भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 82

82.82

अथ तिलादिलांछनफलाध्यायः

82.1

अथाऽहं देहजातानां लांछनानां फलं ब्रुवे ।
आवर्तानां तिलानां च मशकानां विशेषतः

82.2

अङ्गनानां च वामांगे दक्षिणाङ्गे नृणां शुभम् ।
रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा

82.3

तिलादिलांछनं स्त्रीणां हृदि सौभाग्यसूचकम् ।
यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने

82.4

सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् ।
रक्ताभं तिलकं यस्याः स्त्रिया वामे स्तने भवेत्

82.5

एक एव सुतस्तस्या भवतीत विदो विदुः ।
पुत्रीपुत्रयुता ज्ञेया तिलके दक्षिणे स्तने

82.6

भ्रुवोर्मध्ये ललाटे वा लांछनं राजसूचकम् ।
कपोले मशको रक्तो नित्यं मिष्ठान्नदायकं

82.7

भगस्य दक्षिणे भागे लांछनं यदि योषितः ।
सा हि पृथ्वीपतेः पत्नी सूते वा भूपतिं सुतम्

82.8

नासाग्रे लाञ्छने रक्तं राजपत्न्याः प्रजायते ।
कृष्णवर्णं तु यस्याः सा पुंश्चलि विधवाऽथ वा

82.9

नाभेरधो नृणां स्त्रीणां लाञ्छनं च शुभप्रदम् ।
कर्णे गण्डे करे वाऽपि कण्ठे वाऽप्यथ लाञ्छनं

82.10

प्राग्गर्भे पुत्रदं ज्ञेयं सुखसौभाग्यदं तथा ।
तिलादि लाञ्छनं विप्र गुल्फगेशे च दुःखदम्

82.11

त्रिशूलाकृति चिह्न च ललाटे यदि जायते ।
नारी राजप्रिया ज्ञेया भूपतिश्च नरो भवेत्

82.12

लोम्नां प्रदक्षिणावर्तो हृदि नाभौ करे श्रुतौ ।
दक्षपृष्ठे शुभो वस्तौ वामावर्तोऽशुभप्रदः

82.13

कट्यां गुह्येऽथवाऽवर्तो स्त्रीणां दौर्भाग्यसूचकः ।
उदरे हन्ति भर्तारं मध्यपृष्ठे च पुंश्चली

82.14

कण्ठे ललाटे सीमन्ते मध्यभागे च मूर्धनि ।
आवर्तो न शुभः स्त्रीणां पुसां वाऽपि द्विजोत्तम

82.15

सुलक्षणा सुचरिता अपि मन्दायुषं पतिम् ।
दीर्घायुषं प्रकुर्वन्ति प्रमदाश्च मुदास्पदम्

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc