बृहज्जातक · अध्याय 25
मृत्युर्.मृत्यु.गृह.ईक्षणेन.बलिभिस्.तद्.धातु.कोप.उद्भवस्.तत्.संयुक्त.भ.गात्रजो.बहु.भवो.वीर्य.अन्वितैर्.भूरिभिः।
अग्न्य्.अंब्व्.आयुधजो.ज्वर.आमय.कृतस्.तृट्.क्षुत्.कृतश्.च.अष्टमे.सूर्य.आद्यैर्.निधने.चर.आदिषु.पर.स्व.अध्व.प्रदेशेष्व्.इति॥(शा.वि)
शैल.अग्र.अभिहतस्य.सूर्य.कुजयोर्.मृत्युः.ख.बन्धुस्थयोः.कूपे.मन्द.शश.अङ्क.भूमि.तनयैर्.बन्ध्व्.अस्त.कर्म.स्थितैः।
कन्यायां.स्व.जनाद्.धिम.उष्ण.करयोः.पाप.ग्रहैर्.दृष्टयोः.स्यातां.यद्य्.उभय.उदये.अर्क.शशिनौ.तोये.तदा.मज्जितः॥(शा.वि)
मन्दे.कर्कटगे.जल.उदर.कृतो.मृत्युर्.मृग.अङ्के.मृगे.शस्त्र.अग्नि.प्रभवः.शशिन्य्.अशुभयोर्.मध्ये.कुज.ऋक्षे.स्थिते।
कन्यायां.रुधिर.उत्थ.शोष.जनितस्.तद्वत्.स्थिते.शीतगौ.सौर.ऋक्षे.यदि.तद्वद्.एव.हिमगौ.रज्ज्व्.अग्नि.पातैः.कृतः॥(शा.वि)
बन्धाद्.धी.नवमस्.तयोर्.अशुभयोः.सौम्य.ग्रहाद्.दृष्टयोर्.द्रेष्काणैश्.च.स.पाश.सर्प.निगडैश्.छिद्र.स्थितैर्.बन्धतः।
कन्यायाम्.अशुभ.अन्विते.अस्तमयगे.चन्द्रे.सिते.मेषगे.सूर्ये.लग्न.गते.च.विद्धि.मरणं.स्त्री.हेतुकं.मन्दिरे॥(शा.वि)
शूल.उद्भिन्न.तनुः.सुखे.अवनि.सुते.सूर्ये.अपि.वा.खे.यमे।स.प्रक्षीण.हिम.अंशुभिश्.च.युगपत्.पापैस्.त्रि.कोण.आद्यगैः॥
बन्धुस्थे.च.रवौ.वियत्य्.अवनिजे.क्षीण.इन्दु.संवीक्षिते।काष्ठेन.अभिहतः.प्रयाति.मरणं.सूर्य.आत्मजेन.ईक्षिते॥(शा.वि)
रन्ध्र.आस्पद.अङ्ग.हिबुकैर्.लगुड.आहत.अङ्गः.प्रक्षीण.चन्द्र.रुधिर.अर्कि.दिन.ईश.युक्तैः।
तैर्.एव.कर्म.नवम.उदय.पुत्र.संस्थैर्.धूम.अग्नि.बन्धन.शरीर.निकुट्टन.अन्तः॥(व.ति)
बन्ध्व्.अस्त.कर्म.सहितैः.कुज.सूर्य.मन्दैर्.निर्याणम्.आयुध.शिखि.क्षिति.पाल.कोपात्।
सौर.इन्दु.भूमि.तनयैः.स्व.सुख.आस्पदस्थैर्.ज्ञेयः.क्षत.कृमि.कृतश्.च.शरीर.घातः॥(व.ति)
खस्थे.अर्के.अवनिजे.रसातल.गते.यान.प्रपातद्.वधो।यन्त्र.उत्पीडनजः.कुजे.अस्तमयगे.सौर.इन्दुना.अभ्युद्गमे।
विण्.मध्ये.रुधिर.अर्कि.शीत.किरणैर्.जूक.अज.सौर.ऋक्षगैर्.याते.वा.गलित.इन्दु.सूर्य.रुधिरैर्.व्योम.अस्त.बन्ध्व्.आह्वयान्॥(शा.वि)
वीर्य.अन्वित.वक्र.वीक्षिते.क्षीण.इन्दौ.निधन.स्थिते.अर्कजे।
गुह्य.उद्भव.रोग.पीडया.मृत्युः.स्यात्.कृमि.शस्त्र.दाहजः॥(वैतालीय)
अस्ते.रवौ.स.रुधिरे.निधने.अर्क.पुत्रे.क्षीणे.रसातल.गते.हिमगौ.खग.अन्तः।
लग्न.आत्मज.अष्टम.तपःस्व्.इन.भौम.मन्द.चन्द्रैस्.तु.शैल.शिखर.अशनि.कुड्य.पातैः॥(व.ति)
द्वाविंशः.कथितस्.तु.कारणं.द्रेष्काणो.निधनस्य.सूरिभिः।
तस्य.अधिपतिर्.भवो.अपि.वा.निर्याणं.स्व.गुणैः.प्रयच्छति॥(वैतालीय)
होरा.नव.अंशकप.युक्त.स.मान.भूमौ.योग.ईक्षण.आदिभिर्.अतः.परिकल्प्यम्.एतत्।
मोहस्.तु.मृत्यु.समये.अनुदित.अंश.तुल्यः.स्व.ईश.ईक्षिते.द्वि.गुणितस्.त्रिगुणः.शुभैश्.च॥(व.ति)
दहन.जल.विमिश्रैर्.भस्म.संक्लेद.शोषैर्.निधन.भवन.संस्थैर्.व्याल.वर्गैर्.विडन्तः।
इति.शव.परिणामश्.चिन्तनीयो.यथा.उक्तः.पृथुवि.रचित.शास्त्राद्.गत्य्.अनूक.आदि.चिन्त्यम्॥(मालिनी)
गुरुर्.उडु.पति.शुक्रौ.सूर्य.भौमौ.यम.ज्ञौ.विबुध।पितृ.तिरश्चो.नारकीयांश्.च.कुर्युः।
दिन.कर.शशि.वीर्य.अधिष्ठितात्.त्र्य्.अंश.नाथात्.प्रवर.सम.निकृष्टास्.तुङ्ग.ह्रसाद्.अनूके॥(मालिनी)
गतिर्.अपि.रिपु.रन्ध्र.त्र्य्.अंशपो.अस्तस्थितो.वा.गुरुर्.अथ.रिपु.केन्द्र.च्छिद्रगः.स्व.उच्च.संस्थः।
उदयति.भवने.अन्त्ये.सौम्य.भागे.च.मोक्षो.भवति.यदि.बलेन.प्रोज्झितास्.तत्र.शेषाः॥(मालिनी)ए25
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0