भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 91

91.91

अथ ग्रहणजातशान्त्यध्यायः

91.1

सूर्येन्दुग्रहणे काले येषां जन्म भवेद् द्विज ।
व्याधिः कष्टं च दारिद्र्यं तेषां मृत्युभयं भवेत्

91.2

अतः शान्तिं प्रवक्ष्यामि जनानां हितकाङ्क्षया ।
सूर्यस्येन्दोश्च ग्रहेणं यस्मिनृक्षे प्रजायते

91.3

तन्नक्षत्रपते रूपं सुवर्णेन प्रकल्पयेत् ।
सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः

91.4

चन्द्रग्रहे चन्द्ररूपं रजतेन तथैव च ।
राहुरूपं प्रकुर्वीत सीसकेन विचक्षणः

91.5

शुचौ देशे समं स्थानं गोमयेन प्रलेपयेत् ।
तत्र च स्थापयेद् वस्त्रं नूतनं सुमनोहरम्

91.6

त्रयाणामेव रूपाणां स्थापनं तत्र कारयेत् ।
सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत्

91.7

रक्ताक्षतं रक्तगन्धं रक्तमाल्याम्बरादिकम् ।
चन्द्रग्रहे प्रदातव्यं चन्द्रप्रीतिकरं च यत्

91.8

श्वेतगन्धं श्वेतपुष्पं श्वेतमाल्याम्बरादिकम् ।
राहवे च प्रदातव्यं कृष्णपुष्पाम्बरादिकम्

91.9

दद्यान्नक्षत्रनाथाय श्वेतगन्धादिकं तथा ।
सूर्यं सम्पूजयेद्धीमानाकृष्णेति च मन्त्रतः

91.10

अथा चन्द्रं इमे देवा इति मन्त्रेण भक्तितः ।
दूर्वाभि पूजयेद्राहुं कया न इति मन्त्रतः

91.11

सूर्येन्द्वोरर्कपालाशमिद्भिर्जुहुयात् क्रमात् ।
तथा च राहोः प्रीत्यर्थं दूर्वाभिर्द्विजसत्तम

91.12

ब्रह्मवृक्षसमिद्भिश्च भेशाय जुहुयात् पुनः ।
अभिषेकं ततः कुर्यात् जातस्य कलहोदकैः

91.13

आचार्यं पूजयेद्भक्त्या सुशान्तो विजितेन्द्रियः ।
ब्राह्मणान् भोजयेत्वा तु यथाशक्ति विसर्जयेत्

91.14

एवं ग्रहणजातस्य शान्तिं कृत्वा विधानतः ।
सर्वविघ्नं विनिर्जित्वा सौभाग्यं लभते नरः

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc