वेति हस्तसंश्लेषलिप्सया
मुहुर्मुहुर्मदव्याजस्रस्तनीलांशुकापरा ।
आलक्ष्यरशना रेजे स्फुरद्विद्युदिव क्षपा
काश्चित्कनककाञ्चीभिर्मुखराभिरितस्ततः ।
बभ्रमुर्दर्शयन्त्यो ऽस्य श्रोणीस्तन्वंशुकावृताः
चूतशाखां कुसुमितां प्रगृह्यान्या ललम्बिरे ।
सुवर्णकलशप्रख्यान्दर्शयन्त्यः पयोधरान्
काचित्पद्मवनादेत्य सपद्मा पद्मलोचना ।
पद्मवक्त्रस्य पार्श्वे ऽस्य पद्मश्रीरिव तस्थुषी
मधुरं गीतमन्वर्थं काचित्साभिनयं जगौ ।
तं स्वस्थं चोदयन्तीव वञ्चितो ऽसीत्यवेक्षितैः
शुभेन वदनेनान्या भ्रूकार्मुकविकर्षिणा ।
प्रावृत्यानुचकारास्य चेष्टितं धीरलीलया
पीनवल्गुस्तनी काचिद्धासाघूर्णितकुण्डला ।
उच्चैरवजहासैनं समाप्नोतु भवानिति
अपयान्तं तथैवान्या बबन्धुर्माल्यदामभिः ।
काश्चित्साक्षेपमधुरैर्जगृहर्वचनाङ्कुशैः
प्रतियोगार्थिनी काचिद् गृहीत्वा चूतवल्लरीम् ।
इदं पुष्पं तु कस्येति पप्रच्छ मदविक्लवा
काचित्पुरुषवत्कृत्वा गतिं संस्थानमेव च ।
उवाचैनं जितः स्त्रीभीर्जय भो पृथिवीमिमाम्
अथ लोलेक्षणा काचिज्जिघ्रन्ती नीलमुत्पलम् ।
किंचिन्मदकलैर्वाक्यै र्नृपात्मजमभाषत
पश्य भर्तीश्चितं चूतं कुसुमैर्मधुगन्धिभिः ।
हेमपञ्जररुद्धो वा कोकिलो यत्र कूजति
अशोको दृश्यतामेष कामिशोकविवर्धनः ।
रुवन्ति भ्रमरा यत्र दह्यमाना इवाग्निना
चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः ।
शुक्लवासा इव नरः स्त्रिया पीताङ्गरागया
फुल्लं कुरुबकं पश्य निर्भुक्तालक्तकप्रभम् ।
यो नखप्रभया स्त्रीणां निर्भीर्त्सत इवानतः
बालाशोकश्च निचितो दृश्यतामेष पल्लवैः ।
यो ऽस्माकं हस्तशोभाभिर्लज्जमान इव स्थितः
दीर्घिका प्रावृतां पश्य तीरजैः सिन्दुवारकैः ।
पाण्डुरांशुकसंवीतां शयानां प्रमदामिव
दृश्यतां स्त्रीषु माहात्म्यं चक्रवाको ह्यसौ जले ।
पृष्ठतः प्रेष्यवद्भार्यामनुवर्त्यनुगच्छति
मत्तस्य परपुष्टस्य रुवतः श्रूयतां ध्वनिः ।
अपरः कोकिलो ऽन्वक्षं प्रतिश्रुत्केव कूजति
अपि नाम विहङ्गानां वसन्तेनाहृतो मदः ।
न तु चिन्तयतो ऽचिन्त्यं जनस्य प्राज्ञमानिनः
इत्येवं ता युवतयो मन्मथोद्दामचेतसः ।
कुमारं विविधैस्तैस्तैरुपचक्रमिरे नयैः
एवमाक्षिप्यमाणो ऽपि सतु धैर्यावृतेन्द्रियः ।
मर्तव्यमिति सोद्वेगो न जहर्ष न विव्यथे
तासां तत्त्वे ऽनवस्थानं दृष्ट्वा स पुरुषोत्तमः ।
समं विग्नेन धीरेण चिन्तयामास चेतसा
किं त्विमा नावगच्छन्ति चपलं यौवनं स्त्रियः ।
यतो रूपेण संमत्तं जरा यन्नाशयिष्यति
नूनमेता न पश्यन्ति कस्यचिद्रोगसंप्लवम् ।
तथा हृष्टा भयं त्यक्त्वा जगति व्यधिधर्मिणि
अनभिज्ञाश्च सुव्यक्तं मृत्योः सर्वापहारिणः ।
ततः स्वस्था निरुद्विग्नाः क्रीडन्ति च हसन्ति च
जरां व्याधिं च मृत्युं च को हि जानन्सचेतनः ।
स्वस्थस्तिष्ठेन्निषीदेद्वा शयेद्वा किं पुनर्हसेत्
यस्तु दृष्ट्वा परं जीर्ण व्याधितं मृतमेव च ।
स्वस्थो भवति नोद्विग्नो यथाचेतास्तथैव सः
वियुज्यमाने हि तरौ पुष्पैरपि फलैरपि ।
पतति च्छिद्यमाने वा तरुरन्यो न शोचते
इति ध्यानपरं दृष्ट्वा विषयेभ्यो गतस्पृहम् ।
उदायी नीतिशास्त्रज्ञस्तमुवाच सुहृत्तया
अहं नृपतिना दत्तः सखा तुभ्यं क्षमः किल ।
यास्मात्त्वयि विवक्षा मे तया प्रणयवत्तया
अहितात्प्रतिषेधश्च हिते चानुप्रवर्तनम् ।
व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणम्
सो ऽहं मैत्रीं प्रतिज्ञाय पुरुषार्थात्पराङ्मुखः ।
यदि त्वा समुपेक्षेय न भवेन्मित्रता मयि
तद्ब्रवीमि सुहृद्भूत्वा तरुणस्य वपुष्मतः ।
इदं न प्रतिरूपं ते स्त्रीष्वदाक्षिण्यमीदृशम्
अनृतेनापि नारीणां युक्तं समनुवर्तनम् ।
तद्व्रीडापरिहारार्थमात्मरत्यर्थमेव च
संनतिश्चानुवृत्तिश्च स्त्रीणां हृदयबन्धनम् ।
स्नेहस्य हि गुणा योनिर्मानकामाश्च योषितः
तदर्हसि विशालाक्ष हृदये ऽपि पराङ्मुखे ।
रूपस्यास्यानुरूपेण दाक्षिण्येनानुवर्तितुम्
दाक्षिण्यमौषधं स्त्रीणां दाक्षिण्यं भूषणं परम् ।
दाक्षिण्यरहितं रूपं निष्पुष्पमिव काननम्
किं वा दाक्षिण्यमात्रेण भावेनास्तु परिग्रहः ।
विषयान्दुर्लभांल्लब्ध्वा न ह्यवज्ञातुमर्हसि
कामं परमिति ज्ञात्वा देवो ऽपि हि पुरंदरः ।
गौतमस्य मुनेः पत्नीमहल्यां चकमे पुरा
अगस्त्यः प्रार्थयामास सोमभार्या च रोहिणीम् ।
तस्मात्तत्सदृशी लेभे लोपामुद्रामिति श्रुतिः
उतथ्यस्य च भार्यायां ममातायं महातपः ।
मारुत्यां जनयामास भरद्वाजं बृहस्पतिः
बृहस्पतेर्महिष्यां च जुव्हत्यां जुव्हतां वरः ।
बुधं विबुधकर्माणं जनयामास चन्द्रमाः
कालीं चैव पुरा कन्यां जलप्रभवसंभवाम् ।
जगाम यमुनातीरे जातरागः पराशरः
मातङ्गयामक्षमालायां गर्हितायां रिरंसया ।
कपिञ्जलादं तनयं वसिष्ठो ऽजनयन्मुनिः
ययातिश्चैव राजर्षिर्वयस्यपि विनिर्गते ।
विश्वाच्याप्सरसा सार्धं रेमे चैत्ररथे वने
स्त्रीसंसर्ग विनाशान्तं पाण्डुर्ज्ञात्वापि कौरवः ।
माद्रीरूपगुणाक्षिप्तः सिषेवे कामजं सुखम्
करालजनकश्चैव हृत्वा ब्राह्मणकन्यकाम् ।
अवाप भ्रंशमप्येवं न तु सेजे न मन्मथम्
एवमाद्या महात्मानो विषयान् गर्हितानपि ।
रतिहेतोर्बुभुजिरे प्रागेव गुणसंहितान्
त्वं पुनर्न्यायतः प्राप्तान् बलवान् रूपवान्युवा ।
विषयानवजानासि यत्र सक्तमिदं जगत्
इति श्रुत्वा वचस्तस्य श्लक्ष्णमागमसंहितम् ।
मेघस्तनितनिर्घोषः कुमारः प्रत्यभाषत
उपपन्नमिदं वाक्यं सौहार्दव्यञ्जकं त्वयि ।
अत्र च त्वानुनेष्यामि यत्र मा दुष्ठु मन्यसे
नावजानामि विषयान् जाने लोकं तदात्मकम् ।
अनित्यं तु जगमत्वा नात्र मे रमते मनः
जरा व्याधिश्च मृत्युश्च यदि न स्यादिदं त्रयम् ।
ममापि हि मनोज्ञेषु विषयेषु रतिर्भवेत्
नित्यं यदपि हि स्त्रीणामेतदेव वपुर्भवेत् ।
दोषवत्स्वपि कामेषु कामं रज्येत मे मनः
यदा तु जरयापीतं रूपमासां भविष्यति ।
आत्मनो ऽप्यनभिप्रेतं मोहात्तत्र रतिर्भवेत्
मृत्युव्याधिजराधर्मा मृत्युव्याधिजरात्मभिः ।
रममाणो ह्यसंविग्नः समानो मृगपक्षिभिः
यदप्यात्थ महात्मानस्ते ऽपि कामात्मका इति ।
संवेगो ऽत्रैव कर्तव्यो यदा तेषामपि क्षयः
माहात्म्यं न च तन्मन्ये यत्र सामान्यतः क्षयः ।
विषयेषु प्रसक्तिर्वा युक्तिर्वा नात्मवत्तया
यदप्यात्थानृतेनापि स्त्रीजने वर्त्यतामिति ।
अनृतं नावगच्छामि दाक्षिण्येनापि किंचन
न चानुवर्तनं तन्मे रुचितं यत्र नार्जवम् ।
सर्वभावेन संपर्को यदि नास्ति धिगस्तु तत्
अधृतेः श्रद्दधानस्य सक्तस्यादोषदर्शिनः ।
किं हि वञ्चयितव्यं स्याज्जातरागस्य चेतसः
वञ्चयन्ति च यद्येवं जातरागाः परस्परम् ।
ननु नैव क्षमं द्रष्टुं नराः स्त्रीणां नृणां स्त्रियः
तदेवं सति दुःखार्त जरामरणभागिनम् ।
न मां कामेष्वनार्येषु प्रतारयितुमर्हसि
अहो ऽतिधीरं बलवच्च ते मनश्चलेषु कामेषु च सारदर्शिनः ।
भये ऽतितीव्रे विषयेषु सज्जसे निरीक्षमाणो मरणाध्वनि प्रजाः
अहं पुनर्भीरुरतीवविक्लवो जराविपद्व्याधिभयं विचिन्तयन् ।
लभे न शान्तिं न धृतिं कुतो रतिं निशामयन्दीप्तमिवाग्निना जगत्
असंशयं मृत्युरिति प्रजानतो नरस्य रागो हृदि यस्य जायते ।
अयोमयीं तस्य परैमि चेतनां महाभये रज्यति यो न रोदिति
अथो कुमारश्च विनिश्चयात्मिकां चकार कामाश्रयघातिनीं कथाम् ।
जनस्य चक्षुर्गमनीयमण्डलो महीधरं चास्तमियाय भास्करः
ततो वृथाधारितभूषणस्रजः कलागुणैश्च प्रणयैश्च निष्फलैः ।
स्व एव भावे विनिगृह्य मन्मथं पुरं ययुर्भग्नमनोरथाः स्त्रियः
ततः पुरोद्यानगतां जनश्रियं निरीक्ष्य सायं प्रतिसंहृतां पुनः ।
अनित्यतां सर्वगतां विचिन्तयन्विवेश धिष्णयं क्षितिपालकात्मजः
ततः श्रुत्वा राजा विषयविमुखं तस्य तु मनो
न शिश्ये तां रात्रिं हृदयगतशल्यो गज इव ।
अथ श्रान्तो मन्त्रे बहुविविधमार्गे ससचिवो
न सो ऽन्यत्कामेभ्यो नियमनमपश्यत्सुतमतेः
मूल पाठ: Buddhacarita · Edition: E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I. Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0