भाषा

ENहिગુ
ग्रंथ पाठ

बृहज्जातक · अध्याय 17

17.01

वृत्त.आताम्र.दृग्.उष्ण.शाक.लघु.भुक्.क्षिप्र.प्रसादो.अटनः।कामी.दुर्बल.जानुर्.अस्थिर.धनः.शूरो.अङ्गना.वल्लभः।
सेवाज्ञः.कनखी.व्रण.अङ्कित.शिरा.मानी.सह.उत्थ.अग्रजः।शक्त्या.पाणि.तले.अङ्कितो.अतिचपलस्.तोये.अतिभीरुः.क्रिये॥(शा.वि)

17.02

कान्तः.खेल.गतिः.पृथु.ऊरु.वदनः.पृष्ठ.आस्य.पार्श्व.अङ्कितस्.त्यागी.क्लेश.सहः.प्रभुः.ककुदवान्.कन्या.प्रजः.श्लेष्मलः।
पूर्वैर्.बन्धु.धन.आत्मजैर्.विरहितः.सौभाग्य.युक्तः.क्षमी.दीप्त.अग्निः.प्रमदा.प्रियः.स्थिर.सुहृन्.मध्य.अन्त्य.सौख्यो.गवि॥(शा.वि)

17.03

स्त्री.लोलः.सुरता.उपचार.कुशलस्.ताम्र.ईक्षणः.शास्त्रविद्.दूतः.कुञ्चित.मूर्धजः.पटु.मतिर्.हास्य.इङ्गित.द्यूतवित्।
चार्व्.अङ्गः.प्रिय.वाक्.प्रभ.क्षण.रुचिर्.गीत.प्रियो.नृत्यवित्.क्लीबैर्.याति.रतिं.समुन्नत.नसश्.चन्द्रे.तृतीय.ऋक्षगे॥(शा.वि)

17.04

आवक्र.द्रुतगः.समुन्नत.कटिः.स्त्री.निर्ज्जितः.सत्.सुहृद्.दैवज्ञः.प्रचुर.आलय.क्षय.धनैः.संयुज्यते.चन्द्रवत्॥
ह्रस्वः.पीन.गलः.समेति.च.वंश.साम्ना.सुहृद्.वत्सलस्।तोय.उद्यान.रतः.स्व.वेश्म.सहिते.जातः.शश.अङ्के.नरः॥(शा.वि)

17.05

तीक्ष्णः.स्थूल.हनुर्.विशाल.वदनः.पिङ्ग.ईक्षणो.अल्प.आत्मजः।स्त्री.द्वेषी.प्रिय.मांस.कानन.नगः.कुप्यत्य्.अकार्ये.चिरम्।
क्षुत्.तृण.उदर.दन्त.मानस.रुजा.सम्पीडितस्.त्यागवान्।विक्रान्तः.स्थिर.धीः.सुगर्वित.मना.मातुर्.विधेयो.अर्क.भे॥(शा.वि)

17.06

व्रीडा.मन्थर.चारु.वीक्षण.गतिः.स्रस्त.अंस.बाहुः.सुखी।श्लक्ष्णः.सत्य.रतः.कलासु.निपुणः.शास्त्र.अर्थविद्.धार्मिकः।
मेधावी.सुरत.प्रियः.पर.गृहैर्.वित्तैश्.च.संयुज्यते।कन्यायां.पर.देशगः.प्रिय.वचाः.कन्या.प्रजो.अल्प.आत्मजः॥(शा.वि)

17.07

देव.ब्राह्मण.साधु.पूजन.रतः.प्राज्ञः.शुचिः.स्त्री.जितः.प्रांशुश्.च.उन्नत.नासिकः.कृश.चलद्.गात्रो.अटनो.अर्थ.अन्वितः।
हीन.अङ्गः.क्रय.विक्रयेषु.कुशलो.देव.द्वि.नामा.स.रुक्.बन्धूनाम्.उपकार.कृद्.विरुषितस्.त्यक्तस्.तु.तैः.सप्तमे॥(शा.वि)

17.08

पृथुल.नयन.वक्षा.वृत्त.जङ्घ.ऊरु.जानुर्.जनक.गुरु.वियुक्तः.शैशवे.व्याधितश्.च।
नर.पति.कुल.पूज्यः.पिङ्गलः.क्रूर.चेष्टो.झष.कुलिश.खग.अङ्कश्.छन्न.पापो.अलिजातः॥(मालिनी)

17.09

व्यादिर्घ.आस्य.शिरो.धरः.पितृ.धनस्.त्यागी.कविर्.वीर्यवान्।वक्ता.स्थूल.रद.श्रवो.अधर.नसः.कर्म.उद्यतः.शिल्पवित्।
कुब्ज.अंशः.कुनखी.सम.अंसल.भुजः.प्रागल्भवान्.धर्मविद्।बन्धु.द्विट्.न.बलात्.समैति.च.वंश.साम्न.एक.साध्यो.अश्वजः॥(शा.वि)

17.10

नित्यं.लालयति.स्व.दार.तनयान्.धर्म.ध्वजो.अधः.कृशः।स्वक्षः.क्षाम.कटिर्.गृहीत.वचनः.सौभाग्य.युक्तो.अलसः।
शीतालुर्.मनुजो.अटनश्.च.मकरे.सत्व.अधिकः.काव्य.कृल्.लुब्धो.अगम्य.जर.अङ्गनासु.निरतः.सन्त्यक्त.लज्जो.अघृणः॥(शा.वि)

17.11

करभ.गलः.शिरालुः.खर.लोमश.दीर्घ.तनुः.पृथु.चरण.ऊरु.पृष्ठ.जघन.आस्य.कटिर्.जरठः॥
पर.वनिता.अर्थ.पाप.निरतः.क्षय.वृद्धि.युतः.प्रिय.कुसुम.अनुलेपन.सुहृद्.घटजो.अध्व.सहः॥(त्रोटक)

17.12

जल.पर.धन.भोक्ता.दार.वासो.अनुरक्तः.सम.रुचिर.शरीरस्.तुङ्ग.नासो.बृहत्कः।
अभिभवति.स.पत्नान्.स्त्री.जितश्.चारु.दृष्टिर्.द्युति.निधि.धन.भोगी.पण्डितश्.च.अन्त्य.राशौ॥(मालिनी)

17.13

बलवति.राशौ.तद्.अधिपतौ.च.स्व.बल.युतः.स्याद्.यदि.तुहिन.अंशुः।
कथित.कलानाम्.अविकल.दाता.शशिवद्.अतो.अन्ये.इत्य्.अनुपरिचिन्त्याः॥(भ्रमरविलसित)ए17

मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc