भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 46

46.46

अथ दशाध्याय

46.1

सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल ।
दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः

46.2

साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा ।
कथयामि तवाग्रेऽहं दशभेदाननेकशः

46.3

दशाबहुविधास्तासु मुख्या विंशोत्तरी मता ।
कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्तरी

46.4

द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा ।
दशा शतसमा तद्वत् चतुराशीतिवत्सरा

46.5

द्विसप्ततिसमा षष्टिसमा षड्त्रिंशवत्सरा ।
नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभिः

46.6

अथा कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः ।
कालचक्रदशा चाऽया मान्यासर्वदशासु या

46.7

दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज ।
केन्द्राद्य च दशा ज्ञेया कारकादिग्रहोद्भवा

46.8

ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित् ।
माण्डूकी च दशा नाम तथा स्थूलदशा स्मृता

46.9

योगार्धजदशा विप्र दृग्दशा च ततः परम् ।
त्रिकोणाख्या दशा नाम तथा राशिदशा स्मृता

46.10

पञ्चस्वरदशा विप्र विज्ञेया योगिनीदशा ।
दशा पैण्डी तथांशी च नैसर्गिकदशा तथा

46.11

अष्टवर्गदश सन्ध्यादसा पाचकसंज्ञिका ।
अन्यास्तारादशाद्याश्च न स्वर्गाः सर्वसम्मताः

46.12

कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः ।
आचंकुरागुशबुकेशुपूर्वा विहगाः क्रमात्

46.13

वह्निभाज्जन्मभं यावद् या संख्या नवतष्टिता ।
शेषाद्दशाधिपो ज्ञेयस्तमारभ्य दशां नयेत्

46.14

विंशोत्तरशतं पूर्णमायुः पूर्वमुदाहृतम् ।
कलै विंशोत्तरी तस्माद् दशा मुख्या द्विजोत्तम

46.15

दशासमाः क्रमादेषां षड् दशाऽश्वा गजेन्दवः ।
नृपाला नवचन्द्राश्च नवचन्द्रा नगा नखाः

46.16

दशामनां भयातघ्नं भभोगेन हृतं फलम् ।
दशाया भुक्तवर्षाद्य भोग्यं मानाद् विशोधितम्

46.17

लग्नेशात् केन्द्रकोणस्थे राहौ लग्नं विना स्थिते ।
अष्टोत्तरी दशा विप्र विज्ञेया रौद्रभादितः

46.18

चतुष्कं त्रितयं तस्मात् चतुष्कं त्रितयं पुनः ।
एवं स्वजन्मभं यावद् विगणय्य यथाक्रमम्

46.19

सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः ।
एते दशाधिपा विप्र ज्ञेयाः केतुं विना ग्रहाः

46.20

रसाः पञ्चेन्दवो नागाः सप्तचन्द्राश्च खेन्दवः ।
गोऽब्जाः सूर्याः कुनेत्राश्च रव्यादीनां दशासमाः

46.21

दशाब्दांघ्रिश्च पापानां शुभानां त्र्यंश एव हि ।
एकैकभे दशामानं विज्ञेयं द्विजसत्तम

46.22

ततस्तद्यातभोगाध्यां भुक्तं भोग्यं च साधयेत् ।
विंशोत्तरीवदेवात्र ततस्तत्फलमादिशेत्

46.23

कृष्णपक्षे दिवा जन्म शुक्लपक्षे तथा निशि ।
तदा ह्यष्टोत्तरी चिन्त्या फलार्थञ्च विशेषतः

46.24

चन्द्रहोरागते कृष्णे सूर्यहोरागते सितेए ।
लग्ने नृणां फलज्ञप्त्यै विचिन्त्या षोडशोत्तरी

46.25

पुष्यभाज्जन्मभं यावद् या संख्या गजतष्टिता ।
रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो बुधो भृगुः

46.26

इति क्रमाद् दशाधीशाः ज्ञेया राहुं विना ग्रहाः ।
रुद्राद्येकोत्तराः संख्या धृत्यन्तं वत्सराः क्रमात्

46.27

शुक्रांशके प्रजातस्य विचिन्त्या द्वादशोत्तरी ।
जन्मभात् पौष्णभं यावत् संख्या हि वसुतष्टिता

46.28

सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः ।
विना शुक्रं दशाधीशा द्विचयात् सप्ततः समाः

46.29

अर्कांश कर्कलग्ने पञ्चोत्तरी मता ।
मित्रर्क्षाज्जन्मभं यावत् संख्या सप्तविभाजिता

46.30

एकादिशेषे विज्ञ्याः क्रमात्सप्तदशाधिपाः ।
रविर्ज्ञोऽर्कसुतो भौमः शुक्रश्चन्द्रो वृहस्पतिः

46.31

एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः ।
धृत्यन्ताः सप्तखेटानां राहुकेतू विना द्विज

46.32

वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका ।
पौष्ण्भाज्जन्मपर्यन्तं गणयेत् सप्तभिर्भजेत्

46.33

शेषाङ्के रवितो ज्ञेया दशा शतसमाह्वया ।
रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्तथा

46.34

क्रमदेते दशाधीशा बाणा बाणा दिशो दश ।
नखा नखाः खरामाश्च समाज्ञेया द्विजोत्तम

46.35

कर्मेशे कर्मगे ज्ञेया चतुराशीतिका दशा ।
पवनाज्जन्मभं यावद् या सण्ख्या सप्तभाजिता

46.36

शेषे रवीन्दुभौमज्ञा गुरुशुक्रशनैश्चराः ।
दशाधीशाः क्रमादेषां ज्ञेया द्वादशवत्सराः

46.37

मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् ।
शेषाद्दशाधीपा ज्न्ऽ एया अष्टौ रव्यादयः क्रमात्

46.38

नव वर्षाणि सर्वेषां विकेतूनां नभःसदाम् ।
लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे

46.39

चिन्तनीया दशा तस्य द्विसप्ततिसमाह्वया ।
विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधयेत्

46.40

यदार्को लग्नराशिस्थश्चिन्त्या षष्टिसमा तदा ।
दास्रात् त्रयं चतुष्कं च त्रयं चेति पुनः पुनः

46.41

गुर्वर्कभूसुतानां च दशा दश दशाब्दकाः ।
ततः शशिज्ञशुक्रार्कपुत्रागूनां रसाब्दकाः

46.42

श्रवणाज्जन्मभं यावत् संख्या वसुविभाजिता ।
शेषे चन्द्ररवीज्यारबुधार्किभृगुराहवः

46.43

क्रमाद्दशाधिपास्तेषामेकाद्येकोत्तराः समा ।
लग्ने दिनेऽर्कहोरायां चन्द्रहोरागते निशि

46.44

सूर्यस्याऽर्धास्तयः पूर्वं परस्तादूदयादपि ।
पञ्च पञ्च घटी सन्ध्या दशनाडी प्रकीर्तिता

46.45

सन्ध्याद्वयञ्च विंशत्या नाडिकाभिः प्रकीर्तितम् ।
दिनस्य विंशतिर्घट्यः पूर्णसंज्ञा उदाहृताः

46.46

निशायाः मुग्धसंज्ञाश्च घटिका विंशतिश्च याः ।
सूर्योदये च या सन्ध्या खण्डाख्या द।सनाडिका

46.47

अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका ।
पूर्णमुग्धघटीमाने द्विगुणे तिथिभिर्भजेत्

46.48

तथा खण्डसुधाघट्यौ चतुर्घ्ने तिथिभिर्भजेत् ।
लब्धं वर्षादिकं मानं सूर्यादीनां खचारिणाम्

46.49

एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् ।
राहुकेतुयुतानां च नवानां कालसंज्ञकम्

46.50

रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रिताम् ।
सन्ध्यायां वित्तभावस्थान्नेया चक्रदशा बुधैः

46.51

दशा वर्षाणि राशीनामेकैकस्य दशामितिः ।
क्रमाच्चक्रस्थितानाञ्च विज्ञातव्या द्विजोत्तम

46.52

अथाऽहं शङ्करं नत्वा कालचक्रदशां ब्रुवे ।
पार्वत्यै कथिता पूर्वं सादरं या पिनाकिना

46.53

तस्याः सारं समुद्धृत्य तवाग्रे द्विजमन्दन ।
शुभाऽशुभं मनुष्याणां यथा जानन्ति पण्डिताः

46.54

द्वादशारं लिखेच्चक्रं तिर्यगूर्घ्वसमानकम् ।
गृहा द्वादश जायन्ते सव्येऽसव्ये द्विधा द्विज

46.55

द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् ।
एवं द्वादशराश्याख्यं कालचक्रमुदीरितम्

46.56

अश्विन्यादित्रयं सव्यमार्गे चक्रे व्यवस्थितम् ।
रोहिण्यादित्रयं चैवमपसव्ये व्यविस्थितम्

46.57

एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् ।
अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधाः

46.58

वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः ।
एतद्दशोषुपादानामश्विन्यादौ च वीक्षयेत्

46.59

देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च ।
विशदं तत्प्रकारं च मैत्रेय कथयामयहम्

46.60

देहजीवौ मेषचापौ दास्राद्यचरणस्य च ।
मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः

46.61

मृगयुग्मे देहजीवौ द्वितीयचरणे स्मृतौ ।
क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः

46.62

दास्रादिदशताराणां तृतीयचरणे द्विज ।
गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः

46.63

क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् ।
अश्विन्यादिदशौडूनां चतुर्थचरणे तथा

46.64

कर्कमीनौ देहजीवौ कर्कादिनवराशिपाः ।
दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम

46.65

यमेज्यचित्रातोयर्क्षाऽहीर्बुध्न्याः सव्यतारकाः ।
एतत्पञ्चोडुपादानां भरण्यादौ विचिन्तयेत्

46.66

याम्यप्रथमपादस्य देहजीवावलिर्झषः ।
नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः

46.67

याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने ।
रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्वराः

46.68

याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने ।
सप्ताष्टाङ्कदिगीशार्कगजाद्रिरमभेश्वराः

46.69

कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज ।
वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश्वराः

46.70

सप्तमेवं विजानीयादसव्यं कथयाम्यहम् ।
द्वादशारां लिखेच्चकं पूर्ववद् द्विजसत्तम

46.71

द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखेएत् ।
रोहिणी च मघा द्वीशः कर्णश्चेति चतुष्टयम्

46.72

उक्तं चाऽसव्यनाक्षत्रं पूर्वाचार्यैर्द्विजोत्तम ।
एतद्वेदोडुपादानां रोहिनीवन्निरीक्षयेत्

46.73

रोहिण्यादिपदे देहजीवौ कर्किधनुर्धरौ ।
नवदिग्रुद्रसूर्येन्दुनेत्राग्नोष्वब्धिभेश्वराः

46.74

धातृद्वितीचरणे देहजीवौ तुलस्त्रियौ ।
अङ्कागवसुसूर्येशदिगङ्कवसुजूकपाः

46.75

तृतीयचरणे ब्राह्म देएहजीवौ घटाङ्गने ।
षड्बाणब्धिगुणक्षीन्दुनन्ददिग्रुद्रभेश्वराः

46.76

रोहिण्यन्तपदे देहजीवावलिजषौ स्मृतौ ।
सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टभेश्वराः

46.77

चान्द्ररौद्रभगार्यम्णमित्रेन्दुवसुवारुणम् ।
एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द्रवत् क्रमात्

46.78

कर्को देहो झषो जीवो मृगाद्यचरणे द्विज ।
व्यस्तान्मीनादिकर्कान्तराशिपाश्च दशाधिपाः

46.79

गौर्देहो मिथुनं जीवो द्वितीयचरणे मृगे ।
त्रिद्व्येकाङ्कदिशीशार्कचन्द्राक्षिभवनाधिपाः

46.80

देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे ।
त्रिबाणाब्धिरसागाष्टसूर्येशदशभेश्वराः

46.81

मेषो देहो धनुर्जीवो चतुर्थचरणे मृगे ।
व्यस्ताच्चापादिमेषान्तराशिपाश्च दशाधिपाः

46.82

अपसव्यगणे त्वेवं देहजीवदशादिकम् ।
पार्वत्यै शम्भुना प्रोक्तमिदावींकथितं मया

46.83

केषां च कति वर्षाणि दशेशानां महामुने ।
दशाया भुक्तभोग्याद्यं तदारम्भ प्रचक्ष्व मे

46.84

भूतैकविंशगिरयो नवदिक्षोडशाब्धयः ।
सूर्यादीनां दशाब्धाः स्यू राशीनां स्वामिनो वशात्

46.85

नरस्य जन्मकाले वा प्रश्नकाले यदंशकः ।
तदादिनवराशिनामब्दास्तस्यायुरुच्यते

46.86

सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके ।
अंशान्ते परमं कष्टमित्याहुरपरे बुधाः

46.87

ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः ।
अनुपातेन वक्ष्यामि तदुपायमतः परम्

46.88

गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् ।
वर्तमानपदेनाढ्यं राशीनामंशको भवेत्

46.89

मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समाः ।
कर्कटेऽङ्गगजाः प्रोक्तास्तावन्तस्तत्त्रिकोणयोः

46.90

जनो यत्रांशके जातो गतनाडीपलादिभिः ।
तदांशस्य हताः स्वाब्दाः पञ्चभूमिविभाजिताः

46.91

एवं महादशारम्भो भवेदंशाद्यथा क्रमात् ।
गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम्

46.92

पदस्य भुक्तघट्याद्यैः स्वाब्दमानं हतं ततः ।
भभोगांघ्रिहृतं भुक्तं भोग्यं मानाद् विशोधितम्

46.93

चन्द्राङ्कांशकला भुक्ताः स्वाब्दमानहता हृताः ।
द्विशत्या भुक्तवर्षाद्यं ज्ञेयं भोग्यं ततो बुधैः

46.94

सव्याख्ये प्रथमांशो यः स देह इति कथ्यते ।
अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्यके

46.95

देहादिं गणयेत् सव्ये जीवादिमपसव्यके ।
एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत्

46.96

कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः ।
मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञकाऽपरा

46.97

सिंहावलोकनाख्या च तृतीया परिकीर्तिता ।
उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्षते

46.98

पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा ।
वाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम्

46.99

कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूय्की गतिः ।
कर्ककेसरिणोरेवं कथ्यते मर्कटीं गतिः

46.100

मीनवृश्चिकयोश्चापमेषयोः सैंहिकी गतिः ।
इति सञ्चिन्त्य विज्ञेयं कालचक्रदशाफलम्

46.101

मण्डूकगतिकाले हि सव्ये बन्धुजने भयम् ।
पित्रोर्वा विषशस्त्राग्निज्वरचोरादिजं भयम्

46.102

केसरीयुग्ममण्डूके मातुर्मरण्मादिशेत् ।
स्वमृतिं राजभितिं वा सन्निपातभयं भवेत्

46.103

मर्कटीगमने सव्ये धनधान्यपशुक्षयः ।
पितुर्मरणमालस्यं तत्समानां च व मृतिः

46.104

सव्ये सिंहावलोके तु पशुभीतिर्भवेन्नृणाम् ।
सुहृत्स्नेहादिनाशश्च समानजनपीडनम्

46.105

पतनं वापि कूपादौ विषशस्र्ताग्निजं भयम् ।
वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम्

46.106

मण्डूकगमने वामे स्त्रीसुतादिप्रपीडनम् ।
ज्वरं च श्वापदाद् भीतिं वदेद् विज्ञः पदच्युतिम्

46.107

मर्कटीगमने वाऽपि जलभीतिं पदच्युतिम् ।
पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत्

46.108

सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः ।
तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत्

46.109

मीनात् तु वृश्चिके याते ज्वरो भवति निश्चितः ।
कन्यातः कर्कटे याते भ्रातृबन्धुविनाशनम्

46.110

सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद् ध्रुवम् ।
कर्कटाच्च हरौ याते वधो भवति देहिनाम्

46.111

पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः ।
भयं पापखगैर्युक्ते शुभखेटयुते शुभम्

46.112

शुभं वाऽप्यशुभं वाऽपि कालचक्रदशाफलम् ।
राशिदिक्भागतो वापि पूर्वादिदिग्तभश्चरात्

46.113

तद्दिगावभागे वक्तव्यं तद्दशासमये नृणाम् ।
यथोपदेशमार्गेण सर्वेषां द्विजसत्तम

46.114

कन्यातः कर्कटे याते पूर्वभागे महत्फलम् ।
उत्तरं देशमाश्रित्य शुभा यात्रा भविष्यति

46.115

सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् ।
कार्यान्तेऽपि च नैऋत्यां सुखं यात्रा भविष्यति

46.116

कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे ।
दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भवेत्

46.117

मीनात्तु वृश्चिके याते उदग् गच्छति सङ्कटम् ।
चापाच्च मकरे याते सङ्कटं जायते ध्रुवम्

46.118

चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् ।
वृश्चिके तु सुखं सम्पत् स्त्रीप्राप्तिश्च द्विजोत्तम

46.119

सिंहाच्च कर्कटे याते पस्चिमां वर्जयेद्दिशम् ।
शुभयोगे शुभं ब्रूयादशुभे त्वशुभं फलम्

46.120

शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके ।
मिथुनांशे भवेज्ज्ञानी कर्कांशे नृपतिर्भवेत्

46.121

सिंहांशे राजमान्यश्च कन्यांशे पण्डितो भवेत् ।
तुलांशे राजमन्त्री स्याद् वृश्चिकांशे च निर्धनः

46.122

चापांशे ज्ञानसम्पन्नो मरकांशे च पापकृत् ।
कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्यवान्

46.123

देहो जीवोऽथवा युक्तो रविभौमार्किराहुभिः ।
एकैकयोगे मृत्युः स्याद् बहुयोगे तु का कथा

46.124

क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद् भयम् ।
आधी रोगो भवेद् द्वाभ्या.मपमृत्युस्र्तिभिर्भवेत्

46.125

चतुर्भिर्मृतिमापन्नो देहे जीवेऽशुभैर्युते ।
युगपद्देहजीवौ च क्रूरग्रहयुतौ तदा

46.126

राजचोरादिभीतिश्च मृतिश्चापि न संशयः ।
वह्निवाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद् भयम्

46.127

कुजे शस्त्रकृता पीडा वायुवाधा बुधे भवेत् ।
गुल्मवाधा शनौ ज्ञेया राहौ केतौ विषाद् भयम्

46.128

देहजीवगृहे यातो बुधो जीवोऽथवा भृगुः ।
सुखस्म्पत्कराः सर्वे रोगशोकविनाशनाः

46.129

मिश्रगृहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् ।
पापक्षेत्रदशाकाले देहजीवौ तु दुःखितौ ।
शुभक्षेत्रदशाकाले शुभं भवति निश्चितम्

46.130

शुभयुक्ताशुभक्षेत्रदशा मिश्रफला स्मृता ।
क्रूरयुक्तशुभक्षेत्रदशा मिश्रफला तथा

46.131

जनानां जन्मकाले तु यो राशिस्तनुभावगः ।
तस्य चक्रदशाकाले देहारोग्यं सुखं महत्

46.132

शुभे पूर्णसुखं पापे देहे रोगादिसम्भवः ।
स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः

46.133

धनभावे च यो राशिस्तस्य चक्रदशा यदा ।
तदा सुभोजन.म् पुत्रस्त्रिसुखं च धनाप्तयः

46.134

विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् ।
शुभर्क्षे फलमेवं स्यात् पापभे फलमन्यथा

46.135

तृतीयभावराशेस्तु कालचक्रदशा यदा ।
तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम्

46.136

स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंसदि ।
शुभर्क्षे फलमेवं स्यात् पापर्क्षे फलमन्यथा

46.137

सुखभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा बन्धुसुखं भूमिगृहराज्यसुखाप्तयः

46.138

आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् ।
शुभर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा

46.139

सुतभावगतर्क्षस्य कालचक्रदशा यदा ।
सुतस्त्रीराज्यसौख्याप्तिरारोग्यं मित्रसंगमः

46.140

विद्याबुद्धियशोलाभो धैर्यं च विक्रमोदयः ।
शुभराशौ शुभं पूर्णं पापर्क्षे फलमन्यथा

46.141

रिपुभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा चोरादिभूपाग्निविषशस्त्रभयं महत्

46.142

प्रमेहगुल्मपण्ड्वादिरोगाणामपि संभवः ।
पापर्क्षे फलमेवं स्यात् शुभर्क्षे मिश्रमादिशेत्

46.143

जायाभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा पाणिग्रहः पत्नीपुत्रलाभादिकं सुखम्

46.144

कृषियोधनवस्त्राप्तिर्नृपपूजा महद्यशः ।
शुभराशौ फलं पूर्णं पापराशौ च तद्दलम्

46.145

मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा ।
स्थाननाशं महद् दुःखं बन्धुनाशं धनक्षयम्

46.146

दारिद्र्यमन्नविद्वोपमरिभीतिं च निर्दिशेत् ।
पापराशौ फलं पूर्णं शुभराशौ च तद्दलम्

46.147

धर्मभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा पुत्रकलत्रार्थकृषिगेहसुखं वदेत्

46.148

सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् ।
शुभराशौ शुभं पूर्णं पापराशौ च तद्दलम्

46.149

कर्मभावगतर्क्षस्य कालचक्रदशा यदा ।
राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम्

46.150

सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् ।
शुभराशौ फलं पूर्णं पापराशौ च मिश्रितम्

46.151

लाभभावस्थितर्क्षस्य कालचक्रदशा यदा ।
पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्सुखम्

46.152

धनवस्त्राप्तिरारोग्यं सतां सङ्गश्च जायते ।
शुभराशौ फलं पूर्णं पापराशौ च खण्डितम्

46.153

व्ययभावगतर्क्षस्य कालचक्रदशा तदा ।
उद्योगभङ्गमालस्यं देहपीडां पदच्युतिम्

46.154

दारिद्यं कर्मवैफल्यं तथा व्यर्थव्ययं वदेत् ।
पापराशौ फलं त्वेवं शुभराशौ च तद्दलम्

46.155

लग्नादिव्ययपर्यन्तं भानां चरदशां ब्रुवे ।
तस्मात् तदीशपर्यन्तं संख्यामत्र दशां विदुः

46.156

मेषादित्रित्रिभैर्ज्ञेयं पदमोजपदे क्रमात् ।
दशाब्दानयने कार्या गणना व्युत्क्रमात् समे

46.157

वृश्चिकाधिपती द्वौ च केतुभौमौ स्मृतौ द्विज ।
शनिराहु च कुम्भस्य स्वामिनौ परिकीर्तितो

46.158

द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना ।
द्वावेवाधिपती विप्र युक्तौ स्वर्क्षे स्थितौ यदि

46.159

वर्ष द्वादशकं तत्र न चेदेकादि चिन्तयेत् ।
एकः स्वक्षेत्रयोऽन्यस्तु परत्र यदि संस्थितः

46.160

तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत् ।
द्वावप्यन्यर्क्षगौ तौ चेत् तमोर्मध्ये च यो बली

46.161

तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विजः ।
बलस्याऽत्र विचारे स्यादग्रहात् सग्रहो बली

46.162

द्वावेव सग्रहौ तौ चेत् बली तत्राधिकग्रहः ।
ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम्

46.163

ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः ।
राशिसत्त्वसमानत्वे बहुवर्षो बली भवेद्

46.164

एकः स्वोच्चगतश्चाऽन्यः परत्र यदि संस्थितः ।
गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय वै

46.165

उच्चखेटस्य सद्भावे वर्षमेकं च निक्षिपेत् ।
तथैव नीचखेटस्य वर्षमेकं विशोधयेत्

46.166

एवं सर्वं समालोच्य जातकस्य फलं वदेत्

46.167

क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात् ।
लग्नराशिं समारभ्य विज्ञश्चरदशां नयेत्

46.168

अथाऽहं संप्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज ।
चरे सप्त स्थिरे चाऽष्टौ द्वन्द्वे नव समाः स्मृताः

46.169

स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते ।
ब्रह्मखेटाश्रितर्क्षादिर्दशेयं परिवर्तते

46.170

योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने ।
इति स्पष्टतरं ब्रूहि कृपाऽस्ति यदि ते मयि

46.171

षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः ।
पृष्ठस्थितो भवेद् ब्रह्मां बलिनो लग्नजाययोः

46.172

कारकादष्टमेशो वा ब्रह्माऽप्यष्टभावगः ।
शनौ पाते च ब्रह्मत्त्वे ब्रह्मा तत्षष्ठखेचरः

46.173

बहवो लक्षणक्रान्ता ज्ञेयस्तेष्वधिकांशकः ।
अंशसाम्ये बलाधिक्याद् विज्ञेयो ब्रह्मखेचरः

46.174

योगार्धे च दशामानं द्वयोर्योगार्धसम्मितम् ।
लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्तते

46.175

लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ।
ततः केन्द्रादिसंस्थानां राशीनाञ्च बलक्रमात्

46.176

कारकादपि राशीनां खेटानां चैवमेव हि ।
दशाब्दाश्चरवज्ज्ञेयाः खेटानां च स्वभावधि

46.177

द्विराश्यधिपक्षेटस्य गण्येदुभयावधि ।
उभयोर्धिक संख्या कारकस्य दशा समाः

46.178

आत्मकारकमारभ्य कारकाख्यदशा क्रमात् ।
लग्नात् कारकपर्यन्तं संख्यामत्र दशां विदुः

46.179

मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज ।
लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत्

46.180

ततः क्रमेणौजराशौ समे नेया तथोऽत्क्रमात् ।
त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा समाः

46.181

निर्याणस्य विचारार्थं कैश्चिछूलदशा स्मृता ।
लग्नसप्तमतो मृत्युभयोर्यो बलवान् भवेत्

46.182

तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे ।
दशाब्दाः स्थिरवत्तत्र बलिमारकभे मृतिः

46.183

जन्मलग्नत्रिकोणेषु यो राशिर्बलवान् भवेत् ।
तमार्भ्य नयेद् धीमान् चरिपर्यायवद् दशाम्

46.184

क्रमादुत्क्रमतो ग्राह्यं त्रिकोणं विषमे समे ।
त्रिकोणाख्यदशा प्रोक्ता समा नाथावसानकाः

46.185

लग्नाद् धर्मस्य तद्दृष्टराशीनां च दशास्ततः ।
दशमस्य च तद्दृष्टराशीनां च नयेत् पुनः

46.186

एकादशस्य तद्दृष्टराशीनां स्थिरवत् समाः ।
प्रवृत्ता दृग् वशाद्यस्माद् दृग्दशेयं ततः स्मृता

46.187

चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात् ।
विषमे क्रमतो द्वन्द्वे राशयो व्युत्क्रमात् समे

46.188

ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता ।
भयातं रविभिर्निघ्नं भभोगविहृतं फलम्

46.189

राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशेषितम् ।
तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्रमात् समे

46.190

दशाब्दा भुक्तभागघ्ना त्रिंशता विहृताह् फलम् ।
भुक्तं वर्षादिकं ज्ञेयं भोग्यं मानाद् विशोधितम्

46.191

अकारादीन् स्वरान् पञ्च प्रथमं विन्यसेत् क्रमात् ।
कादिहान्तांल्लिखेद् वर्णान् स्वराधो ङञणोज्झितान्

46.192

तिर्यक् पंक्तिक्रमेणैव पञ्चपञ्चविभागतः ।
न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते नहि

46.193

चेद् भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमात् ।
यत्र स्वरे स्वनामाद्यवर्णः स्यात् तत्स्वरादयः

46.194

क्रमात् पंच दशाधीशाः द्वादशद्वादशाब्दकाः ।
स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्दशादयः

46.195

पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज ।
इदानीं शम्भुना प्रोक्ता कथ्यते योगिनी दशा

46.196

मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ।
उल्का सिद्धा संकटा च योगिन्योऽष्टौ प्रकीर्तिताः

46.197

मङ्गलातोऽभवच्चन्द्रः पिङ्गलातो दिवाकरः ।
धन्यातो देवपूज्योऽभूद् भ्रामरीतोऽभवत् कुजः

46.198

भर्दिकातो बुधो जातस्तथोल्कातः शनैश्चरः ।
सिद्धातो भार्गवि जातः संकटातस्तमोऽभवद्

46.199

जन्मर्क्ष च त्रिभिर्युक्तं वसुभिर्भागमाहरेत् ।
एकादिशेषे विज्ञेया योगिन्योः मङ्गलादिकाः

46.200

एकाद्येकोत्तरा ज्ञेयाः क्रमादासां दशासमाः ।
नक्षत्रयातभोगाभ्यां भुक्तं भोग्यं च साधयेत्

46.201

येषां यदायुः संप्रोक्तं पैण्डमांशं निसर्गजम् ।
तक्षत् तेषां दशा ज्ञेया पैण्डी चांशी निसर्गजा

46.202

बली लग्नार्कचन्द्राणां यत्तस्य प्रथमा दशा ।
तत्केन्द्रादिगतानां च ज्ञेया बलवशात्ततः

46.203

अष्टवर्गबलेनैषां फलानि परिचिन्तयेत् ।
अष्टवर्गदशाश्चैताः कथिताः पूर्वसूरिभिः

46.204

परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता ।
तन्मिता लग्नभादीनां क्रमात् सन्ध्यादशा स्मृता

46.205

सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम् ।
संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्रिषु विन्यसेत्

46.206

त्रिभागं वसुकोष्ठेषु विन्यस्य तत्फलं वदेत् ।
एवं द्वादशभावेषु पाचकानि प्रकल्पयेत्

46.207

विंशत्तरिदशेवाऽत्र कैश्चित् तारादशा स्मृता ।
आशंकुरागुशबुकेश्वादिस्थानेषु तारकाः

46.208

अन्मसम्पत्विपत्क्षेमप्रत्यरिः साधको बधः ।
मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्रहात्

46.209

ज्ञेया तारादशा विप्र नामतुल्यफलप्रदा ।
यस्य केन्द्रे स्थितः खेटो दशेयं तस्य कीर्तिता

46.210

इति ते कथिता विप्र दश भेदा अनेकधा ।
एतदन्तर्दशाभेदान् कथयिष्यामि चाग्रतः

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc