भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 79

79.79

अथ प्रव्रज्यायोगाध्यायः

79.1

अथ विप्र प्रवक्ष्यामि योगं प्रव्रज्यकाभिधम् ।
प्रव्रजन्ति जना येन सम्प्रदायान्तरं गृहात्

79.2

चतुरादिभिरेकस्थैः प्रव्रज्या बलिभिः समाः ।
रव्यादिभिस्तपस्वी च कपाली रक्तवस्त्रभृत्

79.3

एकदण्डी यतिश्चक्रधरो निर्ग्रन्थिकः क्रमात् ।
ज्ञेया वीर्याधिकस्यैव सबलेषु बहुष्वपि

79.4

सूर्येणाऽस्तं गतास्ते चेदपि वीर्यसमन्विताः ।
अदीक्षितास्तदा ज्ञेया जनास्तद्गतभक्तयः

79.5

अस्तंगता निर्बलाश्चेत् सबलश्च रविर्यदा ।
तदा रविभवा ज्ञेया प्रव्रज्या द्विजसत्तम

79.6

जन्मभेशोऽन्यखेटैश्चेददृष्टः शनिमीक्षते ।
तयोर्बलवशात्तत्र प्रव्रज्यामाप्नुयान्नरः

79.7

निर्बलो जन्मभेशश्चेत् केवलेनार्किणेक्षितः ।
तदा शनिभवमेव प्रव्रज्यां आप्नुयाज्जनः

79.8

शनिदृक्काणसंस्थे च शनिभौमनवांशके ।
शनिदृष्टे विधौ ज्ञेया प्रव्रज्या शनिसम्भवा

79.9

कुजादिषु जयी शुक्रः सौम्यगो याम्यगोऽपि वा ।
जयी सौम्यगतश्चान्यः परस्परयुतौ भवेत्

79.10

प्रव्रज्याकारकः खेटो यद्यन्येन पराजितः ।
तदा लब्धां परिव्रज्यां परित्यजति तां पुनः

79.11

बहवो जन्मकाले चेत् प्रव्रज्याकारका ग्रहाः ।
बलतुल्यास्तदा तत्र प्रव्रज्या कतमा भवेत्

79.12

बहवो बलिनश्चेत् स्युः प्रव्रज्याकारका ग्रहाः ।
तदा प्राप्नोति सर्वेषां तेषां प्रव्रज्यकां ध्रुवम्

79.13

तत्तद्ग्रहदशाकाले प्रव्रज्यां याति तद्भवाम् ।
त्यक्त्वा गृहीतपूर्वां तामन्यां प्राप्नोति मानवः

79.14

दृष्टेष्विन्द्विज्यलग्नेषु शनिना नवमे गुरुः ।
राजयोगेऽत्र जातोऽसौ तीर्थिकृन्नऽत्र संशयः

79.15

धर्मस्थानगते मन्दे ग्रहदृष्टिविवर्जिते ।
राजयोगेऽत्र यो जातः स राजा दीक्षितो भवेत्

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc