बृहज्जातक · अध्याय 24
यद्.यत्.फलं.नर.भवे.क्षमम्.अङ्गनानां.तत्.तद्.वदेत्.पतिषु.वा.सकलं.विधेयम्।
तासां.तु.भर्तृ.मरणं.निधने.वपुस्.तु.लग्न.इन्दुगं.सुभगता.अस्तमये.पतिश्.च॥(व.ति)
युग्मेषु.लग्न.शशिनोः.प्रकृति.स्थिता.स्त्री.सच्.छील.भूषण.युता.शुभ.दृष्टयोश्.च।
ओजस्थयोश्.च.मनुज.आकृति.शील.युक्ता.पापा.च.पाप.युत.ईक्षितयोर्.गुण.ऊना॥(व.ति)
कन्या.एव.दुष्टा.व्रजति.इह.दास्यं.साध्वी.स.माया.कुचरित्र.युक्ता।
भूम्य्.आत्मज.ऋक्षे.क्रमशो.अंशकेषु.वक्र.अर्कि.जीव.इन्दुज.भार्गवानम्॥(इन्द्रवज्रा)
दुष्टा.पुनर्भूः.स.गुणा.कलाज्ञा.ख्याता.गुणैश्.च.असुर.पूजित.ऋक्षे।
स्यात्.कापटी.क्लीब.समा.सती.च.बौधे.गुण.आढ्या.प्रविकीर्णकामा॥(इन्द्रवज्रा)
स्व.च्छन्दा.पति.घातिनी.बहु.गुणा.शिल्पिन्य्.असाध्वी.इन्दु.भे।न्राचारा.कुलट.अर्क.भे.नृप.वधूः.पुंश्.चेष्टित.आगम्यगा।
जैवेन.एकगुण.अल्प.रत्य्.अतिगुणा.विज्ञान.युक्ता.सती।दासी.नीच.रत.अर्कि.भे.पति.रता.दुष्टा.प्रजा.स्व.अंशकैः॥(शा.वि)
शशि.लग्न.समायुक्तैः.फलं.त्रिंश.अंशकैर्.इदम्।
बल.अबल.विकल्पेन.तयोर्.उक्तं.विचिन्तयेत्॥(अनुष्टुभ्)
दृक्.संस्थ.अवसित.सितौ.परस्पर.अंशे.शौक्रे.वा.यदि.घट.राशि.संभवो.अंशः।
स्त्रीभिः.स्त्री.मदन.विष.अनल.प्रदीप्तं.संशान्तिं.नयति.नर.आकृति.स्थिताभिः॥(प्रहर्षिणी)
शून्ये.कापुरुषो.बले.अस्त.भवने.सौम्य.ग्रहाव्.ईक्षिते.क्लीवो.अस्ते.बुध.मन्दयोश्.चर.गृहे.नित्यं.प्रवास.अन्वितः।
उत्सृष्टा.रविणा.कुजेन.विधवा.वाल्ये.अस्त.राशि.स्थिते.कन्या.एव.अशुभ.वीक्षिते.अर्क.तनये.द्यूने.जरां.गच्छति॥(शा.वि)
आग्नेयैर्.विधवा.अस्त.राशि.सहितैर्.मिश्रैः.पुनर्भूर्.भवेत्।क्रूरे.हीन.बले.अस्तगे.स्व.पतिना.सौम्य.ईक्षिते.प्रोज्झिता।
अन्योन्य.अंशगयोः.सित.अवनिजयोर्.अन्य.प्रसक्त.अङ्गना।द्यूने.वा.यदि.शीत.रश्मि.सहितौ.भर्तुस्.तदा.अनुज्ञया॥(शा.वि)
सौर.आर.ऋक्षे.लग्नगे.स.इन्दु.शुक्रे.मत्रा.सार्द्धं.बन्धकी.पाप.दृष्टे।
कौजे.अस्त.अंशे.सौरिणा.व्याधि.योनिश्.चारु.श्रोणी.वल्लभा.सद्.ग्रह.अंशे॥(शालिनी)
वृद्धो.मूर्खः.सूर्यज.ऋक्षे.अंशके.वा.स्त्री.लोलः.स्यात्.क्रोधनश्.च.अवनेये।
शौक्रे.कान्तो.अतीव.सौभाग्य.युक्तो.विद्वान्.भर्ता.नैपुण.ज्ञश्.च.बौधे॥(मालिनी)
मदन.वश.गतो.मृदुश्.च.चान्द्रे.त्रि.दश.गुरौ.गुणवान्.जित.इन्द्रियश्.च।
अतिमृदु.रति.कर्म.कृच्.च.सौर्ये.भवति.गृहे.अस्तमय.स्थिते.अंशके.वा॥(पुष्पिताग्रा)
ईर्ष्य.अन्विता.सुख.परा.शशि.शुक्र.लग्ने.ज्ञ.इन्द्वोः.कलासु.निपुणा.सुखिता.गुण.आढ्या।
शुक्र.ज्ञयोस्.तु.रुचिरा.सुभगा.कलाज्ञा.त्रिष्व्.अप्य्.अनेक.वसु.सौख्य.गुणा.शुभेषु॥(व.ति)
क्रूरे.अष्टमे.विधवता.निधन.ईश्वरो.अंशे.यस्य.स्थितो.वयसि.तस्य.समे.प्रदिष्टा।
सत्.स्वर्थगेषु.मरणं.स्वयम्.एव.तस्याः.कन्या.अलिगो.हरिषु.च.अल्प.सुतत्वम्.इन्दौ॥(व.ति)
सौरे.मध्य.बले.बलेन.रहितैः.शीत.अंशु.शुक्र.इन्दुजैः।शेषैर्.वीर्य.समन्वितैः.परुषिणी.यद्य्.ओज.राश्य्.उद्गमः।
जीव.आर.स्फुजि.दैन्दवेषु.बलिषु.प्राग्.लग्न.राशौ.समे।विख्याता.भुवि.न.एक.शास्त्र.निपुणा.स्त्री.ब्रह्म.वादिन्य्.अपि॥(शा.वि)
पापे.अस्ते.नवम.गत.ग्रहस्य.तुल्यां.प्रव्रज्यां.युवतिर्.उपैत्य्.असंशयेन।
उद्वाहे.वरण.विधौ.प्रदान.काले.चिन्तायाम्.अपि.सकलं.विधेयम्.एतत्.(प्रहर्षिणी)ए24
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0