बृहज्जातक · अध्याय 09
स्वाद्.अर्कः.प्रथम.आय.बन्धु.निधन.द्व्य्.आज्ञा.तपो.द्यूनगो.वक्रात्.स्वाद्.इव.तद्वद्.एव.रविजाच्.छुक्रात्.स्मर.अन्त्य.अरिषु।
जीवाद्.धर्म.सुत.आय.शत्रुषु.दश.त्र्य्.आय.अरिगः.शीतगोर्.एषु.एव.अन्त्य.तपः.सुतेषु.च.बुधाल्.लग्नात्.स.बन्ध्व्.अन्त्यगः॥(शा.वि)
लग्नात्.षट्.त्रि.दश.आयगः.स.धन.धी.धर्मेषु.चाराच्.छशी.स्वात्.स.अस्त.आदिषु.स.अष्ट.सप्तसु.रवेः.षट्.त्र्य्.आय.धीस्थो.यमात्।
धी.त्र्य्.आय.अष्टम.कण्टकेषु.शशिजाज्.जीवाद्.व्यय.आय.अष्टगः.केन्द्रस्थश्.च.सितात्.तु.धर्म.सुख.धी.त्र्य्.आय.आस्पद.अनङ्गगः॥(शा.वि)
वक्रस्.तु.उपचयेष्व्.इनात्.स.तनयेष्व्.आद्य.अधिकेषु.उदयाच्।चन्द्राद्.दिग्.विफलेषु.केन्द्र.निधन.प्राप्त्य्.अर्थगः.स्वाच्.छुभः।
धर्म.आय.अष्टम.केन्द्रगो.अर्क.तनयाज्.ज्ञात्.षट्.त्रि.धी.लाभगः।शुक्रात्.षड्.व्यय.लाभ.मृत्युषु.गुरोः.कर्मान्य्.अलाभ.अरिषु॥(शा.वि)
द्व्य्.आद्य.आय.अष्ट.तपः.सुखेषु.भृगुजात्.स.त्र्य्.आत्मजेष्व्.इन्दुजः.स.आज्ञा.अस्तेषु.यम.अरयोर्.व्यय.रिपु.प्राप्त्य्.अष्टगो.वाक्.पतेः।
धर्म.आय.अरि.सुत.व्ययेषु.सवितुः.स्वात्.स.आद्य.कर्म.त्रिगः.षट्.स्व.आय.अष्ट.सुख.आस्पदेषु.हिमगोः.स.आद्येषु.लग्नाच्.छुभः॥(शा.वि)
दिक्.स्व.आद्य.अष्टम.दाय.बन्धुषु.कुजात्.स्वात्.त्रिकेष्व्.अङ्गिराः.सूर्यात्.सत्रि.नवेषु.धी.स्व.नव.दिग्.लाभ.अरिगो.भार्गवात्।
जाया.आय.रथ.नव.आत्मजेषु.हिमगोर्.मन्दात्.त्रि.षड्.धी.व्यये.दिग्.धी.षट्.स्व.सुख.आय.पूर्व.नवगो.ज्ञात्.स.स्मरश्.च.उदयात्॥(शा.वि)
लग्नाद्.आ.सुत.लाभ.रन्ध्र.नवगः.स.अन्त्यः.शश.अङ्कात्.सितः.स्वात्.स.आज्ञेषु.सुख.त्रि.धी.नव.दश.च्छिद्र.आप्तिगः.सूर्यजात्।
रन्ध्र.आय.व्यगो.रवेर्.नव.दश.प्राप्त्य्.अष्ट.धीस्थो.गुरोर्.ज्ञाद्.धी.त्र्य्.आय.नव.अरिगस्.त्रि.नव.षट्.पुत्र.आयस.अन्त्यः.कुजात्॥(शा.वि)
मन्द.स्वात्.त्रि.सुत.आय.शत्रुषु.शुभः.स.आज्ञा.अन्त्यगो.भूमिजात्.केन्द्र.आय.अष्ट.धनेष्व्.इनाद्.उपचयेष्व्.आद्ये.सुखे.च.उदयात्।
धर्म.आय.अरि.दश.अन्त्य.मृत्युषु.बुधाच्.चन्द्रात्.त्री.षड्.लाभगः.षष्ठ.आय.अन्त्य.गतः.सितास्.सुर.गुरोः.प्राप्त्य्.अन्त्य.धी.शत्रुषु॥(शा.वि)
इति.निगदितम्.इष्टं.न.इष्टम्.अन्यद्.विशेषाद्.अधिक.फल.विपाकं.जन्म.भात्.तत्र.दद्युः।
उपचय.गृह.मित्र.स्व.उच्चगैः.पुष्टम्.इष्टं.अव्.अपचय.गृह.नीच.आर.अतिगैर्.न.इष्ट.सम्पत्॥(मालिनी)ए9
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0