बृहज्जातक · अध्याय 07
मय.यवन.मणित्थ.शक्ति.पूर्वैर्.दिवस.कर.आदिषु.वत्सराः.प्रदिष्टाः।
नव.तिथि.विषय.अश्वि.भूत.रुद्र.दश.सहिता.दशभिः.स्व.तुङ्ग.भेषु॥(पुष्पित.अग्रा)
नीचे.अतो.अर्धं.ह्रसति.हि.ततश्.च.अन्तरस्थे.अनुपातो.होरा.त्व्.अंश.प्रतिमम्.अपरे.राशि.तुल्यं.वदन्ति।
हित्वा.वक्रं.रिपु.ग्रह.गतैर्.हीयते.स्व.त्रि.भागः.सूर्य.उच्छिन्न.द्युतिषु.च.दलं.प्रोजिह्य.शुक्र.अर्क.पुत्रौ॥(में.क्रां)
सर्व.अर्ध.त्रि.चरण.पञ्च.षष्ट.भागाः.क्षीयन्ते.व्यय.भवनाद्.असत्सु.वामम्।
सत्स्व्.अर्धं.ह्रसति.तथा.एक.राशिगानाम्.एक.अंशं.हरति.बली.तथा.आह.सत्यः॥(प्रहर्षिणी)
सार्ध.उदित.उदित.नव.अंश.हतात्.समस्ताद्.भागो.अष्ट.युक्त.शत.संख्यम्.उपैतो.नाशम्।
क्रूरे.विलग्न.सहिते.विधिना.त्व्.अनेन.सौम्य.ईक्षिते.दलम्.अतः.प्रलयं.प्रयाति॥(वसन्ततिलका)
समा.षष्टिर्.द्विघ्ना.मनुज.करिणां.पञ्च.च.निशा.हयानां.द्वात्रिंशत्.खर.करभयोः.पञ्चक.कृतिः
विरूपा.सा.अप्य्.आयुर्.वृष.महिषयोर्.द्वादश.शुनां.स्मृतं.छाग.आदीनां.दशक.सहिताः.षट्.च.परम॥(शिखरिणी)
अनिमिष.परम.अंशके.विलग्ने.शशि.तनये.गवि.पञ्च.वर्ग.लिप्ते।
भवति.हि.परम.आयुषः.प्रमाणं.यदि.सकलः.सहिताः.स्व.तुङ्ग.भेषु॥(पुष्पिताग्रा)
आयुर्.दायं.विष्णु.गुप्तो.अपि.च.एवं.देव.स्वामी.सिद्धसेनश्.च.चक्रे।
दोषश्.च.एषां.जायते.अष्टाव्.अरिष्टं.हित्वा.न.आयुर्.विंशतेः.स्याद्.अधस्तात्॥(शालिनी)
यस्मिन्.योगे.पूर्णम्.आयुः.प्रदिष्टं.तस्मिन्.प्रोक्तं.चक्र.वर्तित्वम्.अन्यैः
प्रत्यक्षो.अयं.दोषः.परो.अपि.जीवत्य्.आयुः.पूर्णम्.अर्थैर्.विना.अपि॥(शालिनी)
स्व.मतेन.किल.आह.जीव.शर्मा.ग्रह.दायं.परम.आयुसः.स्वर.अंशम्।
ग्रह.भुक्त.नव.अंश.राशि.तुल्यं.बहु.साम्यं.समुपैति.सत्य.वाक्यम्॥(उपच्छन्दसिका)
सत्य.उक्ते.ग्रहम्.इष्टं.लिप्ती.कृत्वा.शत.द्वयेन.आप्तम्।
मण्डल.भाग.विशुद्धे.अब्दाः.स्युः.शेषात्.तु.मास.आद्याः॥(आर्या)
स्व.तुङ्ग.वक्र.उपगतैस्.त्रि.संगुणं.द्विर्.उत्तम.स्व.अंशक.भ.त्रि.भ्हागगैः॥
इयान्.विशेषस्.तु.भदत्त.भाषिते.स.मानम्.अन्यत्.प्रथमे.अप्य्.उदीरितम्॥(वंशस्थ)
किं.त्व्.अत्र.भ.अंश.प्रतिमं.ददाति.वीर्य.अन्विता.राशि.समं.च.होरा।
क्रूर.उदये.च.उपचयः.स.न.अत्र.कार्यं.च.न.अब्दैः.प्रथम.उपदिष्टैः॥(इन्द्रवज्रा)
सत्य.उपदेशो.वरम्.अत्र.किन्तु.कुर्वन्त्य्.अयोग्यं.बहु.वर्गणाभिः।
आचार्यकत्वं.च.बहु.घ्नतायाम्.एकं.तु.यद्.भूरि.तद्.एव.कार्यम्॥(इन्द्रवज्रा)
गुरु.शशि.सहिते.कुलीर.लग्ने.शशि.तनये.भृगुजे.च.केन्द्र.याते।
भव.रिपु.सहज.उपगैश्.च.शेषैर्.अमितम्.इह.आयुर्.अनुक्रमाद्.विना.स्यात्॥(पुष्पिताग्रा)ए7
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0