बृहज्जातक · अध्याय 04
कुज.इन्दु.हेतुः.प्रतिमासम्.आर्तवं.गते.तु.पीड.ऋक्षम्.अनुष्ण.दिधितौ।
अतो.अन्यथास्थे.शुभ.पुं.ग्रह.ईक्षिते.नरेण.संयोगम्.उपैति.कामिनी॥(वंशस्थ)
यथा.अस्त.राशिर्.मिथुनं.समेति.तथैव.वाच्यो.मिथुन.प्रयोगः।
असद्.ग्रह.आलोकित.संयुते.अस्ते.स.रोष.इष्टैः.स.विलास.हासः॥(इन्द्रवज्रा)
रवि.इन्दु.शुक्र.अवनिजैः.स्व.भागगैर्.गुरौ.त्रि.कोण.उदय.संस्थिते.अपि.वा।
भवत्य्.अपत्यं.हि.विबीजिनाम्.इमे.करा.हिम.अंशोर्.विदृशाम्.इव.अफलाः॥(वंशस्थ)
दिवाकर.इन्द्वोः.स्मरगौ.कुज.अर्कजौ.गद.प्रदा.पुङ्गल.योषितोस्.तदा।
व्यय.स्वगौ.मृत्यु.करौ.युतौ.तथा.तद्.एक.दृष्ट्या.मरणाय.कल्पितौ॥(वंशस्थ)
दिवा.अर्क.शुक्रौ.पितृ.मातृ.संज्ञितौ.शनैश्चर.इन्दू.निशि.तद्.विपर्ययात्।
पितृव्य.मातृ.स्वसृ.संज्ञितौ.च.ताव्.अथ.ओज.युग्म.ऋक्ष.गतौ.तयोः.शुभौ॥(वंशस्थ)
अभिलषद्बिर्.उदय.ऋक्षम्.असद्भिर्.मरणम्.एति.शुभ.दृष्टिम्.अयाते।
उदय.राशि.सहिते.च.यमे.स्त्री.विगलित.उडु.पति.भू.सुत.दृष्टे॥(वंशस्थ)
पाप.द्वय.मध्य.संस्थितौ.लग्न.इन्दू.न.च.सौम्य.वीक्षितौ।
युगपत्.पृथग्.एव.वा.वदेन्.नारी.गर्भ.युता.विपद्यते॥(वै.ली)
क्रूरे.शशिनश्.चतुर्थगे.लग्नाद्.वा.निधन.आश्रिते.कुजे।
बन्ध्व्.अन्त्यगयोः.क्षीण.इन्दौ.निधनाय.पूर्ववत्॥(वैतालिया)
उदय.अस्तगयोः.कुज.अर्कयोर्.निधनं.शस्त्र.कृतं.वदेत्.तथा।
मास.अधिपतौ.निपीडिते.तत्.काले.स्रवणं.समादिशेत्॥(वै.ली)
शश.अङ्क.लग्न.उपगतैः.शुभ.ग्रहैस्.त्रि.कोण.जाया.अर्थ.सुख.आस्पद.स्थितैः।
तृतीय.लाभ.ऋक्ष.गतैश्.च.पापकैः.सुखी.तु.गर्भो.रविणा.निरीक्षितः॥(वंशस्थ)
ओज.ऋक्षे.पुरुष.अंशकेषु.बलिभिर्.लग्न.अर्क.गुर्व्.इन्दुभिः.पुं.जन्म.प्रवदेत्.सम.अंशक.गतैर्.युग्मेषु.तैर्.योषितः।
गुर्व्.अर्कौ.विषमे.नरं.शशि.सितौ.वक्रश्.च.युग्मे.स्त्रियं।द्व्य्.अङ्गस्थ.बुध.वीक्षणाच्.च.यमलौ.कुर्वन्ति.पक्षे.स्वके॥(शा.वि)
विहाय.लग्नं.विषम.ऋक्ष.संस्थः.सौरो.अपि.पुं.जन्म.करो.विलग्नात्।
प्रोक्त.ग्रहाणाम्.अवलोक्य.वीर्यं.वाच्यः.प्रसूतौ.पुरुषो.अङ्गना.वा॥(उपेन्द्रवज्रा)
अन्योन्यं.यदि.पश्यतः.शशि.रवी.यद्य्.अर्कि.सौम्याव्.अपि.वक्रो.वा.समगं.दिन.ईशम्.असमे.चन्द्र.उदयौ.चेत्.स्थितौ।
युग्म.ओज.ऋक्ष.गताव्.अपि.इन्दु.शशिजौ.भूम्य्.आत्मजेन.ईक्षितौ.पुम्भावे.सित.लग्न.शीत.किरणाः.षट्.क्लीब.योगाः.स्मृताः॥(शा.वि)
युग्मे.चन्द्र.सितौ.तथा.ओज.भवने.स्युर्.ज्ञ.आर.जीव.उदया.लग्न.इन्दू.नृ.निरीक्षितौ.च.समगौ.युग्मेषु.वा.प्राणिनः।
कुर्युर्.ते.मिथुनं.ग्रह.उदय.गतान्.द्व्य्.अङ्ग.अंशकान्.पश्यति.स्व.अंशे.ज्ञे.त्रितयं.ज्ञग.अंशक.वशाद्.युग्मं.त्व्.अमिश्रैः.समम्॥(शा.वि)
धनुर्.धरस्य.अन्त्य.गते.विलग्ने.ग्रहैस्.तद्.अंश.उपगतैर्.बलिष्ठैः।
ज्ञेन.अर्किणा.वीर्य.युतेन.दृष्टैः.सन्ति.प्रभूता.अपि.कोश.संस्थाः॥(उपजातिका)
कलल.घन.अङ्कुर.अस्थि.चर्म.अङ्गज.चेतनताः.सित.कुज.जीव.सूर्य.चन्द्र.अर्कि.बुधाः.परतः।
उदयप.चन्द्र.सूर्य.नाथाः.क्रमशो.गदिता.भवन्ति.शुभ.अशुभं.च.मास.अधिपतेः.सदृशम्॥(कुटक)
त्रि.कोणगे.ज्ञे.विबलैस्.तथा.परैर्.मुख.अङ्घ्रि.हस्तैर्.द्वि.गुणस्.तदा.भवेत्।
अवाग्.गवि.इन्दाव्.अशुभैर्.भ.संधिगैः.शुभ.ईक्षितश्.चेत्.कुरुते.गिरं.चिरात्॥(वंशस्थ)
सौम्य.ऋक्ष.अंशे.रविज.रुधिरौ.चेत्.स.दन्तो.अत्र.जातः.कुब्जः.स्व.ऋक्षे.शशिनि.तनुगे.मन्द.माहेय.दृष्टे।
पङ्गुर्.मीने.यम.शशि.कुजैर्.वीक्षिते.लग्न.संस्थे.संधौ.पापे.शशिनि.च.जडः.स्यान्.न.चेत्.सौम्य.दृष्टः॥(मन्द.आक्रान्ता)
सौर.शश.अङ्क.दिवा.कर.दृष्टे.वामनको.मकर.अन्त्य.विलग्ने।
धी.नवम.उदयगैश्.च.दृकाणैः.पाप.युतैर्.अभुज.अङ्घ्रि.शिराः.स्यात्॥(दोधक)
रवि.शशि.युते.सिंहे.लग्ने.कुज.अर्कि.निरीक्षिते.नयन.रहितः.सौम्य.असौम्यैः.स.बुद्बुद.लोचनः।
व्यय.गृह.गतश्.चन्द्रो.वामं.हिनस्त्य्.अपरं.रविर्.न.शुभ.गदिता.योगा.याप्या.भवन्ति.शुभ.ईक्षिताः॥(हरिणी)
तत्.कालम्.इन्दु.सहितो.द्वि.रस.अंशको.यस्.तत्.तुल्य.राशि.सहिते.पुरतः.शश.अङ्के।
यावान्.उदेति.दिन.रात्रि.स.मान.भागस्.तावद्.गते.दिन.निशोः.प्रवदन्ति.जन्म॥(वसन्ततिलका)
उदयति.मृदु.भ.अंशे.सप्तमस्थे.च.मन्दे.यदि.भवति.निषेकः.सूतिर्.अब्द.त्रयेण।
शशिनि.तु.विधिर्.एष.द्वादशे.अब्दे.प्रकुर्यान्.निगदितम्.इह.चिन्त्यं.सूति.काले.अपि.युक्त्या॥(मालिनी)ए4
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0