भाषा

ENहिગુ
ग्रंथ पाठ

बृहज्जातक · अध्याय 06

06.01

संध्यायां.हिम.दीधिति.होरा.पापैर्.भ.अन्त.गतैर्.निधनाय।
रत्य्.एकं.शशि.पाप.समेतैः.केन्द्रैर्.वा.स.विनाशम्.उपैते॥(विद्युन्माला)

06.02

चक्रस्य.पूर्व.अपर.भागगेषु.क्रूरेषु.सौम्येषु.च.कीट.लग्ने।
क्षिप्रं.विनाशं.समुपैति.जातः.पपैर्.विलग्न.अस्तमय.अभितश्.च॥(इन्द्रवज्रा)

06.03

पापाव्.उदय.अस्त.गतौ.क्रूरेण.युतश्.च.शशी।
दृष्टश्.च.शुभैर्.न.यदा.मृत्युश्.च.भवेद्.अचिरात्॥(अनुष्टुभ्)

06.04

क्षीणे.हिमगौ.व्ययगौ.पापैर्.उदय.अष्टमगैः।
केन्द्रेषु.शुभाश्.च.न.चेत्.क्षिप्रं.निधनं.प्रवदेत्॥(अनुष्टुभ्)

06.05

क्रूरेण.संयुतः.शशी.स्मर.अन्त्य.मृत्यु.लग्नगः।
कण्टकाद्.बहिः.शुभैर्.अवीक्षितश्.च.मृत्युदः॥(अनुष्टुभ्)

06.06

शशिन्य्.अरि.विनाशगे.निधनम्.आशु.पाप.ईक्षिते.शुभैर्.अथ.सम.अष्टक.दलम्.अतश्.च.मिश्रैः.स्थितिः।
असद्भिर्.अवलोकिते.बलिभिर्.अत्र.मासं.शुभे.कलत्र.सहिते.च.पाप.विजिते.विलग्न.अधिपे॥(पृथ्वी)

06.07

लग्ने.क्षीणे.शशिनि.निधनं.रन्ध्र.केन्द्रेषु.पापैः.पाप.अन्तस्थे.निधन.हिबुक.द्यून.संस्थे.च.चन्द्रे॥
एवं.लग्ने.भवति.मदन.च्छिद्र.संस्थैश्.च.पापैर्.मात्रा.सार्द्धं.यदि.न.च.शुभैर्.वीक्षितः.शक्ति.भृद्भिः॥(मं.क्रा)

06.08

राश्य्.अन्तगे.सद्भिर्.अवीक्ष्यमाणे.चन्द्रे.त्रि.कोण.उपगतैश्.च.पापैः।
प्राणैः.प्रयात्य्.आशु.शिशुर्.वियोगम्.अस्ते.च.पापैस्.तुहिन.अंशु.लग्ने॥(इन्द्रवज्रा)

06.09

अशुभ.सहिते.ग्रस्ते.चन्द्रे.कुजे.निधन.आश्रिते.जननि.सुतयोर्.मृत्युर्.लग्ने.रवौ.तु.स.शस्त्रजः।
उदयति.रवौ.शीत.अंशौ.वा.त्रि.कोण.विनाशगैर्.निधनम्.अशुभैर्.वीर्य.उपेतैः.शुभैर्.न.युत.ईक्षिते॥(हरिणी)

06.10

असित.रवि.शश.अङ्क.भूमिजैर्.व्यय.नवम.उदय.नैधन.आश्रितैः।
भवति.मरणम्.आशु.देहिनां.यदि.बलिना.गुरुणा.न.वीक्षिताः॥(अपरवक्र)

06.11

सुत.मदन.नव.अन्त्य.लग्न.रन्ध्रेष्व्.अशुभ.युतो.मरणाय.शीत.रश्मिः।
भृगु.सुत.शशि.पुत्र.देव.पूज्यैर्.यदि.बलिभिर्.न.युतो.अवलोकितो.वा॥(पुष्पित.अग्रा)

06.12

योगे.स्थानं.गतवति.बलिनश्.चन्द्रे.स्वं.वा.तनु.गृहम्.अथ.वा।
पापैर्.दृष्टे.बलवति.मरणं.वर्षस्य.अन्तः.किल.मुनि.गदितम्॥(भ्रमर.विलसिता)ए6

मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc