बृहज्जातक · अध्याय 19
चन्द्रे.भूप.बुधौ.नृप.उपम.गुणी.स्तेनो.अधनश्.च.अजगे.निःस्वः.स्तेन.नृ.मान्य.भूप.धनिनः.प्रेष्यः.कुज.आद्यैर्.गवि।
नृस्थे.अयो.व्यवहारि.पार्थिव.बुधाभिस्.तन्तु.वायो.अधनो.स्व.ऋक्षे.योद्धृ.कवि.ज्ञ.भूमि.पतयो.अयो.जीवि.दृग्.रोगिणौ॥(शा.वि)
ज्योतिर्.ज्ञ.आढ्य.नर.इन्द्र.नापित.नृ.पक्ष्म.ईशा.बुध.आद्यैर्.हरौ.तद्.वद्.भूप.चमूप.नैपुण.युताः.षष्ठे.अशुभैः.स्त्र्य्.आश्रयः।
जूके.भूप.सुवर्ण.कार.वणिजः.शेष.ईक्षिते.नैकृती.कीटे.युग्म.पिता.नतश्.च.रजको.व्यङ्गो.अधनो.भूपतिः॥(शा.वि)
ज्ञात्य्.उर्वी.ईश.जन.आश्रयश्.च.तुरगे.पापैः.सद्.अम्भः.शठश्.च.अत्युर्वी.ईश.नर.इन्द्र.पण्डित.धनी.द्रव्य.ऊन.भूपो.मृगे।
भूपो.भूप.समो.अन्य.दार.निरतः.शेषैश्.च.कुम्भ.स्थिते.हास्यज्ञो.नृपतिर्.बुधश्.च.झषगे.पापश्.च.पाप.ईक्षिते॥(शा.वि)
होरा.ईश.ऋक्ष.दल.आश्रितैः.शुभ.करो.दृष्टः.शशी.तद्.गतस्.त्र्य्.अंशे.तत्.पतिभिः.सुहृद्.भवनगैर्.वा.वीक्षितः.शस्यते।
यत्.प्रोक्तं.प्रति.राशि.वीक्षण.फलं.तद्.द्वादश.अंशे.स्मृतं.सूर्य.उद्यैर्.अवलोकिते.अपि.शशिनि.ज्ञेयं.नव.अंशेष्व्.अतः॥(शा.वि)
आरक्षिको.वध.रुछिः.कुशलो.नियुद्धे.भूपो.अर्थवान्.कलह.कृत्.क्षितिज.अंश.संस्थे।
मूर्खो.अन्य.दार.निरतः.सुकविः.सित.अंशे.सत्.काव्य.कृत्.सुख.परो.अन्य.कलत्रगश्.च॥(व.ति)
बौधे.हि.रङ्ग.चर.चौर.कवि.इन्द्र.मन्त्री.गेय.ज्ञ.शिल्प.निपुणः.शशिनि.स्थिते.अंशे।
स्व.अंशे.अल्प.गात्र.धन.लुब्ध.तपस्वि.मुख्यः.स्त्रीपो.अप्य्.अकृत्य.निरतश्.च.निरीक्ष्यमाणं॥(व.ति)
स.क्रोधो.नर.पति.संमतो.निधि.ईशः.सिंह.अंशे.प्रभुर.सुतो.अतिहिंस्र.कर्मा।
जीव.अंशे.प्रथित.बलो.रण.उपदेष्टा.हास्य.ज्ञः.सचिव.विकाम.वृद्ध.शीलः॥(प्रहर्षिणी)
अल्प.अपत्यो.दुःखितः.सत्य्.अपि.स्वे.मान.आसक्तः.कर्मणि.स्वे.अनुरक्तः।
दुष्ट.स्त्री.इष्तः.कृपणश्.च.अर्कि.भागे.चन्द्रे.भानौ.तद्वद्.इन्द्व्.आदि.दृष्टे॥(शालिनी)
वर्ग.उत्तम.स्व.परगेषु.शुभं.यद्.उक्तं.तत्.पुष्ट.मध्य.लघुता.शुभम्.उत्क्रमेण।
वीर्य.अन्वितो.अंशक.पतिर्.निरुणद्धि.पूर्वं.राशी.क्षणस्य.फलम्.अंश.फलं.ददाति॥(व.ति)ए19
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0