बृहज्जातक · अध्याय 05
पितुर्.जातः.परोक्षस्य.लग्नम्.इन्दाव्.अपश्यति।
विदेशस्थस्य.चर.भे.मध्याद्.भ्रष्टे.दिवा.करे॥(अनुष्टुभ्)
उदयस्थे.अपि.वा.मन्दे.कुजे.वा.अस्तं.समागते.
स्थिते.वा.अन्तः.क्षपा.नाथे.शश.अङ्क.सुत.शुक्रयोः॥(अनुष्टुभ्)
शश.अङ्के.पाप.लग्ने.वा.वृश्चिक.ईश.त्रि.भागगे।
शुभैः.स्वाय.स्थितैर्.जातः.सर्पस्.तद्.वेष्टितो.अपि.वा॥(नो मेत्रे नमे)
चतुष्पाद.गते.भानौ.शेषैर्.वीर्य.समन्वितैः।
द्वि.तनुस्थैश्.च.यमलौ.भवतः.कोश.वेष्टितौ॥(अनुष्टुभ्)
छागे.सिंहे.वृषे.लग्ने.तत्स्थे.सौरे.अथ.वा.कुजे।
राश्य्.अंश.सदृशे.गात्रे.जायते.नाल.वेष्टितः॥(नो मेत्रे नमे)
न.लग्नम्.इन्दुं.च.गुरुर्.निरीक्षते.न.वा.शश.अङ्कं.रविणा.समागतम्।
स.पापको.अर्केण.युतो.अथ.वा.शशी.परेण.जातं.प्रवदन्ति.निश्चयात्॥(वंशस्थ)
क्रूर.ऋक्ष.गताव्.अशोभनौ.सूर्याद्.द्यून.नव.आत्मज.स्थितौ।
बद्धस्.तु.पिता.विदेशगः.स्वे.वा.राशि.वशाद्.अथो.पथि॥(वैतालीया)
पूर्णे.शशिनि.स्व.राशिगे.सौम्ये.लग्न.गते.शुभे.सुखे।
लग्ने.जलजे.अस्तगे.अपि.वा.चन्द्रो.पोत.गता.प्रसूयते॥(वैतालीया)
आप्य.उदयम्.आप्यगः.शशी.सम्पूर्णः.समवेक्षते.अथ.वा।
मेषु.उरण.बन्धु.लग्नगः.स्यात्.सूतिः.सलिले.न.संशयः॥(वैतालीया)
उदय.उडुपयोर्.व्यय.स्थिते.गुप्त्यां.पाप.निरीक्षिते.यमे।
अलि.कर्कि.युते.विलग्नगे.सौरे.शीत.कर.ईक्षिते.वटे॥(वैतालीया)
मन्दे.अब्ज.गते.विलग्नगे.बुध.सूर्य.इन्दु.निरीक्षिते.क्रमात्।
क्रीडा.भवने.सुर.आलये.सोखर.भूमिषु.च.प्रसूयते॥(वैतालीया)
नृ.लग्नगं.प्रेक्ष्य.कुजः.श्मशाने.रम्ये.सित.इन्दू.गुरुर्.अग्नि.होत्रे।
रविर्.नर.इन्द्र.अमरगो.कुलेषु.शिल्प.आलये.ज्ञः.प्रसवं.करोति॥(उपजाती)
राश्य्.अंश.स.मान.गो.चरे.मार्गे.जन्म.चरे.स्थिरे.गृहे।
स्व.ऋक्ष.अंश.गते.स्व.मन्दिरे.बल.योगात्.फलम्.अंशक.ऋक्षयोः॥(वैतालीया)
आर.अर्कजयोस्.त्रि.कोणगे.चन्द्रे.अस्ते.च.विसृज्यते.अंबया।
दृष्टे.अमर.राज.मन्त्रिणा.दीर्घ.आयुः.सुख.भाक्.च.स.स्मृतः॥(वैतालीया)
पाप.ईक्षिते.तुहिनगाव्.उदये.कुजे.अस्ते.त्यक्तो.विनश्यति.कुज.अर्कजयोस्.तथा.आये।
सौम्ये.अपि.पश्यति.तथा.विध.हस्तम्.एति.सौम्य.इतरेषु.पर.हस्त.गतो.अप्य्.अनायुः॥(वसन्ततिलका)
पितृ.मातृ.गृहेषु.तद्.बलात्.तरु.शाल.आदिषु.नीचगैः.शुभः।
यदि.न.एक.गतैस्.तु.वीक्षितौ.लग्न.इन्दू.विजने.प्रसूयते॥(वैतालीय)
मन्द.ऋक्ष.अंशे.शशिनि.हिबुके.मन्द.दृष्टे.अब्जगे.वा।तद्.युक्ते.वा.तमसि.शयने.नीच.संस्थैश्.च.भूमौ।
यद्.वद्.राशिर्.व्रजति.हरिजं.गर्भ.मोक्षस्.तु.तद्.वत्.पापैश्.चन्द्रात्.स्मर.सुख.गतैः.क्लेशम्.आहुर्.जनन्याः॥(मन्द.आक्रान्ता)
स्नेहः.शश.अङ्काद्.उदयाच्.च.वर्तिर्.दीपो.अर्क.युक्त.ऋक्ष.वशाच्.चर.आद्यः।
द्वारं.च.तद्.वास्तुनि.केन्द्र.संस्थैर्.ज्ञेयं.ग्रहैः.वीर्य.समन्वितैर्.वा॥(इन्द्रवज्रा)
जीर्णं.संस्कृतम्.अर्कजे.क्षिति.सुते.दग्धं.नवं.शीतगौ.काष्ठ.आढ्यं.न.दृढं.रवौ.शशि.सुते.तन्.न.एक.शिल्प्य्.उद्भवम्.रम्यं।
चित्र.युतं.नवं.च.भृगुजे.जीवे.दृढं.मन्दिरं.चक्रस्थैश्.च.यथा.उपदेश.रचनां.सामन्त.पूर्वां.वदेत्॥(शा.वि)
मेष.कुलीर.तुला.अलि.गटैः.प्राग्.उत्तरतो.गुरु.सौम्य.गृहेषु।
पश्चिमतश्.च.वृषेण.निवासो.दक्षिण.भाग.करौ.मृग.सिंहौ॥(दोधक)
प्राच्य्.आदि.गृहे.क्रिया.आदयो.द्वौ.द्वौ.कोण.गता.द्वि.मूर्तयः।
शय्यास्व्.अपि.वास्तु.वद्.वदेत्.पादैः.षट्.त्रि.नव.अन्त्य.संस्थितैः॥(वैतालीय)
चन्द्र.लग्न.अन्तर.गतैर्.ग्रहैः.स्युर्.उपसूतिकाः।
बहिर्.अन्तर.चक्राद्.अर्धे.दृश्य.अदृश्ये.अन्यथा.परैः॥(अनुष्टुभ्)
लग्न.नव.अंशप.तुल्य.तनुः.स्याद्.वीर्य.युत.ग्रह.तुल्य.वपुर्.वा।
चन्द्र.समेत.नव.अंशप.वर्णः.का.आदि.विलग्न.विभक्त.भ.गात्रः॥(दोधक)
कं.दृक्.श्रोत्र.नसा.कपोल.हनवो.वक्त्रं.च.होरा.आदयस्.ते.कण्ठ.अंसक.बाहु.पार्श्व.हृदय.क्रोडानि.नाभिस्.ततः।
बस्तिः.शिश्न.गुदे.ततश्.च.वृषणाव्.ऊरू.ततो.जानुनी।जङ्घ.अङ्घ्रि.इत्य्.उभयत्र.वामम्.उदितैर्.द्रेष्काण.भागैस्.त्रिधा॥(शा.वि)
तस्मिन्.पाप.युतं.व्रणे.शुभ.युते.दृष्टे.च.लक्ष्म.आदिशेत्.स्व.ऋक्ष.अंशे.स्थिर.संयुतेषु.सहजः.स्याद्.अन्यथा.आङ्गतुकः।
मन्द.ईश्म.अनिलजो.अग्नि.शास्त्र.विषजो.भौमे.बुधे.भू.भवः.सूर्ये.काष्ठ.चतुष्.पदेन.हिमगौ.शृङ्ग्य्.अब्जजो.अन्यैः.शुभम्॥(शा.वि)
समनुपतिता.यस्मिन्.भागे.त्रयः.स.बुधा.ग्रहा.भवति.नियमात्.तस्य.अवाप्तिः.शुभेष्व्.अशुभेषु.वा।
व्रण.कृद्.अशुभः.षष्ठे.देहे.तनोर्.भ.समाश्रिते.तिलकम्.अशकृद्.दृष्टः.सौम्यैर्.युतश्.च.स.लक्ष्मवान्॥(हरिणी)ए5
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0