भाषा

ENहिગુ
ग्रंथ पाठ

बृहज्जातक · अध्याय 18

18.01

प्रथितश्.चतुरो.अटनो.अल्प.वित्तः.क्रियगे.त्व्.आयुध.भृद्.वितुङ्ग.भागे।
गवि.वस्त्र.सुगन्ध.पण्य.जीवी.वनिताद्.विट्.कुशलश्.च.गो.यव.आद्ये॥(औपच्छन्दसिक)

18.02

विद्या.ज्योतिष.वित्तवान्.मिथुनगे.भानौ.कुलीरे.स्थिते.तीक्ष्णो.अस्वः.पर.कार्य.कृच्.छ्रम.पथ.क्लेशैश्.च.संयुज्यते।
सिंहस्थे.वन.शैल.गो.कुल.रतिर्.वीर्य.अन्वितो.अज्ञः.पुमान्.कन्यास्थे.लिपि.लेख्य.काव्य.गणित.ज्ञान.अन्वितः.स्त्री.वपुः॥(शा.वि)

18.03

जातस्.तौलिनि.सौण्डिको.अध्वनि.रतो.हैरण्यको.नीच.कृत्.क्रूरः.साहसिको.विश.अर्जित.धनः.शस्त्र.अन्तगो.अलि.स्थिते।
सत्.पूज्यो.धनवान्.धनुर्.धर.गते.तीक्ष्णो.भिषक्.कारुको.नीचो.अज्ञः.कुवणिङ्.मृगे.अल्प.धनवांल्.लब्धो.अन्य.भाग्यैर्.रतः॥(शा.वि)

18.04

नीचो.घटे.तनय.भाग्य.परिच्च्युतो.अस्व.स्तोय.उत्थ.पण्य.विभवो.बनिताद्.ऋतो.अन्त्ये।
नक्षत्र.मानव.तनु.प्रतिमे.विभागे.लक्ष्म.आदिशेत्.तुहिन.रश्मि.दिन.ईश.युक्ते॥(व.ति)

18.05

नर.पति.सत्.कृतो.अटनश्.चमूप.वणिक्.स.धनः.क्षत.तनुश्.चौर.भूरि.विषयांश्.च.कुजः.स्व.गृहे।
युवति.जितान्.सुहृत्सु.विषमान्.पर.दार.रतान्.कुहक.सुवेष.भीरु.पौर्षान्.सित.भे.जनयेत्॥(त्रोटक)

18.06

बौधे.असहस्.तनयवान्.विसुहृत्.कृतज्ञो.गान्धर्व.युद्ध.कुशलः.कृपणो.अभयो.अर्थी।
चान्द्रे.अर्थवान्.सलिल.यान.समर्जित.स्वः.प्राज्ञश्.च.भूमि.तनये.विकलः.खलश्.च॥(व.ति)

18.07

निःस्वः.क्लेश.सहो.वन.अन्तर.चरः.सिंहे.अल्प.दारा.आत्मजो.जैवे.न.एक.रिपुर्.नर.इन्द्र.सचिवः.ख्यातो.अभय.अल्प.आत्मजः।
दुःख.अर्तो.विधनो.अटनो.अनृत.रतस्.तीक्ष्णश्.च कुम्भ.स्थिते.भौमे.भूरि.धन.आत्मजो.मृग.गते.भूपो.अथ.वा.तत्.समः॥(आ.वि)

18.08

द्यूत.ऋण.पान.रत.नास्तिक.चौर.निःस्वाः.कुस्त्रीक.कूटकृद्.असत्य.रताः.कुज.ऋक्षे।
आचार्य.भूरि.सुत.दार.धन.अर्जन.इष्टाः.शौक्रे.वदान्य्.अगुरु.भक्ति.रताश्.च.सौम्ये॥(व.ति)

18.09

विकत्थनः.शास्त्र.कला.विदग्धः.प्रियंवदः.सौख्य.रतस्.तृतीये।
जल.अर्जित.स्वः.स्व.जनस्य.शत्रुः.शश.अङ्कजे.शीत.कर.ऋक्ष.युक्ते॥(उपेन्द्रवज्रा)

18.10

स्त्री.द्वेष्यो.विधन.सुख.आत्मजो.अटनो.अज्ञः.स्त्री.लोलः.स्व.परिभवो.अर्क.राशिगे.ज्ञे।
त्यागी.ज्ञः.प्रचुर.गुणः.सुखी.क्षमावान्.युक्ति.ज्ञो.विगत.भयश्.च.षष्ठ.राशौ॥(प्रहर्षिणी)

18.11

पर.कर्म.कृद्.अस्व.शिल्प.बुद्धी.ऋणवान्.विष्टि.करो.बुधे.अर्कज.ऋक्षे।
नृप.सत्कृत.पण्डित.आप्त.वाक्यो.नवमे.अन्त्ये.जित.सेवक.अन्त्य.शिल्पः॥(औपच्छन्दसिक)

18.12

सेना.निर्बहु.वित्त.दार.तनयो.दाता.सुभृत्यः.क्षमी.तेजो.दार.गुण.अन्वितः.सुर.गुरौ.ख्यातः.पुमान्.कौज.भे।
कल्प.अङ्गः.स.धन.अर्थ.मित्र.तनयस्.त्यागी.प्रियः.शौक्र.भे.बौधे.भूरि.परिच्छद.आत्मज.सुहृत्.साचिव्य.युक्तः.सुखी॥(शा.वि)

18.13

चान्द्रे.रत्न.सुत.स्व.दार.विभव.प्रज्ञा.सुखैर्.अन्वितः।सिंहे.स्याद्.बल.नायकः.सुर.गुरौ.प्रोक्तं.च.यच्.चन्र.भे॥
स्व.ऋक्षे.माण्डलिको.नर.इन्द्र.सचिवः.सेनापतिर्.वा.धनी।कुम्भे.कर्कटवत्.फलानि.मकरे.नीचो.अल्प.वित्तो.असुखी॥(शा.वि)

18.14

पर.युवति.रतस्.तद्.अर्थ.वादैर्.हृत.विभवः.कुल.पांसनः.कुज.ऋक्षे।
स्व.बल.मति.धनो.नर.इन्द्र.पूज्यः.स्व.जन.विभुः.प्रथितो.अभयः.सिते.स्वे॥(पुष्पिताग्रा)

18.15

नृप.कृत्य.करो.अर्थवान्.कलाविन्.मिथुने.षष्ठ.गते.अतिनीच.कर्मा.
रविज.ऋक्ष.गते.अमर.अरि.पूज्ये.सुभगः.स्त्री.विजितो.रतः.कुनार्य्याम्॥(औपच्छन्दसिक)

18.16

द्वि.भार्यो.अर्थी.भीरुः.प्रबल.मद.शोकश्.च.शशि.भे.हरौ.योषा.आप्त.अर्थः.प्रवर.युवतिर्.मन्द.तनयः।
गुणैः.पूज्यः.स.स्वस्.तुरग.सहिते.दानव.गुरौ.झषे.विद्वान्.आढ्यो.नृप.जनित.पूजो.अतिसुभगः॥(शिखरिणी)

18.17

मूर्खो.अटनः.कपटवान्.विसुहृद्.यमे.अजे.कीटे.तु.बन्ध.वध.भाक्.चपलो.अघृणश्.च।
निह्रीर्.सुख.अर्थ.तनयः.स्खलितश्.च.लेख्ये.रक्षा.पतिर्.भवति.मुख्य.पतिश्.च.बौधे॥(व.ति)

18.18

वर्ज्य.स्त्री.इष्टो.न.बहु.विभवो.भूरि.भार्यो.वृषस्थे.ख्यातः.स्व.उच्चे.गण.पुर.बल.ग्राम.पूज्यो.अर्थवांश्.च.कर्किण्य्.अस्वो.विकल.दशनो.मातृ.हीनो.असुतो.अज्ञः.सिंहे.अनार्यो.बिसुख.तनयो.विष्टि.कृत्.सूर्य.पुत्रे॥(मन्दाक्रान्ता)

18.19

स्वन्तः.प्रत्ययितो.नर.इन्द्र.भवने.सत्.पुत्र.जाया.धनो.जीव.क्षेत्र.गते.अर्कजे.पुर.बल.ग्राम.अग्र.नेता.अथ.वा।
अन्य.स्त्री.धन.संवृतः.पुर.बल.ग्राम.अग्रणीर्.मन्द.दृक्.स्व.क्षेत्रे.मलिनः.स्थिर.अर्थ.विभवो.भोक्ता.च.जातः.पुमान्॥(शा.वि)

18.20

शिशिर.कर.समागम.ईक्षणानां.सदृश.फलं.प्रवदन्ति.लग्न.जातम्।
फलम्.अधिकम्.इदं.यद्.अत्र.भावाद्.भवन.भ.नाथ.गुणैर्.विचिन्तनीयम्॥(पुष्पिताग्रा)ए18

मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc