बृहज्जातक · अध्याय 08
उदय.रवि.शश.अङ्क.प्राणि.केन्द्र.आदि.संस्थाः।प्रथम.वयसि.मध्ये.अन्त्ये.च.दद्युः.फलानि।
न.हि.न.फल.विपाकः.केन्द्र.संस्थ.आद्य.भावे.भवति.हि.फल.पक्तिः.पूर्वम्.आपोक्लिमे.अपि॥(मलीनी)
आयुः.कृतं.येन.हि.यत्.तद्.एव.कल्प्या.दश.सा.प्रबलस्य.पूर्वाम्।
साम्ये.बहूनां.बहु.वर्षदस्य.तेषां.च.साम्ये.प्रथम.उदितस्य॥(इन्द्रवज्रा)
एक.ऋक्षगो.अर्धम्.अपहृत्य.ददाति.तु.स्वं.त्र्य्.अंशं.त्रि.कोण.गृहगः.स्मरगः.स्वर.अंशम्।
पादं.फलस्य.चतुरस्र.गतः.स.होरस्.त्व्.एवं.परस्पर.गताः.परिपाचयन्ति॥(वसन्ततिलका)
स्थान.अन्यथा.एतानि.स.वर्णयित्वा.सर्वाण्य्.अधश्.छेद.विवर्जितानि।
दश.अब्द.पिण्डे.गुणका.यथा.अंशं.छेदस्.तद्.ऐक्येन.दश.अप्रभेदः॥(इन्द्रवज्रा)
सम्यग्.बलिनः.स्व.तुङ्ग.भागे.सम्पूर्णा.बल.वर्जितस्य.रिक्ता।
नीच.अंश.गतस्य.शत्रु.भागे.ज्ञेय.अनिष्ट.फला.दशा.प्रसूतौ॥(वैतालीय)
भ्रष्टस्य.तुङ्गाद्.अवरोहि.संज्ञा.मध्या.भवेत्.सा.सुहृद्.उच्च.भागे।
अरोहिणी.निम्न.परिच्युतस्य.नीच.अरि.भ.अंशेष्व्.अधमा.भवे.सा॥(इन्द्रवज्रा)
नीच.अरि.भ.अंशे.समवस्थितस्य.शस्ते.गृहे.गृहे.मिश्र.फला.प्रदिष्टा।
संज्ञा.अनुरूपाणि.फलान्य्.अथ.एषां.दशासु.वक्ष्यामि.यथा.उपयोगम्॥(उपजातिका)
उभये.अधम.मध्य.पूजिता.द्रेष्काणैश्.चर.भेषु.च.उत्क्रमात्।
अशुभ.इष्ट.समाः.स्थिरे.क्रमाद्.धोरायाः.परिकल्पिता.दशा॥(वैतालीय)
एकं.द्वौ.नव.विंशतिर्.धृति.कृती.पञ्चाशद्.एषां.क्रमाच्.चन्द्र.आर.इन्दुज.शुक्र.जीव.दिनक्रिद्.दैवा.करिणां.समाः।
स्वैः.स्वैः.पुष्ट.फलानि.सर्ग.जनितैः.पक्तिर्.दशायाः.क्रमाद्.अन्ते.लग्न.दशा.शुभ.इति.यवना.न.इच्छन्ति.के.चित्.तथा॥(शा.वि)
पाक.स्वामिनि.लग्नगे.सुहृदि.वा.वर्गे.अस्य.सौम्ये.अपि.वा.प्रारब्धा.शुभदा.दशा.त्रिदश.षड्.लाभेषु.वा.पाकपे।
मित्र.उच्च.उपचयस्.त्रि.कोण.मदने.पाक.ईश्वरस्य.स्थितश्.चन्द्रः.सत्.फल.बोधनानि.कुरुते.पापानि.च.अतो.अन्यथा॥(शा.वि)
प्रारब्धा.हिमगौ.दशा.स्व.गृहगे.मान.अर्थ.सौख्य.आवहा.कौजे.दूषयति.स्त्रियं.बुध.गृहे.विद्या.सुहृद्.वित्तदा।
दुर्ग.अरण्य.पथ.आलये.कृषि.करी.सिंहे.सित.ऋक्षे.अन्नदा.कुस्त्रीदा.मृग.कुम्भयोर्.गुरु.गृहे.मान.अर्थ.सौख्य.आवहा॥(शा.वि)
सौर्यां.स्वन्.नख.दन्त.चर्म.कनक.क्रौर्य.अध्व.भूप.आहवैस्.तक्ष्ण्यं.दैर्यम्.अजस्रम्.उद्यम.रतिः.ख्यातिः.प्रताप.उन्नतिः।
भार्य.पुत्र.धन.अरि.शस्त्र.हुतभुग्.भूप.उद्भवा.व्यापद.स्त्यागी.पाप.रतिः.स्व.भृत्य.कलहो.हृत्.क्रोड.पीडा.आमयाः॥(शा.वि)
इन्दोः.प्राप्य.दशां.फलानि.लभते.मन्त्र.द्विजात्य्.उद्भवनि.ईक्षु.क्षीर.विकार.वस्त्र.कुसुम.क्रीडा.तिल.अन्न.श्रमैः।
निद्रा.अलस्य.मृदु.द्विज.अमर.रतिः.स्त्री.जन्म.मेधाविता.कीर्त्य्.अर्थ.उपचक्षयौ.च.बलिभिर्.वैरं.स्व.पक्षेण.च॥(शा.वि)
भौमस्य.अरि.विमर्द.भूप.सहज.क्षित्य्.आविक.अजैर्.धनं.प्रद्वेषः.सुत.मित्र.दार.सहजैर्.विद्वद्.गुरु.द्वेष्टृता।
तृष्ण.असृग्.ज्वर.पित्त.भङ्ग.जनिता.रोगाः.पर.स्त्री.कृताः.प्रीतिः.पाप.रतैर्.अधर्म.निरतिः.पारुष्य.तैक्ष्ण्यानि.च॥(शा.वि)
बौध्यां.दौत्य.सुहृद्.गुरु.द्विज.धनं.विद्वत्.प्रशंसा.यशो.युक्ति.द्रव्य.सुवर्ण.वेसर.मही.सौभाग्य.सौख्य.आप्तयः।
हास्य.उपासन.कौशलं.मति.चयो.धर्म.क्रिया.सिद्धयः.पारुष्यं.श्रम.बन्ध.मानस.शुचः.पीडा.च.धातु.त्रयात्॥(शा.वि)
जैव्यां.मान.गुण.उदयो.मति.चयः.कान्तिः.प्रताप.उन्नतिर्.माहात्म्य.उद्यम.मन्त्र.नीति.नृ.पति.स्वाध्याय.मन्त्रैर्.धनम्।
हेम.अश्व.आत्मज.कुञ्जर.अम्बर.चयः.प्रीतिश्.च.सद्.भूमिपैः।सूक्ष्म्य.ऊह.गहन.आश्रमः.श्रवण.रुग्.वैरं.विधर्म.आश्रितैः॥(शा.वि)
शौक्यां.गीत.रतिः.प्रमोद.सुरभि.द्रव्य.अन्न.पान.अम्बर.स्त्री.रत्न.द्युति.मन्मथ.उपकरण.ज्ञान.इष्ट.मित्र.आगमाः।
कौशल्यं.क्रय.विक्रये.कृषि.निधि.प्राप्तिर्.धनस्य.आगमो।वृन्द.ऊर्वी.ईश.निषाद.धर्म.रहितैर्.वैरं.शुचः.स्नेहतः॥(शा.वि)
सौरीं.प्राप्य.खर.उष्ट्र.पक्षि.महिषी.वृद्ध.अङ्गना.अवाप्तयः।श्रेणी.ग्राम.पुरधि.कार.जनिता.पूजा.कुधान्य.आगमः।
श्लेष्म.ईर्ष्य.अनिल.कोप.मोह.मलिन.व्यापत्ति.तन्द्र.आश्रमान्।भृत्य.अपत्य.कलत्र.भर्त्सनम्.अपि.प्राप्नोति.च.व्यङ्गयताम्॥(शा.वि)
दशासु.शस्तासु.शुभानि.कुर्वन्त्य्.अनिष्ट.संज्ञा.स्व.शुभानि.च.एवम्।
मिश्रासु.निश्राणि.दशा.फलानि.होरा.फलं.लग्न.पतेः.स.मानम्॥(उपजातिका)
संज्ञा.अध्याये.यस्य.यद्.रव्य.मुक्तं.कर्म.आअजीवो.यश्.च.यस्य.उपदिष्टः।
भाव.स्थान.आलोक.योग.उद्भवं.च.तत्.तत्.सर्वं.तस्य.योज्यं.दशायाम्॥(शालिनी)
छायां.महा.भूत.कृतां.च.सर्वे.अभिव्यञ्जयन्ति.स्व.दशाम्.अवाप्य।
क्व्.अम्ब्व्.अग्नि.वाय्व्.अम्बरजान्.गुणांश्.च.नासा.आस्य.दृक्.त्वक्.छ्रवण.अनुमेयात्॥(इन्द्रवज्रा)
शुभ.फलद.दशाया.तादृग्.एव.अन्तर.आत्मा।बहु.जनयति.पुंसां.सख्यम्.अर्थ.आगमं.च
कथित.फल.विपाकैस्.तर्कयेद्.वर्तमानां।परिणमति.फल.आप्तिः.स्वप्न.चिन्ता.स्व.वीर्जैः॥(मालिनी)
एक.ग्रहस्य.सदृशे.फलयोर्.विरोधे।नाशं.वदेद्.यद्.अधिकं.परिपच्यते.तत्।
न.अन्यो.ग्रहः.सदृशम्.अन्य.फलं.हिनस्ति।स्वां.स्वां.दशाम्.उपगताः.स.फल.प्रदा.स्युः॥(वसन्ततिलका)ए8
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0