भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 93

93.93

अथ अभुक्तमूलशान्त्यध्यायः

93.1

ज्येष्ठामूलमयोर्यस्मादधिपाविन्द्रराक्षसौ ।
महावैरात् तयोः सन्धिर्महादोषप्रदः स्मृतः

93.2

अभुक्तमूलजं पुत्रं पुत्रीं वाऽपि परित्यजेत् ।
अथवाऽब्दाष्टकं तातस्तन्मुखं न विलोकयेत्

93.3

तद्दोषपरिहारार्थमथ शान्तिविधिं ब्रुवे ।
तत्राऽदौ दोषबहुल्यान् मूलशान्तिर्निगद्यते

93.4

जन्मतो द्वादशाहे वा तदृक्षे वा शुभे दिने ।
जातस्य वाऽष्टमे वर्षे शान्तिं कुर्याद् विधानतः

93.5

सुसमे च शुभे स्थाने गोमयेनोपलेपिते ।
मण्डपं स्वगृहात् प्राच्यामुदीच्यां वा प्रकल्पयेत्

93.6

चतुर्द्वारसमायुक्तं तोरणाद्यैरलङ्कृतम् ।
कुण्डं ग्रहादियज्ञार्थं तद्बहिश्च प्रकल्पयेत्

93.7

सुवर्णेन तदर्धेन तदर्धार्धेन वा पुनः ।
नक्षत्रदेवतारूपं कुर्याद् वित्तानुसारतः

93.8

श्यामवर्णं महोग्रं च द्विशिरस्कं वृकाननम् ।
खड्गचर्मधरं तद्वद् ध्येयं कुणपवाहनम्

93.9

सुवर्णस्य च मूल्यं वा स्थापयित्वा प्रपूजयेत् ।
सुवर्णं सर्वदैवत्यं यतः शास्त्रेषु निश्चितम्

93.10

आचार्यं वरयेत् पश्चात् स्वस्तिवाचनुपूर्वकम् ।
कलशस्थापनं कुर्यात् स्वगृह्योक्तविधानतः

93.11

पञ्चगव्यादिकं क्षेप्यं कलशे तीर्थवारि च ।
शतौषध्यादिकं तत्र शतच्छिद्रघटे क्षिपेत्

93.12

वंशपात्रं च संस्थाप्य तत्र वै पश्चिमामुखम् ।
अर्चेयेन्निरृतिं देवं शुक्लवस्त्राक्षतादिभिः

93.13

इन्द्रं तदधिदेवं च जलं प्रत्यधिदैवतम् ।
स्वस्वशाखोक्तमन्त्रेण प्रधानादीन्प्रपूजयेत्

93.14

देवाधिदेवप्रीत्यर्थं होमं कुर्याद्यथाविधि ।
अष्टोत्तरं सहस्रं वा शतं वा नियतेन्द्रियः

93.15

मृत्युप्रशमनार्थं च मन्त्रं त्रयम्बकं जपेत् ।
प्रार्थयेच्च ततो देवमभिषेकार्थमादरात्

93.16

भद्रासनोपविष्टस्य सस्त्रीपुत्रस्य मन्त्रवित् ।
आचार्यो यजमानस्य कुर्यात् प्रीत्याभिषेचनम्

93.17

वस्त्रान्तरितकुम्भाभ्यां स्नापयेत्तदनन्तरम् ।
शुक्लाम्बरधरस्तद्वत् श्वेतगन्धानुलेपनः

93.18

धेनुं पयस्विनीं दद्यादाचार्याय च शक्तितः ।
ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत्

93.19

यत्पापं यच्च मे दौःस्थ्यं सर्वगात्रेष्ववस्थितम् ।
तत्सर्वं भक्षयाज्य त्वं लक्ष्मीं पुष्टिं च वर्धय

93.20

अनेनैव तु मन्त्रेण सम्यगाज्यं विलोकयेत् ।
मूलगण्डोद्भवस्तैवं सर्पपापं प्रणश्यति

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc