भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 48

48.48

अथ विशेषनक्षत्रदशाफलाध्यायः

48.1

स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः ।
मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम्

48.2

लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् ।
धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम्

48.3

सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् ।
सुखाधीशदशायां तु गृहभूमिसुखं भवेत्

48.4

पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् ।
रोगेशस्य दशाकाले देहपीडा रिपोर्भयम्

48.5

सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् ।
अष्टमेशदशाकाले मृत्युभीतिर्धनक्षतिः

48.6

धर्मशस्य दशायां च भूरिल्लाभो यशःसुखम् ।
दशमेशदशाकाले सम्मानं नृपसंसदि

48.7

लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् ।
व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज

48.8

दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् ।
अशुभस्थानगस्यैवं शुभस्यापि न शोभनम्

48.9

पञ्चमेशेन युक्तस्य कर्मेशस्य दशा शुभा ।
नवमेशेन युक्तस्य कर्मेशस्यातिशभना

48.10

पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा शुभा ।
तथा धर्मपयुक्तस्य दशा परमशोभना

48.11

सुखेशसहितस्यापि धर्मेशस्य दशा शुभा ।
पञ्चमस्थानगस्यापि मानेशस्य दशाशुभा

48.12

एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः ।
तथा कोणस्थितानां च केन्द्रेशानां दशाः शुभाः

48.13

केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि ।
तयोर्दशां शुभां प्राहुर्ज्योतिःशास्त्रविदो जनाः

48.14

षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता ।
तेषां दशाऽपि शुभदा कथिता कालकोविदैः

48.15

कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः ।
ताभ्यां युक्तस्य खेटस्य दृष्टियुक्तस्य चैतयोः

48.16

दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः ।
लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि

48.17

एतयोस्तु दशाकाले सुखधर्मसमुद्भवः ।
कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः

48.18

तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् ।
त्रिषडायगतानां च त्रिषडायाधिपैर्युजम्

48.19

शुभानामपि खेटानां दशा पापफलप्रदा ।
मारकस्थानगानां च मारकेशयुजामपि

48.20

रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा ।
एवं भावेशसम्बन्धादूरनीयं दशाफलम्

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc