भाषा

ENहिગુ
ग्रंथ पाठ

बृहज्जातक · अध्याय 03

03.01

क्रूर.ग्रहैः.सुबलिभिर्.विबलैश्.च.सौम्यैः.क्लीबे.चतुष्टय.गते.तद्.अवेक्षणाद्.वा।
चन्द्र.उपग.द्वि.रस.भाग.स.मान.रूपं.सत्वं.वदेद्.यदि.भवेत्.स.वियोनि.संज्ञः॥(व.ति)

03.02

पापा.बलिनः.स्व.भागगाः.पारक्ये.विबलाश्.च.शोभनाः।
लग्नं.च.वियोनि.संज्ञकं.दृष्ट्वा.अत्र.अपि.वियोनिम्.आदिशेत्॥(वै.ली)

03.03

क्रियः.शिरो.वक्र.गले.वृषो.अन्ये.पाद.अंशकं.पृष्ठम्.उरो.अथ.पार्श्वे।
कुक्षिस्.त्व्.अपान.अङ्घ्र्या.अथ.मेढ्र.मुष्कौ.स्फिक्.पुच्छम्.इत्य्.आह.चतुष्पद.अङ्गे॥(उ.जा)

03.04

लग्न.अंशकाद्.ग्रह.योग.ईक्षणाद्.वा.वर्णान्.वदेद्.बल.युक्ता.द्वि.योनौ।
दृष्ट्या.स.मानान्.प्रवदेत्.स्व.संख्यया.रेखां.वदेत्.स्मर.संस्थैश्.च.पृष्ठे॥(वैश्वदेवी)

03.05

खगे.दृकाणे.बल.संयुतेन.वा.ग्रहेण.युक्ते.चर.भ.अंशक.उदये।
बुध.अंशके.वा.विहगाः.स्थल.अंबुजाः.शनैश्चर.इन्द्व्.ईक्षण.योग.संभवाः॥(वंशस्थ)

03.06

होरा.इन्दु.सूरि.रविभिर्.विबलैस्.तरुणां.तोये.स्थले.तरु.भव.अंश.कृतः.प्रभेदः।
लग्नाद्.ग्रहः.स्थल.जल.ऋक्ष.पतिस्.तु.यावांस्.तावन्त.एव.तरवः.स्थल.तोय.जाताः॥(व.ति.)

03.07

अन्तः.साराञ्.जनयति.रविर्.दुर्भगान्.सूर्य.सूनुः.क्षीर.उपेतांस्.तुहिन.किरणः.कण्टक.आढ्यांश्.च.भौमः।
वाग्.ईश.ज्ञौ.स.फल.विफलान्.पुष्प.वृक्षांश्.च.शुक्रः.स्निग्धान्.इन्दुः.कटुक.विटपान्.भूमि.पुत्रश्.च.भूयः॥(मन्दाप्रांता)

03.08

शुभो.शुभ.ऋक्षे.रुचिरं.कुभूमिजं.करोति.वृक्षं.विपरीतम्.अन्यथा॥
पर.अंशके.यावति.विच्युतः.स्वकाद्.भवन्ति.तुल्यास्.तरवस्.तथा.विधाः॥(वंशस्थ)ए3

मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc