ब्रह्मयामलम् · अध्याय 1
प्. १)
ब्रह्मयामले मातृणामुत्सवम् ।
हरिः ओं ।
मातृणामुत्सवं वक्ष्ये शृणु ब्रह्मन्यथाक्रमम् ।
पुरा कृतयुगस्यादौ देवाश्च सिरमैस्वरैः ॥
देवैश्च रोधनं कृत्वा दारुकेन महानृप ।
देवास्सञ्चिन्तितस्सर्वे दारुकाह्वय कारणम् ॥
दारुकस्स वयस्मृत्य वयौ वाथ कथं हरिम् ।
तच्छ्रुत्वा हरिः प्रोक्तः स्त्रियं सृष्टिति तद्वद ॥
एवं श्रुत्वा तु देवे ह्यैकैकं सृष्टिवत् स्त्रियम् ।
ब्रह्माणि ब्रह्मसंभूता माहेश्वरी महेश्वरात् ॥
कौमारीस्कन्दसंभूता वैष्णई विष्णुसंबूता ।
वाराही यमसंभूता इन्द्राणि इन्द्रसंभवा ॥
एतेषां मातरो देव युद्धं वै दारुकेन तु ।
मातॄणां दुर्बलं गछेत् प्रबलेन महासुरः ॥
मातॄणां संभूयनोद्भूता एकवीरपरात्परा ।
परमेकांशमेवन्तु परमेश्वरलोचने ॥
जयते भद्रकाली तु दारुकावधकारिणीम् ।
दारुकं हृदयं भित्वा रुधिरं मांसचर्चितम् ॥
आपूर्णायाहृदं सर्वं हरिष्ण्याणीत्युपक्रमम् ।
तच्छ्रुत्वा ईश्वरो देवी नृत्तं कृत्वा तु शाम्यति ॥
प्. २)
शान्त्यन्तु सर्व देवेभ्यो चामुण्डपरमेश्वरि ।
तासां वै मूर्तिभेदन्तु शृणु ब्रह्म युगे युगे ॥
कृतयुगे कोटिमूर्ति मूर्तयः परिकीर्तिताः ।
प्रकराल्य तितीक्ष्णाक्षी विद्युज्जिह्वा विजृंभिणी ॥
क्षोभिणी मोहिनी चैव तथा योनिमुखी भवेत् ।
अधोमुखी च विख्याता तथा रौद्रमुखी भवेत् ॥
कृष्णा चैव तु कृष्णाक्षी तथा च श्यामला भवेत् ।
त्र्यम्बकी गोमुखी चैव स्नेहाख्या च तथा परा ॥
भगनोन्मुखी विख्याता मूर्तयष्षोडशस्मृता ।
एताश्च मूर्तयो ज्ञेया मातृकाश्च प्रकीर्तिता ॥
कृष्णाकृष्णतरा ज्ञेया श्वेताश्वेततरा भवेत् ।
रक्तारक्ततरा ज्ञेया पीतापीततरा भवेत् ॥
विख्याता मूर्तयो ज्ञेया मूर्तयस्युः प्रकीर्तिता ।
भद्रकालि तु चामुण्डी सदा विजयवर्द्धिनी ॥
नाशैमस्तु शिरोद्भुता कलियुगे प्रकीर्तिता ।
एतैर्मूर्तयो ज्ञेया सदा शान्तिकरो भवेत् ॥
तस्यास्सर्व प्रयत्नेन चतुर्मूर्तिः प्रपूजयेत् ।
दशशान्तिकरश्चैव नृपाणां विजयं भवेत् ॥
सर्वपापहरं शान्तं सदा विजय संभवम् ।
चतुर्भूति विधानेन मातृपूजाश्च कारयेत् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां मात्रोत्सवो नाम प्रथमः पटलः
प्. ३)
अतः परं प्रवक्ष्यामि देव्यादेशविधिं परम् ।
ग्रामे च नगरे चैव पत्तने खेटकेपि च ॥
तीर्थस्थानेऽथ सौम्ये वा समुद्रे पर्वतपार्श्वयोः ।
पर्वते च वने चैव नदीनां राजधानिके ॥
इन्द्रायां विजयं चैव आग्नेयेग्निभयं भवेत् ।
दक्षिणे चापमृत्युश्च नैरृत्यां व्याधिपीडितम् ॥
वारुण्यां वर्षनाशन्तु वायव्यां रोगमाविशेत् ।
सौम्यायां सर्वसंसिद्धिरैशान्यामष्टसिद्धिदम् ॥
उत्तरद्वारतो बाह्ये सोमसूत्रस्य पूर्वतः ।
शतदण्डान्तरं कृत्वा सर्वसिद्धिकरं परम् ॥
पूर्वद्वारे तु विजयमाग्नेये मरणं भवेत् ।
यमद्वारे तु कलहं नैर्-ऋते नाशमाविशेत् ॥
पश्चिमे सर्वसिद्धिस्स्यात् वायव्ये रिपुनाशनम् ।
उत्तरद्वारमेतेषामैश्वर्यमुत्तरोत्तरम् ॥
ईशद्वारे तु रक्षार्थमेतत् द्वारं विधीयते ।
ब्राह्मणक्षत्रियो वैश्यशूद्रश्चैव चतुर्विधम् ॥
ब्राह्मणान् पापनाशार्थं क्षत्रियो विजयं भवेत् ।
वैश्यानान्धनमाप्नोति शूद्राणां सुखमाप्नुयात् ॥
यावत् प्रासादविस्तारं तावत् कुर्यात् परिग्रहम् ।
कर्षणं कारयेत् तत्र बीजांकुरमनिर्दिशेत् ॥
प्. ४)
खननं पुरुषमात्रेण उदरान्तमथापि वा ।
पांसुना पूरयेत् तत्र उदकं पूरयेत् पुरा ॥
हस्तिपादघनं साध्यमाचार्य शिल्पिभिस्सह ।
चैत्रेषु विषुवं कुर्यात् प्राचीं ग्रहणमादिशेत् ॥
उदीचीं तत्र संग्राह्य ह्रामयेच्चतुरश्रकम् ।
एवं परिग्रहा भूमिरष्टसिद्धिकरं महत् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां भूपरिग्रहो नाम द्वितीयः पटलः
प्रतिमालक्षणं ।
अथातस्संप्रवक्ष्यामि प्रतिमा षड्विधा परा ।
शैलजा लोहजा चैव रत्नजा मणिना शुभा ॥
अथवा दारुजा चैव मृणमयं च मनोहरम् ।
द्वारोत्सेधसमायुक्तं पादोत्सेधं तथैव च ॥
गर्भस्याण्डस्य प्रतिमं कन्यसं कारयेद्बुधः ।
पञ्चभागविभक्ते तु त्रिभागं मध्यमं भवेत् ॥
त्रिधागर्भसमं कृत्वा द्विभागं चोत्तमं भवेत् ।
एवं गभानुर् पञ्चप्रतिमञ्च प्रकीर्तिता ॥
नवार्धं तालमानेन प्रतिमां कुर्यात् स लक्षणं ।
एतेषु चैव चायामं संगृह्यन्तु विचक्षणः ॥
प्. ५)
तदायामं त्रिधा चैव भागे प्रतिमं भवेत् ।
भागैकन्तु भवेत् पीठं तदर्धेन तु निर्णये ॥
एवं सुखासनं प्रोक्तं स्थितैरन्यैरनुक्रमाम् ।
सुखासनस्य भवेत् पीठ चतुरश्रायतं भवेत् ॥
चतुरश्रं तथा कृत्वा तत्तद्भागन्तु विन्यसेत् ।
उभयोः पार्श्वयोश्चैव आयताश्रं प्रकीर्तितम् ॥
एवं सुखासनं प्रोक्तं लक्षणेन समन्वितम् ।
शिरः पञ्चांगुलञ्चैव मुखयामं त्रिभागता ॥
चतुरंगुलं भवेद् ग्रीवा हृदयं मुखमुच्यते ।
हृदयं नाभिदेशे तु मुखं तत्रैव चोच्यते ॥
पञ्चांगुलमुपस्थं स्यात् ऊरुश्च द्विमुखं भवेत् ।
जंघे चोरुसमं प्रोक्तं भागज्ञो एकपादकम् ॥
वक्षो दण्डस्य विस्तारमंगुल्या पञ्चविंशकम् ।
कटिदण्डत्रिंशदीर्घं षोडशांगुलमुच्यते ॥
आयामं बाहुदण्डाभ्यां चतुर्विंशांगुलं भवेत् ।
आयाममुपबाहुश्च षोडशांगुलमुच्यते ॥
मणिबन्धे कलायामं मुखं करतलं भवेत् ।
चतुर्दशांगुलायामं पादयोरुभयोर्भवेत् ॥
यस्य केश प्रमाणन्तु द्वादशं विभजेद् बुधः ।
चतुर्भागं मध्यमन्तु शूलं षड्भागमुत्तमम् ॥
प्. ६)
भवेत् कटशल्किमन्त्विभागे विधीयते ।
तस्मान्यथार्थमित्युक्तं वक्त्रो वर्णन्तु मीयते ॥
शूलमस्ति सितारज्जु कृता मासपटं तथा ।
कृतेतु श्वेतवर्णञ्च त्रेतायां रक्तमेव च ॥
द्वापरे पीतवर्णन्तु श्यामं कलियुगे भवेत् ।
पौष्टिकं सितवर्णाभं रक्तञ्चैवाभिवृद्धिदम् ॥
पीतं वशीकरं कृत्वा श्यामं शान्त्यर्थमुच्यते ।
नारीणामुत्तमा देवी तस्मान्मानमिदं परम् ॥
जानुरज्जुगताश्रेष्ठं श्वेतपद्मोपरिस्थितम् ।
चतुर्भुजं त्रिणेत्रं च शिरो माला विभूषिता ॥
नानाभरणसंयुक्ता शिरो मालावलीढका ।
त्रिशूलं दक्षिणे हस्ते कपालं वामहस्तके ॥
वरदाभयदञ्चैव करौ दक्षिण वामकौ ।
एवं विधि महावीरं सर्वाभरणभूषितम् ॥
दिव्यवस्त्रोपवीतञ्च दिव्यचन्दन लेपनम् ।
रक्तनेत्रं विशालाक्षं रक्तकेशं मनोरमम् ॥
रक्तेषु रक्तजिह्वा च रक्तमालोपशोभितम् ।
खड्गं खट्वांगशूलन्तु परशुन् दक्षिणे दधत् ॥
कपालं चैव घण्टाञ्च दलपल्लव हस्तकम् ।
वामे तु कटकं दद्यात् पादेनाक्रम्य दारुकान् ॥
प्. ७)
त्रिणेत्रं वरदं रम्यं एकवीरं प्रकीर्तितम् ।
दृष्टिद्वयञ्च शान्तिस्स्याल्ललाट प्रभयान्वितम् ॥
दारुकस्य वधोद्भूता ललाटोत्सृष्टिकीर्तिता ।
एवं विधिप्रकर्तव्यं एकवीरी मनोहरा ॥
रक्ताक्षी विन्यसेत् प्राच्यां करालीं दक्षिणे न्यसेत् ।
चण्डाक्षी पश्चिमे न्यस्य महोच्छिष्टोत्तरं न्यसेत् ॥
अम्बिका चण्डिका चैव घोरी घोरेश्वरी तथा ।
कोणेषु विन्यसेत् कृत्वा शास्त्रदृष्टेन कर्मणा ॥
योगिनी पीतवर्णाभा विलासी कपिला भवेत् ।
एता वै द्वारदेशे तु द्वारपालं न्यसेत् क्रमात् ॥
योगिनी दक्षिणा ज्ञेया विलासी चोत्तरा भवेत् ।
इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिमालक्षणविधिर्नाम तृतीयः
पटलः
दिङ्निर्णयम् ।
दिङ्निर्णयं प्रवक्ष्यामि क्षेत्रपालस्य संहृतम् ।
ऐन्द्रेशानयोर्मध्ये क्षेत्रपालालयं भवेत् ॥
पीठं वा तत्र कर्तव्यं यथाविधि पुरस्सरम् ।
स्वर्णन्तत्र खनित्वा तु विधि दृष्टेन कर्मणा ॥
चोत्तमं चाष्टहस्तं स्यात् चतुर्हस्तेन मध्यमम् ।
कन्यसञ्च तदर्धं स्यात् त्रिविधं तत्प्रकीर्तितम् ॥
प्. ८)
यथेष्टकं समाशृत्य बलिपीठं प्रकल्पयेत् ।
पूर्वमग्रं प्रकर्तव्यं लक्षणेन समन्वितम् ॥
पीठार्थ खननं कुर्यात् यथा विस्ताररूपकम् ।
पञ्चरत्नं क्षिपेत् तत्र त्वधो चैव विचक्षणः ॥
नवक्षरं क्षिपेत् तत्र मन्त्रज्ञो देशिकोत्तमः ।
पञ्चैकानन्यतस्तस्य नवार्णेन यथाक्रमम् ॥
एवं न्यस्त्वा तु विधिवत् बलिपीठं समारभेत् ।
विस्तारस्य समं प्रोक्तं चोत्सेधञ्च स लक्षणं ॥
उत्सेधञ्च त्रिधा कृत्वा समभागं विचक्षणः ।
प्रथमं चतुरश्रं तु लक्षणेन समन्वितम् ॥
प्रथमं चतुरश्रञ्च कारयेत्तत्र वित्तमः ।
अश्रन्तु पञ्चधा कृत्वा तद्भागैक त्रिधा भवेत् ॥
तद्भागैक विहीनं स्यात् वृत्तश्रञ्च प्रकीर्तितम् ।
चतुरश्र समं कृत्वा वृत्तोर्ध्वे चतुरश्रकम् ॥
पद्मं तत्र प्रकर्तव्यं लक्षणेन समन्वितम् ।
तत्रि भागैक भागन्तु पद्मं कुर्यात् स लक्षणं ॥
उत्सेधन्तावदेवोक्तमष्टपत्रं स कर्णिकम् ।
एवं कृत्वा समासेन पीठञ्चैव मनोहरम् ॥
शिव प्रीतिकरं वापि क्षेत्रपालं स लक्षणं ।
इति ब्रह्मयामले शतसहस्रसंहितायां क्षेत्रपाललक्षणं नाम चतुर्थः
पटलः
प्. ९)
अंकुरार्पणं ।
अथातः संप्रवक्ष्यामि मखिलस्याङ्कुरार्पणम् ।
प्रोक्षणे च प्रतिष्ठायामुत्सवे स्नपनेपि वा ॥
दीक्षायामालयारंभे बालस्थाने तथैव च ।
पात्रं चतुर्विधं प्रोक्तम्वङ्गलाङ्कुरकर्मणि ॥
शंखं शरावघटिका पालिकासु चतुर्विधा ।
सौवर्णं रजतं ताम्रं कांस्यं वै मृण्मयञ्च वा ॥
प्रत्येकं द्वादशग्रह्य सर्वयोगेषु कीर्तितम् ।
शंखाकारन्तु शंखस्य वर्तुलञ्चाष्टमंगुलम् ॥
तदर्धञ्चैव विस्तारं मूलन्तस्य प्रमाणतः ।
अग्रे पद्मदलाकारमष्टपत्रसमन्वितम् ॥
तत्पद्मे शंखरूपं स्यात् शंखाकारं तमुच्यते ।
षोडाशांगुलमायामं त्र्यंशमायाममेव च ॥
कीटकोटि समाकारं मुखन्तस्य प्रकीर्तितम् ।
आपस्त्र्यङ्गुलञ्चैव उदरञ्च दशांगुलम् ॥
गोकर्णरूपं तत्पुच्छमेवं शंखस्य लक्षणं ।
अष्टादशाङ्गुलोत्सेधं शरावं भिन्नवर्जितम् ॥
द्वितालन्तु भवेद् वक्त्रं कृष्णमण्डलवर्जितम् ।
अष्टादशांगुलायामं घटिका पञ्चत्रिकम् ॥
षडंगुलं भवेत् पादं तन्मध्ये चतुरंगुलम् ।
कुंभञ्चाष्टांगुलं नाहं वक्त्रास्स्युश्चतुरंगुलम् ॥
प्. १०)
पालिकारत्निमात्रन्तु नालन्तस्य प्रकीर्तितम् ।
षोडशांगुल विस्तारं तद्वक्त्रञ्च * * * * ॥
* * * * * विद्यात्तत्पीठं रत्नमेव च ।
तदर्थं कण्ठविस्तारं तदर्थं बिलमुच्यते ॥
* * * * * * क्तः स्वर्णादीनान्तु कामतः ।
मण्टपस्सविधिं वक्ष्ये मंगलांकुरकर्मणि ॥
दशहस्तप्रविस्तारं विप्रस्य तु वपुर्बुधः ।
क्षत्रस्य नवहस्तं च अष्टहस्तं तु वैश्यकः ॥
सप्तहस्तन्तु शूद्राणां तारायामं प्रकीर्तितम् ।
षट्त्रिंशत् षोडशस्तंभं द्वादशस्तंभमेव च ॥
अष्टहस्तं क्रमात्प्रोक्तं तथा विस्ताररूपकम् ।
चतुरश्रसमं कृत्वा दर्पणोदरसन्निभम् ॥
मण्टपञ्चो भयोः पश्चात् यथाविधि पुरस्सरम् ।
चतुर्भिस्तोरणैर्युक्तं अष्टदिक् ध्वज शोभितम् ॥
चतुद्वारसमायुक्तं मण्टपं लक्षणान्वितम् ।
वटोदुम्बरमश्वत्थं लक्षं वृक्षादिभिः क्रमात् ॥
तोरणं कारयेत् तैश्च यथाविधि पुरस्सरम् ।
पञ्चहस्तायतं प्रोक्तं विस्तारं तद्विहस्तकम् ॥
ऊर्ध्वं शूला कृतिं कुर्यात् हस्तं भूमि निवेशयेत् ।
श्वेतं रक्तं तथा कृष्णं धूम्रञ्च वारुणं तथा ॥
प्. ११)
श्यामन्तु कपिलं पीतं ध्वजानां पूर्वतो न्यसेत् ।
विताने चोर्ध्वमाश्चर्य कण्ठचामरभूषितम् ॥
दुकूलपट्टकार्पास वस्त्रैश्श्लक्ष्णैस्ततः क्रमात् ।
स्तंभानावेष्ट्य पश्चात् तु पल्लवैरप्यलंकृते ॥
धूपदीपसुगन्धैश्च पूजयेन् मण्टपं शुभम् ।
एवं कृत्वा तु पूर्वन्तु ततश्चांकुरमारभेत् ॥
गोमयेन समालिप्य तन्मूलानि प्रकल्पयेत् ।
शालिभिस्तु दशद्रोणै तदर्धकैर्वा तदर्धकैः ॥
द्रोणार्धञ्चाधमञ्चैतत्तदर्धं तण्डुलोरपि ।
विकिरेयात्तण्डुलैश्शर्धै दक्षिणेतोन्ये ॥
शाहस्तं वा त्रिहस्तं वा विस्तारहस्तमथार्हिकम् ।
चतुरश्राणि न यथाक्रम * * * कारयेत् ॥
आसनं कल्पयित्वा तु पद्माकारं विचक्षणं ।
गन्धपुष्पश्च संपूज्य यथाविधि पुरस्सरम् ॥
रक्ता कराली चण्डाक्षी महोच्छिष्टादि देविका ।
शंखादि विन्यसेत् पश्चात् कोशकृत् पांसुपूरयेत् ॥
आम्रपल्लवसञ्च्छन्नं गन्धाद्यैरर्चयेच्छुभान् ।
बीजानि पूरयेत् पश्चात् यवपूर्वादिनि क्रमात् ॥
यवमाष कुलस्थानि चम्बवैणवकानि च ।
शाली प्रियंगुरपामार्गं श्याकानिष्पावकानि च ॥
प्. १२)
तिलसर्षपमुद्गानि बीजानि च त्रयोदश ।
यथा लाभं गृहीत्वा तु देशकालानुरूपतः ॥
वारिणा क्षालयित्वा तु गोक्षीरेणापि वै क्रमात् ।
ताम्बूलं दापयेत् तत्र सर्वेषां मातृवोगिनाम् ॥
आचार्यस्सविशेषेण ताम्बूलं दापयेत् ततः ।
आचार्य श्शुद्ध भूतात्मा शुद्धगन्धानुलेपनम् ॥
नववस्त्रपरीधानं चोष्णीषञ्चोत्तरीयकम् ।
सांगुलीयकपाणिस्तु सर्वाभरणभूषितः ॥
अति दीर्घा वामकुब्जो चक्षुहीना विसर्जकाः ।
बधिराः कुक्षिरोगाश्च लाजपात विसर्जयेत् ॥
विकटञ्चांगहीनञ्च शिपिविष्टा विसर्जयेत् ।
सर्वलक्षणसंयुक्तं सर्वांगं सर्वशोभनम् ॥
मातृ गायत्रि मन्त्रेण ब्रह्मयामल पाठकान् ।
सर्वतन्त्र क्रियायुक्तं * * * * * * * * ॥
* * * * * * * * गं ममधु वचनम् ।
गुरुशिष्यंस्तथैव च * * * निन्दा * * ॥
निन्दा * * * * * * कुलनिन्दा विसर्जयेत् ।
एतैर्वा वापयेद्बीजं नवाक्षरेण मन्त्रवित् ॥
ब्रह्मघोषैश्च विविधै स्वस्तिवाचकमंगलैः ।
शंख दुण्ठाभिनिर्घोषैर्गीतवाद्यादि निस्वनैः ॥
प्. १३)
एतैर्वा वाचयेद् बीजं नवाक्षरेण मन्त्रवित् ।
नवाक्षरेण मन्त्रेण बीजानां वापयेद्गुरुः ॥
मात्रमन्त्राभि जप्तेन वारुणञ्चैव सेचयेत् ।
सदशैश्चादयेद् वस्त्रैस्सुसूक्ष्मैश्च पृथक् पृथक् ॥
रात्रिं तु मातृगायत्रीं मंगलांगुर रक्षणैः ।
लक्षणे चोच्यते तस्मिन्नाचार्य मन्त्रविग्रहः ॥
पयोधि * क्षण सेव्याह विस्तासां प्रदापयेत् ।
पावका देवता पञ्च हविस्तासां प्रदापयेत् ॥
एवं कृत्वा प्रतिदिनं एवं पुष्पादिभिर्यजेत् ।
अंकुरार्पणं वक्ष्यामि वर्णभेदाननेकशः ॥
श्वेतानि रजताभानि कुञ्जराभानि तानि च ।
हरिद्र हानि तान्येव कोमलानि शुभानि च ॥
श्वेताभं सर्वकामार्थं रजताभं विवर्द्धिदम् ।
कुञ्जराभं तु * * धनं छ्रीतं कोमलं भवेत् ॥
स्वर्णाभं स्वर्ण वृद्धिः स्यात् हरिद्रापुष्टिवर्धनम् ।
मृद्धनि पुत्रपौत्रिं स्यात् जीर्णतां प्रकीर्तितम् ॥
कृषे धूम मृतुनाशंस्याजंजानिह वर्धनम् ।
तथा तिर्यग्गतं चैव वसु पलं पलम् ॥
कृष्णाभोच्चाटनञ्चैव धूम्राभं कलहं भवेत् ।
नीलाभमम्बु नाशं स्यात् अपमृत्युर्भविष्यति ॥
प्. १४)
अधोगतं चेकलाभं तिर्यगं चैव रोगदम् ।
तस्मात् सर्व प्रयत्नेन अनाभानि विवर्जयेत् ॥
नवाक्षरेण मन्त्रेण पशुमेकन्तु घातयेत् ।
प्रायश्चित्त विशुध्यर्थं होमं तत्र विधि क्रमात् ॥
नवाक्षरेण मन्त्रेण अष्टोत्तरशतं * * ।
* एक धारवक्त्र हिरण्यञ्च पालिकानन्तु पूजनम् ॥
अंकूरार्पण काले तु बीजानि च सञ्चयम् ।
तत्सर्वं दापयेद् ब्रह्मन् आचार्यन्तु तानि वै ॥
पूर्वोक्त मण्टपे रम्ये गुप्तेन निक्षिपेत् ततः ।
इति ब्रह्मयामले शतसहस्रसंहितायां अंकुरार्पण पञ्चमः पटलः
स्थापनम् ।
देवतास्थापनं वक्ष्ये यथावदनुपूर्वशः ।
ग्रामे च नरके चैव पत्तने खेटकेपि वा ॥
आयुरारोग्यदश्चैव धनधान्य विवर्धनम् ।
पुत्रपौत्र प्रवृद्धिश्च सुभिक्षं तासु वर्धनम् ॥
ग्राममध्ये नवपटं ब्रह्म(ण)स्थानमुत्तमम् ।
इन्द्रायमश्विनोस्थान श्रियावास्थानमेव च ॥
इन्द्राग्नेययोर्मध्ये वधं स्थानमुत्तमम् ।
सरस्वत्याश्च चाग्नेयं कामस्थानन्तु कल्पयेत् ॥
आग्नेय यमयोर्मध्ये पितरस्थानमुत्तमम् ।
सावित्रं स्थापयेद् याम्ये यातुधानञ्च कल्पयेत् ॥
प्. १५)
याम्य नैर्-ऋतयोर्मध्ये गणपतिस्थानमुच्यते ।
नैर्-ऋत्यामासुरस्थानं नव देवान् वरानने ॥
नैर्-ऋत्यां वारुणे मध्ये नागस्थानं विधीयते ।
वारुण्यां स्थापयेद् विष्णू लक्ष्मीस्थानन्तु कल्पयेत् ॥
नभस्वद्वरुणयोर्मध्ये गरुडस्थानमुच्यते ।
वायव्ये कल्पयेद्दोमं गन्धर्व स्थान मुच्यते ॥
सोम मारुतयोर्मध्ये स्थान मुक्तं प्रजापतेः ।
वित्तेशं स्थापयेत् सौम्ये मार्ताण्डञ्च प्रकल्पयेत् ॥
सोम शंकरयोर्मध्ये रुद्रश्चैकादशस्सुधीः ।
ईशानं शंकरस्थानं शिवगौरी समन्वितम् ॥
ईशानचक्रयोर्मध्ये द्वादशादित्यमुच्यते ।
चतुष्टयमृगादिक्षु दुर्गास्थानं विधीयते ॥
ग्राममध्येषु कर्णिकां ब्रह्मस्थानं विधीयते ।
मातॄन्वै पूजयेत् तत्र गन्धपुष्पैस्तु पूजितम् ॥
कलशं नवकं ग्राह्यं सापिधानं सकूर्चकम् ।
सवस्त्रं नववस्त्रं वा नवार्णे नैव मन्त्रितम् ॥
सुब्राह्मी माहेश्वरी चैव कुमारि वैष्णवी तथा ।
वाराही चैव माहेन्द्री भद्रकालि तथैव च ॥
अग्निबीजैश्च ईशानैः पूर्वमारभ्य विन्यसेत् ।
देवीशीमर्चयेत् तत्र पूजयेद् विधिना सह ॥
प्. १६)
विद्याहृदयमन्त्रेण आचार्यो होमयेत् क्रमात् ।
* कृत्वा * * * * * * * * *
* * ॥
* * * * * * * * * स्थानं
समारभेत् ।
स्थापयित्वा विधानेन पाश्चाद्वा समारभेत् ॥
* * * * * * * * * * * *
सर्जयेत् ।
ग्रामस्योत्तरदिग्भागे ज्येष्ठा स्थानं विधीयते ॥
ज्येष्ठायामुत्तरे दिक्षु कोट्टविस्थानमुच्यते ।
ग्राम बाह्ये तु कर्तव्यं कोट्टव्याश्रमुत्तमम् ॥
ज्येष्ठावसवयोर्मध्ये मातृस्थानं विधीयते ।
ग्रामे वा नगरे वापि पतनम् वापि कारयेत् ॥
वारुण्यां स्थापयेद् विष्णुमैशान्यां शंकरे भवेत् ।
अन्यथा त्विरयेद्यस्तु व्याधिशोकभयं भवेत् ॥
दुर्भिक्षं कलहं घोरं सर्वहानिं तु निर्दिशेत् ।
मर्ममध्वे न कर्तव्यं रज्जुवेधञ्च वर्जयेत् ॥
विधिवेधं भवेन्न्यस्त्वारणन्तु विनिर्दिशेत् ।
त्रिशूले शूलदं प्रोक्तं षट्कका तु क्षयमाप्नुयात् ॥
मर्मे मृत्युमवाप्नोति रज्वो गर्भविनाशनम् ।
कृष्णे ग्रामनाशं स्यात् तस्माद्येतानि वर्जयेत् ॥
प्. १७)
सहस्रभूसुरैर्युक्तं ग्राममित्यभिधीयते ।
चातुर्वण सवास्तव्य नाना जातिसमन्वितम् ॥
नल्लमल्ल समाकीर्णं नाटका गणिकैस्तथा ।
नगरन्त द्विजानीयान्नाना जाति समायुतम् ॥
अनेक जाति संकीर्णं पोतना वासमपितम् ।
वणिक्जन समाकीर्णं पत्तनं विधिना बुधः ॥
चतुरंग बलैर्युक्तं द्वारकेटसमन्वितम् ।
विविधैररत्नलोश्चैव युक्तन्तत् खेटकं भवेत् ॥
ग्रामाद् द्विगुण विस्तारं नागरस्य वरानने ।
नगराद् द्विपत्तनं चैव द्विगुणं खेटकं भवेत् ॥
एवं विधिक्रमेणैव कारयेत् सह सुन्दरि ॥
* * सुभवे तेषामिति शास्त्रस्य निश्चयः ।
इति ब्रह्मयामले शतसहस्रसंहितायां देवतास्थापनं नाम षष्ठः
पटलः
प्रतिष्ठाविधिः ।
प्रतिष्ठाविधिं प्रवक्ष्यामि शृणुब्रह्मन्यथा क्रमम् ।
प्रासादस्याग्रतः कुर्यात् मण्टपञ्चतुरश्रकम् ॥
उत्तमं मध्यमञ्चैव अधमं त्रिविधं तथा ।
चतुर्भिस्तोरणैर्युक्तं चतुर्द्वारञ्च शोभितम् ॥
षोडशस्तंभसंयुक्तं दशद्वादश हस्तकम् ।
द्वात्रिंशत्स्तंभसंयुक्तं तथा षोडशहस्तकम् ॥
प्. १८)
त्तरे पट्टिका युक्तं स्तंभैश्चैकोपशोभितम् ।
मण्टपं वा प्यथो वोपि सर्वालंकारशोभितम् ॥
षोडशस्तंभसंयुक्तं दशद्वादशहस्तकम् ।
द्वात्रिंशत् स्तंभसंयुक्तं तथा षोडश हस्तकम् ॥
दर्भैर्माल्यैः परिक्षिप्तं पुष्पमालावलम्बितम् ।
घण्टाचामरसंयुक्तं कुशदर्भाञ्च गोपलम् ॥
पवित्रं कनकसंयुक्तं * * * * * * * ।
नवपञ्च त्रीणि संयुक्तमंगुलञ्च * गुलम् ॥
नालं त्र्यंगुलं प्रोक्तं ग्रन्थिरेकांगुलं भवेत् ।
मातृगायत्रि मन्त्रेण योजयेत् तु विशेषतः ॥
अण्डजन्मपरमाणेन अव्यक्तं देवगिराम् ।
* * * * * * * वाष्टपत्रं सकर्णिकम् ॥
सुवर्णे रजते ताम्रे अलाभे मृण्मयेऽपि वा ।
अभिन्नरुक्षस्फुटितैः कलशैः कालवर्जितैः ॥
अकालमूलकलशैः सूत्रैरावेष्टितैरपि ।
सकूर्चैस्सापि धानैश्च सवस्त्रैर्वेष्टितैरपि ॥
ईदृशैः नवभिः कुम्भैः शुद्धम्बु परिपूरितम् ।
शालिमुद्गप्रियंगानि यवसर्षपमेव च ॥
कलशान्विन्यसेत् तत्र सर्वगन्धानि तानि तु ।
चतुर्दिक्षु न्यसेत् कुम्भान् पूर्वादि क्रमयोगतः ॥
प्. १९)
* * वा शालि यवास्तिलान् कोणेषु विन्यसेत् ।
पञ्चरत्नेन संयुक्ता नवाक्षरेण मन्त्रवित् ॥
मध्ये तु विन्यसेत् कुंभं वीरेशीतन्त्रमुच्यते ।
रक्ताक्षी विन्यसेत् पूर्वं करालीं दक्षिणे न्यसेत् ॥
चंडाक्षी पश्चिमे न्यस्य महोच्छिष्ठोत्तरे न्यसेत् ।
अम्बिका चण्डिका चैव घोराघोरेश्वरी तथा ॥
कोणेषु कलशान्यस्य शास्त्रदृष्टेन कर्मणा ।
स्वस्वेनैव तु बीजेन नवाक्षरयुतेन च ॥
कलशं विन्यसेद् विद्वान् शूलमुद्रां प्रदर्शयेत् ।
गन्धपुष्पादिभिश्चैव वस्त्रयुग्मेन वेष्टयेत् ॥
कलशान्ते तु मन्त्राणा प्रत्येकन्तु यथाक्रमम् ।
देव्याश्च प्रतिमं ग्राह्यं ताम्रजन्दारुकन्तु वा ॥
स्थायिरूपञ्च कर्तव्यं क्षालयेच्छुद्धतोयकैः ।
वस्त्रयुग्मेन संपूज्य गन्धपुष्पादिभिर्यजेत् ॥
प्रणवं विन्यसेच्चित्ते वदने मूर्तिविन्यसेत् ।
नवाक्षरं न्यसेत् पश्चात् प्रतिमांगे यथाक्रमम् ।
मुखे च हृदये शिरो नाभिस्तु गुह्यके ॥
ऊरोश्च पादयोश्चैव पद्ममुद्रां प्रदर्शयेत् ।
हृदये हृदयं न्यस्य शिरश्चिरसि विन्यसेत् ॥
प्. २०)
शिखायान्तु शिखां न्यस्य कवचं तनमस्तके ।
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् ॥
सर्वांगन्तु न्यसेन्मन्त्री एकवीरी शरीरतः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही चैव माहेन्द्री वीरभद्रगणाधिप ।
एकवीरी शरीरे तु विन्यसेद्वैकमुद्रया ॥
वीरभद्रन्तु शिरसि गणाध्यक्षन्तु पादयोः ।
स्वस्वेनैव तु मन्त्रेण एकचित्तो दृढव्रतः ॥
ब्रह्माणी तु मुखं न्यस्य हृदिमाहेश्वरी न्यसेत् ।
कौमारी गुदरे न्यस्य वैष्णवीन्नाभि मन्त्रके ॥
वाराहीं कटिमध्ये तु जाना वैन्द्रीन्तु विन्यसेत् ।
उदरे विन्यसेत् सर्वं जगत्स्थावरजंगमम् ॥
चन्द्रादित्यं न्यसेन्नेत्रं ललाटेक्षेरु विन्यसेत् ।
श्रोत्रे दिशन्तु विन्यस्य आकाशे हृदये न्यसेत् ॥
पादयोः पृथिवीं न्यस्य त्रिमुर्तिश्चैव विन्यसेत् ।
देवा यक्ष यथा नागा किन्नराप्सरस्तथा ॥
गतान् स्वस्वेन मन्त्रेण हृदये विन्यसेद् बुधः ।
एवं तस्य विधानेन हारकेयूर कल्पितम् ॥
पूजयित्वा विधानेन आचार्यस्तु निवेदयेत् ।
शयनं कल्पयेत् तत्र कलशस्य च दक्षिणे ॥
प्. २१)
अण्डजैर्मुण्डजैर्वास्त्रैः कार्पासैः कंबलैः क्रमात् ।
तस्योपरि न्यसेन्नेत्रे देवदेवांगकैर्बुधः ॥
कूर्चं तत्रैव विन्यस्य लक्षणेन विचक्षणः ।
एवं विन्यस्य विधिना एकवीरीञ्च शययेत् ॥
नवाक्षरेण मन्त्रेण जयशब्दयुतेन च ।
प्राक्शिरन्तु कर्तव्यं पादयोरन्यथा कृतम् ॥
देव्योपरि न्यसेद्वस्त्रं सदेशैर्युग्मतो हरम् ।
ईदृग्विधञ्च वस्त्रं वा नेत्र निर्वाणमेव वा ॥
* * * विधानेन गन्धपुष्पादिभिर्यजेत् ।
निवेद्यं दापयेत् तत्र स्मरणेन तु संयुतम् ॥
कलशोदकेन संस्पृश्य हृदयेनाभिमन्त्रयेत् ।
होमोदये ततस्सर्वान् सर्वमन्त्रैर्यथा क्रमम् ॥
मूर्तिपैर्लक्षणोपेतैरष्टभिस्तु यथा विधि ।
मन्त्रज्ञैः कुशलैश्शुद्धै ब्रह्मयामलतत्परैः ॥
पारशैव कुलोद्भूतै मातृदिक्षो समन्वितैः ।
नांगहीनैर्न बधिरै नेत्रहीनैश्शठैस्तथा ॥
नघ्रद्वैश्वा बालैश्च होमयेत् तुल्यवर्णजैः ।
आचार्य लक्षणं वक्ष्ये शृणुष्व चतुराननं ॥
सर्वलक्षणसंपूर्णं समयाचारपालकम् ।
शक्तिव्रतधरं शान्तं नांगहीनं नरोगिनम् ॥
प्. २२)
एकवीरविधनज्ञं ब्रह्मयामल तत्परम् ।
मात्र तन्त्र क्रियायुक्तं मात्रतन्त्रविशारदम् ॥
मातृमण्डलवेत्तारं मात्रस्फूर्ति विचारगम् ।
दीक्षासंस्कारयुक्तञ्च प्रतिष्ठाक्रमवित्तमम् ॥
शुभदेशे समुत्पन्नं अभिषेक क्रियान्वितम् ।
एकवीरविधानज्ञं शक्ति व्रतधरं शुभम् ॥
समुक्त पादनयनं कालमण्डलवर्जितम् ।
रक्तं रक्तोष्ठसंयुक्तं रक्तपाणिं विचक्षणं ॥
मनोज्ञं वा प्रवक्तारं शास्त्रानुष्ठानतत्परम् ।
शीलाचारसमायुक्तं गुणासंभोगवर्जितम् ॥
गुणाशान्तं समुद्भूतं सद्भिश्चैव तु संपदम् ।
सलक्षणैश्च संयुक्तमालोल दीर्घलोचनम् ॥
मृदुपादक सग्रञ्च शुभकण्ठसमध्वलम् ।
एवं लक्षणसंयुक्तमाचार्यं विधिवत्सदा ॥
बिल्वञ्च खदिरञ्चैव पलाशं वटमेव च ।
अश्वत्थोदुम्बरञ्चैव पद्मञ्चैव शरं तथा ॥
वैकंगतोह्यपामार्गं अर्कञ्चैव यथाक्रमम् ।
अपामार्गं वास्तु होमे होमयेत् तत्र वित्तमः ॥
अष्टोत्तरशतञ्चैव होमयेत् सर्व मूर्तिपः ।
आचार्य द्विगुणं हुत्वा समिधाज्यादिभिः क्रमात् ॥
प्. २३)
प्रत्येकाष्टशतञ्चैव होमयेत् सर्वमूर्तिषु ।
अष्टमूर्तिषु मन्त्रैश्च पृथक् वै होमयेद् बुधः ॥
स्वतामपदसंयुक्तं नवाक्षरसमन्वितम् ।
स्वरण्यन्तससंयुक्तं होमयेन्मूर्ति धारकान् ॥
पृथिवी आपिनी ते जीव यशखड्गिनी तथा ।
सौरी चन्द्री तथा पात्नी अष्टमूर्तिः प्रकीर्तिताः ॥
तासां मूर्तिस्तु मूर्ध्नीनां मारयेन्मूर्तिवारकः ।
पृथिवी पूजनं पूर्वं आपिनी वारुणेन तु ॥
तेजी अग्नि प्रदेशे तु वायवी वायुगोचरे ।
खड्गिनी नैर्-ऋते भागे सौरी ईशानगोचरे ॥
चन्द्री सोमे तु विन्यस्य ह्यस्ती दक्षिणे न्यसेत् ।
एवं न्यस्त्वा न विधानेन चाष्टमूर्तिषु योजयेत् ॥
मूर्तीनाञ्चैव सर्वासां स्वनाम्ना चैव होमयेत् ।
अवर्गं जुहुयात्पूर्वे कवर्गमग्नि गोचरे ॥
चवर्गं याम्यदेशे तु वर्गत्त्रैन्नैर्-ऋते हुतम् ।
तवर्गं वारुणञ्चैव पवर्गं वायु गोचरे ॥
पवर्गं सोमदेशे तु षवर्गमीशगोचरे ।
एतैस्सर्वैस्तु संयुक्तमाचार्यो होममारभेत् ॥
पूर्ववत्प्रक्रमादेव लोकपालान्न्यसेत् क्रमात् ।
सप्तजिह्वा न्यसेस्तस्य यथास्थाने यथाक्रमम् ॥
प्. २४)
अष्टमस्य तु खण्डस्य तृतीये लक्षणान्वितम् ।
सप्तमस्य तु खण्डस्य द्वितीय लक्षणान्वितम् ॥
षष्ठेनैव समोपेतं मूर्ध्नि बिन्दु सुशोभितम् ।
बहुरूपा भवेज्जिह्वा न्यस्तव्या संगरेदिशि ॥
सप्तखण्डा तृतीया च द्वितीयेन समन्वितम् ।
षष्ठेन तु समायुक्ता बिन्दुना परिभूषितम् ॥
रजताभाजसा जिह्वा सैन्द्रे चैव व्यवस्थितम् ।
द्वितीये चाष्टमखण्डान्ये द्वितीयकम् ॥
षष्ठेनैव समारूढ चैन्द्र खण्डान्यथा क्रमम् ।
बिन्दुनोपरिसंयुक्ता रक्ता जिह्वा च संभवेत् ॥
अग्निभागे स्थिता सा च सक्तपापविनाशिनी ।
खण्डस्य चाष्टमस्यैव मातीया शान्तिदा शुभा ॥
सप्तमस्य तु खण्डस्य द्वितीयेन समन्वितम् ।
षष्ठेनैव समयुक्तं बिन्दुनोपरिभूषितम् ॥
कृष्णाख्या तु भवेज्जिह्वा नैर्-ऋते दिशि संस्थिता ।
सप्तमस्य तु खण्डस्य चादिबीजासु शोभना ॥
पुनरग्निसमायुक्तं षष्ठस्वरसमन्वितम् ।
बिन्दुनोपरिसंयुक्तं सर्वकामार्थसाधनम् ॥
सुप्रभा शोभना जिह्वा वारुण्यं दिशिसंस्थिता ।
सप्तमस्य तु खण्डस्य चादिबीजा शुभंकरी ॥
प्. २५)
द्वितीयेन समायुक्ता षष्ठबीजेन संयुता ।
विन्दुनोपरिसंयुक्ता सदाविजयवर्धनी ॥
अतिरक्ता भवेज्जिह्वा वायव्यां दिशिसंस्थिता ।
सप्तजिह्वा समाख्याता शास्त्रदृष्टेन कर्मणा ॥
एवं सप्तविधां जिह्वा चाग्निकुण्डे प्रयोजयेत् ।
एवं वै स्थण्डिले जिह्वा योजयेद् देशिकोत्तमः ॥
एतैस्सर्वैस्समायुक्तः आचार्यो मन्त्रहोमयेत् ।
समिद्धुत्वा स्पृशेत्पादमाज्यं हुत्वा यदि स्पृशेत् ॥
चरुं हुत्वा स्पृशेद्बिन्दुं तिलान् हुत्वा हुतिस्पृशेत् ।
लाजं हुत्वा मुखं स्पृश्य शूलमुद्राभिमन्त्रयेत् ॥
कृगाक्षरे स्पृशेत् पश्चात् क्ष्वकाकादीनि वै बुधः ।
हुत्वा हुत्वा स्पृशेन्मन्त्री पादादि शिरसान्तकम् ॥
हृदये हृदयं स्पृश्य शिरश्शिरसि विन्यसेत् ।
शिखायान्तु स्पृशेन्न्यस्य कवचं स्तनमध्यकम् ॥
स्तनमध्यं स्पृशेत् मन्त्री सर्वमन्त्रैर्यथा क्रमात् ।
आज्यं हुत्वा भवेत् तत्र हृन्मन्त्रादि यथाक्रमम् ॥
पञ्चपञ्चभिराहुत्या षडंशेन विधुर्बुधः ।
एकवीरशतं हुत्वा नवाक्षरेण बुद्धिमान् ॥
चतुर्मूर्तिश्चतुर्हत्वा अष्टमूर्तिस्तु चाष्ठधा ।
द्वादशैव तु मुनीनां द्वादशाहुतिरुच्यते ॥
प्. २६)
षोडशैव तु मूर्तीनां षोडशाहुति होमयेत् ।
द्वात्रिंशन्मूर्तिभिश्चैव द्वात्रिंशाहुतिरुच्यते ॥
तत् तत्पूरणहोतव्यं स्वनामपदसंयुतम् ।
योगिनीनां दशं हुत्वा परिवारेण पञ्चधा ॥
एवं हुतं विधानेन वारिणा प्रोक्षयेद् गृहम् ।
पञ्चगव्येन संप्रोक्ष्य नवाक्षरेण बुद्धिमान् ॥
बाह्ये चाभ्यन्तरे चैव परिवार ग्रहेषु च ।
प्रोक्षयेत् पञ्चगव्येन पश्चात् स्थापनमारभेत् ।
अधिवासन वेलायां पशून् सप्त च पातयेत् ।
रुधिरं मांसमस्थिञ्च होमयेन्मूलमन्त्रतः ॥
ततो दिशा बलिं दद्यात् रक्तमांसैश्च विन्यसेत् ।
शंखभेर्यादिभिर्घोषैर्डमरुकैश्च काहलैः ॥
मातृघोषैश्च संयुक्त पटहमदलसंकुलैः ।
नृत्तगीतादिभिस्तत्र ह्रादयेत् तत् प्रदक्षिणम् ॥
अधिवासविधि ह्येतन्ना ब्रह्म उदाहृतम् ।
सुमुहूर्ते तु संपन्ने प्रभाते स्थापनं भवेत् ॥
रत्नादिविन्यसेत्पूर्वं पश्चात् स्थापन मारभेत् ।
रत्नानि लोह धान्यानि बीजान्योषधयस्तथा ॥
क्रमेण विन्यसेत् ब्रह्मन् शास्त्र दृष्टेन कर्मणा ।
वज्रन्तु मरकतञ्चैव मौक्तिकं पद्मरागकम् ॥
प्. २७)
वैडूर्यं पुष्परागञ्च इन्द्रनीलं प्रवालकम् ।
गोमेदकन्तु माणिक्कं नवरत्नं प्रकीर्तितम् ॥
नवाक्षरेण मन्त्रेण पूर्वादिक्रमयोगतः ।
सुवर्णरजतं ताम्रमायसं त्रपुसीसकम् ॥
आरुढं च विपुलं पूर्वादि क्रमतो न्यसेत् ।
हरितारं गञ्जकञ्च माक्षिरं गुनपीतथा ॥
सौराष्ट्र गैरिकञ्चैव वत् * * * गरन्तथा ।
नवाक्षरेण मन्त्रेण पूर्वादि क्रमतो न्यसेत् ॥
तिलसर्षप मुद्गानि व्रीहिनिष्पावकानि च ।
यवमाष प्रियंगूनि नवाक्षरेण विन्यसेत् ॥
लक्ष्मी च सहदेवी च विष्णु क्रान्ति बलं तथा ।
गरिकञ्जीव्रवल्ली च वाह्री च पाक्सव चलान् ॥
नवाक्षरेण मन्त्रेण क्रमेण विन्यसेद् द्वये ।
कारयेत् तु नवपुटं ताम्रैणैव शोभितम् ॥
ब्रह्मस्थानं न्यसेन्मन्त्री एकत्वञ्च न कारयेत् ।
कूर्मञ्च पृथिवी चैव शंखञ्चैवात पत्रिकम् ॥
वज्रञ्चैव तु शूलञ्च गदा खड्गन् तथैव च ।
नवाक्षरेण मन्त्रेण स्मरणेनैव संयुतम् ॥
न्यसेद्वीजानि मार्गञ्च रजान्योषधि लोहकान् ।
ब्रह्मस्थानं न्यसेत् पूर्वमायुरारोग्यदं शुभम् ॥
प्. २८)
एवं न्यस्य च विधिना पायसेन तु लेपयेत् ।
सुमुहूर्ते च सुदिने शंख दुन्दुभि निस्वनैः ॥
स्थापयेद् विधिनाचार्यो ब्रह्मस्थानन्तु कौतुकम् ।
कूटाक्षरं नवैर्बीजैर्नवाक्षर युतैरपि ॥
सुमुहूर्ते तु कर्तव्यं ऊर्ध्वस्थापनमाचरेत् ।
अर्घ्यन्दत्वा ततो मन्त्री वीरध्यान परायणः ॥
पशून्वै घतयेत् तत्र प्रतिष्ठा कालिके तथा ।
सपुत्रं वा जपैर्दर्वैः यजमान पुरस्सरैः ॥
कवितुकस्य तु संमन्त्र्यस्य स्थापयेद् विधिना तथा ।
देवभागं न्यसेत् स्थाप्य ब्राह्मे चर्चां प्रकल्पयेत् ॥
कृताक्षर नवबीजैर्नवाक्षरयुतैरपि ।
स्मरणेन समायुक्तं त्रिभिर्जप्तं प्रवेशयेत् ॥
अर्घ्यन्दत्वा तु तत्रैव भद्रकालीं प्रवेशयेत् ।
सकलं निष्कलं रूपं ध्यात्वा देव्यः पुनर्न्यसेत् ॥
आवाहयेत् ततो देवीं भीमरूप कपालिनीम् ।
त्रिशूल खड्ग खट्वांग खेटकैश्च समन्वितः ॥
घण्टाडमरुकञ्चैव नागपाश समन्विता ।
मुण्डमालाधरीं देवीं त्रिणेत्रिं रक्तलोचनीम् ॥
श्यामवर्णाञ्च सुघनीं रौद्रीं चैव परात्पराम् ।
भूतप्रेत गणैस्सर्वै मातृयोनि गणैर्युताम् ॥
प्. २९)
एतैस्सर्वैः परिभूतैः देवीमावाहयेद्बुधः ।
अचिन्त्यां परमां सूक्ष्मां अव्यक्तां अक्षयां दयाम् ॥
नानारूप जगद्योनिं विश्वमूर्तिं महेश्वरीम् ।
अनेक वदनान्देवीं नैकहस्तां महेश्वरीम् ॥
नैकरूप घृतश्यामांमनेका घ्राणसंयुताम् ।
अनेकश्श्रोत्रसंयुक्तमनेकस्तनसंयुताम् ॥
अनेक मुखसंयुक्तां समुद्रांबरभूषिताम् ।
इन्द्रश्रपविचित्रांगी विन्यसेत् तन्त्रवित्तमः ॥
कलशोदकेन संप्रोक्ष्य स्वापि रूपन्तु विन्यसेत् ।
परिवारन्यसेच्चैव स्वस्वेनैव तु मन्त्रवित् ॥
देव्योदकेन संप्रोक्ष्य न्यसेत्स्वरलिपिन्यथा ।
निवेदयेत् तदा देहमर्चयित्वा विधानतः ॥
पायसं कृसरान्नञ्च पीतान्नञ्च गुलोदनम् ।
शुद्धान्नघृतसंयुक्तन्दधिमधुघृतान्विताम् ॥
भक्ष्य भोज्यञ्च पायञ्च लेह्यं शोष्यं तथैव च ।
बौलकामण्डका चैव पूरिका घृतकन्तथा ॥
मधुमांसञ्च पानञ्च गुलपिष्टं मधुन्तथा ।
त्रिविधा तु भवेद् देवी लक्षमांसेन संयुता ॥
निवेदयेद् विशेषेण अर्घ्यैश्च बहुकादकान् ।
दिशाबलिं ततो दद्यात् मांसानां लाजसंयुतम् ॥
प्. ३०)
आचार्यं पूजयेत् संम्यक् गोरुमिकाञ्चनादिभिः ।
प्रतिष्ठा विधायां प्रोक्तं राष्ट्रशान्त्यर्थकारणम् ॥
गर्भगेहे तु मतिमान् सप्तकोष्ठानि कारयेत् ।
प्रतिष्ठाप्य पूजयेत् तंत्र वित्तम * * * * ॥
ध्रुवार्चादेविकं स्थाप्य भूतात्मा रणभागिके ।
पैशान् पैशातु भागेतु स्वार्पयेत् तन्त्रवित्तमः ॥
एवं तु त्रिविधं लेख्यं यथाविधिपुरस्सरम् ।
इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिष्ठाविधिर्नाम सप्तमः पटलः
अतः परं प्रवक्ष्यामि न्यासकर्म विधिक्रमात् ।
न्यासानां त्रिविधं प्रोक्तं सर्वकामार्थ साधनम् ॥
सृष्टिसंहारभेदञ्च स्थितिन्यासं तथैव च ।
मूर्ध्नादि पादपर्यन्तं सृष्टिन्यासं प्रकीर्तितम् ॥
पादादि च शिरान्तन्तु न्यासञ्च संहृतिर्भवात् ।
नासादि हृदयान्तन्तु स्थितिन्यासं तदुच्यते ॥
प्रथमन्तु जलस्नानं मृदास्नानमतः परम् ।
जपस्नानविधिं पश्चात् ध्यानयोगी समाचरेत् ॥
पद्मासनन्तु कर्तव्यमञ्जली पुटमुद्रया ।
पूरकं पूरयेत् पूर्वं ब्रह्मा तत्राधिदेवता ॥
प्. ३१)
कुम्भकं हृदिमध्यस्थं देशं निष्कल भासितम् ।
निष्कलं परमाशक्ति मन्त्रासनसमन्वितम् ॥
कालीं चैव कराली च विराली मालिनी तथा ।
हृत्पुण्डरीकमध्ये तु मूर्तिं ध्यात्वा यथाक्रमम् ॥
पश्चात् करांगुलीन्यास निर्मलाक्ष समन्वितम् ।
नागहस्तसमं कुर्यात् मणिमण्डसमन्वितम् ॥
दक्षिणांगुष्ठकं ब्राह्मं तर्जनी तु महेश्वरी ।
मध्यमांगुलकौमारी वैष्णवी च त्वनामिका ॥
कनिष्ठिका च वाराही दक्षिणांगुल विन्यसेत् ।
वामहस्ते कनिष्ठादि इन्द्राणिन्तत्र विन्यसेत् ॥
अनामिकायाञ्चामुण्डा वीरभद्रा तु मध्यमा ।
तर्जनी तु महाविघ्नं कराल्यंगुष्ठविन्यसेत् ॥
एवं सृष्टिक्रमं कुर्यात् संहारं तदनन्तरम् ।
वामांगुष्ठादि चारभ्य नवशक्तिषु विन्यसेत् ॥
शान्ती चांगुष्ठविन्यासे सोणी तर्जनि विन्यसेत् ।
खड्वांगी मध्यमं कुर्यात् अनामी चैव तु नासिका ॥
कनिष्ठिका न्यसेत् कान्तिमंगुल्यग्रे प्रतिष्ठितम् ।
मौक्तिकी कनिष्टिका न्यस्य अग्रे च तर्जनीं न्यसेत् ॥
क्रोधी चांगुष्ठविन्यस्य स्थिति न्यासं प्रकीर्तितम् ।
अंगुल्यं प्रणवं न्यस्य फट्कारं तर्जनीं न्यसेत् ॥
प्. ३२)
फट्कारं मध्यमांगुल्यं फट्कारञ्चैव नामिका ।
कनिष्ठांगुलि हुंकारं कनिष्ठाकारमुच्यते ॥
अनेकायान्तु फट्कार फट्कारं मध्यमं न्यसेत् ।
श्वेतन्तु तर्जनीं तस्य हुंकारांगुष्ठविन्यसेत् ॥
दक्षिणे कटिमध्ये तु चण्डी रौद्री तु विन्यसेत् ।
वामे तु मणिमध्ये च चण्डी रौद्री तु विन्यसेत् ॥
वामे तु मणिमध्ये तु भैरवीं तत्र विन्यसेत् ।
दक्षिणे बहुवीरे तु एकवीरे तु वामके ॥
हस्ताभ्याक्ताल पृष्ठे तु अर्कमात्मे तु विन्यसेत् ।
करन्यासमिदं प्रोक्त महान्यासमतः परम् ॥
प्रणवं विन्यसेन् मूर्ध्नी ब्रह्मा तत्राधि दैवतम् ।
खकारे तु ललाटं स्यात् स्कन्दस्तत्राधि दैवतम् ॥
वकारं वक्त्रमध्ये तु विघ्नन्तत्राधि दैवतम् ।
मकारं हृदये मध्ये दुर्गां तत्राधि दैवतम् ॥
सद्धस्तं पुरुषं देवं भकारं तत्र विन्यसेत् ।
एवं सृष्टिमहामुद्रा सृष्टिन्यासन् तदुच्यते ॥
ओंकारं पादयोर्न्यस्य भूमिस्तत्राधि दैवतम् ।
ज्रेकारं जानुमध्ये तु दुर्गासूत्रासु दैवतम् ॥
द्रेकारं वह्निविन्यस्य उमास्तत्राधि दैवतम् ।
ह्रेंकारं स्तनमग्रे तु श्रियै तत्राधि दैवतम् ॥
प्. ३३)
ह्रोंकारं चैव बाहुभ्या ज्येष्ठं तत्राधि दैवतम् ।
ह्रेंकारं चक्षुविन्यासं सरस्वत्याधि दैवतम् ॥
स्कन्ददेशे तु फट्कारं इति न्यासाधि दैवतम् ।
पृष्ठे चैव हुंकारं पालिं तस्याधि दैवतम् ॥
पदन्यासन्तु हृदये हकारं नायशक्ति स दैवता ।
एतेषां च स्थिति न्यासमुष्टिकं बिन्दुमुद्रया ॥
वीरभद्रन्तु मन्त्रेण शिरसोपरि विन्यसेत् ।
तदूर्ध्वं भक्तविन्यासं स तु ध्यानरूपिणम् ॥
विघ्नमन्त्रान् ललाटस्यात् तस्योर्ध्वं पदविन्यसेत् ।
ब्रह्माणी मूलमन्त्रेण चतुश्यान्तत्र विन्यसेत् ॥
मन्त्रोपरि तथा चतुर्वक्त्रा चतुर्भुजा ॥
एवं ध्यात्वा तु मनसा ब्रह्माणी तत्र विन्यसेत् ।
माहेश्वरीति मन्त्रेण आस्य मध्ये प्रतिष्ठितम् ॥
तस्योर्ध्वमीश्वरी चैव चतुर्बाहुस्त्रिणेत्रिणी ।
कौमारी मूलमन्त्रेण कर्णाग्रे तत्र विन्यसेत् ॥
मन्त्रस्योपरि विन्यासं कामारी तु चतुर्भुजा ।
वैष्णवी मूलमन्त्रेण बाह्याभ्यन्तर विन्यसेत् ॥
मन्त्रोपरि च विन्यासं वैष्णवी चैकहस्तिनी ।
वाराही मूल मन्त्रेण हृदयञ्चैव विन्यसेत् ॥
तस्य मन्त्रोपरि न्यासं वाराही च चतुर्भुजा ।
इन्द्राणि मूलमन्त्रेण नाभि मध्ये प्रतिष्ठितम् ॥
प्. ३४)
तस्य मध्योपरि न्यासं इन्द्राणी वज्रहस्तिनी ।
चामुण्डी मूलमन्त्रेण सर्वांगेषु प्रतिष्ठितम् ॥
तस्य मन्त्रोपरि ध्यात्वा चामुण्डा उग्रवेषिणी ।
एवं मातृमयं ध्यात्वा यागपूर्वे प्रवर्तते ॥
सकलं निष्कलञ्चैव निष्कलं सकलनिष्कलम् ।
सकन्तु शरीरस्थम्महानपि यथाशक्तियन्तारमनुवर्तते ॥
तथैवेन्द्रिय संघातञ्चित्तमेवानुवर्तते ।
दृष्ट्वा तार्क्ष्यं यथा सर्पं कम्पतेथ मुहुर्मुहुः ॥
अमन्त्रमर्चकन् दृष्ट्वा कम्पते शिवमुत्सया ।
शिवशिक्षा समायोगात् शिवहृष्टमिहोच्यते ॥
पारशवकुले जातो स्नानं कृत्वा विशेषतः ।
क्षौरञ्च दन्त शुद्धिञ्च मन्त्रस्नानन्तु लेपनम् ॥
उष्णीषञ्चोपवीतञ्च शुद्ध वस्त्रोत्तरीयकम् ।
कर्णकुण्डलसंयुक्तं हेमांगुल्य पवित्रकम् ॥
प्रवालमौक्तिका कान्तं रुद्राक्षमालिकायुतम् ।
त्रिपुण्ड्रन्तु विशेषेण चन्दनेनानुलेपनम् ॥
भेरिका पोषणञ्चैव पारशैवमिति स्मृतम् ।
प्रोक्षणे च प्रतिष्ठायां उत्स्ववे बलिकालके ॥
दीक्षया मालयारंभे बालस्थाने तथैव च ।
यावत् कर्म समारभ्य भेरिकां ताडयेत् क्रमात् ॥
प्. ३५)
भेरिकायोष्टहीनञ्च राजराष्ट्रं विनश्यति ।
अन्यथा तामुनञ्चैव राजराष्ट्रं विनश्यति ॥
तद् दोष शमनार्थाय सप्तशुद्धि समाहरेत् ।
अन्नपाद्यसमायुक्तं घोषयेत् सर्व कर्मसु ॥
इति श्रीब्रह्मयामले शतसहस्रसंहितायां न्यासविधिं नाम अष्टमः
पटलः
पीठम् ।
वक्ष्येहं बलिपीठस्य लक्षणं क्रमशोधुना ।
मूलगेहे तलोत्थेयं भूतपीठस्य विस्तृतम् ॥
पादबाह्ये तु मध्ये वा पादाभ्यन्तरमेव वा ।
विस्तारमुत्सेधमर्धाधिक मथापि वा ॥
पादाधिकं तथा कृत्वा विधिपीठस्य चोच्छ्रयम् ।
होमादि कर्णिकान्तञ्चेत् द्वात्रिंशदंशकं भवेत् ॥
कुमुदोच्चन्तु भूतांशं कंपेमेकांशमुच्यते ।
षडंशं चरणोच्चं वा कम्पमानं शिवांशकम् ॥
कलांशन्तु महापद्मं पद्मोत्सेधं युगांशकम् ।
पक्षोत्सं कर्णिकोत्सेधं होमादुपरि विन्यसेत् ॥
अथवान्य प्रकारेण द्वारमानविधिं शृणु ।
हारोच्छ्रेयं तारं पादहीनं द्विपादकम् ॥
प्. ३६)
उत्तमाधममध्यञ्च तुंगं पूर्वोक्तमाचरेत् ।
होमाकर्णिक पर्यन्तमष्टाविंशति संखया ॥
उपानोच्चं कलोच्चं वा रसांशञ्च प्रमाणकम् ।
कुंभोत्सेधं शरांशं स्यात् कंअमेकांशमुच्यते ॥
युगांशं कण्ठमानन्तु शिवांशं कम्पमूर्ध्वकम् ।
शिवाक्ष्यंश मेहपट्टी पक्षांशं वा विशेषतः ॥
वेदांश पद्मन्तु विन्यस्य शिवांशं कर्णिकोदयम् ।
पीठतारं युगाश्रन्तु निष्कलस्य शरीरकम् ॥
स्थितं वै आत्मकं विद्यात्सकलञ्चलितो भवेत् ।
आयुक्षा तु समाख्याता आत्मनेन तु दृश्यते ॥
क्षेत्रं क्षेत्रस्य रूपेण विभेदा पठ्यते मया ।
तिलमध्ये स्थितं तैलं क्षीरमध्ये यथा ध्रुवम् ॥
तिलवत् क्षेत्रमित्याहुः तैलं क्षेत्रस्य उच्यते ।
उभयोरितरं नास्ति आकाशविविभुन्नयेत् ॥
मातृकं क्षेत्रमित्युक्तं क्षेत्रज्ञोथ प्रभुरुच्यते ।
अक्षरं परमाधारमधेयं शक्तिरुच्यते ॥
अनुनात्मानमित्युक्तं आत्मास्तु स भैरवम् ।
मन्त्रं परमाशक्तिश्शक्ति भैरवमुच्यते ॥
भैरवं भैरवोद्भूतं शक्त्यामुन विवित्रयम् ।
अन्यथा देवता शक्ति भैरवेषु समुद्भवा ॥
प्. ३७)
नानाभेदस्वरूपाणि नानाशास्त्रकलां धरेत् ।
एवं शक्त्या भवेद् ब्रह्मन् ब्रह्मशक्ति ततः परम् ॥
मातृदीक्षा क्रमञ्चैव अर्चनं नात्र कारयेत् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां पीठलक्षणं नाम नवमः पटलः
स्नानम् ।
अथातस्संप्रवक्ष्यामि स्नानकर्मविधिक्रमम् ।
आग्नेयं वारुणं स्नानं आतपं द्विचतुर्विधम् ॥
आग्नेयं दीक्षिता स्नाने वल्मीके दर्भमुलके ।
नदीकूप तटाके वा अन्येभ्यश्चैव मन्त्रवित् ॥
तैलं मलदन्तकाष्ठ शुचौ देशे तु निक्षिपेत् ।
प्रक्षाल्य पाणिपादेन दन्तकाष्ठञ्च कारयेत् ॥
उपस्पृश्य शुचिस्तस्मिन् स्नानात्संपारशैवकः ।
सद्योज मृत्तिकां गृह्य वामेन क्षेपणञ्चरेत् ॥
अभिमन्त्रेण घोरेण वक्त्रेणैव त्रिभागिकम् ।
निवेदनमीश मन्त्रेण विघ्ननाशाय साधक ॥
भागमेकं भवेद् दिक्षु भागमेकस्य चांभसि ।
संगृह्य लिख्य चात्मानं कुर्यात् स्नानं यथाक्रमम् ॥
गंगा च यमुना चैव कोजिनी काण्ठकी तथा ।
सिन्धुस्सरस्वती चैव सिन्धो पञ्चनदी स्मृता ॥
प्. ३८)
चतुस्सागरमध्यस्थ ध्यानन्तु सलीलं तथा ।
सर्वतीर्थानि पुण्यानि अस्मिन् तिष्ठन्तु वांभसि ॥
गंगाह्रदं जपेत् पूर्व पश्चाच्छ्रुक्ष्ये तु मुत्तमम् ।
पावणं सर्वतीर्थेभ्यो शिवतीर्थन्तु यद्भवेत् ॥
परिपूर्णाञ्जलिं कृत्वा शिरस्योपरि निक्षिपेत् ।
निमग्नदण्डवत् तत्र स्मरेदीशानमुत्तमम् ॥
उत्तीर्य सलिलात् पश्चात् सद्योजातमनुस्मरन् ।
निष्क्रम्य जलमध्यात् तु उपविश्योत्तरं मुखम् ॥
विधिना चम्य गायत्री लोचनादि तलं स्पृशेत् ।
प्राणायाम त्रयं कृत्वा ध्यायेद्धृदयमं शिवम् ॥
निरोधाज्जायते वायुर्वायोरग्निस्तु जायते ।
तपो नामापि जायन्ते ततोन्तश्शुद्धिरुच्यते ॥
बहिरभ्यन्तरे शुद्धे शिवहस्तन्तु कारयेत् ।
पश्चादात्म शिवं कुर्यात् त्रितत्व सहित द्विज ॥
उपस्पृश्य जलं तत्र कूर्चहस्ते जलं स्पृशेत् ।
देवानृषि पितॄंश्चैव क्रमेणैव तु तर्पयेत् ॥
ध्यानमार्गं समाप्तेन साधकस्य विधीयते ।
जलस्नं पुरा कृत्वा भस्मसानं यथाक्रमम् ॥
श्वेतं रक्तं तथा कृष्णं कपिलं जरयाक्रमात् ।
गोमयेन सुसंग्राह्य ओंकारमभि मन्त्रयेत् ॥
प्. ३९)
नकारं स्थापनं कृत्वा मकारं शोधयेत् क्रमात् ।
शिकारं मुष्टिकां कृत्वा वकारं शोधयेत् क्रमात् ॥
यकारमग्नि दग्धन्तु ओंकारं गृहसाधकः ।
भस्मभूतं तथा कृत्वा पुनस्संस्कार कर्मणि ॥
पात्रन्तु स्थापयेत् तत्र अग्निना दहेन क्रमात् ।
पञ्चाक्षरं ततो जप्यमन्य पात्रस्य संग्रहम् ॥
गन्धपुष्पसमायुक्तं शुद्धदेशेन दापयेत् ।
अमृतस्वत्परं बीजं याम्यं संस्पृश्य नित्यशः ॥
दीक्षिता पूजयेन्नित्यं सर्वपापहरं परम् ।
ज्ञानदीक्षा तपोदीक्षा मन्त्रदीक्षा क्रमेण तु ॥
ज्ञानदीक्षा तु विप्राणां तपो दीक्षा नृपस्य तु ।
मन्त्रदीक्षा तु वैशस्य शूद्रस्यैव तथैव च ॥
अन्येषाञ्चैव जातीनां शूद्राणाञ्च तथैव च ।
अन्येषाञ्चैव जातीनां कर्मयोग्यं न कारयेत् ॥
दीक्षा क्रमेण कर्तव्यं गुरुमाराध्य वर्तते ।
अग्निमाता पितारुद्र दीक्षितो यस्य पूजकः ॥
तस्य जन्तु कुलोजात पूर्वजन्म विवर्जितः ।
मण्डले स्थंडिले चैव स्फटिके वा मणिर्यथा ॥
भित्ति चित्रपटे वापि हृदये वापि कारयेत् ।
पूजयेद् वापि पिण्डात्मा ध्यानं कूर्वित साधकः ॥
प्. ४०)
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ।
शैवं पाशुपतं सोम त्रय सिद्धान्तमेव च ॥
पूर्वञ्च दक्षिणञ्चैव पश्चिमं चोत्तरं तथा ।
ऊर्ध्वमूर्ध्नाभिसंयुक्तमीशानं परिकल्पयेत् ॥
ईशानपूर्वतो मूर्तिं ईश्वरो चैव दक्षिणे ।
पश्चिम ब्रह्ममूर्तिस्तु उत्तरे तु शिवस्तथा ॥
ऊर्ध्वं सदाशिवं चैव पञ्चमूर्तिरिदं क्रमात् ।
तत् तन्मुखेन दीक्षाया तत् तद्भावन्तु पूजयेत् ॥
सृष्टिस्थितिश्च संहारं मूर्तिभेद क्रमेण तु ।
ब्रह्माणं पूजयेन्नित्यं भस्मोद्धूलित विग्रह ॥
सर्वसंग परित्याज्य एकत्वं भावयेत् क्रमात् ।
विष्णुञ्च पूजयेन्नित्यं जपहोम क्रियादिभिः ॥
गृहस्थस्य विशेषेण दीपाकार स उच्यते ।
दीक्षितानाञ्च सर्वेषां नरनार्यस्सुभक्तितः ॥
त्र्यंगुल्यन्तु परिक्रम्य त्रिपुण्ड्रस्सविधीयते ।
त्र्यंगुलं परिधे यत्तु सर्वेषां च विशेषतः ॥
एवं विधि क्रमेणैव पूजयित्वा विशेषतः ।
एकत्वं भावयेत् तत्र कुलजातस्समाप्नुयात् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां दीक्षाभेद शुद्धस्नानविधिर्नाम
दशमः पटलः
प्. ४१)
मातॄणामर्चनं वक्ष्ये श्रूयतां च वरानने ।
अहरहार्चनं वक्ष्ये अहः पापविनाशनम् ॥
ग्रामशान्तिमिमं श्रुत्वा रक्षश्शत्रु विनाशनम् ।
आयुश्श्रीपुत्र वृध्यर्थं धनधान्य विवर्धनम् ॥
आराधन विधिं देव्यै स्त्रीशूद्राश्च वर्जयेत् ।
ग्रामे वा नगरे वापि पत्तने केटकेपि वा ॥
मंत्रः स्नानं ततः कृत्वा भस्मस्नानं ततः परम् ।
उत्तराभिमुखो भूत्वा ध्यानं कुर्वीत साधकः ॥
तन्नामकस्य मन्त्रेण पूर्वादीनि यथार्चयेत् ।
अर्चयित्वा यथान्यायं गन्धपुष्पादिभिः क्रमात् ॥
द्वारस्थो योगिनीनां वा स्नानादग्निस्वरूपिणी ।
पुंलिंगी गोमरीची च उग्री च सुमुखी तथा ॥
विजयी जृंभिणी चैव इत्येते द्वारयोगिनी ।
गन्धपुष्पादिभिर्धूपैः स्वनाम्ना चार्चयेद् बुधः ॥
शुद्धिनी पूर्वदेशे तु आग्नेययान्तु सुकेशिनी ।
विषुकण्ठी च यामे तु नैर्-ऋत्यां सुन्दरी तथा ॥
वारुण्यां जावली देवी वायव्यां कोटराक्षसी ।
सोमेस्तदर्शिनी देवी ईशान्यां शत्रुमर्दिनी ॥
दण्डकुण्डोदरी भीमी कीडी विजयविन्यया ।
व्यालामुखी विरूपाक्षी राजदेवी रशक्तया ॥
प्. ४२)
नीलकेशी विकर्णी च व्यालकेशी तथैव च ।
उग्रपैशाचिनी देवि वेतालि च नामतः ॥
इन्द्रश्चाग्नि यमश्चैव निर्-ऋतिर्वरुणस्तथा ।
वायुसौम्यमीशाने कौबेर्यां शंकरी तथा ॥
विघ्नेश वीरभद्रञ्च ब्राह्मी माहेश्वरी तथा ।
कौमारी वैष्णवी चैव वाराही चेन्द्राणी तथा ॥
चामुण्डी चैव नामानि मातॄणामेव तत्तत् ।
तत् तद्गायत्रि मन्त्रेण अर्चयित्वा यथाक्रमम् ॥
शुक्लवासञ्च वीरञ्च ब्रह्माणी सितवाससा ।
ईश्वरी श्वेतवासा तु कुमारी सिन्धुवाससा ॥
वैष्णवी पीतवासास्तु वाराही कृष्णवाससा ।
इन्द्राणि च दुकूलन्तु चामुण्डी रक्तवससा ॥
विघ्नेशं खड्गवासास्तु प्रत्येकं वस्त्रमुच्यते ।
मुखं हिरिबेरञ्च ब्रह्माणी गन्धमुच्यते ॥
ईश्वरीमाञ्च गन्धञ्च कौमारी कुंकुमं तथा ।
वैष्णवी राजकस्तूरी वाराही च नियासकम् ॥
आर्द्रमेषञ्च इन्द्राणी चामुण्डी रक्तचन्दनम् ।
शुक्लचन्दन लेपे तु वीरविघ्नं तथार्चयेत् ॥
केतकी जातिपुष्पन्तु गणेशञ्च तथार्चयेत् ।
करवीरं वीरभद्र ब्रह्माणी श्वेतपद्मकम् ॥
प्. ४३)
श्वेतार्कमीश्वरी चैव कौमारी कुमुदन्तथा ।
वैष्णवी तुलसी चैव वाराही मल्लिका तथा ॥
जातिपुष्पन्तु शूद्राणि चामुण्डा रक्तपद्मकम् ।
गुग्गुलां वीरभद्रञ्च शितारी च चतुर्मुखम् ॥
ईश्वरी अगरुञ्चिव कौमारी देवदारुगम् ।
वैष्णवी वनधूपञ्च वाराही आज्य धूपकम् ॥
इन्द्राणी चतुनिर्यास चामुण्डी जातुधूपकम् ।
विघ्नेशमगरुञ्चैव शीतारी सर्व देवता ॥
गन्धमन्त्रन्तु गन्धञ्च पुष्पमन्त्रन्तु पुष्पकम् ।
धूपमन्त्रन्तु धूपञ्च दीपमन्त्रन्तु दीपकम् ॥
तत् तद्गायत्रि मन्त्रेण तत् तन्मूलं जपेत् क्रमात् ।
तत् तद् बिम्बन्तु संपूज्यमावाह्याभ्यर्चयेत् क्रमात् ॥
शुद्धान्नं वीरभद्रञ्च विघ्नेशन्तु निवेदयेत् ।
ब्रह्माणी पायसान्नञ्च ईश्वरी कृसरान्नकम् ॥
हरिद्रान्नञ्च कौमारी वैष्णवी च गुलान्नकम् ।
वाराही चैव माषान्नं इन्द्राणी मुद्गमन्नकम् ॥
रक्तान्नञ्च तिलान्नञ्च चामुण्डी च निवेदयेत् ।
नैवेद्यमन्त्रमुच्चार्य तत् तदेवं निवेदयेत् ॥
ऊर्ध्वं पृथक् पृथक् वक्ष्ये श्रूयतां चतुरानन ।
विघ्नेशं वीरभद्रञ्च समिद्बिल्वं तथोच्यते ॥
प्. ४४)
ब्रह्माणी च पलाशञ्च अर्कमाहेश्वरी तथा ।
औदुम्बरीन्तु कौमारी अश्वत्थं वैष्णवी तथा ॥
वाराही प्लक्षमेवं स्यात् इन्द्राणी खदिरन्तथा ।
न्यग्रोधञ्चैव चामुण्डी समिधस्तत्र कीर्तिताः ॥
ऊर्ध्वं पृथक् पृथक् वक्ष्ये हूयते समिधस्तथा ।
एतेषामप्यलाभे तु पलाशं सर्व हूयते ॥
इति ब्रह्मयामले शतसहस्रसंहितायां मातृर्चनं नाम एकादशः पटलः
अग्निकार्यम् ।
अथातस्संप्रवक्ष्यामि अग्निकार्यविधि क्रमम् ।
स्थण्डिलञ्चापि कुण्डं वा चाग्नीनां तु गृहं द्विधा ॥
अश्रं योन्यर्ध चन्द्रञ्च अश्रं वर्तुलं तथा ।
षडश्रं पद्ममष्टाश्रं पञ्चाश्रन्तु यथाक्रमम् ॥
चतुरश्रा कृतीकुण्डं सर्वकामार्थ साधनम् ।
प्रजा ऋद्धिकरं योनौ चार्धचन्द्ररिपुक्षयम् ॥
गुणाश्रे शान्तिदं प्रोक्तं पर्जन्यार्थन्तु वर्तुले ।
षडश्रे सस्य वृद्धिश्च जयार्थञ्चैव पद्मके ॥
वस्वश्रे पुष्टिदं ज्ञेयं पञ्चाश्रे रोगनाशनम् ।
कुण्डानान्तु फलञ्चैव स्थण्डिलञ्च विनोच्यते ॥
प्. ४५)
कुण्डे वा स्थण्डिले वापि हस्तमात्रेषु कारयेत् ।
मेखलास्त्रिभि कुर्वीत चतुस्त्रि द्व्यंगुलेन तु ॥
मेखलामध * स्ताकृतारोत्सेध * व्यंगुलम् ।
त्र्यंगुलोस्त्रविस्तारं मध्यमायां तु मेखला ॥
चतुरंगुलोच्छ्रितं वारमूर्ध्वावास्तत्रमेखला ।
कुर्यान्नाभिषडंगुल्यां पश्चिमं दक्षिणेव तु ॥
अश्वत्थ पत्रवन्नाभि एकांगुलसमन्वितम् ।
गोमया लेपिका भूमिन्दर्भैस्सम्मृज्य वै हृदा ॥
कुण्डञ्चेत् शोधनञ्चैव क्षालनं शोषणं तथा ।
पाचनं प्रोक्षणं चैव सद्यादि ब्रह्म पञ्चकैः ॥
नक्रद्योकरमादाय प्रोक्ष्य सौम्ये विसर्जयेत् ।
शुद्धदेशोत्थ सिकतैरनाद्रैर्हस्तविस्तृतम् ॥
अंगुलत्रयमानोच्चं समनिम्नोन्नतं तथा ।
प्रागग्रादि त्रिरेखास्तु तद्वौ सौम्याग्र रेखया ॥
मध्यसूत्रन्तु ब्रह्माणि वैष्णवी दक्षिणेन तु ।
काली चोत्तरसूत्रिं स्यात् अधिदेवा प्रकीर्तिता ॥
त्रिस्राणां प्रागग्राणामधिदेवाः प्रकीर्तिताः ।
चामुण्डी मध्यसूत्रीन्तु पश्चिमे तु गणाधिपः ॥
पूर्वे तु योगमूर्तीनां अधिदेवाः प्रकीर्तिताः ।
उल्लिख्य त्रिभिः पूर्वाग्रमिध्ममेकेन कारयेत् ॥
प्. ४६)
मध्यमं दक्षिणं सौम्यं त्रीणि रेखा च कारयेत् ।
ऊर्ध्वरेखेस्तु मे सौम्यमुल्लेख्य समिधं त्यजेत् ॥
लेख्यमन्त्रमिदं ज्ञात्वा अस्त्रमन्त्रं तथैव च ।
सूर्यकान्तोद्भवं श्रेष्ठं काष्ठजं मध्यमं भवेत् ॥
श्रोत्र्यागार वह्निस्तु कन्यसस्त्विति कीर्तितः ।
शरावे ताम्रपात्रे वा पावकन्तु समानयेत् ॥
गृहीत्वा नव शरावे च आग्नेयान्दिशि विन्यसेत् ।
हेतातुरग्रे विन्यस्य संप्रोक्ष्य बहुरूपिणा ॥
गन्धादिभिर्हृदाभ्यर्च्य वर्मणा चावकुण्ठयेत् ।
प्रक्षिप्येन्धनमग्नौ तु वह्नेरायतनान्वरे ॥
नाभिमध्ये तु वागीशीन्नीलोत्पलदलप्रभाम् ।
ऋतुस्नानास्य कूर्चस्थां ध्यात्वा तन्मूलमन्त्रतः ॥
मन्त्रेण संस्कृते कुण्डे वागीशीमग्निमातरम् ।
वागीश्वरञ्च पितरमावाह्य स्थाप्य चार्चयेत् ॥
त्रिणेत्रञ्चतुर्भुजञ्चैव पद्मरागसमप्रभम् ।
वरदाभयदञ्चैव शूलपाशधरं करैः ॥
वागीशी पुण्डरीकाभां चतुर्हस्तां घनस्तनीम् ।
व्याख्यानपुस्तकधरां कमण्डल्वक्ष धारिणीम् ॥
एवं ध्यात्वा समभ्यर्च्य कूर्चमध्ये विनिक्षिपेत् ।
इति ध्यात्वा समभ्यर्च्य वागीवागीश्वर द्वयम् ॥
प्. ४७)
संपूज्याग्नि समादाय संभ्राम्या यतनं त्रिधा ।
योनिमार्गेण निक्षिप्य वह्निबीज मनुस्मरन् ॥
इत्यग्निं त्रिः परिभ्राम्य असुरांशः विवर्जयेत् ।
योनि मार्गेण चाग्निञ्च जानौ भूमौ निधाय च ॥
ह्रं इति स्मरन् श्रुत्वा ओं हां अग्नये नमः ।
इत्यग्निं समिधमादाय त्रेधाग्निं सुदापयेत् ॥
अस्त्रेण कंकणं बध्वा अर्चयेद् गन्धपुष्पकैः ।
सदर्भेरिन्धनं क्षिप्त्वा दत्वार्घ्यं हृदयेन तु ॥
अभ्यर्च्य गन्धपुष्पेण तण्डुलेनाहुति त्रयम् ।
गर्भाधानमिति ख्यातं कुर्यात् पुंसवनन्तथा ॥
हृदयेन यजेद्वह्निमेतत् पुंसवनं स्मृतम् ।
पुष्पं दद्यात् पुंसवने तिलेनैवाहुति त्रयम् ॥
अघोरेण ददेदर्घ्यं सीमन्तं स्यात् तदन्ततः ।
तण्डुलेन त्रयं हुत्वा वक्त्रेण कुसुमाक्षतैः ॥
अग्नये नमः प्रज्वाल्य पश्चात् तत्पुरुषेण तु ।
निक्षिप्य शिरसा मन्त्री जातकर्म विधिस्मृतः ॥
गन्धपुष्पाक्षतं दद्यात् शिरसा चैव जातकम् ।
तिलेन त्रयमाहृत्या सूतकं शुद्धिरुच्यते ॥
अस्त्रेणैव तु संप्रोक्ष्य ईशानेन समर्चयेत् ।
मानसे वह्निरूपन्तु ध्यात्वा वाहनं शुभम् ॥
प्. ४८)
संप्रोक्ष्येशान मन्त्रेण दत्वार्घ्यं पुष्पमिश्रितम् ।
तन्नामकरणं प्रोक्तं एवं संस्कारपञ्च युक् ॥
आवाहनादि सद्यान्नं तन्मुद्रादि विशेषतः ।
दर्भैरिन्धनमग्नौ तु उपस्थानं हृदाक्षिपेत् ॥
दर्भैश्चैवासनं कल्प्य दर्भैश्चोत्तर विसर्जयेत् ।
दर्भैश्चैव परिस्तीर्य हृदग्नि दशभिस्तथा ॥
दक्षिणा चोत्तरा चैव उत्तरादघरस्तथा ।
पूर्वाग्रे चोत्तराग्रश्च प्रागादीनि क्रमात् क्षिपेत् ॥
रक्ताक्षी चैव काली च चण्डाक्षी च तथैव च ।
उच्छिष्टेश्वरी चैव प्रगादीनि परिस्तरे ॥
पूर्वे च पश्चिमे चैव उत्तराग्रं परिस्तरेत् ।
दक्षिणे चोत्तरे चैव पूर्वाग्रञ्च परिस्तरेत् ॥
उत्तमं दशदर्भाश्च अथ पञ्च कुशेन च ।
ब्रह्मासनन्तु दक्षिण्यां स्थाल्यासनञ्च पश्चिमे ॥
उत्तरे प्रणिता चैव अग्रे पात्रासनं तथा ।
वाणी वागीश्वरौ चैव उद्वासनमतः परम् ॥
स्रुक्स्रुवौ च घृतस्थालीं प्रणीतां प्रोक्षणीं तथा ।
समित्कूर्च चरु दर्वी सिरीञ्च कमण्डलुम् ॥
द्रव्यपात्राणि सर्वाणि वामकाशोपरि न्यसेत् ।
अधोमुखानि पात्राणि द्वन्द्वरूपाणि साधयेत् ॥
प्. ४९)
प्रोक्षणी पात्रमादाय जलेनैव प्रपूरयेत् ।
वितस्तिमात्रमादाय तन्मध्ये ग्रन्थसंयुतम् ॥
अंगुष्ठानामिकाभ्यान्तु उदकोत्प्लवनं कुरु ।
संस्कृते नैव तोयेन प्रोक्ष्य पात्राणि वर्मणा ॥
स्रुक्स्रुवौ चेन्धनादीनि हेमद्रव्याणि दक्षिणे ।
समिधाज्य चरुं लाजान् सर्षपञ्च यवं तिलम् ॥
मुद्गञ्च वैणवं चैव श्रीपत्रं कदली फलम् ।
अजमांसरुधिरञ्च मत्स्यञ्चासवसंयुतम् ॥
संस्थाप्य तेन तोयेन प्रोक्षयेत् तान शेषकान् ।
द्रव्यहोम चर्वादीनि पात्राण्युर्ध्वाननं कुरु ॥
बध्वाथ सप्तभिर्दर्भै कूर्चं होतुश्च दक्षिणे ।
आसनामन्त्रसंयुक्तं अष्टमुद्रा प्रकीर्तिता ॥
आवाहनन्तु ब्रह्माणीमंगन्यासमतः परम् ।
गन्धपुष्पञ्च धूपञ्च संपाद्यभ्यर्चयेत् तथा ॥
प्रोक्षणीञ्चेन्निर्-ऋते स्थाप्य कूर्चं जलपूरितम् ।
जप्यन्तु वारुणी मन्त्रं * * चाग्नौ तु प्रोक्षयेत् ॥
द्विदर्भैर्ग्रन्थि संयुक्तं नासिकं तन्तु गृह्यते ।
ऐशान्ये स्थापनञ्चैव * * * * * * * * ॥
प्रणीतान्नैर्-ऋते स्थाप्य कूर्चं वा जलपूरितम् ।
पूर्वमन्त्रं जपं कृत्वा * * * * * * * * ॥
प्. ५०)
पश्चिमे चाज्यपात्रेण स्थापितन्तु विचक्षणः ।
कूर्चन्तु स्थापितं मध्ये तन्मध्ये घृतपूरितम् ॥
द्विदर्भैर्दहनञ्चैव आज्यमध्ये तु संस्पृशेत् ।
उत्तरे विसर्जनञ्चैव पश्चाद् दर्भन्तु दाहनम् ॥
सर्पिमध्ये तु संयोज्य अग्नीनान्तु प्रदक्षिणम् ।
पूर्ववत्सर्जनं कृत्वा अग्निमेकन्तु सर्जयेत् ॥
स्रुक्स्रुवे गृहीत्वा तु अग्ने स्पर्शनमेव च ।
स्पर्शनं बन्धनं कृत्वा आज्यपात्रे त्वधोमुखम् ॥
आज्येन प्रोक्षणीमिन्धमेकविंशति संख्यया ।
पूर्वदक्षिण पश्चात् तु उत्तरे मध्यमे हुनेत् ॥
सद्यादि कण्ठवेधन्तु हृदयान्न प्राशनम् ।
सद्येन च चौलं कुर्याद् वामदेवेनोपनीतकम् ॥
अघोरेण व्रतं कुर्यात् पुरुषेण समापनम् ।
ईशानेन विवाहञ्च यथाविधि पुरस्सरम् ॥
स्रुक्स्रुवेण गृहीत्वा नैर्-ऋत्यान्दिशमादिकम् ।
ऐशान्यान्तं हुनेत् कृत्वा पश्चाद्वायवमादिकम् ॥
आग्नेयान्तं हुनेत् पश्चात् पूर्वाद्यैशान्यमन्तकम् ।
इन्द्रादिनाममन्त्रन्तु होमयेत् तु विशेषतः ॥
मन्द्रोद्धार क्रमेणैव मन्त्रकोश विधिक्रमात् ।
स्वाहान्ते देविका होमं नगरं शान्तिवर्धनम् ॥
प्. ५१)
पुत्रपौत्रादि वृद्धिञ्च श्रीदेवी सन्निधिस्तथा ।
असुरादि पार्श्वश्वान्तं फट्कारान्तेन होमयेत् ॥
ओंकारं संपुटं श्रेष्ठं हुंकारन्तु दशाक्षरम् ।
पुष्पर्थे च वषट्कारं मूलमन्त्रेण कारयेत् ॥
एवं ज्ञात्वा तु मन्त्रस्य होमयेत् तु विचक्षणः ।
होमद्रव्याणि सर्वाणि देवयुक्तेन साधयेत् ॥
मत्स्यन्तु शिरसं गृह्य मांसान्विं तु वै गृही ।
खण्डमामलकं प्रख्य मद्येन सह होमयेत् ॥
देवि होमन्तु शान्त्यर्थं नगरस्य तु वर्धनम् ।
कुण्डञ्च स्थण्डिलञ्चैव नलिनामधिदेवता ॥
स्रुक्स्रुवाधि दैवत्यं विराली शक्तिरुच्यते ।
मण्टपञ्च वितानञ्च नमस्कृतं * * * * ॥
देवी चैव तु * * * सौम्य मूर्तिरिति स्मृतम् ।
यह्यस्थापयेदस्त्रमिद्रादि क्रमयोगतः ॥
पूर्वन्तु दापयेद् वज्रं आग्नेयां शक्तिमेव च ।
दण्डन्तु स्थापयेद्याम्यां नैर्-ऋत्यां खड्गमेव च ॥
वारुण्यां स्थापयेत् पाशं वाय * * * * * * ।
गदाञ्च स्थापयेत् सौम्यं ऐशान्यां शूलमेव च ॥
* * * * * * * मूर्ध्वन्तु पद्मविन्यसेत् ।
इत्येवं लोकपालानां अस्त्राणाञ्च त्रिधामतः ॥
प्. ५२)
चयित्वा विधानेन निर्माल्य ज्वालिनीं ददेत् ।
निर्माल्य ज्वालिनीन् दद्यात् पश्चाद् देवं विसर्जयेत् ॥
देव्या प्रदक्षिणं कृत्वा स्तुति जप्योपहार च ।
प्रणम्य दण्डवद्भुमौ देव्या ध्यानपरायणः ॥
गोमयेन ततः पश्चात् घषयेत् सुसमाहितः ।
शुद्रकन्याद्विजानान्तु उद्भवो शास्त्रपाठकाः ॥
सर्वतन्त्र समाचार पारशैवा प्रकीर्तिताः ।
पूजा होम विशेषज्ञा इति शास्त्रस्सनिश्चयः ॥
इति ब्रह्मयामले शतसहस्रसंहितायां अग्निकार्यविधिर्नाम द्वादश पटलः
द्विमुखञ्चैक हृदयञ्चतुश्श्रोत्रं द्विनासिकम् ।
आस्यद्वयञ्च षण्णेत्रं पिंगलं सप्तहस्तकम् ॥
त्रिमेखलं त्रिपादञ्च सप्तजिह्वा समन्वितम् ।
चतुश्शृंगं वृषारूढं बालादित्य समप्रभम् ॥
उपवीत समायुक्तं जटामकुटमण्डितम् ।
सव्यभागे चतुर्हस्तं त्रिहस्तमपसव्यके ॥
स्रुक्स्रुवौ चाक्षमालाञ्च शक्तिं दक्षिणतो करे ।
तोमरं व्यजनञ्चैव घृतपात्रन्तु वामके ॥
हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ।
अतिरक्ता बहुरूपा सप्तजिह्वा प्रकीर्तिता ॥
प्. ५३)
हिरण्यादि चतस्रस्तु जिह्वा दक्षिण वस्त्रके ।
तिस्रस्तु सुप्रभाद्यास्युर्जिह्वा वै वामवक्त्रके ॥
हिरण्यावारुणी जिह्वा कनका मध्यमे स्थिता ।
रक्ता चोत्तर जिह्वा स्यात् कृष्णा याम्यां दिशि स्थिता ॥
सुप्रभा पूर्व जिह्वा स्यादतिरक्तानले स्थिता ।
बहुरूपेश जिह्वा स्याज्जिह्वा स्थानं प्रकीर्तितम् ॥
हिरण्या श्वेतवर्णाभा कनका रक्तवर्णिका ।
रक्ता सा पीतवर्णाभा कृष्णाया धूम्रवर्णका ॥
सुप्रभा कृष्णवर्णाभा अतिरक्तारुण वर्णका ।
बहुरूपा श्यामवर्णा सा जिह्वा वर्णं प्रकीर्तितम् ॥
श्रोत्राणामाहुतिं कुर्यात् सर्वव्याधिभयं भवेत् ।
नासिकायां महापुंखं चक्षुषो सर्वनाशनम् ॥
केशे तु दरिद्रता चैव तज्जिह्वायान्तु होमयेत् ।
यात्रं काष्ठं तथा श्रोत्रं यात्रधूमन्तु नामिका ॥
यात्रवज्ज्वालनं नेत्र यात्रभस्मन्तु तच्छिरम् ।
रक्तायां सर्षपं हूयात् कृष्णायां लाजहूयते ॥
सुप्रभायामपूपानां अतिरक्तां तिलं हुनेत् ।
सिद्धार्थं बहुरूपायां सर्वासु चरुरुच्यते ॥
शेषद्रव्याणि सर्वाणि कनकायान्तु हूयते ।
अन्यजिह्वा सुतद्धुत्वा सर्वं भवति निष्कलः ॥
प्. ५४)
तस्मात् सर्वप्रयत्नेन तत् तज्जिह्वा सुहूयते ।
स्रुक्स्रुवौ चतुरंगुलं विच्छिन्नं घृतमाहुतिः ॥
अन्नमक्ष प्रमाणं स्यात् लाजमुष्टिमितं भवेत् ।
अवतंस प्रदक्षिण्यां आज्येन जुहुयात् तथा ॥
सति यद्वादशांगुल्यं षोडशेन तु होमयेत् ।
आज्येनाष्टशतं हुत्वा हविस्तत्सममेव वा ॥
लाजं शताष्टकं कृत्वा * * * * * * * * ।
यज्ञपात्रञ्च भूमिञ्च दर्भकूर्च मुनिस्तथा ॥
मानसी प्रणिता ज्ञेया समिधा नैव शक्तिषु ।
दिनं प्रतिहुतञ्चैव अतिरक्ता च षठयोः ॥
सप्तबाहुस्वरूपा च अग्निजिह्वा प्रकीर्तिता ।
हिरण्यमेक जिह्वा च गगनञ्च द्विजिह्विका ॥
त्रिजिह्वा रक्तवर्णञ्च कृष्णवर्णं चतुर्थकम् ।
पञ्चचैवातिरक्ता च षष्ठयोः * * * * * ।
इति ब्रह्मयामले शतसहस्रसंहितायां अग्निस्वरूपं नाम त्रयोदश पटलः
मातॄणामर्चनं वक्ष्ये शृणु तत्वं यथाक्रमम् ।
अहर्दीपार्चनं वक्ष्ये सर्वपापविनाशनम् ॥
आयुः पुत्र विवर्धन्ते धनधान्य विवर्धनम् ।
आराधनविधिं पूर्वं स्त्रीशूद्राणान्तु वर्जयेत् ॥
प्. ५५)
आराधन विशेषेण ब्राह्मणाद्यादि वर्जितम् ।
पारशव कुले जातो देवाग्नि गुरुपूजकः ॥
शैवाचारव्रतो नित्यं शाक्तचारोविशेषतः ।
आर्यदेशसमुत्पन्नो दीक्षितश्चापि सर्वदा ॥
वैदिकं तान्त्रिकञ्चैव देवीनामर्चना क्रमम् ।
यामलोक्त प्रकारेण प्रतिष्ठा होममारभेत् ॥
ग्रामे वा नगरे वापि पत्तने केटकेपि वा ।
आचार्यश्शिष्यसंयुक्तस्स्नानं कुर्याद् यथाक्रमम् ॥
मन्त्रस्नानं ततः कृत्वा भस्मस्नानं ततः परम् ।
उत्तराभिमुखो भूत्वा स्नानकार्ये विशेषतः ॥
कालाग्निमादितः कृत्वा सदाशिवं ततः परम् ।
विरूपाक्षं जपित्वा तु कल्पमन्त्रं विचक्षणः ॥
हृदयञ्च शिरश्चैव शिखा कवचमेव च ।
नेत्रं त्रिणेत्रमस्त्रेण मन्त्रेण * * यामन्तु धारिणम् ॥
करन्यासं ततः कृत्वा दशन्यासं दशाक्षरम् ।
सम्रा * * गुं समाप्ते मन्त्रस्नानं प्रविश्यति ।
पात्रशुद्धिं ततः कृत्वा मात्रपुण्याह वाचनम् ॥
सर्वत्र प्रोक्षणं कृत्वा पञ्चगव्यन्तु साधयेत् ।
अर्चयित्वा तु पात्रेषु प्रतिमुञ्चापि वारुणम् ॥
प्. ५६)
अर्चनन्तु स पूज्येन पादार्घ्याचमनीयकम् ।
स्नानं तत्र तथा गन्ध धूपदीपं हविः क्रमम् ॥
प्रथमद्वार देवीनां पूजयित्वा विशेषतः ।
रक्षोहणीं बलिहीनि पुर्वायां द्वारपालकौ ॥
सुमुखी कालदण्डी च दक्षिण द्वारपालिनी ।
अदिती मुदिती चैव पश्चिमद्वारपालिनी ॥
कलिनी शुक्तकर्णी च उत्तरद्वारपालिनी ।
* * * * क्तं पूर्वद्वारादीनि प्रदक्षिणम् ॥
प्रमोदिनीनां पूर्वेण अभयी तथा ।
संगिनी पश्चिमे चैव संहिती चोत्तरे तथा ॥
विजयी रंभिणी चैव इत्येते द्वारयोगिनाम् ।
गन्धपुष्पं तथा धूपदीपञ्चैव तु चार्चयेत् ॥
दण्डकुण्डोदरी भीमी कीडी विजय विद्यया ।
व्यालामुखी तथा चैव राजदेवी त्रिणेत्रिणी ॥
नीलकेशी गता चैव वागीश्वरी पिशाचिनी ।
इति वेताल भूताश्च मातॄणामञ्जयस्तथा ॥
स्वनाम च प्रणवाद्ये पूजयित्वा यथाक्रमम् ।
पादौ प्रक्षाल्य चाचम्य गर्भगृहं प्रविशति ॥
प्रथमं वीरभद्रं च मूलमन्त्रेण चार्चयेत् ।
ब्रह्माणी चैव सावित्री मानस्तोका महेश्वरी ॥
प्. ५७)
युजतिश्चैव कौमारी इदं विष्णुश्च वैष्णवी ।
मानस्तोका तु वाराही इन्द्राणीन्द्रबला तथा ॥
शन्नो देवी च चामुण्डी स्नानमन्त्रं प्रकीर्तितम् ।
शुक्लवासश्च वीरञ्च ब्रह्माणी सितवाससा ॥
ईश्वरी श्वेतवासास्तु कुमारी सिन्धूरवाससा ।
वैष्णवी पीतवासास्तु वाराही कृष्णवाससा ॥
इन्द्राणि च दुकूलञ्च चामुण्डीरक्तवाससा ।
विघ्नेशं खड्गवंसञ्च प्रत्येकं वस्त्रमुच्यते ॥
मुखं हरिबेरञ्च ब्रह्माणी गन्धमुच्यते ।
ईश्वरीमाञ्च गण्डञ्च कौमारी कुंकुमं तथा ॥
वैष्णवी राजकस्तुरी वाराही तु निर्यासकम् ।
आर्द्रमेषञ्च इन्द्राणि चामुण्डा रक्तचन्दना ॥
शक्यचन्दन लेपे तु वीरविघ्नं समापयेत् ।
केतकी जातिपुष्पन्तु गणेशञ्च तथार्चयेत् ॥
करवीरं वीरभद्रं च ब्रह्माणी श्वेतपद्मकम् ।
श्वेतार्कमीश्वरी चैव कौमारी कुमुदन्तथा ॥
वैष्णवी तुलसी चैव वाराही मल्लिका तथा ।
जातिपुष्पन्तु इन्द्राणी चामुण्डारक्तपद्मकम् ॥
गुग्गुलुं वीरभद्रञ्च शितारी च चतुर्मुखीम् ।
ईश्वरी अगरुञ्चैव कौमारी देवदारुकम् ॥
प्. ५८)
वैष्णवी सूनधूपञ्च पञ्च वाराही आज्य धूपकम् ।
इन्द्राणी चैव निर्यासं चामुण्डी जातिधूपकम् ॥
विघ्नेशमगरुञ्चैव शितारी सर्वदेवता ।
गन्धमन्त्रेण गन्धञ्च पुष्पमन्त्रेण पुष्पकम् ॥
धूपमन्त्रेण धूपञ्च दीपमन्त्रेण दीपकम् ।
तत् तद्गायत्रि मन्त्रेण तत् तन्मूलं जपेत् क्रमात् ॥
तत् तद्बिम्बन्तु संपूज्यमावाह्याभ्यर्चयेत् क्रमात् ।
शुद्धान्नं वीरभद्रस्य विघ्नेशञ्च निवेदयेत् ॥
ब्रह्माणी पायसान्नं च ईश्वरी कृसरान्नकम् ।
हरिद्रान्नञ्च कौमारी वैष्णवी च गुलान्नकम् ॥
वाराही चैव माषान्नामिन्द्राणी मुद्गमेव च ।
रक्तान्नं रुधिरञ्चैव चामुण्ड्यास्तु निवेदयेत् ॥
नैवेद्यमन्त्रमुच्चार्य तत् तद्भेरीं निवेदयेत् ।
आद्योद्यादि क्रमं कुर्यात् वीरमाश्रवणं तथा ॥
इति ब्रह्मयामले शतसहस्रसंहितायां मात्रर्चनं नाम चतुर्दशः पटलः
विघ्नेशं वीरभद्रञ्च समिद्बिल्वं तथोच्यते ।
ब्रह्माणी च पलाशञ्च अर्कमाहेश्वरी तथा ॥
औदुम्बरन्तु कौमारी अश्वत्थं वैष्णवी तथा ।
वाराही वृक्षमेवं स्यात् इन्द्राणी खदिरन्तथा ॥
प्. ५९)
न्यग्रोधञ्चैव चामुण्डा समिधस्तत्र कीर्तिताः ।
ऊर्ध्वं पृधक् पृधक् वाह्ये हूयते समिधन्तथा ॥
एतेषामप्यलाभे तु पलाशं सर्वहूयते ।
एकैकनामहूयन्ते स्वनामावाहयेत् तथा ॥
पादस्याचमनीयादि स्नानमन्त्रं यथार्चयेत् ।
गन्दपुष्पन्तथा धूपन्दीपञ्चैव हविः क्रमात् ॥
गेयादि तालसंयुक्तं बहुवीरार्चनं भवेत् ।
सर्वलोकहितं पुण्यं सर्वधान्य समृद्धिदम् ॥
दुष्टग्रहविनाशार्थं विशिष्टाग्रहमेव च ।
सर्वेषामेव रक्षार्थं मातृलोके महीयते ॥
इति ब्रह्मयामले शतसहस्रसंहितायां बहुवीरार्चनविधिर्नाम पञ्चादशः
पटलः
गरुडौवाच ॥
नमस्तुभ्यं लोकानां जयकारणं ।
सर्वेषामेव लोकानां भय शान्तिविवक्षित ॥
सर्वेषामेव भूतानां लोकालोकनिबंद्धनम् ।
त्वया च पालितं सर्वं प्रजानां हितकारण ॥
राक्षसै परिभूयिष्ठा तारकादिषु तत्ववित् ।
विष्णुरुवाच ॥
सृष्टिस्थितिश्च संहार कारणं त्रिविधं भवेत् ।
त्रिविधं लोकसंसृष्टिस्त्रिविधं लोकचारितम् ॥
प्. ६०)
यजनं चतुर्विधं भोगं प्राणिनाञ्च चतुर्विधम् ।
चतुर्विधञ्च चरितं सर्वेषाञ्च सुखावहम् ॥
एवमाचरितं लोकं ब्रह्ममन्त्रसमुद्भवम् ।
तात्कालिक परित्राणं राक्षसानामुपाधितः ॥
राक्षसानां वधार्थाय नवशक्त्यादि भेदतः ।
नवशक्त्या नवाकारा लोकानां हितकाम्यया ॥
यद्भुवं नाशयेत् कर्तुं तद्रूपं त्रिभिसंयुतम् ।
तत्कालेन तु संरूढं घोररूपं भयं भवेत् ॥
शक्तीनां नाशयोगन्तं * * * * * * * * ।
तस्य शान्तिं प्रकुर्वीत * * * * * * शक्ति ॥
* * * * * * * नाशयोगमतः परम् ।
तस्य शान्तिं प्रकुर्वीत तिस्रस्ताः परिकीर्तिताः ॥
शक्ति शान्तिं विशेषेण मातृशान्तिं विधीयते ।
ग्रामं वा नगरं वापि पत्तनं वापि कारयेत् ॥
तत्र शान्तिं विशेषेण प्रजानां हितकारणम् ।
मातॄणां स्थापयेत् तत्र सर्वभूतसुखावहम् ॥
ग्रामे वा नगरे वापि उत्तरे चालयं भवेत् ।
प्राच्यामथ प्रकूर्वीत पूर्वद्वारादिभिः क्रमात् ॥
शिलामयं लोहमयं मणिमद्वृक्षमेव च ।
शिलामयं मोक्षकामस्य लोहानां कीर्तिवर्धनम् ॥
प्. ६१)
रत्नानां श्रीकरं कुर्यात् मृण्मयं शान्तिकं भवेत् ।
प्रासादगर्भमानेन द्वारमानं तथैव च ॥
अथवा यजमानेन दशतालक्रमेषु च ।
प्रतिष्ठायां विशेषेण यजमानं यथाक्रमात् ॥
सकलं निष्कलञ्चैव निष्कलं वकुलं तथा ।
मूलमन्त्रेण संयुक्तं शक्तिमन्त्रेण विन्यसेत् ॥
तत् तत्कीर्तिं प्रतिष्ठाप्य तत् तद् देवन्तु भावयेत् ।
गन्धपुष्पं तथा धूपदीपञ्चैव हविः क्रमात् ॥
निवेद्यं तत्र विधिवद्यथा शास्त्रक्रमेण तु ।
प्रतिष्ठोत्सवकर्माणि यथालाभं क्रमेण तु ॥
ध्वजारोहण पूर्वे तु अंकुरार्पण कर्म च ।
एकविंशति नक्षत्रं षोडशाहं चतुर्दश ॥
द्वादशाहं नवाहं वा दीक्षयेन् मात्रकोत्सवम् ।
कुजवारादि भौमान्तं अर्कवारादि भौमकम् ॥
सोमवारस्य रात्रौ तु अधिवासमतः परम् ।
* * * * * * * * * * * *
हितम् ॥
देव्यासनं ततः कृत्वा * बलिमत्प्रदक्षिणम् ।
बलि प्रदक्षिणं कृत्वा * * * य समन्वितम् ॥
प्रविशेन्मण्टपं तत्र * * * * * * * * ।
मध्ये पीठं प्रकुर्वीत चतुस्सूत्रसमन्वितम् ॥
प्. ६२)
पुरायुधसमायुक्तं षड्वर्गं सहसंयुतम् ।
शक्तिर्वै तोरणैर्युक्तं सर्वालंकारशोभितम् ॥
तन्मध्ये बलिनिक्षिप्य पञ्चायुधसमन्वितम् ।
पुत्रकश्चित्रकश्चैव सहमुद्रां प्रयोजयेत् ॥
ब्रह्मस्थानं विशेषेण मुद्रापीठं प्रकल्पयेत् ।
प्रासादपूर्व भागे तु यागमण्टपमुत्तमम् ॥
मध्ये वेदीं प्रकुर्वीत चतुस्ताल प्रमाणतः ।
एकतालसमुत्थेयं प्रमाणं परिकीर्तितम् ॥
वृत्तं वा चतुरस्रं वा अग्निकुण्डं यथाक्रमम् ।
दिशेषु चतुरश्रन्तु विदेशे वृत्तमुत्तमम् ॥
चतुष्षष्टिस्तदर्धञ्च षोडशञ्चाष्ट होमयेत् ।
नवांगहीना न बधिरा न शठा न जलस्तथा ॥
सर्वावयवसंयुक्त स्वरूप प्रियदर्शन ।
मातृदीक्षा च संयुक्तस्सर्वशास्त्रविशारदः ॥
यामलानान्तु सर्वेषा वाच्यवाचकसंयुतान् ।
सर्वभूतदयायुक्तान् मन्त्रतन्त्र परायणान् ॥
एवन्तु लक्षणैर्युक्तमाचार्यन्तु विशेषतः ।
देवाग्निं पूजयेत् पूर्वं ईशानादि यथाक्रमम् ॥
मकुटं तत्र खचित्वा तु हस्तमात्र प्रमाणकम् ।
त्रिवेदीं तत्र कुर्वीत चतुरश्रं समं तथा ॥
प्. ६३)
चतुस्त्रिद्व्यंगुलं कुर्यात् प्रमाणं तत्र कारयेत् ।
आचार्यस्साधकश्चैव समयी पुत्रकस्तथा ॥
केलके परिचारेण शान्तिं कुर्याद् विशेषतः ।
देव्याग्नि जनितः पूर्व ईशान्यां दिशि योजयेत् ॥
दक्षिणे भैरवाग्निस्तु पूर्वे वा च तथैव च ।
मयित्वाग्निं विशेषेण श्रोत्रियाग्निमथापि वा ॥
अथवा मन्त्रसंस्कारमग्निबीजे समन्वितम् ।
द्रव्यादि विश्वसंयुक्तं मूलमन्त्रेण होमयेत् ॥
द्रव्यहीनं विपरीते च तद्भवेत् ॥
द्रव्या * * * * * च क्रियाया सहवर्तते ।
प्रायश्चित्तं प्रकुर्वीत * * * * * होमयेत् ॥
मियाज्य चरुंश्चैव * * * सक्तुतुलस्तथा ।
लाजञ्च सर्षपञ्चैव क्रमेण विधियोजयेत् ॥
द्रव्यान्ते पशुसंस्कार योजयेत् तु विचक्षणः ।
होमं तत्र प्रकुर्वीत भैरवाग्निमिहोच्यते ॥
शान्तिकं पौष्टिकञ्चैव आभिचारकमेव च ।
शान्तिकं योजयेत् तत्र सृष्टिन्यासं प्रकीर्तितम् ॥
पौष्टिकं योजयेत् तत्र स्थितिन्यासं प्रकीर्तितम् ।
आभिचारकसंयोज्य संहारन्यासमुच्यते ॥
प्. ६४)
सात्विकाराजसञ्चैव तामसीञ्च गुणत्रयम् ।
सात्विकं स्थापनं कालं राजसं शान्तिकर्मणि ॥
तामसमाभिचारेण क्रमेण सहवर्तते ।
कालञ्चैवावकालन्तु शुभं वा त्वशुभं भवेत् ॥
दिने मुहूर्ते तत्रैव योगे च करणान्विते ।
सर्वयोगं विशेषेण बन्धुयोगं विशेषतः ॥
यत्र योगक्रियायोगं तत्र भाग्यमुदाहृतम् ।
वेदादि च मनुष्याणां बुद्धिर्भवति निश्चला ॥
निर्मलं निस्पृहस्वस्ते नित्यांशाश्वतमव्ययम् ।
आराधयेत्ससंबन्धः योगमोक्ष करान्वितम् ॥
सर्वयोगफलञ्चैव मातृशान्तिं विशेषतः ॥
इति ब्रह्मयामले शतसहस्रसंहितायामुत्सवविधिं नाम षोडश पटलः
अथास्संप्रवक्ष्यामि एकवीर्युत्सवः परम् ।
महाशान्तिकरं पुण्यं सर्वपापविनाशनम् ॥
अकालमृत्युशमनमायुरारोग्यवर्धनम् ।
सुभिक्षं गोबलञ्चैव हस्त्यश्वनरवर्धनम् ॥
भूमिकंपविनाशार्थं तथा प्रेतविनाशनम् ।
गृहजारविनाशार्थं भूतदृष्टिविनाशनम् ॥
प्. ६५)
राजसेना सुखार्थञ्च सदसि जयमेव च ।
महामारि प्रसंकीर्णे पाषाणे वर्षन्तया ॥
उल्कापाते निशान्दहे * * * * तथैव च ।
तरा प्रवातने चैव दीक्षान्तेन तथैव च ॥
दिशोपि च वने चैव महावात प्रवर्तने ।
दुर्भिक्षे रष्ट्रकलहे हस्त्यश्वव्याधिपीडिते ॥
उत्सवं कारयेन् मन्त्री शास्त्रदृष्टेन कर्मणा ।
एकविंशेद् दिने पूर्वे दुन्दुभिर्भ्रमणं कुरु ॥
दुन्दुभिर्लक्षणं वक्ष्ये तद्वर्षग्रहणन्तथा ।
* * ञ्चवतालञ्चशि * * रक्तचन्दनम् ॥
सप्ताहं तथा पूर्वे दुन्दुभिः प्रहरणे बुधः ।
पूर्ववत्कारयेत्सर्वं यथाविधि पुरस्सरम् ॥
तिलचूर्णसमायुक्तं गुलखण्डसमन्वितम् ।
कदली फलसंयुक्तं पूरिका खण्डसंयुतम् ॥
एवं बलिं ततो दद्यात् नवाक्षरेण मन्त्रवित् ।
नवाक्षरेण मन्त्रेण कुठारञ्चाभि मन्त्रयेत् ॥
पुनः प्रभाते विमले शुभग्रहसमन्वितम् ।
अस्त्रेण चोदयेद्वृक्षं भक्ति युक्तो दृढव्रतः ॥
सान्ते नैव तु मन्त्रेण कर्तव्यं लक्षणान्वितम् ।
शिल्पिना तु कृता सर्वं दुन्दुभिश्च मनोहरा ॥
प्. ६६)
षट्तालाय तथोक्तानि उत्तमं तत्र प्रकीर्तिता ।
दण्डन्नाह संयुक्तं पंकजासन संयुतम् ॥
शुभदिनसमायुक्तं चोत्तमा दुन्दुभिः शुचिः ।
चतुस्तालं समारभ्य मध्यमा दुन्दुभिर्भवेत् ॥
तदर्धनाह संयुक्त तत्वात्मासनसंयुतम् ।
द्वितालायामसंयुक्तं तदर्धन्नाह संयुतम् ॥
अथवा दुन्दुभिर्ज्ञेया वक्त्रासन संयुतम् ।
दुन्दुभेरुक्तमानञ्च त्र्यंगुला बालनं भवेत् ॥
द्व्यंगुलं बहुलं प्रोक्तं मध्यमानञ्च कीर्तिता ।
दुन्दुभेरधमायाममेकांगुलमुदाहृतम् ॥
उत्तमा मध्यमा चैव अधमा च प्रकीर्तिता ।
एवन्दुन्दुभिमुत्पाद्य बलिकार्यं समारभेत् ॥
मानयेत् शिल्पिनं पश्चात् वस्त्रैश्च चन्दनादिभिः ।
परिणाहं च कुण्डस्य पूर्वं वै योजयेद्बुधः ॥
त्र्यंगुलं दुन्दुभिश्चैव मध्यमञ्चोत्तमं भवेत् ।
द्व्यंगुलमधमञ्चैव दुन्दुभिश्च प्रकीर्तिताः ॥
कुण्डलं कन्यसं प्रोक्तं दुन्दुभिश्चैव चांगुलम् ।
उत्तमादि क्रमेणैव कुण्डलं प्रोच्यते क्रमात् ॥
दुन्दुभिं छादयेत् तत्र भवावै चर्मणा बुधः ।
छादयौ वैद्ध कालैश्च दुन्दुभिश्च मनोहरा ॥
प्. ६७)
एवं दुन्दुभिमुत्पाद्य सघोष * * * * * ।
दुन्दुभिं तत्र चाभ्यर्च्य आचार्यो मन्त्रविग्रहः ॥
* प्रासादपुरतो मण्टपञ्चतुरश्रकैः ।
चतुद्वारसमोपेतं चतुस्तोरणमण्टपे ॥
दशहस्त प्रविस्तार * तुलांकुरतोभितम् ।
तन्मध्ये वेदिकायान्तु तन्मध्ये मण्डलं कुरु ॥
शालिभिस्तण्डुलं कुर्यात् अष्टद्रोणैश्च तत् तथा ।
तण्डुलैश्च तदर्धैश्च तिलैः कुर्याद् यथा क्रमम् ॥
पञ्चैकोक्तसूत्राणि कारयेत् तण्डुलोपरि ।
सूत्राणि कारयेत् सम्यग् यथाविधि पुरस्सरम् ॥
एकैकान्तरितस्तस्मिन् एकश्चैव पदा हुनेत् ।
शोभितश्च तिलै * * * कोष्ठेषु विचक्षणः ॥
दुन्दुभिं विन्यसेत् पद्मे नवाक्षरेणैव बुद्धिमान् ।
कलशान् विन्यसेत् तत्र सूत्रेणैव विचेष्टितान् ॥
कलशानष्टौ तु विन्यस्य शुद्धगन्धोदकान्वितान् ।
मध्ये तु विन्यसेत् ब्रह्मन् पञ्चरत्नं विशेषतः ॥
एकवीरं न्यसेत् तस्मिन् नवाक्षरेण बुद्धिमान् ।
अष्टदिक्षु न्यसेत् कुंभान् नवाक्षरेण बुद्धिमान् ॥
चूतपल्लवसंयुक्तान् गन्धचन्दनमन्विताम् ।
अग्निकार्यं तथा कुर्यात् यथाविधि पुरस्सरम् ॥
प्. ६८)
एकवीर्यार्चन सहित सप्तन्यसेत् बुधः ।
वीरभद्रादिसंयुक्तं गणेशानसमन्वितम् ॥
दक्षिणे चैव वेद्यां वा अग्निकार्यञ्च कारयेत् ।
(शुक्लपक्षे तु शान्ति शास्त्रदृष्टेन कर्मणा ॥)
अग्निकार्यं पुनः कृत्वा प्रोक्षयेत् * * * पुनः ।
दुन्दुभिं तत्र विन्यस्य ततः प्रभृत्तिं योजयेत् ॥
ईदृग्भूतमनोज्ञाञ्च दुन्दुभिञ्च समाहरेत् ।
शुक्लपक्षे तु शान्ती शास्त्रदृष्टेन कर्मणा ॥
सर्वालंकारसंयुक्ता सर्वाभरणभुषिता ।
एकवीरञ्च परमां हंसारूढां मनोहराम् ॥
नवरूपां मुक्तकेशीमेकवीरी मनुस्मरन् ।
सर्वाभरणसंयुक्तां मनोज्ञा लक्षणान्विता ॥
दुन्दुभिं प्रहरेद्वापि नवाक्षरेण बुद्धिमान् ।
कृतयुगेर्मरेद् देविमेकवीरिं विचक्षणः ॥
ब्रह्माणां परमां शुद्धां सर्वाभरणभूषिताम् ।
ईदृग्भूतां परां ध्यात्वा दुन्दुभिं ताडयेत् पुनः ॥
नवाक्षरेण संताड्य देवीं ध्यात्वा तु तत्परम् ।
एवं संताड्य यत्नेन उत्सवं कारयेद्बुधः ॥
एकवीर्या * * ब्रह्म दुन्दुभिं ताडयेत् क्रमात् ।
दुन्दुभेस्ताडनं वक्ष्ये यथाविधि पुरस्सरम् ॥
प्. ६९)
देव्यालयं पुरस्तात्तु मण्डपं चतुरश्रकम् ।
गोमयेन समालिप्य सितचूर्णेन शोभितम् ॥
मण्टपे चतुरश्रन्तु द्विहस्तायामसंयुते ।
शालिभिश्चाष्टभि द्रोणैर्मण्डपे स्थण्डिलं कुरु ॥
सूत्राणि कारयेत् तत्र तण्डुलेन विचक्षणः ।
पञ्चोत्तराणि सूत्राणि चोत्तराणि मुखानि च ॥
दक्षे तथैव सूत्राणि सूत्रयेत् तत्र वित्तमः ।
सदर्भैस्तण्डिलैश्शुभ्रैः विकिरेत् तु समं तथा ॥
एकैकान्तरितं कोष्ठं चतुर्दिक्षु हरेत् पुनः ।
नवपदेषु पद्मं स्यात् अष्टपत्रं सकर्णिकम् ॥
तिलाढकेन वा लिख्यमष्टपत्रदलान्वितम् ।
कर्णिका केसरोपेतं चतुर्गात्रसमायुतम् ॥
नवाक्षरेण जप्तेन वस्त्रपूतेन वारिणा ।
प्रोक्ष्य च तण्डुलं पश्चात् द्रव्याणि प्रोक्षयेद् बुधः ॥
आसनं कल्पयित्वा तु गन्धपुष्पादिभिः क्रमात् ।
देव्यास्तु दुन्दुभिन्तत्र न्यस्त्वा संपूज्य च क्रमात् ॥
रक्तसूदगन्धपुष्पधूपदीप समन्वितम् ।
रक्तवस्त्रे तु परिधानं रक्तचन्दन चर्चितम् ॥
सर्वाभरणसंयुक्तं मातॄणामुत्सवेपि च ।
एकवीरं तदावाह्य एकवीरञ्च देशिकः ॥
प्. ७०)
आवाहयेत् ततो देवीं कलशेशं विचक्षणः ।
कलशस्य दक्षिणे भागे दुन्दुभिञ्चापि वासयेत् ॥
तस्यैव दक्षिणे भागे होमं कुर्याद् विचक्षणः ।
तस्मिन्नधिवासयेद् देवमाचार्यं मन्त्रविग्रहम् ॥
प्रभाते विमलादेवीं कलशस्य च देशिकः ।
निवेद्यन्तु प्रदातव्यं नक्तचारीडकेन तु ॥
कलशाय निवेदित्वा यथा चोद्भवमेव च ।
एवं कृत्वा समासेन ध्वजारोहण तत्क्षणात् ॥
नगरे पत्तने वापि ग्रामं ग्रामाग्रके पुरे ।
खेटके च तथा ब्रह्मन् आशीर्वादं समुच्चरन् ॥
अन्तरिक्षे तु ये देवा भूपातालेषु ये स्थिता ।
पर्वताग्रेषु ये देवा महामेरौ च संस्थिता ॥
नवखण्डेषु ये देवा समुद्राधिवासिनस्तथा ।
पादमार्गे च ये देवा सप्तद्वीपेषु ये स्थिता ॥
योगिनी शाकिनी चैव डंभिनी च विलासिनी ।
चारिणी मघवासि च गनीभक्त परायणी ॥
चतुष्षष्टिस्तथा देवा उपवासपरायणा ।
अंबुभक्षाश्च ये देवा वायुभक्षाश्च ये स्थिता ॥
उत्सवे एकवीर्याश्च वागच्छन्तु मनोहरा ।
एवमुक्तं क्रमेणैव दुन्दुभेस्ताडनं कुरु ॥
प्. ७१)
शतकोटि सहस्राणि प्रेतवेतालकास्तथा ।
आयुष्मिकसहस्राणि पिशाचायास्तु जातयः ॥
आगछन्तु महादेव एकवीर्युत्सवे शुभे ।
नानाकोटि सहस्राणि ये शिष्टा सिद्धजातयः ॥
अष्टकोटि सहस्राणि अष्टकोटि पिशाचका ।
अष्टकोटि गणास्सर्वे आगछन्तु महोत्सवे ॥
एकवीर्युत्सवे शुभ्रे सप्तकोटि शतानि च ।
अयुतञ्चैव पञ्चाशीन्मातृभेदाश्च ये स्थिता ॥
आगछन्तु महादेव्य एकवीर्युत्सवे परे ।
ब्रह्माविष्णुश्च रुद्रश्च द्वादशादित्य एव च ॥
वस्वष्टाप्सरसञ्चैव मुनये देव पर्वत ।
ब्रह्मादि समगापीयत् तथा चेन्द्रसमामताः ॥
एते चान्ये च बहवो एकवीर्युत्सवे परे ।
आगछन्तु महाशीघ्रमेकवीर्युत्सवार्थकम् ॥
इन्द्राग्निश्च यमश्चैव निर्-ऋती वरुणस्तथा ।
वायुश्चैव कुबेराश्च ईशानश्चैव एव हि ॥
आगछन्तु महादेव्य एकवीर्युत्सवे शुभे ।
असुराश्च सुराश्चैव गन्धर्वाश्च पिशाचकाः ॥
यक्षाश्च गरुडाश्चैव किन्नराश्च मरुद्गणाः ।
आगछन्तु महादेव एकवीर्युत्सवे शुभे ॥
प्. ७२)
नागाश्च भूतवेताल ब्रह्मराक्षस एव च ।
अनेकशोभा संयुक्ते ग्रहध्वज समाकुले ॥
पूर्णकुंभसमायुक्ते कदली तोरणैर्युते ।
धूपदीपसमायुक्ते दिव्यवीथि समन्विते ॥
सदासी गणसंकीर्णे सकीर्णे यो वीथी मातृशोभिते ।
नृत्तगीतसमायुक्ते दिव्यस्त्री परिशोभिते ॥
आहृतेनगरे चैव पत्तने खेटके तथा ।
ग्रामे ग्रामाग्रके चैव एकवीर्युत्सवं प्रति ॥
पुरोगाश्चैव हे देवा आगछन्तु यथावहम् ।
बलिग्राहन्तु वस्सर्वे यथाविधि विशेषतः ॥
कदल्योदनसंयुक्तमजनाडी शतं युतम् ।
पूरिखण्डाग्रसंयुक्तं अजानां रुधिरं युतम् ॥
मत्स्यमांससमायुक्तं अपूपखण्डमन्वितम् ।
तिलचूर्णसमायुक्तं लाजसक्तु समन्वितम् ॥
दुन्दुभिर्भ्रमणे काले बलिं सर्वत्र कारयेत् ।
दुन्दुभेश्च बलिं दद्यात् अजसप्त च पातये ॥
ग्रामवीथि पथे चैव दशदिक्षु बलिं हरेत् ।
आचार्यं पूजयेत् तत्र वस्त्र हेमांगुलीयकैः ॥
नैकाभरणजालैश्च गोभूमिकाञ्चनादिभिः ।
पूजयेत् तु विशेषेण आचार्यस्तु विशेषतः ॥
प्. ७३)
मातृदीक्षा समायुक्तं अभिषेक त्रयान्वितम् ।
एवं संपूज्य तं ब्रह्मन् भक्तियुक्तं दृढव्रतम् ॥
नवाक्षरेण मन्त्रेण सर्वक्षेत्र बलिं क्षिपेत् ।
अस्मतम्रव्येयतम्रं सर्वकार्येषु योजयेत् ॥
कलशन्तु त्रिशुलञ्च घण्टाडमरुकन्तथा ।
मातृघोषसमायुक्तं दिव्यस्त्रीभिस्समाकुलम् ॥
वितानध्वजसंयुक्तं धरजालसमन्वितम् ।
क्षुरिका खड्गसंयुक्तं सर्वालंकारशोभितम् ॥
ग्रामं वा नगरं वापि पत्तनञ्च पुरञ्च वा ।
ग्रामं नगरके वापि दुन्दुभेः प्रहरं कुरु ॥
अष्टदिक्षु चतुसन्धौ ब्रह्मस्थाने विशेषतः ।
पूर्वोक्ताश्चैव ये देवा तत्तत्स्थानेषु योजयेत् ॥
पूर्वोक्तञ्च बलिञ्चैव तत्तत्स्थाने तु दापयेत् ।
नवाक्षरेण मन्त्रेण स्वनामपदसंयुतम् ॥
बलिञ्च दापयेत् तत्र दशदिक्षु यथाक्रमम् ।
एकवृक्षे च प्रासादे चतुष्पत्रे शृंखलान्विते ॥
त्रिपथे द्विपथे चैव सर्वसन्धिषु निक्षिपेत् ।
वापी कूपतटाके च पुरद्वारे बलिं हरेत् ॥
श्मशाने बलिदानञ्च हस्तकृते बलिं क्षिपेत् ।
एवं समासतः प्रोक्तं बलिं गृह्णन्तु दुन्दुभिः ॥
प्. ७४)
पीठं तत्र प्रकर्तव्यं शास्त्रदृष्टेन कर्मणा ।
चतुश्शृंगं भवेद् दिक्षु एकहस्तसमन्वितम् ॥
विदिक्षु वर्तुलं कुर्यात् लक्षणेन समन्वितम् ।
हस्तान्धिकमुग्रतः प्रोक्तं मेखलात्रयसंयुतम् ॥
ब्रह्मस्थाने चतुर्हस्तं तदर्धं मध्यमं भवेत् ।
मेखलात्रयसंयुक्तं कारणेन समन्वितम् ॥
नगरद्वारदेशे तु साश्रञ्च पीठमुच्यते ।
देवालयानां पुरतः पीठं वै चतुरश्रकम् ॥
पूर्ववत् कारयेत् पीठ लक्षणेनसमन्वितम् ।
एवं पीठं प्रकर्तव्यं दशदिक्षु यथाक्रमम् ॥
एवं संक्षेपतः प्रोक्तं दुन्दुभिः भर्मणं परम् ।
देवानामागमार्थञ्च भूमिदानं तथैव च ॥
बलिञ्च निक्षिपेद् ब्रह्मन् यावद् देव व्रतान्तकम् ।
पूर्वोक्तञ्च बलिं तेषु पीठेषु च विनिक्षिपेत् ॥
नवाक्षरेण मतिमान् एकवृक्षबलिं ददेत् ।
ग्रामे च नगरे चैव पत्तनं खेटकं तथा ॥
उत्सवभ्रम कालोसि यात्राहोमन्तु कारयेत् ॥
इति ब्रह्मयामले उत्सवविधाने दुन्दुभिः प्रहरणं नाम सप्तदशपटलः
प्. ७५)
मातृशान्ति विधिं वक्ष्ये सर्वशान्तिकरं शुभम् ।
सर्वव्याधिहरं शुभ्रं सदाविजयवर्धनम् ॥
अकालमृत्युशमनं पुत्रपौत्रादि वर्धनम् ।
महाविघ्नप्रशमनं महाशान्तिकरं परम् ॥
सप्ताह त्रितये पूर्वे उत्सव प्रहेद् बुधः ।
तद्दिने चार्धरात्रे तु दुन्दुभेस्तु परिभ्रमे ॥
ब्रह्माविष्णुश्च रुद्रश्च सदाशिव शिवस्तथा ।
वसुभिश्चाष्टभिश्चैव द्वादशादित्य एव च ॥
रुद्र एकादशस्सर्वे अर्चयित्वा समन्वितान् ।
इन्द्राग्निश्च यमश्चैव निर्-ऋती वरुण वायवः ॥
सोमेशानगणास्सर्वे आगछन्तु महोत्सवे ।
शुचिष्टा च पिशाचाश्च भूतवेताल जातयः ॥
कूश्माण्डगुह्यका नागा सिद्धा यक्षामरुद्गणाः ।
विद्याधराश्च गन्धर्वा आगछन्तु महोत्सवम् ॥
भूलोके च यथा देव भुवर्लोके च देवता ।
स्वर्लोके च ये देव महर्लोके च देवता ॥
जनलोके च ये देवा तपो लोके च देवता ।
सत्यलोके च ये देवा आगच्छन्तु महोत्सवम् ॥
अतलादिषु पाताले आगच्छन्तु महोत्सवम् ।
दिव्यन्तरिक्ष ये देवा भूपातालेपि ये स्थिता ॥
प्. ७६)
आगछन्तु च ये देवा एकवीर्युत्सवार्थकम् ।
गिरिकन्दरदुर्गेषु श्मशाने वन देवता ॥
प्रासादे गर्भगेहे वा प्राकारे परिवारके ।
गोपुराभ्यन्तरे देवा आगछन्तु महोत्सवम् ॥
दुन्दुभिं प्रहरेद् देवीं तद्रात्रौ बलिदापयेत् ।
ध्वजमारोपयेद्धीमान् दश्विहन्तं दिनेपि वा ॥
सप्ताहे च तथा कुर्यात् मूलमन्त्रेण दापयेत् ।
चन्दनं चम्पकञ्चैव क्रमुकनालिकेरकम् ॥
याज्ञिकं वेणुदण्डं वा प्रासादद्विगुणोच्छ्रयम् ।
पञ्चदण्डाश्च पुरतय ध्वजानां विधीयते ॥
उत्सवस्य तु पूर्वे तु सप्तार्थे मंगलांकुरम् ।
बलिभ्रमणवेलायां वाममार्गेण गम्यताम् ॥
एहिकामाद्रि फलदं बलिं सर्वत्र दापयेत् ।
शान्त्यर्थ सर्वमार्गेण अपसव्येन पुष्टिदम् ॥
तस्मात् सर्वप्रयत्नेन वाममार्गेण गम्यताम् ।
पालिका घटिका चैव शरावा त्रिविधा भवेत् ॥
प्रत्येकं नव गृह्णीयात् सप्ते वाथ समाचरेत् ।
तिलसर्षपमुद्गानि यवमाष कुलुत्थकम् ॥
प्रियंगुशिममाली च नव बीजैस्तु ।
नवाक्षरेण मतिमान् सजपत्वा तु समाहितम् ॥
प्. ७७)
ताम्बुलन्दापयेत् तत्र सर्वेभ्यश्च यथाक्रमम् ।
आषाढे कृष्णपक्षे व अष्टम्यान्तु विशेषतः ॥
उत्सवं कारयेत् सम्यक् पूजयेत् तु सदेशिकः ।
त्रिकालं वा द्विकालं वा बलिभ्रमणयोरपि ॥
तस्य वामेन मार्गेण बलिभ्रमणकं क्रमात् ।
प्रथमं ब्राहिदिवसं द्वितीयमीश्वरीं विदुः ॥
त्रयकौमारि दिवसं चतुर्थं वैष्णवी तथा ।
पञ्चमी पञ्चदिवसं षष्ठीमिन्द्राणिरेव च ॥
सप्तमं भद्रकाली च दिवसं बलिमुच्यते ।
शतद्रोणि तदर्धं वा तदर्धं वा तदर्धकम् ॥
षष्ठद्रोणमथा चैव चतुर्द्रोणमथापि वा ।
द्वयद्रोणमथा चैव कन्यसं शिवमेव च ॥
आढकेनैव वासिद्धं शालितण्डुलसिद्धकम् ।
श्वेतपद्मसमायुक्तं गन्धोकसमन्वितम् ॥
पायसेन बलिं दद्यात् ब्रह्माणी दिवसे बुधः ।
श्वेतार्क कुसुमैर्युक्तं कृसरान्नन्तु संयुतम् ॥
बलिमेतद्विजानीयान्माहेग्री दिवसं क्रमात् ।
कुमुदोत्पलपुष्पन्तु हरिद्रान्नसुदोदकैः ॥
कौमारी दिवसे कुर्यात् एकचित्तो सदा ददेत् ।
वैष्णवी तुलसी चैव गुलान्नन्तु बलिं ददेत् ॥
प्. ७८)
मञ्जिकामाषमन्नं च वाराही दिवसे युतम् ।
जातिपुष्पन्तु मुद्गान्नं इन्द्राणी बलिमुच्यते ॥
रक्तपंकजसंयुक्तं रक्तान्नं रक्तमिश्रकम् ।
चामुण्डी दिवसे कुर्यात् विद्वान्मन्त्रेण मन्त्रितम् ॥
नवाक्षरेण मन्त्रेण तत्तन्नाम समन्वितम् ।
तत् तद् दिने बलिं दद्यात् तत् तन्मुद्रां प्रदर्शयेत् ॥
चतुष्पथे त्रिपथे च द्विपथैक पदन्ददेत् ।
नव पीठे च दातव्यं ग्रामद्वारे तथैव च ॥
एकवृक्षे तटाके च प्राकारे दीर्घिकेषु च ।
शिवालये सभास्थाने विष्णुस्थाने च दापयेत् ॥
दुर्गाज्येष्ठालये चैव आर्यस्थाने तथैव च ।
श्रीस्थाने स्कन्दस्थाने च विघ्नस्थाने विशेषतः ॥
बौद्धस्थानन्तु कर्तव्यं अर्हस्थाने तथैव च ।
इन्द्राग्नि यमस्थाने निर्-ऋति वरुण वायवः ॥
सोमेशानके चैव क्रमाद् दत्वा बलिं ददेत् ।
कन्यायां दर्शने चैव ब्राह्मणानान्तु दर्शयेत् ॥
भिन्ननासिकयश्चैव चक्रवाकस्तथैव च ।
अत्र चेवेतरादेव्य दूत्यश्चैव स योगिनीम् ॥
एतान्नदृष्टमात्रेण बलिं सर्वत्र दापयेत् ।
परिभ्रमणवेलायां मुद्रानृत्तं समाचरेत् ॥
प्. ७९)
तत् तद् दिनेषु कर्तव्यं तत् तन्मुद्रां समाचरेत् ।
अन्यथा कारयेद् यस्तु व्याधिशोकभयं भवेत् ॥
ब्रह्माणी दिवसे कुर्यात् ब्रह्माणी क्रीडमेव च ।
माहेशी दिवसे चैव माहेशी क्रीडमेव च ॥
कौमारी तद् दिने चैव तत् क्रीडानां समाचरेत् ।
वैष्णवी दिनमेवन्तु वैष्णवी क्रीडमुच्यते ॥
वाराही दिवसेनैव वाराही क्रीडमेव च ।
इन्द्राणी दिवसे कुर्यात् इन्द्राणी क्रीडकारयेत् ॥
चामुण्डी दिवसे कुर्यात् चामुण्डी क्रीडकारयेत् ।
एकवीरीं ततः कृत्वा कामरुद्रान्तु कारयेत् ॥
कैलासमुद्रया कुर्यात् चण्डिकामुद्रया कुरु ।
तत् तद् देव न वा कुर्यात् मुद्रा नृत्तं यथा क्रमम् ॥
मुद्रा नृत्तं तु कर्तव्यं हासनक्रीडनादिशेत् ।
मुद्रानृत्तं विशेषेण कारयेत् सर्वयत्नतः ॥
नृत्तकस्तु शिवं प्रोक्तं पाठकस्तु पितामहः ।
प्रेक्षं भद्रकालादि तस्मात् तु पुत्रकस्तथा ॥
* * * * * चैव तस्मात् पादशिवस्मृतः ।
शिवपादे समुत्पन्नं तेन पादप उच्यते ॥
सर्वशान्तिस्थितान्यत्र मुद्रानृत्तं तु कारयेत् ।
ग्राममध्ये प्रकर्तव्यं महामुद्रां समाचरेत् ॥
प्. ८०)
सुभिक्षं क्षेत्रमारोग्यं पुत्रपौत्र विवर्धनम् ।
तस्मात् सर्व प्रयत्नेन ग्राममध्येषु कारयेत् ॥
मुद्रालक्षणमेवोक्तं अयागमधुना शृणु ।
करकञ्चाक्षमाला च ब्रह्माणी चांगमुद्रया ॥
हरिणं परशुञ्चैव माहेशी चांगमुद्रया ।
वज्रशक्ति धरञ्चैव कौमारी चांगमुद्रया ॥
शंखचक्रधरञ्चैव वैष्णवी चांगमुद्रया ।
हलञ्च मुसलञ्चैव वाराही चांगमुद्रया ॥
वज्रशक्ति धरञ्चैव इन्द्राणी चांगमुद्रया ।
शूलखड्गधरञ्चैव कट्वांगं नागपाशकम् ॥
केटकञ्च कपालञ्च घण्टा डमरुकं तथा ।
अंगन्तु चंडिकानान्तु इदानीं शृणुमुद्रिकाम् ॥
नृत्तकाले प्रयोक्तव्यं एषां सर्वात्मना बुधः ।
लोहेन कारयेत् सर्वं मत्सवांग यथाक्रमम् ॥
पञ्चरंग त्रिरंगं वा एकरंगमथापि वा ।
स्त्रीणां नृत्तं प्रकर्तव्यं गेयवाद्य समायुतम् ॥
रथे वा कूटयन्त्रेण प्रतिमा सप्तदापयेत् ।
हंसोक्षहञ्च गारुढं हरिनागपिशाचकम् ॥
स्वस्वेनायुध मुख्येषु पार्श्वे स्थाप्य विशेषतः ।
प्रत्येकं कूटयन्त्रं स्थापयेत्सुसमाहितः ॥
प्. ८१)
नवनाट्य बलिञ्चैव यत्पुस्त्वास्तु गम्यताम् ।
नैत्यकूटबलिञ्चैव धर्मे ध्वजसमायुतम् ॥
क्षरिका पाणिनस्सर्वे तत्पुरस्तात् तु गम्यताम् ।
देव्या ध्वजान्तरे यस्तु मार्गोच्छेदं यथा भवेत् ॥
गजं वा तुरगं वापि उष्ट्रवो महिषन्तु वा ।
नराणामरुणञ्चैव वनसूकरमाविकम् ॥
कुक्कुटाश्च नवानान्तु छेदितं देवता पुरा ।
तन्मार्गे यदि छेदं स्यात् नवहत्या सदा बुधः ॥
हविकल्पेन भावे तु हुत्वा देवान्निवेदयेत् ।
ब्राह्मणाक्षत्रिया वैश्या स्त्रियामन्नं सभैरवम् ॥
तन्मार्ग यदि छेदं स्याद्धन्तव्यं शास्त्रवित्तकैः ।
बौद्धमार्षतं वापि संन्यास व्रतधारिणं ॥
शैवं पाशुपतं वापि इति (यदि) मार्गन्तु लंघयेत् ।
नमस्कृत्वा विधानेन कर्तव्यन्तु सदा बुधः ॥
एवं परिभ्रमे ग्रामे नगरे पत्तनेपि वा ।
नगरे कुञ्जरे वापि तीर्थे वापि समाहितः ॥
नाना जनसमायुक्तं नानाक्रीडसमन्वितम् ।
नाना कुहक संयुक्तं नानाविद्या समायुतम् ॥
नाना चित्रसमायुक्तं नानाविध समाकुलम् ।
नानाध्वज समायुक्तं नानायोगिनि संकरम् ॥
प्. ८२)
नानाब्राह्मण संयुक्तं नानामेषसमाकुलम् ।
नानागजसमायुक्तं नानातुरगसंयुतम् ॥
नानाराजसमायुक्तं नानाशास्त्रसमाकुलम् ।
एकाहं त्र्यहञ्चैव पञ्चाहे सप्तमे दिने ॥
एवं देव्यास्तु चैवोक्तं नवाहं वापि कारयेत् ।
अथवा षोडशाहं वा मासमेकन्तु कारयेत् ॥
बलिभ्रमणवेलायां यात्राहोमन्तु कारयेत् ।
अपामार्गसमिद्भिस्तु अष्टोत्तरशतं हुतम् ॥
आज्येनाष्टरशतं हुत्वा त्वष्टशतं हुतम् ।
अष्टमे दिवसे रात्रौ रक्षां कृत्वा तु बंद्धयेत् ॥
आचार्यं पूजयेत् तत्र अजं वा महिषन्तु वा ।
अजं विन्द पशुं वापि प्रतिसरं बन्धयेत् तथा ॥
तत्पश्चात् पञ्चविंशैर्वा सप्तचाचैकमेव वा ।
पशुं निबंद्धयेत् सूत्रं रक्तसूत्रं विशेषतः ॥
तत्रादौ जागरं वापि ग्रहे वा आलये बुधः ।
कलशं स्थापयेत् तत्र रक्तवस्त्रेण वेष्टयेत् ॥
कलशे वामभागे तु रक्षासूत्रं न्यसेद् बुधः ।
शालिमध्ये न्यसेत् सर्वमेकैकं पञ्चद्रोणकम् ॥
तदर्धं तण्डुलं ग्राह्यं पद्ममष्टदले न्यसेत् ।
सूत्रं नवाक्षरं न्यस्य तच्छक्ति कलशं तथा ॥
प्. ८३)
कलशोदकेन संस्पृश्य सूत्रेणैव तु बन्धयेत् ।
बन्धयित्वा तु सूत्रं वा पशुना रक्षयेद् बुधः ॥
प्रासादे तु बलिं दद्यात् पूर्वोक्त विधिना बुधः ।
इक्षुखण्डसमायुक्तं रक्ततोय समन्वितम् ॥
मध्याह्ने दापयेत् तत्र सर्व दिक्षु यथाक्रमम् ।
आतपे तु पशुं हत्वा यथाविधितुनु क्रमात् ॥
रक्तं वै मांसखण्डञ्च तद् देव्यान्तु निवेदयेत् ।
एवं शान्तिविधिं प्रोक्तं पश्चात् पशुविधिर्भवेत् ॥
इति ब्रह्मयामले विद्यापीठावतारिते प्रतिष्ठातन्त्रे एकाशीति विधानांगे
मातृशान्तिविधिं नाम अष्टादशपटलः
पशुविधिं प्रवक्ष्यामि सर्वकामार्थसाधनम् ।
गजं वा तुरगं वापि उष्ट्रं वा महिषन्तु वा ॥
कृते तु गजमेवोक्तं त्रेतायामहमुच्यते ।
द्वापरे उष्ट्रमेवोक्तं कलौ महिषमेव च ॥
महिषालाभे जनिं प्राक्तं अजालाभे तु पौष्टिकम् ।
सर्वलक्षणसंपूर्ण शुभलक्षण रक्षितम् ॥
सुरूपवन्ध्या प्रशस्तास्तु मां पेशलमुत्तमम् ।
शृंगहीने तु वर्जित्वा कर्णहीने तु वर्जयेत् ॥
नासिहीनै तथा चैव अरहीने तु वर्जयेत् ।
पशूनाञ्च शिथिले पुछ्रहीने तथैव च ॥
प्. ८४)
अतिवृद्धमति बाल कृशं वर्जं सदा बुधः ।
शृंगहीनन्तु दुर्भिक्षं बधिरं कुण्डहीनके ॥
मुखनासिक हीने तु दुर्भिक्षं कलहं भवेत् ।
खुरहीने प्राणिनाशं पंकुना पंकुजन्मनः ॥
काणे काणत्वमाप्नोति तथाग्रे कुक्षिरोगकम् ।
पुच्छहीने च दारिद्र्यं अतिवृद्धिं मृतिर्भवेत् ॥
बाला पञ्चवर्षे तु मध्यमा ।
सप्तवर्षा भवेद् वृद्धा तदूर्ध्वमतिमृद्धिदा ॥
एतान् परीक्ष्य यत्नेन सपशुं शोधयेद् बुधः ।
पायसं स्नापयेत् पूर्वं दधिना तु तथैव च ॥
स्नापयित्वा घृतेनैव स्नाप्यता तंबुनाबुधः ।
गन्धाम्बु स्नापयेत् पश्चात् गन्धपुष्पादिनार्चयेत् ॥
अर्घ्यपाद्याचमनीयञ्च पञ्चरत्नाम्बुजा बुधः ।
मात्रेसोत्कृतां सृष्ट्वा स्पृष्ट्वा स्पृष्ट्वा तु देशिकः ॥
अकारादिक्षकारान्तं सप्तवर्गं क्रमान् न्यसेत् ।
शिरो फालभ्रुवौ कीर्णे नेत्रे नासिकपालयोः ॥
ओष्ठयोर्दन्तपंक्तौ च जिह्वा च चिबुकं तथा ।
येषु तेनैव सर्वेषु अवर्गं विन्यसेत् पुनः ॥
कण्ठे ग्रीवे तथा स्कन्धे वारौ हृदि विशेषतः ।
कवर्गं विन्यसेन्मन्त्री एषु स्थानेषु पूर्ववत् ॥
प्. ८५)
चवर्गा च टवर्गा च चतुष्पादेषु विन्यसेत् ।
शृंगयोन्यति पृष्ठौ च गुह्यस्थानस्तनेषु च ॥
नासे पुच्छाग्र पाने च ककुत्स्थाने न्यसेत् क्रमात् ।
सास्रमृत्समेदोस्थि मज्जशुक्लादि धातुषु ॥
ईरुते अश्रके चैव नवबीजं क्रमान् न्यसेत् ।
पयसा विन्यसेत् पश्चात् हुंकारं सर्वविन्यसेत् ॥
शृंगयो ब्रह्मविष्णुश्च रुद्रस्सदाशिवस्तथा ।
वसवश्चाष्टभिश्चैव रुद्रमेकादशादि च ॥
आदित्य द्वादशप्रोक्ता अश्विनौ द्वौ प्रकीर्तितौ ।
ब्राह्मं माहेश्वरी सन्ध्या यज्ञाय वासु * * * ॥
* त्तिकरली चण्डमहेशाष्टाक्रमणसेत् ।
वामदेवी च रुद्री च ज्येष्ठी काला तथैव च ॥
कलविकरणी चैव बलविकरणी तथा ।
बलप्रमथिनी सर्वभूतदमनोन्मनी ॥
शिराद्र पादयोश्चैव क्रमाद्विन्यस्य देवता ।
गन्धोदकं ततो दद्यात् नवाक्षरेण बुद्धिमान् ॥
वस्त्रे युग्मे संपूज्य प्रणवेन तु दापयेत् ।
हारञ्च कटिसूत्रञ्च कुण्डलं मकुटं तथा ॥
निवेद्यं दापयेन्मन्त्री श्वेतपीतञ्च कृष्णकम् ।
कर्णे मन्त्रं विदेन्मन्त्री नवाक्षरसकृत् सकृत् ॥
प्. ८६)
पादस्थाने खनेत् कूपं तत्र स्थाप्य पशुं बुधः ।
आगछ पदं तत्रैव तत्र स्थाप्य पशुं बुधः ॥
देव्याचाभिमुखे स्थाप्य चतुर्दण्डी तदन्तरे ।
बिल्वं वा खदिरं वापि पञ्चहस्तं प्रमाणतः ॥
षोडशांगुलनाहन्तु अग्रे पद्माकृतिर्भवेत् ।
पत्रं कर्णिकायुक्तं स्यात् यत्नाकारं समं तथा ॥
सूपं संस्थापयेत् तत्र देव्याश्चैव पुराकृतम् ।
पशुं संवेष्टयेत् तत्र बलरजाति संयुतम् ॥
नालिकेरस्तु चर्मन्तु यन्त्रयित्वा तु रज्जुभिः ।
कनिष्ठांगुल परीणांहंत्रीरावृत्ति क्रमेण तु ॥
निच्छिन्द्रेंवजयेत् तत्र नागपाशमनुस्मरन् ।
कुशवज्रसमायुक्तं सापकं विरतैर्युकम् ॥
विद्वान् संसृष्टमात्रेण अन्नं पाञ्चमरुज्जकैः ।
सव्यापसव्यमात्रेण क्रामयित्वा तु सापकम् ॥
पश्चात् खड्गं गृहीत्वा तु खड्गशास्त्रविचारकः ।
खड्गदेवासुरे लक्ष्मी पद्मे ब्राह्मणदेवता ॥
घण्टाया विघ्नदैवत्वं शुद्धाशे विष्णुदैवतम् ।
कटिकास्कन्द दैवत्यं यारयोश्चन्द्रसूर्ययोः ॥
मध्यमे रुद्रदैवत्यं अग्रे संहारकालिकाम् ।
इत्यन्तु खड्गदैवत्यं पूजयेत् खड्गदेवताम् ॥
प्. ८७)
ओं खं खड्गाय शत्रसंहाराय नमः ।
पशूनां सर्वकर्णे तु जीवन्मुक्तेति मन्त्रतः ॥
ओं पशुजीव मुक्तिप्रदे देवी सायुज्य देहं स्वाहा ।
एकेन प्रहरेणैव ग्रीवाश्चेदविशारदः ॥
शतमर्धं तदर्धं वा चोत्तमन्तु प्रशस्यते ।
महाबलि प्रकारेण वधं पीठे बलिं क्षिपेत् ॥
तद्भागं प्रोक्षयित्वा तु गन्धादीनां तु पूजयेत् ।
वस्त्रयुग्मेन संपूज्य स्वरूपप्रियदर्शनम् ॥
यथालाभो पशुं छित्वा तथा लाभो फलं भवेत् ।
तत्पशुं जीवमुक्तन्तु सद्यस्सायुज्यमाप्नुयात् ॥
इत्येते बलिमुद्दिश्य कर्तॄणान्तु फलं शृणु ।
सर्वसंपत्करं भद्रं जयदं सर्व सिद्धिदम् ॥
रोमरोमेषु कल्पं वा स्वर्गलोके महीयते ।
सर्वरोम समाप्तेषु पश्चात् सायुज्यमाप्नुयात् ॥
ब्राह्मणादि क्रमेणैव पशुं हत्वा विशेषतः ।
अन्येषाञ्चैव जातीनां पशुच्छेदं न कारयेत् ॥
छेदने चैव तत्रैव राजराष्ट्रं विनश्यति ।
प्रायश्चित्तं प्रकुर्वीत पुनश्शान्तिं समारभेत् ॥
सर्वलक्षणसंपूर्णं सर्वावयवशोभितम् ।
एवं लक्षणसंयुक्तं तंभदछेदयेत्पुनः ॥
प्. ८८)
ग्रीवे तु प्रहरेन्मन्त्री तद्रक्तं विनिवेदयेत् ।
वसन्दृष्ट्या भवेत् तत्र प्रायश्चित्तं समाचरेत् ॥
पुनः पशुं हुनेत्तत्र उदापूर्वमूदीरकम् ।
होमं कृत्वा तु मन्त्रज्ञस्तद्दोषशमनाय च ॥
मण्डलं कारयेत् तत्र त्रिभिर्वर्णैर्लिखेद् बुधः ।
चतुरश्रं बार्ह्यतो लिख्य शूलेनैव सुभूषितम् ॥
मध्ये पद्मं समालिख्य अष्टपत्रं सकर्णिकम् ।
मातृन् वै पूजयेत् तत्र गन्धपुष्पञ्च धूपकैः ॥
कलशं नवकं स्थाप्य सापिधानं सकूर्चकम् ।
संज्ञारक्त समायुक्तं नवाक्षरेण मन्त्रितान् ॥
व्योमं पारशवं कृत्वा चत्वस्तु चतुर्दशी ।
मातृदीक्षा क्रमञ्चैव परं पर्यायमेव च ॥
अन्यत्कर्ण न कर्तव्यं यामलाचारसंयुतम् ।
समयी पुत्रकश्चैव साधकाचार्य एव च ॥
चित्रकं पारशैव स्यात् पुत्रकाणां शिवद्विजः ।
मातृदीक्षा समायुक्तं चतुर्वर्णन्तु योश्रकम् ॥
आदौ पारशवाश्चैव नित्यं देव्यास्तु पूजकाः ।
दीक्षिता कर्मयोग्यानां पारशैव विशेषतः ॥
ब्राह्मणान् शूद्रकन्यायाम्मन्त्रयुक्तेन संग्रहः ।
जातस्तयोश्च जात्यादावशक्तः पारशवस्तथा ॥
प्. ८९)
षोडश क्रियया युक्तं सर्वसंस्कारसंयुतम् ।
मातृदीक्षा च कर्तव्यं जन्मापारशवस्मृतः ॥
अन्येषाञ्चैव योग्यानां सर्वेषान्तु विशेषतः ।
न दीक्षितश्च यत्कर्मं तत्कर्मं निष्फलं भवेत् ॥
तस्मात् सर्वप्रयत्नेन पारशैव न पूजनम् ।
होमं कृत्वा विशेषेण चतुर्दिक्षु समं तथा ॥
रक्ता कराली चण्डाक्षी महोच्छिष्टा पृथक् पृथक् ।
खदिराश्वत्थ बिल्वञ्च वटश्चैव चतुर्दिशम् ॥
पृथगष्टोत्तरशतं ब्रह्मा वै त्वेकविंशति ।
समिधाज्य चरुं लाजं सर्षपञ्च यवन्तिलम् ॥
मुद्गञ्च वैणवञ्चैव श्री पत्रं कदलीफलम् ।
तत् तन् मन्त्रेण होतव्यं चतुर्दिक्षु यथाक्रमम् ॥
नवाक्षरेण मन्त्रेण समिद्द्रव्येण होमयेत् ।
कुलविद्या विधानेन पश्चाद् ग्राम परिग्रहे ॥
सप्ताहे त्रिदिने वापि कारयेदुत्सवं क्रमात् ।
अथवा एकरात्रं वा ग्रामे सम्यक् परिभ्रमेत् ॥
भ्रमणान्ते विशेषेण पूर्वोक्त विधिना हुनेत् ।
पूर्वं पद्मविधि कृत्वा स्नपनं कारयेद्बुधः ॥
स्नपनं कारयित्वा तु स्नपनोक्तविधानतः ।
ब्राह्मणान् भोजयेत् तत्र यथावित्तानुसारतः ॥
प्. ९०)
दीनानां कृपणानाञ्च अन्नपानादि दापयेत् ।
गर्भदोषोद्भवे तत्र एते नैव तु शाम्यति ॥
अवन्न कुर्यादज्ञानात् मृत्युदोषं भविष्यति ।
दुर्भिक्षं कलहं घोरं अनावृष्टिर्भविष्यति ॥
गर्भिणी वयदोषार्थं क्रिया चैषा प्रकीर्तिता ।
एवं कृत्वा विधानेन सर्वशान्तिर्भविष्यति ॥
धनमाय शुचौ * * * प्रभामतुलं भवेत् ।
हृद्देशं प्रणवेनैव षट्कारेण तु गृह्यताम् ॥
फट्कारं मुखदेशे तु हुंकारेण शिरस्तथा ।
सदलन्तद्वये नैव पार्श्वे ह्री मां समन्त्रितम् ॥
षोडशाक्तेन बीजेन स्वाहा प्रणवयोजितम् ।
तस्मात् समृद्धते मन्त्री यान्तेजं वा स्थितं हरेत् ॥
सर्वांगन्तु हरेन्मन्त्री नवाक्षरेण मन्त्रितम् ।
सं सं दृश्य मतिमान् मूलमन्त्रेण वाचयेत् ॥
वाचयित्वा विधानेन योजयेन् मूलविद्यया ।
तच्छेषं होमयेन्मन्त्री नवाक्षरेण शतं बुधः ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव चेन्द्राणी चामुण्डी वीरभद्रकम् ॥
गणेशश्चैव तत्क्षेत्रं लोकपालास्तथैव च ।
पिशाच प्रेतभूताश्च कूश्माण्डा गुह्यकास्तथा ॥
प्. ९१)
गन्धर्वा किंनरा सिद्धा सर्वेभ्यो बलिदापयेत् ।
मूलमन्त्रेण मन्त्रज्ञो बलिमेषां विनिक्षिपेत् ॥
चतुष्पथे त्रिपथे वापि तटाके क्षेत्रदीर्घिके ।
प्राकारे चालये चैव श्मशाने चैत्यके बुधः ॥
हुतशेषं भवेत् सर्वं भक्तियुक्तो दृढव्रतः ।
रक्तान्नञ्च प्रदातव्यं परियुक्तेन वै बुधः ॥
बलिं दद्याद् विधानेन रक्त भाण्डं त्यजेद् बहिः ।
ग्रामसीमा बहिर्वापि कूपे स्थाप्य च मन्त्रवित् ॥
पश्चाद्वा पांसुभिर्धीमान् कुण्डञ्चैव समुक्षिपेत् ।
कन्यकां भोजयेत् तत्र एकविंशति संख्यया ॥
एवं पशुविधिः प्रोक्तो लक्षणन्तु प्रशस्यते ।
इति ब्रह्मयामले शतसहस्रसंहितायां पशुविधिर्नाम एकोनविंशत् पटलः
अतः परं प्रवक्ष्यामि यथा वेदानुपूर्वशः ।
शान्तिकं पौष्टिकञ्चैव आभिचारकमारणम् ॥
ब्राह्मणादिक्रमेणैव शान्तिं कृत्वा यथाक्रमम् ।
असुराणां विनाशार्थं मातॄणामुद्भवं क्रमात् ॥
मातॄणां शान्तिकं कृत्वा सर्व भूहितं भवेत् ।
उत्तमामध्यमधम त्रिविधं पशुरुच्यते ॥
प्. ९२)
हस्तीहयनरं हत्वा उत्तमन्तु विनिर्दिशेत् ।
मध्यं माहिषमेवोष्ट्रं त्वधमं त्वजसूकरैः ॥
हरिणमुत्तमञ्चैव कुक्कुटञ्चाधमं भवेत् ।
ललाटे श्वेतवर्णन्तु संयुतं नेत्रगुग्गुलम् ॥
संकाशमांसं * ष्णसुदर्शनं भूस्वग्रीवहम् ।
बृहक्ष * * * * * बृहत् स्कन्द बृहच्छिरम् ॥
सूग्धमेधवर्णन्तु अतिकृष्णं विलोचनम् ।
ष्टपादं सुजारश्च वृत्तपादं सुनिहृतम् ॥
शृंगहीनं भवेद्ध्वाधि दृष्टिहीनं धनक्षयम् ।
शोत्रहीनं ह्यनावृष्टि पादहीनन्तु पंकुना ॥
पुच्छहीनं भवेन्मृत्यु अग्निदग्धं कुलक्षयम् ।
समपेक्ष्यं सदारिद्र्यं दन्तहीनं नृपाद् भयम् ॥
गर्भन्वत्र समुत्पन्नं प्रजानामहितक्षयम् ।
पुनश्शान्तिं प्रवक्ष्यामि योजयित्वा विचक्षणः ॥
पाषाणस्फटिकं कुर्यात् महामारी प्रकोपनम् ।
तस्य शान्तिं प्रकुर्वीत पुनश्शान्तिर्विधीयते ॥
प्रायश्चित्तं प्रकुर्वीत सर्वदोषन्तु शम्यति ।
महिषं सर्वांगयुक्तं सुदर्शनं सुशोभनम् ॥
पूर्वोक्तन्तु पशुं तत्र सर्वलक्षणसंयुतम् ।
शुभवर्णं शुभं प्रोक्तां वाहनां वर्णनावहम् ॥
प्. ९३)
कृष्णवर्ण सुभिक्षञ्च धूम्राभं वाहनं भवेत् ।
ललाटे नीलवर्णन्तु पशुं सुखमवाप्नुयात् ॥
गुग्गुलासदृशं नेत्र पुत्रलाभेन संशयः ।
ह्रस्वग्रीवञ्चिरायुष्यं सुलक्षणं सुखावहम् ॥
एवं विधिविधानज्ञो मातॄणां वृद्धिविवर्धनम् ।
पञ्चरात्रं पशुं शोध्य चरुणाप्युपलक्षयेत् ॥
मातॄणां तत्र संपूर्ण शुद्धस्नानमलीनकम् ।
पृथक् पञ्चाष्टवर्गेषु उत्तमं पशुरुच्यते ॥
बालाति वृद्धसंयुक्तं वर्जयित्वा विशेषतः ।
षष्ठाहं पूर्वरात्रे तु पशुं कृवाधिवासनम् ॥
वेदिमध्ये प्रकर्तव्यं मण्डलं चतुरश्रकम् ।
हुंफट्कारेति मन्त्रेण अष्टपत्रं सकर्णिकम् ॥
मध्ये पशं तथा व्याप्य सप्तरोहिणि मन्त्रतः ।
छेदयेन्मूलमन्त्रेण भक्तियुक्तो नरोत्तमः ॥
उत्सवादिषु सर्वेषु बलिकर्म समाचरेत् ।
वाहनं देवि यानस्य द्रस्यविधिरुच्यते ॥
इति ब्रह्मयामले शतसहस्रसंहितायां शान्तिविधिर्नाम विंशत् पटलः
प्. ९४)
अतः परं प्रवक्ष्यामि ध्वजारोहणमुत्तमम् ।
ध्वजस्य लक्षणं वक्ष्ये उत्तमाधममध्यमम् ॥
षोडशहस्तयुक्तं तु द्विहस्तार्धन्तु विस्तृतम् ।
मूले तु घटिकोपेतं किंकिणीख संयुतम् ॥
पार्श्वे कदलिकोपेतं तदग्रे तु द्विधाकृतम् ।
ब्राह्मणस्य ध्वजं श्वेतमुत्तमं तद्विनिर्दिशेत् ॥
त्रिशूलन्तु शिवञ्चैव कपालं कौशिकं तथा ।
नाराचं परशुञ्चैव सर्ववस्त्रं तथैव च ॥
मूलमध्ये तथान्ते च एतैश्चैव तु चांकितम् ।
श्वेतसूत्रसमुद्भूतं नैकचिसमन्वितम् ॥
एवं ध्वजोत्तमं प्रोक्तं मध्यमं द्वादशं भवेत् ।
पूर्ववत् कारयेद् ब्रह्मन् मध्यमञ्च ध्वजं क्रमात् ॥
पञ्चतालन्तु विस्तारं पञ्चवर्णन्तु समन्वितम् ।
क्षत्रियस्य ध्वजं प्रोक्तं रक्तसूत्रसमन्वितम् ॥
अधमं दशहस्तञ्च द्विहस्तञ्चैव विस्तृतम् ।
पूर्ववत् कारयेत् तत्र नानाचित्रसमन्वितम् ॥
वैश्यस्य पीतवर्णेन लक्षणेन समन्वितम् ।
अष्टहस्तसमायुक्तं द्विहस्तञ्चिव विस्तृतम् ॥
शूद्राणां कन्यसञ्चैव नैकचित्र समन्वितम् ।
पूर्ववत् कारयेत् तत्र पटञ्च कृष्णवर्णकम् ॥
प्. ९५)
कार्पासं ब्रह्मणः प्रोक्तं क्षौमन्तु क्षत्रियस्य तु ।
आपिंगं वैश्य शूद्राणां ध्वजानां परिकीर्तिता ॥
कराली तु लिखेत् तत्र पटे चैव हि बुद्धिमान् ।
ध्वजानां लक्षणं ह्येतदुत्तमम्मध्यमाधमम् ॥
ध्वजदण्डविधिं कुर्यात् उत्तमं मध्यमाधमम् ।
प्रासादाद्विगुणं प्रोक्तमुत्तमं दण्डमुच्यते ॥
चन्दनञ्चंपकञ्चैव मधुकं पनसं तथा ।
खदिरं देवदारुञ्च वकुलं बिल्वमेव च ॥
अशोकमनसञ्चैव श्रेष्ठवृक्षमुदीरितम् ।
मध्यमं * * * * * * * * नालिकेरकम् ॥
अधमं मुनि वृक्षं स्यात् क्रमुकं याज्ञिकं भवेत् ।
वैणवं तद्विजानीयात् मूलानाहमिहोच्यते ॥
एते वृक्षा प्रशस्ताश्च पूर्वोक्तलक्षणान्विताः ।
शतहस्तं तदर्धं वा विंशत्पञ्चदशं तथा ॥
द्वादशं हस्तदण्डं वा तथा लाभन्तु योजयेत् ।
वैणवं तद्विजानीयात् मूलेनाहमिहोच्यते ॥
षोडशांगुलनाहं स्यात् मध्ये चाष्टांगुलं भवेत् ।
तदग्रे तु तदर्धं स्यात् उत्तमं दण्डमुच्यते ॥
मध्यमस्य तदर्धं वा प्रासादस्य यथाक्रमम् ।
अष्टांगुलञ्च नागन्तु मूलं तस्य यथाक्रमम् ॥
प्. ९६)
एवं दण्डं समुत्पाद्य ध्वजमारोपयेद्बुधः ।
अथ दारुजं वापि ध्वजमारोपयेत्क्रमात् ॥
ध्वजमारोपयेत् प्रातः राष्ट्रन्तु विजयं भवेत् ।
मध्याह्ने राष्ट्रवृद्धिः स्यात् सायाह्ने तु नृणां शुभम् ॥
अर्धरात्रौ भवेद् ब्रह्म सर्वसम्पत् करं भवेत् ।
अग्नके पदवञ्चैव * * * श्चैव नाशयेत् ॥
द्रव्यर्थमंगलानान्तु दिव्य भूषण भूषणम् ।
असद्देव विनाशञ्च ऋषिदेव प्रमोदनम् ॥
शावमुक्ता तदाचार्य सर्वभूषणभूषितम् ।
ताम्बूलं दापयित्वा तु सर्वेभ्यश्च विशेषतः ॥
ध्वजमारोपयेत् तस्मिन् शास्त्रदृष्टेन कर्मणा ।
ध्वजारोप्य ध्वजं ब्रह्म यथाविधि पुरस्सरम् ॥
उपध्वजोच्युते तस्मिन् हस्तायामसमन्वितम् ।
इन्द्रे तु श्वेतवर्णं स्यात् आग्नेयं रक्तवर्णकम् ॥
याम्ये कृष्णोद्भवञ्चैव नैर्-ऋत्यान्धूम्रमेव तु ।
वारुणे तु तदाकारं वायव्यं पीतवर्णकम् ॥
सौमे तु सौवर्णाभं कुंकुमाभन्तु शंकरे ।
एवं दीर्घं निजं प्रोक्तं वेणुदण्डसमन्वितम् ॥
त्रयाणाञ्च ध्वजानाञ्च दीर्घजातं तथैव च ।
अथवा दारुदण्डञ्च तत्प्रमाणन्तु चोच्यते ॥
प्. ९७)
एवं कृत्वा समासेन नैवेद्यं दापयेद् बुधः ।
उत्तमञ्चैव नैवेद्यं द्रोणतण्डुलसंयुतम् ॥
पिशितन्तु तदर्धञ्च घृतप्रस्थसमन्वितम् ।
त्रयाणाञ्च ध्वजानाञ्च दध्नाञ्चोपदंशकम् ॥
कदलीफलसंयुतम् नालिकेरफलं तथा ।
गुलखण्डञ्च माषञ्च मुद्गमूलफलं तथा ॥
बृहती कारवल्लि च कूश्माण्डन्तु विशेषतः ।
लवणं मरीचिकञ्चैव स्नेहस्निग्धन्तु कारयेत् ॥
निवेद्यन्दापयेत् तत्र क्रमुपदं समिति स्मृतम् ।
मधुना चैव संयुक्तं पायसं दधिवर्जितम् ॥
स्वजाति देवं वेतालं खड्गहस्तञ्च दापयेत् ।
एवं हविर्निवेद्यञ्च ध्वजदेवाय देशिकः ॥
ताम्बूलं दापयेत् तस्मिन् ध्वजदेवं समर्पयेत् ।
एवं वै चोत्तमं प्रोक्तं हविश्चैव विशेषतः ॥
तदर्धं मध्यमं विध्यात् तदर्धञ्चासमं भवेत् ।
ओं खड्गहस्ताय विद्महे ध्वजदेवाय धीमहि ॥
तन्नो ध्वजः प्रचोदयात् ।
पैशाचीनां पदं पश्चात् तत्पश्चात्प्रचोदयात् ॥
एवं मन्त्रं समुच्चार्य सर्वं तत्रैव कारयेत् ।
दुन्दुभिं प्रहरेत् पूर्वं ध्वजं पश्चात् समुद्धरेत् ॥
प्. ९८)
ताम्बूलं दापयेत् तत्र सर्वेभ्यश्च विभक्तितः ।
कलशान्वेदिकायान्तु तण्डुले तु यथाक्रमात् ॥
तण्डुलं शालिभिः कृत्वा अष्टद्रोणैर्विशेषतः ।
पञ्चरत्नानि सूत्राणि तण्डुले सूत्रयेत् तथा ॥
तिर्यक् तथैव सूत्राणि सूत्रयेद् वै विचक्षणः ।
द्विपदं हृदये तस्मिन् चतुर्दिक्षु तथैव च ॥
मध्ये नवपदं पद्ममष्टपत्रं ञकर्णिकम् ।
यवैर्धात्यैर्विकिरणं चतुर्विस्तारमन्ततः ॥
तिलैश्च शोभितं पद्ममाढकेन विचक्षणः ।
पञ्चरत्नञ्च तच्छुद्धकलशे चैव तु विन्यसेत् ॥
सूत्रेण वेष्टितं रक्तमाम्रपल्लवशोभितम् ।
वस्त्रयुग्मं समायुक्तं गन्धोदकसमन्वितम् ॥
एवं कृत्वा तथा ब्रह्मन् नैवेद्यं दापयेत् पुनः ।
पूर्वोक्तञ्च बलिं दद्यात् कृत्वा देवं हृदान्तिकम् ॥
एवं कृत्वा समासेन कन्याभोजनमाचरेत् ।
कन्याश्च षोडशे पात्रैर्भोजयेत् पायसेन तु ॥
ध्वजस्योत्तरपार्श्वे तु क्षेत्रपालस्य पीठकम् ।
वृत्तपंक्ति त्रिकोणं वा चतुरश्रमथापि वा ॥
अथवा देव्यालयं स्यात् ऐशान्यां पीठमुच्यते ।
एकविस्तारमुच्छृत्य तावदेव तु वर्णकम् ॥
प्. ९९)
इन्द्रनीलप्रतीकाशं घोरदंष्त्र महोदरम् ।
दण्डहस्तं सुहस्ताक्षमूर्ध्वकेशं भयाननम् ॥
मेघाभञ्चैव सञ्चिन्त्य क्षेत्रपालबलिं क्षिपेत् ।
चतुर्विंशति वर्णैश्च मन्त्रस्याभ्यर्चनं भवेत् ॥
क्षेत्रस्य मन्त्राघं सर्वं क्षेत्रपालबलिं क्षिपेत् ।
दुन्दुभिः प्रहरं पूर्वं कृत्वा तत्र बलिं क्षिपेत् ॥
आदौ तु चांकुरं कृत्वा तदन्ते ह्यसिवासनम् ।
तदन्ते ध्वजमारोप्य तदन्ते भेरिताडनम् ॥
तदन्ते श्रीबलिं कुर्यात् तदन्ते चांकुरन्तथा ।
तदन्ते यागपूजा च तदन्ते श्रीबलिं तथा ॥
तदन्ते चोत्सवं प्रोक्तं तदन्ते स्नपनं कुरु ।
तदन्ते गुरुपूजा च शस्त्रदृष्टेन कर्मणा ॥
क्षेत्रपालबलिं वक्ष्ये यथाविधि पुरस्सरम् ।
शतप्रस्थैश्च पक्वं स्यात् तदर्धं वा विशेषेतः ॥
अजमांस युतं पक्वं तलचूर्णसमन्वितम् ।
गुलखण्डसमायुक्तमिक्षुखण्डसमन्वितम् ॥
कदलीफल संयुक्तं मध्वाज्येन समन्वितम् ।
एवं प्रहरणञ्चैव सर्व वाद्येन बुद्धिमान् ॥
तस्मात् सर्व प्रयत्नेन कुजवारबलिं क्षिपेत् ।
तद्वारात्पूर्ववारे तु ॥
इति ब्रह्मायामले वीरविधाने ध्वजारोहणविधिर्नाम एकविंशत्पटलः
प्. १००)
अथातस्संप्रवक्ष्यामि कुजवारबलिं शृणु ।
सर्वपापहरं राज्ञे सर्वसंपत्प्रवर्धनम् ॥
ब्राह्मणानां हितञ्चैव महामारी विनाशनम् ।
राजाराष्ट्रजयंञ्चैव पुत्रपौत्रविवर्धनम् ॥
गृहज्वरविनाशञ्च भूतदुष्ट विनाशनम् ।
महाशान्तिकरञ्चैव महावृष्टिविवर्धनम् ॥
राजसेना सुखार्थञ्च हस्त्यश्वनरवर्धनम् ।
तस्करान्नभयञ्चैव मातॄणां प्रीतिवर्धनम् ॥
तस्मात् सर्वप्रयत्नेन कुलवारबलिं क्षिपेत् ।
तद्वारात्पूर्ववारे तु रात्रौ सूत्रन्तु बन्धयेत् ॥
अष्टद्रोणैस्तु संसिद्धे पंकजं तत्र चालिखेत् ।
एवं कृत्वा विधानेन प्रोक्षयेन्मूलमन्त्रकम् ॥
तन्मध्ये कलशं न्यस्त्वा कृष्णमण्डलवर्जितम् ।
त्रिसूत्रं वेष्टयेत् तत्र गन्धोदक सुपूरितम् ॥
पञ्चरत्नसमायुक्तं वस्त्रद्वय विभूषितम् ।
एकवीरीं न्यसेत्कुम्भे मूलमन्त्रेण देशिका ॥
गन्धपुष्पञ्च दीपञ्च अर्घ्यञ्चरु निवेदयेत् ।
अजरक्तन्तु संपूज्य वामहस्तन्तु बन्धयेत् ॥
प्रभाते विमले शुद्धे परशेचनमारभेत् ।
द्विगुणमाराध्य यत्नेन शास्त्र दृष्टेन कर्मणा ॥
प्. १०१)
एवं कृत्वा विधानेन चरुलाज फलादिभिः ।
एकाहन्तु हुनेत् तत्र मूलमन्त्रेण देशिकः ॥
देव्यास्तु पुरतः कृत्वा कुण्डे वा स्थण्डिलेपि वा ।
मातॄणामर्चनञ्चैव मातृमन्त्रेण देशिकः ॥
होमं तत्र प्रकर्तव्यं तद्देशे तु हुनेत्क्रमात् ।
रक्तं मांसं घृतञ्चैव सर्षपञ्चतिलस्तथा ॥
लाजापूपादि संयुक्तमेकैकाष्टशं हुनेत् ।
भूतपीठं न्यसेन्मध्ये अजसप्तन्तु पातयेत् ॥
सकलं निष्कलं न्यस्य तद्रक्तं तु निवेदयेत् ।
मधुत्रयेणसंयुक्तं रुधिरं मध्यसंयुतम् ॥
मध्यमांससमायुक्तं कटके चैव निक्षिपेत् ।
एवं कृत्वा विधानेन योजयेद् देशिकोत्तमः ॥
शूलं ध्वजञ्च परशुं चान्नलिंगं क्रियाकरम् ।
कपालं डमरुञ्चैव रत्नव्याघादकन्तथा ॥
एतांश्च तान् समुद्धृत्य दीक्षिते परशैवके ।
क्षुरिकाहस्तसंयुक्तं बलिञ्चैव हि कारयेत् ॥
नानापटहसंयुक्तं नानावाद्यसमन्वितम् ।
डमरुकध्वनिसंयुक्तं सर्व * * समन्वितम् ॥
मातृभक्ति समायुक्तं माहेश्वरि समन्वितम् ।
समयी साधकश्चैव पुत्रकाचार्यकस्तथा ॥
प्. १०२)
क्षुरिकाश्रित हस्तस्तु संगञ्चैव मनोहरे ।
कुजवारबलिं शीघ्रं मध्याह्ने च विनिक्षिपेत् ॥
ग्रामे वा नगरे वापि केटके कुब्जकेपि वा ।
द्विपथे त्रिपथे कोष्ठे वल्मीके च तथैव च ॥
चतुष्पथे श्मशाने च बलिं सर्वत्र दापयेत् ।
बलि भ्रमणवेलायां नराणां लंघनं न तु ॥
त्रिशूलं लंघनं कृत्वा धानमोक्षमवाप्नुयात् ।
स्त्रीणाञ्चैव तु विप्राणां लंघने तत्र संभवे ॥
निरपेक्षञ्च कर्तव्यं कृत्वा चैव बलिं भ्रमे ।
वैश्य क्षत्रिय लंघे तु मांसच्छेदन्तु कारयेत् ।
श्वानमार्जारमहिषा खरोष्ट्राश्च तथैव च ।
मूलमन्त्रेण मन्त्रज्ञ पशूनाञ्चैव घातयेत् ॥
एवं बलिं क्षिपेद् ब्रह्मन् शृणु शास्त्रस्य निश्चयः ॥
इति ब्रह्मयामले शतसहस्रसंहितायां कुजवारबलिर्नाम द्वाविंशः पटलः
एकाहमुत्सवं वष्ये श्रूयतां कमलासन ।
पूर्ववन्मण्टपं कृत्वा तोरण ध्वजसंयुतम् ॥
वैदिका चतुरश्रन्तु चत्वारिंशत्कुलं क्रमात् ।
तद्बाह्ये द्वारकेक्षुदण्डन्तत्रैव कारयेत् ॥
प्. १०३)
रत्निमात्रं प्रमाणानि चतुरश्रसमन्तथा ।
कृष्णपक्षे प्रशस्तन्तु अंगारक चतुर्दशी ॥
रोहिण्यामुत्सवं श्रेष्ठं अंगारकदिनैर्युतम् ।
ब्रह्मणे वैष्णवे पुष्ये अंगारकदिनैर्युतम् ॥
प्रतिमासिनि कुर्वीत अंगारबलि निवेदयेत् ।
पूर्वाह्णे चार्चयेद् देवीं कूर्चान्नन्तु निवेदयेत् ॥
शान्तिहोमं प्रकूर्वीत देव्यग्नि विधिसंयुतम् ।
रक्तोदकं बलिं पूर्वं मध्याह्न बलिकर्मणि ॥
चरुमांसञ्च रुधिरं लाजानि च तुलानि च ।
कूर्च * * * * * आपूपानि च बहूनि च ॥
बलिद्रव्यञ्च युधञ्चैव अर्चयेन्मन्त्र पूर्वकम् ।
धूपदीपसमायुक्तं वितानं वस्त्रशोभितम् ॥
मधुध्वजसहञ्चैव पाशश्च मज्जकं तथा ।
खड्गगर्भिधनुस्संगैक्षुरिकै कृच शोभितम् ॥
बलिरक्षां प्रकूर्वीत नयेत् तत्र सदेशिकः ।
बलिपात्रमायुधम्मार्य मौनी व्रतपरायणः ॥
ब्रह्मचारी तपस्वी च शुचिविप्रसमासन ।
मन्त्रञ्च मातृकं न्यस्त्वा * * * * * शोभितम् ॥
सप्तमुद्रां प्रकुर्वीत तोरणानि च संज्ञया ।
क्षेत्रपालबलिं दद्यात् स्थापयेत् तद्विचक्षनः ॥
प्. १०४)
आलयन्तु परिभ्रम्य शन्नोगच्छन्त्यथाक्रमम् ।
ग्रामं वा नगरं वापि पत्तनं वा प्रदक्षिणम् ॥
ब्रह्मस्थाने तु प्रथमं ब्रह्मदेवि बलिं ददेत् ।
इन्द्रादीशानपर्यन्तं बलिं कुर्यात् समन्ततः ॥
देवी वेषधरो वापि मुद्रां वा बल्यनन्तरम् ।
चतुरश्रमण्डलं पूर्वमाग्नेयां योनिमाकृतिम् ॥
याम्यायामर्ध चन्द्रे तु नैर्-ऋत्यान्तु त्रिकोणकम् ।
वारुण्यां वर्तुलं विद्यात् वायव्यान्तु षडश्रकम् ॥
पद्ममष्टदलं सौम्ये ऐशन्ये चाष्टकोणकम् ।
हस्तमात्र प्रमाणानि मण्डलन्तु कारयेत् बुधः ॥
* चतुष्पथे चैव त्रिशूलञ्चैव दुर्गके ।
वापी कूपतटाकञ्च गोपुरञ्च तथैव च ॥
देवस्थाने सभास्थाने मण्टपे च विहारके ।
वनान्तरे संस्थाने वटप्लक्षश्मशानके ॥
नगरस्य चतुद्वारे एकवृक्षे शिवालये ।
बलिं दद्याद् विशेषेण स्वनाम्ना चाभिमन्त्रवित् ॥
मुद्राबन्धनमस्कारमर्चयित्वा पुनः पुनः ।
बलिमुद्रां ददेत् पश्चात् बलिमन्त्रमनुस्मरेत् ॥
यात्रा होमन्ततः कृत्वा पारशैवं विशेषतः ।
चतुष्टय जपित्वा तु चामुण्डा हृदयञ्जपेत् ॥
प्. १०५)
तदर्धरात्रे तत्काले देवी पूजा यदुत्तमम् ।
अष्टाह समहारावं बलिदानादनन्तरम् ॥
नवद्वयगुणावाहे * * * * * * * * ।
भनुने नाममन्त्रेण अर्चयित्वा यथाक्रमम् ॥
आस्यानाञ्चैव चार्घ्यञ्च पाद्यमाचमनीयकम् ।
अर्घ्यान्तमर्चयेद् विद्वान् बलिन् तत्रैव निक्षिपेत् ॥
श्मशानान्तानि सर्वाणि पूजयित्वा विशेषतः ।
रात्रौ तु बलिदानं स्यात् तत् तत्स्नपन मारभेत् ॥
विशेषहविषन्दद्यात् पशुं हत्वा निवेदयेत् ।
आचार्यं पूजयेद् विद्वान् वस्त्राभरणभूषणैः ॥
इत्थं कुर्यात् ततो विद्वान् सर्वदुःखविनाशनम् ।
सर्वतीर्थ फलं पुण्यं सहस्र गोदानकल्पकम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां एकाहोत्सवविधिर्नाम त्रयोविंशः
पटलः
एवं महोत्सवं कृत्वा वभ्रथं कारयेद् बुधः ।
पूर्णोपक्रमशो पूर्णे देव्यास्थाने विशेषतः ॥
मण्टपं गोमयेनैव चतुरश्रन्दश हस्तकम् ।
अंकुरं स्थापयेत् तत्र शालिनश्च न्यसेद् बुधः ॥
लूखलं विन्यसेत् तत्र समूलं तत्र विन्यसेत् ।
लूखलामुसलामध्ये त्वर्चयेत् तत्र देवयोः ॥
प्. १०६)
योगिनी विन्यसेत् तत्र गन्धपुष्पादि योजयेत् ।
देव्याया समुदाहृत्य पूर्णकर्मन्तु वादिशि ॥
द्विजान्नीवपेच्चूर्णमन्यथा दोषमाप्नुयात् ।
तच्चूर्णं स्थापयेत् तत्र मूलमन्त्रेण बुद्धिमान् ॥
परिवारः स्नापयेच्चैव तैलाभ्यंगमनन्तरम् ।
यजमानं पूजयेच्चैव सर्वेभ्यो वा शिरस्य च ॥
ग्रामं सम्यक् परिभर्म्य नदीस्नानं समाचरेत् ।
अनिन्दितां दिशं गत्वा तटाके वा विचक्षणः ॥
स्नानक्षेपविधानेन अष्टभिः कलशं क्रमात् ।
नदिस्नानं तदा पश्चात् रक्षासूत्रं विसृज्य च ॥
अलवृत्तागुरास्सर्वे स्नानं कुर्याद्ययेच्छया ।
स्नानाद्वामतिमान् सम्यक् दानं शक्तिविचक्षणः ॥
आलयं पुनरागम्य पुष्पयागं समाचरेत् ।
पञ्चवर्णैश्च कुसुमैः पूर्वोक्तमण्डलं लिखेत् ॥
मण्डले पूजयेत् सम्यक् मातॄन्वै मूलविद्यया ।
प्रभाते तु दिने रम्ये सर्वालंकारसंयुते ॥
कुतपे पात्रबलिं दद्यात् सर्ववर्णञ्चरुं बुधः ।
सुवर्णे रजते वापि ताम्रे वा कांसपात्रके ॥
नियुतैर्वायुतैर्वापि तथा पञ्चसहस्रके ।
सहस्रैरथवाप्यर्धे तथावर्धार्धरार्धके ।
प्. १०७)
तथा च स्नापयित्वा तु रक्ताम्बरविभूषितम् ।
रक्तगन्धानुलेपाञ्च तथा पाशांकुशं परम् ॥
खड्वांगं शंखचक्रञ्च हस्तं मुसलमेव च ।
वज्रं शक्तिपताकं च पद्मं स्वस्तिकमेव च ॥
एतैस्सर्वा यथाधारै कन्यका परिवेष्टितम् ।
ग्रामं वा नगरं वापि शनैः कुर्यात् प्रदक्षिणम् ॥
कृसरापूपसंयुक्तं त्वेतमन्नं तथैव च ।
रक्तान्नं पुष्पसंयुक्तं नवाक्षरेणमन्त्रितम् ॥
तत् तन्मन्त्रेणसंयुक्तं बलिं सर्वत्रदापयेत् ।
शिरसा धारयित्वा शनैः कुर्यात् प्रदक्षिणम् ॥
कृत्वा विधिना प्रविशेत् देव्याश्च तदनन्तरम् ।
स्नानं कृत्वा विशेषेण धूपदीप हविर्दिशेत् ॥
निवेदयेत् पृथुमन्त्रेण कुलपारशवस्तथा ।
भ्रंशो भारश्च चत्वारि तिलशालि प्रियंगुलम् ॥
सुशोभनं पूजयित्वा तत्र सर्वं निवेदयेत् ।
तत् तन्मुष्टिं गृहीत्वा तु होमं कृत्वा विचक्षणः ॥
साधकस्समिधायाञ्च * * * * * * * * ।
अष्टोत्तरशतं हूयात् मूलमन्त्रेण यत् तथा ॥
तदास्य होमविधिना तिलशालिप्रियंगुलम् ।
तन्मे नास्टशतं हूयात् सर्वशान्तिर्भविष्यति ॥
प्. १०८)
पुनर्वै होमशेषन्तु दशदिक्षुबलिं ददेत् ।
शेषं स्यात् क्षेत्रपालाय दापयेद् बलिमादरात् ॥
कन्यकां भोजयेत् पूर्वं यागान्ते द्विजभोजनम् ।
आचार्यं पूजयेत् पश्चात् वस्त्रहेमांगुलीयकैः ॥
परियष्टि परिचाराश्च तथा सर्वत्र पूजयेत् ।
एवं तालबलिं प्रोक्तं सर्वव्याधिविनाशनम् ॥
सुभिक्षं वर्धनञ्चैव पुत्रापौत्रविवर्धनम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां बलिविधिर्नाम चतुर्विंशत्पटलः
ईश्वर उवाच ॥
उत्स्वान्ते च ग्रामान्ते पश्चात् स्नपनमाचरेत् ।
चूर्णस्नानं पुराकृत्वा दधिस्नानं तथा कुरु ॥
सर्वगन्धसमायुक्तं रजनचूर्णसंयुतम् ।
लूखलामुसलाश्चैव वस्त्रयुग्मेन वेष्टयेत् ॥
चूर्णयेन्मूलमन्त्रेण देशिकः पुत्रशालिनाम् ।
पूजयेत् तत्र आचार्यं अंकुरेणैव चालंकृतम् ॥
चूर्णं सर्वं गृहीत्वा तु स्नपनं मूलविद्यया ।
पृथगीशीं ततः स्नात्वा पश्चान्मात्रसुपूजयेत् ॥
प्. १०९)
परिवारपिशाचाश्च योगपीठांश्च योगिनीम् ।
आचार्यं पूजयेत् पश्चात् यजमानं ततः कुरु ॥
पारंपर्याश्च पुत्राश्च सर्वेभ्यो वा शिरस्य तु ।
नदीस्नानं ततः पश्चात् निन्दिक सुदिशि व्रजेत् ॥
तटाकञ्च प्रकर्तव्यं महादिषु समाहितम् ।
जलाश्रयं समागम्य तण्डुलं वालुकैः कुरु ॥
सर्वान्नकलशैस्थाप्य पश्चात् स्नपनमाचरेत् ।
गन्धपुष्पसमायुक्तमक्षतैश्चापि संयुतम् ॥
हृदयेन तु मन्रेण रक्षासूत्रं विसर्जयेत् ।
अलूपत्तानरास्सर्वे स्नानं कृत्वा समहितः ॥
दानं कृत्वा यथाशक्ति गोभूमी काञ्चनदिशि ।
दाने तीर्थे फले चैव स्वर्गलोकमवाप्नुयात् ॥
आलयं पुनरागम्य स्नानभोगं समारभेत् ।
पञ्चवर्णमलंकृत्य पद्ममष्टदले न्यसेत् ॥
कर्णिका केसरोपेतं गन्धादिभिरथार्चयेत् ।
तन्मध्ये न्यसेच्छैवीं गन्धपुष्पचरुन्ददेत् ॥
स्नपनं कारयेच्छैवीं शास्त्रदृष्टेन कर्मणा ।
चतुरश्रमण्डलं कृत्वा दशहस्तप्रमाणतः ॥
शालिभिस्तण्डुलं कृत्वा * * द्रोणेन बुद्धिमान् ।
अथवार्धमथाप्यर्थं पञ्चद्रोणेन वा पुनः ॥
प्. ११०)
तदर्धं मण्डलं ग्राह्य मध्ये पद्मं समालिखेत् ।
आयुधं वा सहस्रं वा तदर्धं वाप्यथार्धके ॥
अष्टोत्तरशतं वापि पञ्चाशीतिमथापि वा ।
मृण्मयं कलशं प्रोक्तं कालमण्डलवर्जितम् ॥
साधितान् क्षालितान् शुद्धान् गुग्गुलैश्चैव धूपितान् ।
सूत्रान्वा सूत्रसंयोक्तान् सकूर्चान्सापिधानकान् ॥
मण्टपं शोभितं कृत्वा वितानध्वजशोभिताम् ।
दर्भमाला परिक्षिप्तं पुष्पदामसुभूषितम् ॥
अषट्कससमायुक्तं फलपल्लवसंयुतम् ।
चामरैर्दर्पणैर्युक्तं घण्टाधूपसमन्वितम् ॥
पञ्चविंशाच्च कलशान् प्रधाना परिकीर्तितः ।
पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं तिलोदकम् ॥
क्षीरं दधिघृतं चैव मधुनागुलमेव च ।
पुष्पोदक फलोदञ्च गन्धोदक कुशोदकम् ॥
काषायमृष्टवत्तोयं धातुवारि त्रिणोदकम् ।
शान्त्योदकरण्योदकं शांत्योदकं तथैव च ॥
प्रियोकमिक्षुरसं लोहोदकमतः परम् ।
अष्टरत्नोदकञ्चैव पञ्चविंशदनुक्रमात् ॥
पाद्यादिकं हृदा दत्वा इन्द्राद्यैशान्यमेव च ।
तेषां सर्वा नवा प्रोक्ता प्रदक्षिणे नैव विन्यसेत् ॥
प्. १११)
कलान् पञ्चविंशच्च प्रधान कलशैर्युतम् ।
अभिषेकञ्च प्रकर्तव्यं शुद्धवारि सुपूजितम् ॥
गन्धपुष्पादिभिस्सर्वान् पूजयित्वा मुहुर्मुहुः ।
पृथक् च कलशान् न्यस्य सूत्रेणैव तु वेष्टयेत् ॥
नवाक्षरेण * * * पाद्यस्थानं विधीयते ।
नवे नाचम्य मन्त्रेण आचमनीयं ददेत् बुधः ॥
हृदिमन्त्रं जपित्वा तु अर्घ्यस्नानं समाचरेत् ।
मूलमन्त्रेण मन्त्रज्ञ पञ्चगव्यं न्यसेद् बुधः ॥
शिखामन्त्रेण मन्त्रज्ञ तिलोदकमथा न्यसेत् ।
आचार्य मन्त्रितक्षीरं समाचरेदधिक्रमात् ॥
* वित्युच्चचन्मन्त्री देवी स्थानन्तु विन्यसेत् ।
विद्यामन्त्रं समुच्चार्य व्रतस्नानं विधीयते ॥
नवाक्षरेण मतिमान् शेषं सर्वं यथाक्रमात् ।
अस्त्रमन्त्रेण चिन्त्यात्मा कलशांश्च पृथक् पृथक् ॥
आचार्यो रक्तवासस्तु शुचिस्नानोजितेन्द्रियः ।
देवी तत्र सुगुप्तात्मा सर्वलक्षणसंयुतम् ॥
नागहीनेन बधिरन् न शठैर्नजस्तथा ।
नकूरो नागरक्तांगो नोत्मोर्थे विधिपीडितौ ॥
सर्वांगममृतत्वज्ञ मन्त्र शिवद्विज ।
षडध्वाज तथा धीमान् तेन लक्षणसंयुतम् ॥
प्. ११२)
स्नपयित्वा विधानेन सप्तवर्ज चरुन् ददत् ।
रक्तं पीतं तथा कृष्णं हरिद्रं श्यामादिकमेव च ॥
पायसं कृसरञ्चैव हविस्सप्तेति कीर्तितम् ।
उपहारपशून् सप्त अजं श्वेतं प्रशस्यते ॥
निवेद्य च विधानेन पञ्चस्थानं बलिं कुरु ।
सहस्रं वा शतं वापि पञ्चाशत्पञ्चविंशकैः ॥
कुमारीशिरसा धार्यगन्धपुष्पैरलंकृतम् ।
चित्रध्वजपताकञ्च शंखदुन्दुभिसंयुतैः ॥
ग्रामं वा नगरं वापि प्रदक्षिणमथाचरेत् ।
देवालयं समागम्य युगपद् बलि(वि)निक्षिपेत् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां स्नपनविधिर्नाम
पञ्चविंशत्पटलः
अतः परं प्रवक्ष्यामि मण्डलविधिमुत्तमम् ।
मण्डलं सर्वकामार्थं सर्वलोकहितावहम् ॥
मातृशान्तिञ्च योगञ्च बलिकर्मणि लिख्यया ।
नवहस्ताष्टहस्तन्तु सप्तहस्तन्तु चोत्तमम् ॥
पञ्चहस्तञ्चतुर्हस्तं मध्यमं मण्डलं तथा ।
त्रिद्वेकोन हस्तन्तु कनिष्ठं मण्डलं भवेत् ॥
उत्तमं मण्डलं विप्रो मध्यमं नृपवैश्यकम् ।
अधमं मण्डलं शूद्रो सर्वेषां मण्डलायुतम् ॥
प्. ११३)
देवाया येषु सन्धेषु आचार्यस्तत्र लंघयेत् ।
पूर्वे तु चोत्तराग्रन्तु पूर्वोक्तं दक्षिणेन च ॥
पश्चिमे चोत्तराग्रे तु पूर्वाग्रञ्चोत्तरेण च ।
पूर्वञ्च दक्षिणञ्चैव पश्चिमञ्चोत्तरन्तथा ॥
चतुर्द्वारन्तु कूर्वीत चतुर्दिक्षु च मध्यमे ।
रक्षोहण फलञ्चैव पूर्वद्वाराधिपालकौ ॥
आग्रेययां ज्वालिनी देवी नैर्-ऋत्यां विषुकर्णिनी ।
वायव्यां घातकी देवीमैशान्यामीश्वरी तथा ॥
बाह्यावरणमालिख्य सप्तमं परिवर्धते ।
इन्द्रश्चाग्नि यमश्चैव निर्-ऋतिर्वरुणस्तथा ॥
वायुश्चैव तु सोमश्च ईशानश्चाष्टदेवताः ।
इन्द्राग्निश्च द्वर्योर्मध्ये अश्विनौ कलयेत् क्रमात् ॥
आग्नेय यमयोर्मध्ये पितृस्थानं प्रकल्पयेत् ।
यमनैर्-ऋतयोर्मध्ये यक्षांश्चैव तु विन्यसेत् ॥
निर्-ऋतिर्वरुणयोर्मध्ये रक्षसां चैव विन्यसेत् ।
वरुणवायव्ययोर्मध्ये ऋषिस्थानं प्रकल्पितम् ॥
वायुसोमकयोर्मध्ये सर्पान्वष्टौ प्रकल्पयेत् ।
सोमकैशानयोर्मध्ये रुद्रैकादशविन्यसेत् ॥
इन्द्र ईशानयोर्मध्ये सोमस्तत्राधि देवता ।
अष्टमं परिवर्तन्ते देवतास्थानमुत्तमम् ॥
प्. ११४)
विमली च तथा भद्री कालकण्ठी सुकण्ठिनी ।
लम्बिनी चोत्तमी चैव विकृतिश्शुद्धमोहिनी ॥
हाटकी च महाघोरी विरूपी तुंगदंष्ट्रिणी ।
विलासिनीविरूपाक्षी शंखचक्री चतुर्भुजी ॥
पञ्चमं परिवर्तन्ते पूर्वादीनि प्रदक्षिणम् ।
चण्डाचण्डमुखी चोग्री सिंहनादमहारवी ॥
द्वाकुटी भीमरूपी च आकाशीमन्दबुद्धिनी ।
लक्ष्मी च सत्यवादी च क्रोधिनी च तथैव च ॥
मनवी माधवी रुद्री चतुर्थं परिवर्तते ।
चक्री चैव हुताशी च याम्यानी भूतवारुणी ॥
वायवी चैव कौबेरी शंकरीशूलहस्तिनी ।
कट्वांगी चन्द्रधारी च चण्डधारी चकारिणी ॥
त्रिणेत्रं वीरभोगी च वेदरूपी तथैव च ।
वर्तन्ते यद् द्वितीयन्तु इन्द्रादीनि यथाक्रमम् ॥
ब्राह्म्यादि वीरविघ्नान्तं इन्द्रादीशानमाचरेत् ।
वर्तन्ते चैव मध्ये तु योगेश्वरीं न्यसेत् ॥
बुधः काली चैव कराली च विराली च चतुर्दश ।
एतस्य तस्य मूर्तिस्तु मण्डलाभ्यन्तरे तु वै ॥
अन्यथा मण्डलं कुर्यात् तस्य पश्चिमपार्श्वतः ।
चतुर्हस्तप्रमाणन्तु विस्तारं लक्षणान्वितम् ॥
प्. ११५)
तन्मध्ये शूलं विन्यस्य पार्श्वे सीनि स पूत्रकम् ।
तद्बाह्ये नृत्तकास्थानं चतुर्दिक्षु च केलक ॥
नृत्तगेयञ्च वाद्यञ्च मुद्रामभिनयेद् बुधः ।
दिशमुद्रादिशानाल इन्द्राद्यैशानमुद्रया ॥
पूर्वायान्तु दिशि कृत्वा घोरं गच्छेच्छिवारुगम् ।
दक्षिणायां दिशि कृत्वा रौद्रघोर भयावहम् ॥
पश्चिमायां दिशि कृत्वा रोदनांगुलि योजयेत् ।
उत्तरस्यां दिशि कृत्वा अर्कास्यञ्चैव योजयेत् ॥
रौद्रकलुकिलश्शब्दं घोरं कृत्वा शिवारुदम् ।
पूर्णकुम्भन्तु कमलं दर्शनं दण्डकासु च ॥
द्वारपालान्नमस्कृत्वा अर्चयित्वा यथाक्रमम् ।
ओंकारादि नमोन्तञ्च स्थापनमर्चयेद् बुधः ॥
स्वनामबन्धमध्यस्थं पूजयित्वा स्वमन्त्रवित् ।
वज्रं शृंखन्तु पातेन अग्निप्राकार एव च ॥
शैलं शूलञ्चतुर्बन्धं * * यशूलमुद्रया ।
ततोद्वायय नमस्कारं शूलमूले तथार्चयेत् ॥
घण्टाक्षुरिकखड्गादि गदान्तं संप्रदर्शयेत् ।
क्रियायां मन्त्रमुद्रा च बलिकर्म प्रयोजयेत् ॥
बलिना पतितं कुर्यात् आयुधे पतिते यदि ।
च्युतमानन्तु कुर्वीत पुनस्संस्कारमर्हति ॥
प्. ११६)
आचार्यो बलिमारभ्य अवसानञ्च कारयेत् ।
प्रमादानवधानानि रुधिरं गृह्यसाधकः ॥
दिशां बलिं प्रदत्वा तु आगछन्तु भैरवा ।
आज्ञाञ्चैव हितं कृत्वा हिंसा कर्ता च हिंसयेत् ॥
अथवा अजहिंसा च होमञ्चैव दिशाष्टकम् ।
पश्चाच्च चरुसंपूज्य प्रायश्चित्तन्तु कारयेत् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां मण्डलविधिर्नाम षड्विंशत्पटलः
अतः परं प्रवक्ष्यामि ततः कलकवाद्यकम् ।
ततस्संकलसंवाद्यं कृत्वा चैव प्रदक्षिणम् ॥
द्वितीयं जलमाश्रित्य तृतीयं नटमारभेत् ।
चतुर्थं पञ्चनाट्यञ्च पञ्चमं कर्मनाट्यकम् ॥
आलीटञ्च तृतीयन्तु प्रत्यालीटञ्चतुर्थकम् ।
पञ्चमं शयनञ्चैव पञ्चनाट्यमिति स्मृतम् ॥
अष्टबन्धं तथा कृत्वा अंगुष्ठाकुञ्चितं भवेत् ।
कनिष्ठांगुलि तर्जन्यो कवचमुद्रा विधीयते ॥
पूर्वस्यान्तु दिशिशस्त्रं पूर्वस्यां दिशि दैवतम् ।
पूर्वस्यां तु दिशि ब्रूहि मे मातृपुत्रकम् ॥
प्. ११७)
पूर्वस्यां दैवतं कृत्वा इत्येते दैवतं भवेत् ।
ब्राह्मणस्य कुलं वृद्धि आपश्चाञ्जलिना हरेत् ॥
दक्षिणस्यां दिशिमन्त्रं दक्षिणस्यां दिशिदैवतम् ।
दक्षिणस्यां दिशिब्रूहि ब्रूहि मे मातृपुत्रकम् ॥
यदेव दक्षिणस्यास्तु यमो वै दैवतं भवेत् ।
क्षत्रियस्य कुलं वृद्धि आपश्चाञ्जलिना हरेत् ॥
पश्चिमायां दिशिमन्त्रं पश्चिमादिशिदैवतम् ।
पश्चिमायां दिशिब्रूहि ब्रूहि मे मातृपुत्रकम् ॥
पश्चिमे वरुणन्देवं दैवं तत्र प्रकीर्तितम् ।
वैश्यानान्तु कुलं वृद्धि आपश्चाञ्जलिना हरेत् ॥
उत्तरस्यां दिशिमन्त्रं उत्तरादिशि दैवतम् ।
उत्तरस्यान्दिशि ब्रूहि ब्रूहि मे मातृपुत्रकम् ॥
उत्तरस्यान्तु तद्दैवं कुबेरो दैवतं भवेत् ।
शूद्रस्येव कुलं वृद्धि आपश्चाञ्जलिना हरेत् ॥
एकाध्यायां दिशामन्त्रं ऊर्ध्वायां दिशिदैवतम् ।
एकार्धायान्दिशि ब्रूहि ब्रूहि मे मातृपुत्रकम् ॥
एकध्वान् दिशि देवास्तु सर्वदेव समाहितम् ।
मातॄणां कुलवृद्ध्यर्थं आपश्चाञ्जलिना हरेत् ॥
अधस्ताच्च दिशामन्त्रं अधस्ताद् दिशि दैवतम् ।
अथस्ताद्दिशि च ब्रूहि ब्रूहि मे मातृपुत्रकम् ॥
प्. ११८)
एकोर्ध्वा दिशिदेवास्तु सर्वदेव समाहिता ।
मातॄणां कुलवृध्यर्थं आपश्चाञ्जलिना हरेत् ॥
अधस्ताच्च दिशामन्त्रं अधस्ताद् दिशि दैवतम् ।
अधस्ताद्दिशि च ब्रूहि ब्रूहि मे मातृपुत्रकम् ॥
अधस्ताच्चैव यद्दैवं विष्णुश्चैव तु दैवतम् ।
पृथ्वी सर्वे गणाश्चैव आपश्चाञ्जलिनाहरेत् ॥
चतुरश्रं मण्टपं कृत्वा चतुर्द्वारोपशोभितम् ।
पूर्वे विद्याधरञ्चैव दक्षिणे गरुडन्तथा ॥
पश्चिमे मण्डलमेवोक्तं उत्तरं पिंगलं भवेत् ।
एवं मुखावधा मुद्रा घण्टाशब्दं प्रयोजयेत् ॥
खड्गमुष्टिस्तथाचार्यः खड्गेन परिवेष्टितम् ।
पूर्वस्यान्तु दिशि कृत्वा नाट्यञ्चैव प्रयच्छति ॥
दिशामुद्रा दिशानाट्यं चतुराचार्य व्यवस्थितम् ।
आलीढञ्चैव स्थानञ्च पद्ममुद्रा तथैव च ॥
दक्षहस्तं शिखाद्यन्तु वामपाद घृतं भवेत् ।
दक्षपादं पादनाप्यं वामहस्तं घृतं भवेत् ॥
यक्षोगणफणञ्चैव पूर्वस्यां द्वारपालकौ ।
सुमुखो कालदण्डश्च दक्षिणद्वारपालकौ ॥
सकलः कुम्भकर्णश्च उत्तरद्वारपालकौ ।
ऐरावत कुशञ्चक्रन्धनुर्बाणन्तथैव च ॥
प्. ११९)
वज्रश्च मुद्ररञ्चैव पाशञ्चैव तथा भवेत् ।
एते मुद्रा समाख्याता ऐन्द्रे चैव दिशि क्रमात् ॥
धूपो वेदिस्तथा मुद्रा अग्निकुण्डहृदं भवेत् ।
प्रोढाशं प्रणवञ्चैव आग्नेयान् दिशि मुद्रया ॥
कूपोदण्डस्तथा पाशं शार्वलीनरकस्तथा ।
वेताली महिषञ्चैव थाम्पायान् दिशि मुद्रया ॥
वासं भलं भिण्डि पालञ्च मुद्गरन्तोमरन्तथा ।
कुन्तञ्चापि विजानीयान्नैर्-ऋत्यान् दिशि मुद्रया ॥
गतापरंगसंघोषं विमानं पद्ममेव च ।
पूर्ण कुम्भञ्च कमलं भूतलेग्नि प्रदक्षिणम् ॥
हृदयं स्पृष्टमात्रञ्च भूमिमुद्रा प्रकीर्तिता ।
तद्वच्च सोमसूर्यश्च ग्रहनक्षत्र तारकाः ॥
ब्रह्मा च सप्तर्षय ऊर्ध्वायान् दिशि मुद्रया ।
जटामकुटधारञ्च त्रिणेत्रं नागभूषणम् ॥
त्रिशूलं परशुं पालं खट्वांकं चाष्टमं भवेत् ।
वीरेश चागमुद्रा च सर्वकामार्थ साधकाः ॥
अक्षसूत्रञ्च पद्मञ्च कमण्डलुं कुशमेव च ।
दण्डं कृष्णाजिनञ्चैव उपवीतन्तु हंसकम् ॥
ब्रह्माणी चांगमुद्रा च सर्वकर्मार्थ साधकः ।
शूलं परशुमृगञ्च नाग-ऋषभमेव च ॥
प्. १२०)
गजचर्म जटाचैव व्याघ्रचर्मन्तथैव च ।
वामेशी चांगमुद्रा तु सर्वकर्मार्थ साधकः ॥
वज्रं शक्तिञ्च घण्टा च प्रही कुक्कुटमेव च ।
उभयञ्चोपवीतञ्च इष्टिमुसलमेव च ॥
कौमारी चांगमुद्रा च सर्वकामार्थ साधकः ।
पद्मञ्च नवमाला च गरुडञ्चाष्टमं भवेत् ॥
वैष्णवी चांगमुद्रा तु सर्वकामार्थ साधकः ।
दंष्ट्रं दण्डहलञ्चैव वाराही महिषन्तथा ॥
खड्गञ्चक्रं गदा चैव वाराही चांगमुद्रिका ।
वज्रं गदां तथा शक्ति धनुनाराचमेव च ॥
तोमरं भिण्टपालञ्च वलयञ्चाष्टमं भवेत् ।
इन्द्राणी चांगमुद्रा तु सर्वकामार्थ साधकः ॥
शूलं खड्गधनुश्चैव शरं खेटकमेव च ।
कट्वांगञ्च कपालञ्च घण्टाडमरुकन्तथा ॥
चामुण्डी चांगमुद्रा तु सर्वकामार्थ साधकः ।
गजाननं गजकरं गजदन्तं बृहोदरम् ॥
अक्षसूत्रञ्च कबलं कूर्चशाषकमेव च ।
गणेशश्चांग मुद्रा तु सर्वकामार्थ साधकः ॥
इति ब्रह्मयामले शतसहस्रसंहितायां मुद्रालक्षणविधिर्नाम
सप्तविंशत्पटलः
प्. १२१)
शिवाप्तन्तु सर्वांगं एकमेवं महेश्वरम् ।
कथितं वा शिवत्वं हि सर्वं मेलनमेव च ॥
अतः परं प्रवक्ष्यामि प्रकाराणान्तु लक्षणं ।
वक्ष्येहं विधिना ब्रह्मम् यथावदनुपूर्वकम् ॥
गर्भगृहालयं प्रोक्तं आलयं दण्डमुच्यते ।
दण्डार्ध मण्टपं कृत्वा सदण्डमन्तर्हारकम् ॥
मध्यागारं द्विदण्डन्तु चतुर्दण्डन्तु मध्यया ।
महामर्यादिभित्तिश्च सप्तदण्डं समं भवेत् ॥
शैलैर्वा इष्टकैर्वापि कारयेत् सुदृढं क्रमात् ।
एकहस्तं द्विहस्तं वा त्रिहस्तं वा ततो भवेत् ॥
पादान्तमुन्नतस्यान्तं गलान्तं त्रिविधायतम् ।
एवन्तु तत्क्रमेणैव प्राकारं परिपूरितम् ॥
सुधाकार्यं तथा कृत्वा सुखासनं सुशोभितम् ।
प्राकारशैलया मार्गं प्राकारं मण्टपं तथा ॥
पाकारं मातृतो वापि पाकारं त्रिविधं स्मृतं ।
पवित्रं चित्रर्द्धिकं वा अर्धचित्रमथापि वा ॥
भूतप्रेतगणाश्चैव पिशाच वेतालरूपकम् ।
एतेषां कारयेत् तत्र यथाविभवविस्तरम् ॥
पार्श्वे पृष्ठसमञ्चैव अग्रे तु द्विगुणं तथा ।
अन्तर्हारष्विदं प्रोक्तं अन्तर्हारे तु चालयम् ॥
प्. १२२)
अष्टौ तु परिवाराणामालयाष्टमतत्समम् ।
द्वारं गोपुरमानेन देव्यालयसमं भवेत् ॥
आलयार्थमथार्थं वा आदिशेद्गोपुरस्य तु ।
सोपानस्याग्रतः कार्यं मण्टपञ्चतुरश्रकम् ॥
मण्टपञ्च प्रकर्तव्यं कूटं वापि तथैव च ।
अन्तर्हारान्तरं पीठं ऐन्द्रे पीठं तथार्चयेत् ॥
मध्याहारे ततः कुर्यात् वाहनालयमग्रतः ।
अन्येषां परिवाराणां आलयं मध्यमं भवेत् ॥
आलयस्य तु तत्पूर्वे आदित्यालयमेव च ।
आग्नेयां वनं स्थानं पचनालयक्रमन्तथा ॥
याम्ये मातृगृहे वापि पृष्ठे पार्श्वे तथैव च ।
नैर्-ऋत्यां गोगणस्थानं धान्यसंग्रहमण्टपम् ॥
वारुणे लक्ष्मीस्थानं पचनालय क्रमन्तथा ।
(याम्ये मातृगृहे वापि पृष्ठे पार्श्वे तथैव च ॥)
स्कन्दालयन्तु वायव्यां सोमे तु धनसंग्रहम् ।
दुर्गालयन्तु चैवं स्यात् सर्पालयं तथैव च ॥
ऐशान्यामुदकस्थानं आर्यस्थानन्तु भैरवम् ।
पुरस्ताद्भूतपीठञ्च ध्वजपीठं तथैव च ॥
पशुपीठं सुरापीठं पिशाचपीठन्तु बाह्यतः ।
शिवमेव यथा प्रोक्तं कुर्याच्च विधिपूर्वकम् ॥
प्. १२३)
इति ब्रह्मयामले शतसहस्रसंहितायां प्राकारलक्षणविधिर्नाम
अष्टाविंशत्पटलः
एकोन्त्रिंशः पटलः (छप्तेर् २९)
अन्द्
त्रिंशः पटलः (छप्तेर् ३०) इस् नोत् अवैलब्ले इन् थिस् ट्रन्स्च्रिप्त्.
अथातस्संप्रवक्ष्यामि स्थानदेव विधिक्रमम् ।
चतुष्पथे त्रिपथे चैव कोणे चैव कपर्दिने ॥
ब्रह्मस्थाने सभास्थाने देवस्थाने तथैव च ।
मण्टपे गोपुरे तत्र सिद्धिदं क्षेत्रमेव च ॥
चतुष्पथे चतुरश्रं त्रिपथे च त्रिकोणके ।
दुम्बरैर्मालिनी देवी कपर्दीविश्वरूपिणी ॥
देवस्थानं तथा प्रोक्तं * * * * * * * * ।
चतुर्मुखी ग्राममध्ये तु पूर्वे चैव तु गोमुखी ॥
आग्नेययां षण्मुखी देवी नीलकेशी यमस्य तु ।
सिंही च नैर्-ऋते स्थाने वारुणे महिषमर्दिनी ॥
वायव्यां घातकी देवी सोमे चैव सुदर्शिनी ।
ऐशान्यां पिंगलाक्षी च ग्रामपीठञ्च देवता ॥
ग्रपञ्च आत्मगोपी च तटाके चैव कोणकी ।
पर्वते अष्टहासी च वापी वै चतुर्भुजी ॥
वने च वज्रकाली च शास्ता स्थाने तु शालिनी ।
शिवस्थाने वज्रपाणि विष्णुस्थाने श्रीभूतकम् ॥
बिल्वे सरस्वती देवी कोष्टे च गणराजिनी ।
दुर्गास्थाने तु दुर्गा च ज्येष्ठा स्थाने तु ज्येष्ठनी ॥
प्. १२४)
मण्टपे अष्टसहस्री च गोपुरे पीठनासिनी ।
गोस्थाने गोमुखी चैव नदीनां सर्वदेवता ॥
महावृक्षे उग्रदंष्ट्री अभिमुखी नमो नमः ।
ओं नमो भगवती नागराजी नागादिकीर्तिता ॥
श्मशाने नमो भगवती कुशली विश्वरूपिणी ।
ओं नमो भगवती उग्रदंष्ट्राभिमुखी नमः ॥
ओं नमो भगवती कृच्छ्रीप्रियदर्शी नमो नमः ।
ओं नमो भगवती कुटिली उग्रमालाधरी नमः ॥
ओं नमो भगवती धातु ह्रींकारिणी नमो नमः ।
ओं ज्वालाधिपतये ज्वाला हेमरूपायि विमलध्रुवाय नमो नमः ॥
ज्वालाधिपति मन्त्रम् ।
इति ब्रह्मयामले शतसहस्रसंहितायां स्थानदेव विधिर्नाम
एकत्रिंशत्पटलः
भूमिदोषविधानन्तु प्रवक्ष्याम्यनुपूर्वशः ।
सर्वव्याधिहरं शुभ्रं सदा विजयवर्धनम् ॥
अकालमृत्युहरणं वसूरीदोषनाशनम् ।
महाज्वरविनाशार्थं महाशान्तिकरं शुभम् ॥
अनाव्षृटेस्तु शमनं अतिवृष्टिविवर्धनम् ।
महोत्पाते भूमिकम्पे महावाते तु कारयेत् ॥
प्. १२५)
लम्बा मूषिकाकीर्णे शिवोत्कृष्टे तु कारयेत् ।
स्वचक्र परचक्रं वा कलहे जनसंभवे ॥
महाव्याधिसमाकीर्णे नराणां व्याधिपीडिते ।
देव प्रतिमरोधेन देवप्रासाद भेदने ॥
सभास्थानादि भेदेन फलपुष्पनिपातने ।
महावाते प्रजामारे गजानां मरणेपि वा ॥
अकस्मादश्वमरणे शस्त्राणां पतनेपि च ।
अशनिपाते तु कर्तव्यं मातृयागे तु शान्तिकम् ॥
आषाढे वा भाद्रपदे दुर्भिक्षे तु तथैव च ।
महापीठे च निर्बन्धे दुर्भिक्षे सस्यनाशने ॥
भूमिदोषेण कर्तव्यं मातृयागे तु शान्तिकम् ।
आषाढे भाद्रपदे च फाल्गुने चैत्रमेव च ॥
वैशाखे ज्येष्ठमासे च कार्तिके पुष्यमेव च ।
कृष्णपक्षे चतुर्दश्या भूमिदोषन्तु कारयेत् ॥
सूर्योदये वा कर्तव्यं पूर्वा * * वायशोनम् ।
प्रत्यूषे वापि कर्तव्यं मध्योदयञ्च उत्तमम् ॥
अर्धोदये तु मोहं स्यात् सर्वकामार्थसाधनम् ।
ग्राममध्ये तु कर्तव्यं सर्वव्याधि निवारणं ॥
सम्मार्जनञ्च तत्कृत्वा गोमयेन तु लेपयेत् ।
गन्धपुष्पैरलंकृत्य धूपदीपसमन्वितम् ॥
प्. १२६)
पुण्याहं जयशब्दैश्च शंखदुन्दुभिनिस्वनैः ।
काहलैर्-अल्लरीशब्दै वंशैसूर्यरवैश्शुभैः ॥
ब्राह्मणान् भोजयेत् तत्र पञ्चाशद् वेदपारगाः ।
कन्यका भोजयेत् तत्र चतुष्षष्टि मनुत्तमम् ॥
गन्धपुष्पैरलंकृत्वा सुरभिन्धूपदीपकैः ।
पूर्वोत्तरमुखो भूत्वा ब्रह्मस्थाने तु दोहयेत् ॥
अन्यास्सर्वास्तु तत्रैव भूमौ दोह्यर्विधानवित् ।
मूलमन्त्रेण मन्त्रज्ञः प्रथमं दोहयेत् तथा ॥
नवाक्षरेण मन्त्रेण दोहयेत् सर्व दोहनम् ।
भूमिदोहन वेलायां वासोद्धारन्तु कारयेत् ॥
द्विरत्नि मात्रकुण्डन्तु मेखलात्रयभूषणम् ।
रत्निमात्रन्तु खतं स्यात् नाभिनेमि समन्वितम् ॥
मेखलान्तु चेत्सर्वं त्रिप्रदेशं सुशोभनम् ।
षडंगुलन्तु विस्तारमेकैकं कारयेद् बुधः ॥
अश्वत्थ पत्रवत्कार्यं योनिं प्रादेशमात्रकम् ।
नाभिर्वै तालमात्रन्तु अष्टपत्रं सकर्णिकम् ॥
कण्ठं कृत्वा यथान्यायं होमं कुर्याद् विचक्षणः ।
नवाक्षरेण मन्त्रेण मूलमन्त्रं हुनेत् क्रमात् ॥
वासोद्धारं पुनः कुर्यात् पलाश वृक्षादिकम् ।
त्रिरत्निमात्रमुत्सेधं यथालक्षणं * * * ॥
प्. १२७)
अश्वत्थं खदिरं वापि पलाशञ्चैव कारयेत् ।
सन्धानञ्च सहस्रन्तु तदर्धं वापि कारयेत् ॥
अष्टोत्तरशतं वापि सर्षपादि चरुं बुधः ।
तत्पुरं तु होमं कृत्वा पश्चाद्वारं तु कल्पयेत् ॥
पुत्रसूत्रेण मतिमान् समिधाञ्चैव होमयेत् ।
हृदामन्त्रेण पूर्वेण दक्षिणे मूलविद्यया ॥
पश्चिमे कवचं जप्य उत्तरे चास्त्रमन्त्रतः ।
यथाद्वारसमाप्ते तु पीठयुक्तसमाहितम् ॥
प्रथमं बीजमन्त्रेण ततस्तु कुलविद्यया ।
तत्रैव मूलमन्त्रेण ततस्तु कालिमन्त्रतः ॥
बृहतीरन्तरञ्चैव महाव्रतज्येष्ठसोमक ।
वकणं वा कुण्डमन्त्रञ्च बहिः पवनमेव च ॥
शिखायान्तु शिखां न्यस्य नेत्रे नेत्रे तु विन्यसेत् ।
हृदये हृदयस्ये हस्तमन्त्रन्तु हस्तकम् ॥
पिंगला मूलमन्त्रेण व्योमव्यापि तथैव च ।
चामुण्डा हृदयञ्जप्य तथा पारशवोत्तमम् ॥
आचार्यो होमयेत् तत्र शक्तिमन्त्रन्तु पाठकः ।
सुवर्ण कलशं वापि रजतं मृण्मयेपि वा ॥
श्लक्ष्णतारमविच्छिन्न द्योतको चेतयेद् बुधः ।
स्रजते स्रतदेव्या च यारं तु चयेत् ॥
प्. १२८)
तत्क्षणाच्छान्तिमाप्नोति रोगन्तु नाशयेत् ।
पांसुना शीघ्रमाप्नोति सर्वरोगविनाशनम् ॥
यथा गछन्ति शान्ति * * * * * * * * * ।
त्रैलोक्यं शान्तिमाप्नोति असुराणान्तु नाशनम् ॥
वसूरिकाज्वरञ्चैव क्षयं वाथ महाभयात् ।
तत्क्षणान्नाशमायाति वसुधाराप्रभावतः ॥
आचार्यं पूजयेत् तत्र ब्राह्मणानान्तु भोजयेत् ।
ब्राह्मणान् पूजयेत् पश्चात् सम्यग्वस्त्रैराभरणैश्च वा ॥
इति ब्रह्मयामले शतसहस्रसंहितायां दोहवसुधारार्ध विधिर्नाम
द्वात्रिंशत्पटलः
वासार्धलक्षणं वक्ष्ये सर्वकामार्थसाधनम् ।
महापात्रे भूमिकम्पे अनावृष्टिसमुद्भवे ॥
सूरिका ज्ञानमेकस्य महाव्याधि पथेन च ।
शरतमुषिकाकीर्णे दुर्भिक्षे कारयेद्बुधः ॥
ग्रामध्ये तु कर्तव्यं अग्निकुण्डं सुशोभितम् ।
रत्निद्वयञ्च विस्तारं तदर्धं नामविन्यते ॥
मेखलात्रयसंयुक्तं साकैन्तु षडंगुलम् ।
उत्सेध विस्तन्तद्वन्नाभिनेमि सनातनम् ॥
प्. १२९)
नाभि प्रदेश मात्रन्तु योनिगोकर्ण मात्रतः ।
अश्वत्थपत्रं यद् योनि नाभिपद्माकृतिं सुखैः ॥
पलाशखदिरञ्चैव अश्वत्थं वटमेव च ।
रत्निमात्रसमुत्सेधं नाहं षट्त्रिंशदंगुलम् ॥
तारांगुल्या च कर्तव्यं सप्तांगुलसमन्वितम् ।
पलाशं पातपूर्वे तु खदिरन्दक्षिणे न तु ॥
पश्चिमे तु तथाश्वत्थं उत्तरे वटवृक्षकम् ।
स्तंबध्यायोपरि न्यस्य चोत्तरं दक्षिणं मुखम् ॥
रक्तायान्तु पठेत् पूर्वे करालन्दक्षिणे पठेत् ।
चण्डन्तु पश्चिमे पाठे महोच्छिष्टोत्तरे पठेत् ॥
अमूरण्यामर्धयित्वा अग्निजातेन बुद्धिमान् ।
पञ्चदश कृताधीमान् मर्दयेज्जातवेदसम् ॥
दशं सत्कृत्य विधिवत् कुलमन्त्रेण संयुतम् ।
गर्भाधनादिकं कृत्वा पृथक् च साधयेद् बुधः ॥
इमञ्च वर्तते नैव एकविंशति संख्यया ।
धारासमिधसाहस्रं पृथक् गोकर्ण मात्रतः ॥
तत् तन् मन्त्रेण संयुक्तं एकैकं समिधाहुतम् ।
द्वौ द्वौ द्वारं प्रकर्तव्यं द्वौ द्वौ चाध्ययनं भवेत् ॥
पुण्याह जयशब्दैश्च शंखं कुर्याच्छुभैरपि ।
गन्धपुष्पैश्च धूपैश्च दीपमर्घ्य हवीषिं च ॥
प्. १३०)
क्षीरं लाजैस्तिलैश्चैव गुगुणा जुहुयात् पृथक् ।
एकैकस्य सहस्रं स्यात् भूतिश्च वामतात् ॥
वसोर्धारा प्रमाणन्तु हविच्छेद समात्रतः ।
यावत्समाप्तसहिता तावत् द्वारं विधीयते ॥
अथवा पुरुषसूक्तेन सहस्रं वा जपेत् ततः ।
अथवा रुद्रसूक्तेन सहस्रं वा जपेत् ततः ॥
ज्येष्ठामन्त्रेण वा मन्त्री सहस्रञ्जपमाचरेत् ।
चामुण्डी मूर्तिभेदेन मन्त्रभेदेन सर्वशः ॥
तेन तेनैव मन्त्रेण वासोद्धारं समाहितः ।
अथवा रुद्रसूक्तेन मुण्डाधारमथापि वा ॥
अथवानुग्रहसूक्तेन अम्बुदस्वामि शक्तिषु ।
गायत्र्याः प्रजपेन्मन्त्री वासोद्धारन्तु कारयेत् ॥
अतन्नवाक्षरं जप्यं वासोद्धारन्तु कारयेत् ।
वासोद्धारं प्रकर्तव्यं व्याहृतिश्चैव बुद्धिमान् ॥
आयुधे सर्वव्याधि नाशमायान्ति केवलम् ।
वासोद्धारं प्रकर्तव्यं कृष्णाष्टम्या विशेषतः ॥
महामारी विनाशार्थं चतुर्दश्यामथाचरेत् ।
अमावास्यां प्रतिपते वासोद्धारन्तु कारयेत् ॥
कृष्णपक्षे चतुर्दश्यां सर्वव्याधि विनाशनम् ।
विशेषेण वसूरिञ्च नाशयेत् तत्र संशयः ॥
प्. १३१)
तस्मात् सर्वप्रयत्नेन भूतादि नैव कारयेत् ।
सहस्राढकं घृतेनैव वासोद्धारन्तु कारयेत् ॥
वासोद्धारं नमते विवशेतदर्धेनाभि कारयेत् ।
अथ शताढके नैव वासोद्धारन्तु कारयेत् ॥
वासोद्धारन्न देवेश महिषी मनलस्य तु ।
तेनैव पितृमाप्नोति सर्वव्याधि हरो भवेत् ॥
वासोर्द्धारं प्रकर्तव्यं महामारी विनाशनम् ।
सुभिक्षं गोबलञ्चैव आयुरारोग्य संपदम् ॥
ब्राह्मणान् भोजयेत् तत्र कन्यकां भोजयेत् क्रमात् ।
तत्रैव भोजयेत् तत्र बलिं सर्वत्र दापयेत् ॥
बन्धञ्चैव मोक्षं स्यात् अंगनावसेचना नवा ।
पूजयेत् सर्व देवांश्च गन्धपुष्पं हविस्तथा ॥
पुरे सर्वजनाश्चैव स्नानं कृत्वाम्बरान्विताः ।
शुक्लगन्धानुलिप्ताश्च शुक्लमाल्यैश्च भूषिताः ॥
प्रोक्षणीया जनास्सर्वे वासोर्द्धारसमुत्सुकाः ।
तद्दिने चैव पूर्वाह्णे पुराभाण्डं त्यजेद् बहिः ॥
मृण्मयानि च भाण्डानि पुराणानि च मार्जनम् ।
पुराणभाण्डसूर्पाण भूतभाण्डानि सर्वशः ॥
ग्रामाद्बहिस्थितं विद्वान् वासोद्धारं तथा कुरु ।
ग्राममध्ये तु कर्तव्यं वासोद्धारं समाहितः ॥
प्. १३२)
आवाह्य सर्वदेवानां ब्रह्मविष्णु महेश्वरान् ।
इन्द्राग्नि यमनैर्-ऋत्यां वारुणं वायुमेव च ॥
सोमेशान गणांश्चैव इन्द्रादित्य मरुद्गणाः ।
वसवश्चाष्टभिश्चैव द्वादशादित्य एव च ॥
रुद्रा एकादशस्सर्वे अश्विनौ द्वौ तथैव च ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही चैव माहेन्द्री चामुण्डा च गणाधिपाः ।
वीरभद्रञ्च दुर्गा च लक्ष्मी ज्येष्ठा वसुन्धरा ॥
सरस्वती उत्तमा गंगां आवाह्य विधिवद्बुधः ।
महामारी महादेवी चामुण्डा तु वरा सदा ॥
खारा सानन्तरूपाश्च सूर्पहस्ता भयानका ।
मूर्तिमार्जनि संयुक्ता ऐशान्यां पूजयेद्बुधः ॥
अभ्यन्तरे यजेद्धीमान् ब्रह्मविष्णु महेश्वरान् ।
स्कन्दमादित्यमन्त्रैश्च पूर्वभागे तु पूजयेत् ॥
ऐशान्यां पूजयेद् विद्वान् वसून् पूर्वोत्तरे यजेत् ।
मरुद्गणावयवैश्चैव पूज्य अश्विन्यांशं रोदशम् ॥
उमा श्रिया सरस्वत्या दुर्गा चैव वसुन्धरा ।
गायत्री देवमाता च गंगा प्राज्ञायता युति ॥
अभ्यन्तरे यजेद्धीमान् वासोर्धारपरिक्रमात् ।
दक्षिणे सप्तमातॄणां वीरभद्रगणाधिप ॥
प्. १३३)
लोकपालान्न्यसेद्बाह्ये स्वस्वे स्थाने समाहितः ।
अग्नेः पश्चिमे भागे चाधिकं तत्र पूजयेत् ॥
वामपार्श्वे तथाविष्णुं दक्षिणे शंकरं यजेत् ।
बाह्यतो लोकपालानां महामारिं कदिशम् ॥
पूजयेत् मध्यमांश्चैव आघुवैदरोदनैः ।
स्वस्वेनैव तु मन्त्रेण पूजयेत् त्रिदशेश्वरान् ॥
गन्धपुष्पैश्च धूपैश्च दीपनैवेद्यमेव च ।
पायसेन निवेद्यं स्यात् ब्रह्मविष्णुमहेश्वरान् ॥
* * * * * * निवेद्यं स्यात् शेषात्सर्वेषु ।
महामारितरुद्द्रेण सहस्रं वा जपेत् तथा ॥
ज्येष्ठामन्त्रेण वा मन्त्री सहस्रं जपमाचरेत् ।
चामुण्डी मूर्तिभेदेन भद्रभेदेन सर्वदा ॥
दातव्यञ्चैव चामुण्डी पिंगलो पिंगलानि च ।
कृसरन्नतु दातव्यं पितृदेवाश्च सर्वदा ॥
गन्धोदनन्तु * * * * * * णां विशेषतः ।
* * * * * * * * कानां पन्नगानपि ॥
असुरासुरसिद्धाश्च यक्षविद्याधरानपि ।
किंनरा अप्सरा दैत्या पिशाचा भूतयोग्यकाः ॥
योगिनी डाकिनी चैता गुह्यमातरगानपि ।
सर्वे मांसयुतं स्यात् बलिं सर्वत्र दापयेत् ॥
प्. १३४)
ब्राह्मणान् भोजयेत् तत्र वस्त्राभरणपूजनैः ।
आचार्य दक्षिणां दत्वा गो भूमी काञ्चनादिभिः ॥
गजाश्चतुरगञ्चैव दासी दासञ्च दापयेत् ।
प्रदक्षिणं ततः कृत्वा प्रत्ये प्रत्यक्षमापयेत् ॥
वासोद्धार विधि ह्येतन् महामारि विनाशनम् ।
कपिलायां सहस्रन्तु दत्तस्यात्फलमाप्नुयात् ॥
वासोद्धरविधानेन यन्त्रं कुर्यान्नराधिप ।
तत्रैव जायते वापि रुधिरासूर्य निश्चयः ॥
इति ब्रह्मयामले शतसहस्रसंहितायां वासोद्धारलक्षणविधिर्नाम
त्रयस्त्रिंशत्पटलः
अतः परं प्रवक्ष्यामि जीर्णोद्धार विधिं शृणु ।
मूलस्थानं समाश्रित्य बालस्थानं प्रकल्पयेत् ॥
बालस्थान प्रतिष्ठा तु सीमानञ्च तथैव च ।
सीमता षट्तथा चैव कृष्टे कारार्द्धमेव च ॥
लक्षणं वास्तु भूमेस्तु तस्याद्रोहणमेव च ।
तस्यांकुराणां रक्षार्थं भूमिवृक्ष्यर्थमेव च ॥
शान्तिहोमं ततः कुर्यात् शंखभेर्यादिघोषयेत् ।
रत्निमात्रं खनित्वा तु पांसुमुद्धृत्य पूरयेत् ॥
प्रोक्षणं पञ्चगव्येन पर्यग्निञ्च समाचरेत् ।
कीडिकेशास्थिलोष्टे च स्थाने तत्रैव दृश्यते ॥
प्. १३५)
शान्तिहोमं ततः कुर्यात् कृत्वा पुनः कर्मसमाचरेत् ।
आर्षपौरुषं वापि तत्वांशतरुणालयम् ॥
अन्तसारे मुखे मध्ये पूर्वादीशे तु वारुणे ।
ह्यत्तरे वा विशेषेण बालस्थानं प्रकल्पयेत् ॥
मूलरूपन्तु नष्टं स्यात् पूर्वार्चा प्रतिमं भवेत् ।
इष्टमार्गे वसन् तत्र प्रतिरूपं प्रकल्पयेत् ॥
अष्टसप्तनवांगुल्यं पञ्चषट्चतुरंगुलम् ।
एकवर्षन्तु शून्यञ्च पूजाशून्यं न संशयः ॥
द्विवर्षाणि च भूतानि त्रिवर्षन्तु पिशाचकम् ।
चतुर्वर्षन्तु गन्धर्व पञ्चवर्षासुराश्रय ॥
सप्तममल्पतत्वञ्च अष्टौ वेतालमेव च ।
दशवर्षञ्च शून्यञ्च ब्रह्मराक्षसमाश्रये ॥
मूलप्रासादशून्यञ्च आश्रयन्तु न संशयः ।
शान्ति होमं ततः कुर्यात् साधकान् स्वस्ति वाचयेत् ॥
प्रासादे भिन्न हीनञ्च प्राचीनाकृति योजयेत् ।
योजनं शिल्पिभिः कार्यमिष्टका शैलदारुभिः ॥
यद्यत्तु कल्पितं पूर्वं तत्तेनैव तु कारयेत् ।
उत्तमं शैलजं प्रोक्तं मध्यमं दारुयोजनम् ॥
कन्यसन्त्विष्टका चैव योजयेत् पूर्वकर्मणा ।
ह्युत्तरोत्तरजं श्रेष्ठं तन्न्यूनं नैव कारयेत् ॥
प्. १३६)
पुण्याहं प्रत्यहं कुर्यात् शिल्पिभिः कारिते स्थले ।
संप्रोक्षणमतः कुर्यात् स्थलकर्मावसानके ॥
पञ्चरत्नेन संयुक्तं पञ्चगव्यन्तु पूजयेत् ।
मूलरूपन्तु नष्टं स्यात् बालबिम्बं प्रकल्पयेत् ॥
अथ प्रासादभिन्नं वा बालस्थानं प्रकल्पितम् ।
तस्मात् सर्व प्रयत्नेन शास्त्रदृष्टेन कारयेत् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां जीर्णोद्धारविधिर्नाम
चतुस्त्रिंशत्पटलः
बालस्थान विधिं वक्ष्ये बहुवीर्येकवीरिकम् ।
बालस्थानं प्रकुर्वीत सुभिक्षं सस्य वर्धनम् ॥
आयुरारोग्यकञ्चैव सर्वसंपत् प्रवर्धनम् ।
पूर्वे तु विजयं ज्ञेयं पुत्रपौत्रादि वर्धनम् ॥
आग्नेयं शत्रुविजयं विपुलं धनमाप्नुयात् ।
उत्तरे जाति वृद्धिः स्यात् पूज्यमाचन्द्रतारकम् ॥
बालस्थानं पुरा कृत्वा पश्चात् प्रासादमारभेत् ।
बालस्थानं समारभ्य तत्तत्प्रासादनेष्यते ॥
वित्तहा जन्महा चैव राष्ट्रनाशस्तथैव च ।
तस्मात् सर्व प्रयत्नेन बालस्थानं प्रकल्पयेत् ॥
प्. १३७)
शिलाभिरिष्टकैर्वापि पार्थिवेनापि कारयेत् ।
त्रिहस्तं वा चतुर्हस्तं पञ्चहस्तमथापि वा ॥
षट् हस्तं सप्तहस्तं वा अत ऊर्ध्वं न कारयेत् ।
तत्रैव दारुणा चैव अर्चायाः प्रथमं कुरु ॥
मूलस्य प्रतिमां कुर्यात् शास्त्रदृष्टेन कर्मणा ।
मण्टपञ्चतुरश्रन्तु चतुर्द्वारसमायुतम् ॥
चतुस्तोरणसंयुक्तं दर्भमालाभिवेष्टितम् ।
ध्वजाष्टकसमायुक्तं पुष्पमाल्यैरलंकृतम् ॥
मध्ये वेदि प्रकर्तव्या धनुमुष्टिद्वयं भवेत् ।
तत्रैव पूरयेच्छाली द्रोणसप्तकमेव च ॥
तदर्धं तण्डुलं ग्राह्यं पद्ममष्टदलैर्लिखेत् ।
तन्मध्ये शयनं कुर्यात् कम्बलैर्वस्त्रपट्टकैः ॥
कस्योपरि न्यसेत् कूर्चं गन्धपुष्पैश्च संयुतम् ।
तस्योपरि न्यसेद् देवीं भीमरूपीं त्रिलोचनीम् ॥
वस्त्रयुग्मेन सञ्च्छाद्यं उपवीतञ्च दापयेत् ।
स्वर्णपुष्पञ्च दत्वा तु मूलमन्त्रेण दापयेत् ॥
प्रासादाभिमुखाद् देविं शयने शययेद् गुरुः ।
हृदये हृयं न्यस्य ललाटे प्रणवं न्यसेत् ॥
स्थाने नवाक्षरञ्चैव नमस्कारेण हस्तयोः ।
नेत्रमन्त्रं न्यसेद्धीमान् देवीनलोष्ट्रपेन च ॥
प्. १३८)
यत्पञ्चकं न्यसेच्छोत्रं नासास्यन्तु तृतीयकम् ।
तुरीयन्तु तृतीयं वा पादयोर्विन्यसेद् बुधः ॥
सृष्टिबीजं न्यसेद् गुह्ये पृष्ठे तारन्तु विन्यसेत् ।
मूर्ध्निपादचतुर्थन्तु प्रष्टतातन्तु विन्यसेत् ॥
एवं न्यस्त्वा विधानेन बिम्बशुद्धिं समाचरेत् ।
गन्धपुष्पञ्च धूपञ्च दीपमप्यपवित्रकम् ॥
पुण्याहं विधिवत् कृत्वा स्नपनञ्चैव कारयेत् ।
विविधैर्भक्ष्य भोज्येन मूलमन्त्रेण योजयेत् ॥
ब्राह्मणान् भोजयेत् सम्यक् अष्टोत्तरशतानि वै ।
एवमेव प्रकारेण पूर्वादि क्रमयोगतः ॥
पलाशं खदिराश्वत्थं बिल्ववैकंकतानि च ।
देशिकन्तु पलाशेन पूगाट् खादिरमेव च ॥
तिलसर्षपलाजैर्वा समिधाज्य चरून् बुधः ।
पृथगष्टोत्तरशतं हुत्वा हुत्वा तु संस्पृशेत् ॥
तिलं हुत्वा स्पृशेत् पादं मूलमन्त्रेण बुद्धिमान् ।
हुत्वा तु सर्वपाषाणां तु एकं स्पृष्ट्वा तु संस्पृशेत् ॥
लाजं हुत्वा कटिं स्पृश्य चरुं हुत्वोदरं स्पृशेत् ।
समिधं हुत्वा स्पृशेद्धस्त मुद्रा कूर्चसमन्वितम् ॥
आज्यं हुत्वा तु सर्वांगं स्पृशेन् मूलस्य मुद्रया ।
नवाक्षरेण जुहुयात् पूर्ववत् समपंकजम् ॥
प्. १३९)
मूलमन्त्रेण हुत्वा तु ततो मूलन्तु विन्यसेत् ।
इन्द्राग्निक यमश्चैव नैर्-ऋतिर्वरुणवायवः ॥
सोमेशानदेवानं लोकपालांस्तथैव च ।
भद्रकाली महाकाली चामुण्डी चण्डिका तथा ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री वीरभद्रो गणाधिपः ॥
भूताश्चैव पिशाचाश्च वेतालं प्रेतनायकी ।
नवाक्षरेण मन्त्रेण स्वनामपदसंयुतम् ॥
प्रणवादि चतुर्थान्तं होमयेत् खलुपूर्वशः ।
वसुभिश्चाष्टभिश्चैव रुद्रैकादशभिस्तथा ॥
आदित्याद्वादशञ्चैव समुद्रास्सप्त एव च ।
सप्तद्वीपसमाख्याता लोकास्सप्तप्रकीर्तिताः ॥
पृथिव्यापस्तथाग्नीशो वायुराकाशमेव च ।
शब्दस्पर्शरूपञ्च रसगन्धैश्च पञ्चमम् ॥
कर्मेन्द्रियाणि पञ्चैव तथा बुद्धिन्द्रियाणि च ।
बुद्धिमानश्चाहंकार प्रकृतिः पुरुषस्तथा ॥
रागविद्याकुले चैव माया बिन्दु तथैव च ।
विग्रहेशञ्चैव शुद्धशुद्धविद्याधिकमेव च ॥
एकाहं पञ्चभिः कृत्वा मूलमन्त्रेण देशिकः ।
कलशान् स्थापयेत् पूर्वं सूत्रान् कालविवर्जितान् ॥
प्. १४०)
सकूर्चा द्रव्यसंयुक्ता सापिधाना स वस्त्रका ।
मध्यमे कलशे ब्राह्मी पवित्रारत्नविन्यसेत् ॥
क्षीरं वै पूर्वकलशे दक्षिणे तु दधिन्यसेत् ।
पश्चिमे तु घृतं न्यस्य पञ्चगव्यन्तु चोत्तरे ॥
श्यामकमग्निकलशे नैरृत्यां वैणवं न्यसेत् ।
वायव्यां शालिविन्यस्य ऐशान्यान्तु कुशोदकम् ॥
नवाक्षरेण मन्त्रेण मन्त्रयित्वा तु पूर्ववत् ।
देव्यास्तु परिधे धीमान् कलशं विन्यसेत् पृथक् ॥
रक्ता करली चण्डाक्षी * * च्छिष्टन्तथैव च ।
निवृत्तिश्च पतिष्ठ च विद्याशान्तिस्तथैव च ॥
अर्चयित्वा विधानेन गन्धपुष्पादिभिः क्रमात् ।
रात्रौ महोत्सवं कुर्यात् शंखभेर्यादिनिस्वनैः ॥
पुण्याहं वाचयित्वा तु सूत्रं वै बन्धयेत् तथा ।
आदौ सर्वेषु कर्तव्यं पुण्याहं सर्वकर्मसु ॥
रात्रौ होमं प्रकर्तव्यं प्रभाते स्थापनं कुरु ।
सुमुहूर्तदिने चैव बालस्थानं प्रवेशयेत् ॥
कालमन्हो विधानज्ञ यावत् प्रासादसञ्चयः ।
तावत् तिष्ठेत् बलिग्रामे त्रिसप्तद्वादश क्रमात् ॥
आस्थापन विधानेन स्थापयेद्धृदयेन तु ।
आस्थापनन्तु हृदयं स्थापनानां तु मूलतः ॥
प्. १४१)
कलशान् स्थापयेद् बिम्बे नवाक्षरेण बुद्धिमान् ।
कलशोदकेन सर्वन्तु प्रोक्षयेद्धृदयेन तु ॥
पीठे गर्भर्द्धिभित्तिश्च प्रासादं मण्टपन्तु वा ।
परिवाराञ्च सर्वांश्च प्रोक्षयेद् देशिकोत्तमः ॥
पशुं हत्वा तु तत्रैव त्रयो वा एकमेव वा ।
निवेदयेद्रक्त देवेशी हृदयेन समाहितः ॥
निवेद्यन्दापयेत् तत्र वस्त्रैराभरणैरपि ।
ब्राह्मणान् भोजयेत् पश्चात् कन्यकास्सप्त भोजयेत् ॥
सर्वे वर्ण क्रमात् ततः ।
तस्माद्भूतबलिं ग्रामे नरद्वासे समायुधः ॥
लाजसक्तु समायुक्तं सर्वत्र बलिदापयेत् ।
हृन्मन्त्रेण बलिं दत्वा बलिपीठञ्च बुद्धिमान् ॥
आचार्यान् पूजयेत् सर्वं वस्त्रहेमांगुलीयकैः ।
यागोपयोगद्रव्याणि वस्त्रमाभरणानि च ॥
आचार्यस्तु यथाद्रव्यं विविधामयकन्तथा ।
इति ब्रह्मयामले शतसहस्रसंहितायां बालस्थानविधिर्नाम
पञ्चत्रिंशत्पटलः
अतः परं प्रवक्ष्यामि जलसंप्रोक्षणं शुभम् ।
सूतकी प्रेतकी चैव ह्यालयाभ्यन्तरे गतः ॥
प्. १४२)
चण्डालैः पतितैर्वापि क्षेत्राचारविरुद्धकैः ।
प्रविष्टे देवगेहे च मोहाद्वा ज्ञानतोपि वा ॥
स्पर्शितं लिंगबेरादि देवमानमथापि वा ।
प्राणिनां मरणे चैव नानादोषसमुद्भवे ॥
संप्रोक्षणमतः कुर्याच्छास्त्र दृष्टेण कर्मणा ।
मण्टपं कारयेत् सम्यक् पूर्वोक्तविधिना बुधः ॥
अष्टदीर्घजसंयुक्तं कलशैस्समलंकृतम् ।
शालिभिस्थण्डिलं कृत्वा अष्टद्रोणैस्तु बुद्धिमान् ॥
तदर्धं तण्डुलञ्चैव तस्यार्धं तिलमेव च ।
तस्यार्धं लाजसंयुक्तं दर्भमुष्टिश्च विस्तृतम् ॥
तन्मध्ये पङ्कजं लिख्ये साष्टपत्रं सकर्णिकम् ।
तर्पूर्वे योनिकुण्डञ्च आचार्यो विधिसत्तमः ॥
कलशांस्तु वटांश्चैव त्रिसूत्रं वेष्टयेच्छुभम् ।
लोहजैर्मृण्मयैश्चैव क्षालितैः शुभैः ॥
घृतक्षीरदधींश्चैव अर्घ्यपात्रं क्रमान् न्यसेत् ।
मध्ये * * न्तु विन्यस्य पञ्चरत्नं सुनिक्षिपेत् ॥
पूर्वे तु क्षीरविन्यस्य उत्तरेप्य * मेव तु ।
दधीनां दक्षिणे चैव पश्चिमन्तु घृतं न्यसेत् ॥
पाद्यन्तु विन्यसेत् मन्त्री पूर्वोक्तैस्सर्वमेव तु ।
षायं पञ्चगव्यञ्च इक्षुसारन्तथैव च ॥
प्. १४३)
शेषाणि पर * त्तोय नवाक्षरेण मन्त्रितम् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही चैव माहेन्द्री चामुण्डा च प्रकीर्तिता ।
वीरभद्रगणाद्याश्च स्वस्वमन्त्रेण विन्यसेत् ॥
काली चैव महाकाली सुराली तु चतुष्कला ।
सुराली युक्तमध्ये तु कलशस्य न्यसेद् बुधः ॥
रक्ता कराली चण्डाक्षी महोच्छिष्टा पृथक् न्यसेत् ।
चतुर्दिक्षु च विन्यस्य होमं कुर्याद् यथा पुरा ॥
पलाशं खदिराश्वत्थं प्लक्षन्यग्रोधमेव च ।
अश्वत्थोदुम्बरञ्चैव बिल्ववैकंकतानि च ॥
समिधाज्य चरुर्लाजं दधिक्षीरं तथैव च ।
हुतमष्टोत्तरशतं प्रत्येकं सर्व मूर्तिषु ॥
ब्रह्मादि मूर्तिभिश्चैव धारयेन्मूर्ति धारकाः ।
हुत्वा जप्त्वा स्पृशेद् देवीन्नवाक्षरेण बुद्धिमान् ॥
सुमुहूर्ते सुलग्ने च योगे च करणान्विते ।
नवाक्षरन्तु बिम्बे वा प्रणवादि नमोन्तकम् ॥
नवाक्षरेण संयुक्तश्शस्त्रे संप्रोक्षयेद् बुधः ।
स्नपनोक्तविधानेन अभिषिञ्चेद्यथा शुभम् ॥
नृत्तवाद्यैश्च संपूर्णं नानाघोषसमन्वितम् ।
वेदघोषसमायुक्तं सर्वातोद्य समायुतम् ॥
प्. १४४)
एवमेव विधानेन अभिषिञ्चेद्यथा शुभम् ।
नृत्तवाद्यैश्च संपूर्णं नानाघोषसमन्वितम् ॥
वेदघोषसमायुक्तं ।
कलशोदकन्तु संग्राह्य प्रतिमाञ्चाभिषेचनम् ।
प्रासादे परिवारे च सुबाह्याभ्यन्तरेपि च ॥
सर्वं संप्रोक्षयेद् विद्वान् पूर्वोक्तं मूलविन्यसेत् ।
आवाहयेत् ततो देवीं सर्वलक्षणसंयुताम् ॥
अष्टाभुजान्त्रिणेत्राञ्च नागाभरणभूषिताम् ।
नागयज्ञोपवीतेन शिरो मालाविभूषिताम् ॥
प्रलयस्थिति सर्वाणां जगद्योनिं महेश्वरीम् ।
प्रतिमायां न्यसेद् देवी कुजवारे विशेषतः ॥
ततः प्रभृति यत्नेन पूजयेत् तत्र वित्तमः ।
प्रतिष्ठा चैव तत्काले आचार्य स्वस्ति वाचकैः ॥
नानाभरणद्रव्यैश्च गोभूमी काञ्चनादिभिः ।
इति ब्रह्मयामले शतसहस्रसंहितायां संप्रोक्षणविधिर्नाम
षट्त्रिंशत्पटलः
अतः परं प्रवक्ष्यामि क्षेत्राचार विधिक्रमम् ।
वर्णानामानुपूर्ण्यश्च शृणुब्रह्मन् समाहितः ॥
सेवनं गर्भगेहञ्च देशिकानां विधीयते ।
अर्धमण्टपसेवा च श्रोत्रियाणां समीरितम् ॥
प्. १४५)
तद्बहिक्षत्रविट्भ्यान्तु तद्बहिश्शूद्रसेवनम् ।
सूचिकस्तन्तु वाग्वश्च तिलघाती च सूनिकः ॥
तक्षकस्स्वर्णकारश्च शिलाभेदी तु लोहकः ।
कुम्भकारश्च गोपालो ह्येते वै न्यूनजातयः ॥
एतैस्तु दर्शनञ्चैव कर्तव्यं ध्वजमूलतः ।
रजकादि हीनजानान्दर्शनं बहिरालयात् ॥
चण्डालश्वपचादीनां क्षेत्राच्च शतदण्डके ।
एतेषां व्यत्यये नैव क्षेत्रान्तर्वेशने सति ॥
देवसान्निध्यहीनञ्च महादोषः प्रजायते ।
महामारिप्रवेशञ्च सर्वे वै पुरवासिनः ॥
पीड्यन्ते सततं रोगैस्तद् दोषशमनाय च ।
पुण्याहन्तु प्रकुर्वीत संप्रोक्षणमथाचरेत् ॥
वर्णानां क्रमशो वक्ष्ये शृणु ब्रह्मन् समासतः ।
ब्राह्मण्यां ब्राह्मणाज्जात संस्कृतो ब्राह्मणो भवेत् ॥
एवं क्षत्रियविट्शुद्राः ज्ञेयास्स्वेभ्यस्स्वयोनिजाः ।
अध्यापनं चाध्ययनं यजनं याजनं तथा ॥
दानं प्रतिग्रहश्चेति षट्कर्माण्यग्रजन्मनः ।
षण्णान्तु कर्मणामस्य त्रीणि कर्माणि जीविका ॥
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ।
इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ॥
प्. १४६)
प्रतिग्रहोधिको विप्रे याजनाध्यापने तथा ।
नृपायां विप्रतो जातस्सवर्णो ब्राह्मणो भवेत् ॥
आयुर्वेदाथर्ववेद धनुर्वेदान् सदापठेत् ।
विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ॥
वैश्यस्य वर्ण एकस्मिन् षडेते पशदा स्मृताः ।
वैश्यायां विधिना विप्राज्जातो ह्यम्बष्ठ उच्यते ॥
कृष्या जीवी भवेत् तस्य तथैवाग्नेय वृत्तिकः ।
ध्वजिनी जीविका वापि अम्बष्ठाश्शस्त्र जीविनः ॥
वैश्यायां विप्रतश्चेर्योत्कुम्भकारस्स उच्यते ।
कुलालवृत्या जीवेत नापित्वा वा भवन्त्यतः ॥
नाभेरूर्ध्वन्तु वपनं तस्मान्नापित उच्यते ।
शूद्रायां विधिना विप्राज्जातः पारशिवो मतः ॥
भद्रकालि समाशृत्य जीवेयुः पूजकाः स्मृताः ।
तस्यां वै चौर्यतो जातो निषादश्च प्रकीर्तितः ॥
वने दुष्टमृगान् हत्वा जीवनं मांसविक्रयम् ।
नृपाज्जातोथ वैश्यायां गृह्यायां विधिना सुतः ॥
वैश्यवृत्या तु जीवेत क्षत्रिर्मन्न चाचरेत् ।
तस्यां तस्यैव चौर्येण मणिकारः प्रजायते ॥
मणीनां राजतां कुर्यात् मुक्तानां वेधनक्रियाम् ।
शूद्रा क्षत्रसंसर्गाज्जात उग्र इति स्मृतः ॥
प्. १४७)
नृपस्य दण्डधारस्यादण्डं दण्ड्येषु सञ्चरेत् ।
वैश्या तु करणश्शूद्र्यां भिन्नायान्तु विधिस्मृतः ॥
माहिष्येण करण्यान्तु रथकारः प्रजायते ।
शिल्पकर्माणि चान्यानि प्रासादलक्षणं तथा ॥
पठनां वस्तुशास्त्राणां हेमान्याभरणानि च ।
लोहकर्म तथा कुर्यात् रथकारस्य वृत्तयः ॥
नृपाद् ब्राह्मणकन्यायां सूतो नाम प्रजायते ।
वेदानर्हं तथा चैषां धर्माणामनुबोधकः ॥
वैश्याद्वै देहश्शूद्राच्चण्डालो नाम जायते ।
क्षत्रिया मागधं वैश्याछूद्राक्षत्तारमेव च ॥
शूद्रादायोगवं वैश्या जनयामास वैसुतम् ।
नृपायां वैश्यतश्चौर्यात् पुलिन्दो नामजायते ॥
हिंसया दुष्टसत्वानामरण्ये वर्तयेदयम् ।
शूद्रादायोगवः क्षत्ता चण्डाश्चाधमो नृणाम् ॥
यथैव शूद्राद् ब्राह्मण्यां बाह्यजन्तु प्रसूयते ।
तथा बाह्यतरं बाह्याच्चातुर्वण्यं प्रसूयते ॥
प्रातिलोम्येन संभूतास्सर्वकर्मबहिष्कृताः ।
उग्रात्तु जातः क्षत्रायां श्वपाक इति कीर्तितः ॥
चण्डालश्व पचानान्तु बहिर्ग्रामात्प्रति श्रयः ।
वर्षोपेतमविज्ञातन्नरं कलुषयोनिजम् ॥
प्. १४८)
आर्यरूपमिवानार्यं कर्मभिस्स्वैर्विभावयेत् ।
वर्णानामानुपूर्व्येण जातो वै ह्यनुलोमजः ॥
वैपरीत्येन संभूतो प्रतिलोम इतीरितः ॥
इति ब्रह्मयामले शतसहस्रसंहितायां क्षेत्राचारवर्णविवेको नाम
सप्तत्रिंशत्पटलः
अतः परं प्रवक्ष्यामि बालस्थापनमुत्तमम् ।
प्रासादे छिन्नभिन्ने वा प्रतिमा वा तथा यदि ॥
नवीनं कारयेत् पश्चात् सर्वांगं चित्रशोभनम् ।
ततः प्रवेशकाले तु पूर्ववद्विधिमाचरेत् ॥
कुण्डमण्टप प्रासाद प्रतिमां शुद्धिमाचरेत् ।
स्थापयेद् देव देवेशि तन्त्रोक्तं विधिना कुरु ॥
अन्यथा संप्रवक्ष्यामि शुद्धासनमुत्तमम् ।
सुमुहूर्ते च नक्षत्रे योगे च करणान्विते ॥
रात्राधिवासयेद् देवीम्मातरं सहतत्क्रमात् ।
पुरतो देव देवेशी धान्यराशौ विचक्षणः ॥
वृत्तं वा चतुरश्रं वा योगपीठं प्रकल्पयेत् ।
शालिना पूजयेत् तत्र पञ्चद्रोणैस्तथा क्रमात् ॥
तस्योपरि न्यसेन्मन्त्री द्रोणपञ्चकतण्डुलैः ।
चतुरश्र समं कृत्वा पञ्चगव्येन प्रोक्षयेत् ॥
प्. १४९)
तन्मध्ये तु लिखेत् पद्ममष्टपत्रं सकर्णिकम् ।
हेमरुप्यमयं कुम्भं ताम्रञ्च मृणमयन्तु वा ॥
कलशान्नवकं ग्राह्य सुपक्वान् सुदृढाञ्च वा ।
इन्द्रादीशानपर्यन्तं कलशान्विन्यसेत् क्रमात् ॥
इन्द्रेत्याचमनं न्यस्त्वा आग्नेययां मध्यमेव तु ।
याम्ये पाद्यन्तु विन्यस्य नैर्-ऋत्यान्तु कषायकम् ॥
वारुण्यां क्षीरं विन्यस्य वायव्यां दधिविन्यसेत् ।
सौम्यायां सर्पिविन्यस्य ऐशान्यां गव्यमेव तु ॥
ब्राह्म्यादीन्न्यसेत् तत्र स्वस्वमन्त्रेण दापयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही चैव माहेन्द्री ईश्वरी च * * * * ।
नवमे * * एकवीरी * * मध्ये कलशेषु विदुर्बुधः ॥
गन्धपुष्पैश्च धूपैश्च अर्चयित्वा विधानतः ।
विन्यसेत् पद्ममध्यन्तु कर्णिकायां सुसंहितम् ॥
मातरस्थलमध्यस्थ पूर्वादितमयोगत ।
निक्षिपेत् पञ्चरत्नानि नवबीजेन मन्त्रवित् ॥
वारिणा पूरयेत् पश्चात् वस्त्रपूतं सुगन्धिभिः ।
कूर्चाक्षतविन्यस्य वस्त्रयुग्मेन वेष्टयेत् ॥
रक्तेनोपरि सञ्च्छाद्य मन्त्रमुद्रां प्रदर्शयेत् ।
एवन्तु कलशान्न्यस्य पश्चाद् ध्यान परो भवेत् ॥
प्. १५०)
पृथिवी पाकजं ध्यात्वा कर्णिका मेरुनिर्मितम् ।
कर्णिकोपरि विन्यस्य देवेशीं भूतमातरम् ॥
कपालखट्वांग धारी महाप्रेतकृतासन ।
चतुर्भुजा चाष्टभुजा त्रिणेत्रां रुद्ररूपिणीम् ॥
दिशाम्बरां मुककेशां महाव्यालविभूषिताम् ।
कपालमालिनीन् देवीं प्रलयाग्नि समप्रभाम् ॥
सूर्यकोट्यायुधप्रख्या सुरासुरभयंकरीम् ।
इत्थं रूपधरीन्देवीं कलशे स्थापयेद् बुधः ॥
निरोधन्तत्र कर्तव्यं मन्त्रमुद्रा समन्वितम् ।
नैवेद्यं विधिना दद्यात् यात्राहोमं समारभेत् ॥
अष्टभिः पञ्चभिर्वापि होमं कुर्या स दीक्षितैः ।
बिल्वं पलाशखदिरं वटमौदुम्बरस्तथा ॥
प्लक्षं वैकंकतञ्चैव अश्वत्थं वारुणं तथा ।
पूर्वादिक्षु यथान्यायं होमं कुर्यात् समन्त्रकैः ॥
कुण्डेष्वेव विचित्रेषु लक्षणेषु च बुद्धिमान् ।
चतुरश्रं भवेदिन्द्रे आग्नेययां योनि संभवम् ॥
याम्यायाञ्चार्धचन्द्रन्तु नैर्-ऋत्यान्तु त्रिकोणकम् ।
वारुण्यां वर्तुलं ज्ञेयं षट्कोणं वायुगोचरे ॥
उत्तरे चैव पद्माभं ऐशान्याञ्चाष्टकोणकम् ।
एतेषु कुण्डमेवोक्तं कुण्डेषु च विचक्षणः ॥
प्. १५१)
स्वस्वेनैव तु मन्त्रेण मूर्तिधारैश्च होमयेत् ।
अष्टोत्तरशतं हुत्वा सदृशेनैव लम्बिते ॥
शिरोदेशे तु देवानां आचार्यो होममारभेत् ।
तिलसिद्धार्थकञ्चैव प्रियंगुशालिलाजकम् ॥
आज्यं हुत्वा हुनेत् सर्वान् बाल * * * * * * ।
अष्टोत्तरशतं हुत्वा प्रत्येकं सर्वमूर्तिषु ॥
आचार्य द्विगुणं हुत्वा पु * णतरुणालये ।
* काले क्रिया सर्वान् अधिवासन कर्मसु ॥
चलस्य च न्यसेन्मन्त्री पूर्वोक्ते च * * * येत् ।
गुरुबालस्थानमलंकृत्य वितानाद्युपशोभितम् ॥
देशकालं ततः प्राप्य बालस्थाने निवेशयेत् ।
चलन्तु स्थापितं कार्यं बालस्थानन्तु देशिकः ॥
तत्पयवयं गच्छेत् आचार्यो साधकैस्सह ।
शनैरुत्कृत्य कलशं पूर्ववत्स्मरणान्वितम् ॥
निष्टप्य द्वारदेशे तु शनैर्गच्छेत् प्रदक्षिणं ।
प्रविश्य बालस्थानेषु देवीनामर्चयेद् बुधः ॥
कलशानान्तु सर्वेषां अर्चयेच्छूल विन्यसेत् ।
अर्चयित्वा विधानेन नैवेद्यं विधिवद् ददेत् ॥
पञ्चोपचारकान् सर्वान् समन्त्रेण तु दापयेत् ।
महाबलिं ततो दद्यात् भूतक्रूरसमन्वितम् ॥
प्. १५२)
इति ब्रह्मयामले शतसहस्रसंहितायां बालस्थापनविधिर्नाम
अष्टत्रिंशत्पटलः
अतः परं प्रवक्ष्यामि लंघनस्य विधिक्रमम् ।
स्त्रीणाञ्चैव तु विप्राणां प्रमादाल्लंघने सति ॥
रक्तस्रावेन कर्तव्यमेकवीरी निवेदनम् ।
क्षत्रियस्य तु लंघैश्च मांसच्छेदन्तु कारयेत् ॥
अथवा पृथुमांसैश्च अजमेकं हुनेत् बुधः ।
वैश्यस्य लंघने चैव प्रति मांसन्तु दापयेत् ॥
शूद्राणां लंघने चैव एकमासन्तु दापयेत् ।
हंसैर्मयैश्च महिषैः श्वानैश्चैव खरोष्ट्रकैः ॥
अश्वञ्चैव तथा जम्बु वानरादि तथैव च ।
हस्तिनं कुक्कुटञ्चैव सद्योतन्तु दापयेत् ॥
पशूनाञ्च तपस्वीनां ब्राह्मणेन तु लंघने ।
अष्टोत्तरशतं हुत्वा अजमेकव्यघातयेत् ॥
प्रतिलोमादिलंघैर्वा चण्डालै * * लंघयेत् ।
सद्यो घातन्तु कर्तव्यं मुत्सव्य * * * * * ॥
* * मं प्रकूर्वीत समिधादि यथाक्रमम् ।
मूलगायत्रिमन्त्रेण जुहुयाद्योविकं विदुः ॥
प्. १५३)
कन्यानां लंघयित्वा तु अष्टोत्तरशतं हुतम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां नगरपरिभ्रमणलंघविधिर्नाम
एकोनचत्वारिंशत्पटलः
अतः परं प्रवक्ष्यामि प्रतिमालक्षणं परम् ।
नवताल प्रामाणेण प्रतिमां कारयेद् बुधः ॥
शिलामयं लोहमयं मृण्मयं वापि कारयेत् ।
ग्रामाच्चाष्टभुजं विद्यात् नगरे च चतुर्भुजम् ॥
वनान्तरे द्विभुजं विद्यात् पर्वताग्रे तु षोडश ।
समुद्रे द्वादशं कुर्यात् जन्दन्द्य * * षट्भुजम् ॥
तटाके दशभुजं कुर्यात् चतुष्पथे चतुर्भुजम् ।
खड्गञ्च खेटकञ्चैव नागं घण्टां तथैव च ॥
शूलकपालखट्वांगं डमरूञ्च तथाष्टकम् ।
श्यामवर्णा च कर्तव्या दंष्ट्राकालदं शुभम् ॥
ऊर्ध्वकेशञ्च कर्तव्यं त्रिणेत्रं नागभूषणं ।
दारुकस्य हृदि शूलं प्रोक्तव्यं हिमलोचनम् ॥
रौद्ररूपन्तु कर्तव्यं चामुण्डालक्षणं परम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिमालक्षणविधिर्नाम चत्वारिंशत्
पटलः
प्. १५४)
अतः परं प्रवक्ष्यामि क्षेत्रपालविधिक्रमम् ।
त्रैलोक्यनाथं सर्वज्ञं सर्वदेवं जितेन्द्रियम् ॥
आगमेशमूर्तिकं च आदिक्षेत्रस्य पालकम् ।
परन्तत्परमाकाशं देवता चित्तमेव च ॥
चिन्तयेन्मनसानित्यं शिवलोके महीयते ।
ततः प्रभृति देवेश शिवरूपं शिवं यथा ॥
पश्चाद् दण्डालयं विद्यात् प्रलयं पंक्तिमानकम् ।
सकलजीवरूपञ्च ज्येष्ठवंशान्तवृत्तकम् ॥
वृत्तमध्ये तु ज्योतिस्स्यात् ज्योतिमध्यमणुस्तथा ।
अणुमध्ये तथा बिन्दुक्षेत्रपालं शिवात्मकम् ॥
निष्कलं निर्मलं शान्तं निष्प्रपञ्च * लक्षणं ।
निष्कलं सकलं सं * * * गन्धस्सदेवता ॥
सक * * * स्वरु * * * * * * * *
कम् ।
सर्वजीवसमुत्पन्नो भगवान् परमेश्वरः ॥
एवं मूर्तित्रिभेदं स्यात् ब्रह्माविष्णुमहेश्वरम् ।
लोके तु पुण्यरक्षार्थं क्षेत्रपालन्तु दृश्यते ॥
पूर्वन्तु ज्ञानमूर्तिः स्यात् द्वितीयं शान्तमूर्तिकम् ।
तृतीयं रौद्रमूर्तिः स्यात् सर्वभूतगुणागुणम् ॥
भूलोके सर्वरक्षार्थमुद्भवन् तत्र विन्यसेत् ।
आरण्ये च गुहे चैव समुद्रे पर्वताग्रके ॥
प्. १५५)
नदी संगमने वापि वनवासे समाश्रये ।
ग्रामे वा नगरे वापि पत्तने खेटकात्मके ॥
भाग्यवादि तथाद्रोणे कोलकं प्रतिमावहेत् ।
तत् तच्छास्त्र यथा योगं क्षेत्रस्थानं विधीयते ॥
क्रियाशेषं प्रवक्ष्यामि यथावदनुपूर्वकम् ।
शान्तिकं पौष्टिकं चैव अद्भूतञ्च विचारकम् ॥
ग्रामादि जनसंस्थाने शान्तिकं विन्यसेद् विधिम् ।
गुहायां वनवासे वा पौष्टिकं तत्र कारयेत् ॥
अद्भूतं परमूर्तिश्च आभिचारकरक्षणम् ।
तत् तत्स्थाने यथायोग्यं योगेनैव तु कारयेत् ॥
चतुर्भुजं शान्तिकञ्चैव पौष्टिकञ्चाष्टबाहुकम् ।
द्विभुजं सर्वसामान्यं क्रिया शेषं विधीयते ॥
चतुर्भुजं दक्षिणे हस्ते त्रिशूलं डमरुकन्तथा ।
वामहस्ते कपालन्तु भुजकञ्च विधीयते ॥
पद्मपीठस्थितं देव परिजनानां विधीयते ।
पादौ तु शैलमेवोक्तं कटिस्थान्नागमावृतम् ॥
पार्श्वे कनकमणीनां रज्जुबन्धनमेव च ।
उदरे नागबन्धञ्च कर्णिकेन समन्वितम् ॥
मुखे या लम्बिते कर्णं सर्वयज्ञोपवीतिनम् ।
नरशिरस्त्रिलंबैश्च स्तनयोरन्तरे विधु ॥
प्. २५६)
त्रिणेत्रं तत्समं वज्रं ऊर्ध्वकेशोज्वल प्रभम् ।
ललाटोर्ध्वे नरशिरं आवृतन्तु विधिक्रमम् ॥
कर्णकुण्डलमेवोक्तं पत्रिमेकमथापि वा ।
केशं भुजंग वेष्टञ्च रक्ताक्षं रक्तकेशकम् ॥
बालचक्रमलंकृत्य पाण्डरं शिखरन्तथा ।
पूर्णचन्द्रसमं वक्त्रंमायुक्तञ्चित * * * ॥
* * नीलवर्णञ्च भैरवाकारमेव च ।
अष्टभुजं पाशञ्च दक्षिणं ॥
कपालं डमरुकञ्चैव पिनाकं खड्गमेव च ।
पूर्वोक्तविधिवत्कृत्वा भूषणं तद्वदेव च ॥
पौष्टिकस्य विधिज्ञेयं नवमाश्रित्य दैवतम् ।
भूतरूपं द्विहस्तञ्च दक्षिणे दण्डहस्तके ॥
वामे कृत्वा कपालन्तु भूतभूषणभूषितम् ।
तत् तद् देशे च ईशेन क्षेत्रपालस्य आलयम् ॥
दशतालं योगमूर्तं नवतालं सौम्यमूर्तिकम् ।
चतुस्तालं भूमिमूर्तिं एकमालं विधीयते ॥
शान्तिकं पद्मपीठञ्च रौद्रकोणं तथा भवेत् ।
* मूर्ति तथा पीठे योजयेत् तद्विचक्षणः ॥
चतुर्भुजं स्थापितन्तु दायुव्यर्थकरं शुभम् ।
पुत्रमित्रविवर्धन्ते सर्वकामार्थ साधनम् ॥
प्. ५७)
चतुर्भुजमिति ज्ञेयं ग्रामशान्तिकरं शुभम् ।
पौष्टिकस्य विधिं कृत्वा वीर्यं वै शत्रुनाशनम् ॥
स्त्रीवर्धनमिति ज्ञेयं भूताकारमिति स्मृतम् ।
लोकालोक हितार्थाय कार्ये कार्येण योजयेत् ॥
बलिकर्मविधिं कृत्वा शान्तिकर्मविधिस्मृतम् ।
स्नपनादि सर्वकार्यं योजयेत् तद्विचक्षणाः ॥
अधिवासविधिं कृत्वा सर्वद्रव्याणि योजयेत् ।
कलशस्थापनं कृत्वा फट्कारमुच्यते बुधः ॥
प्रतिष्ठामन्त्रमेवं स्यात् मूलमन्त्रमनुस्मरन् ।
महाबेरं तथा मूलं जीवाक्षरमिहोच्यते ॥
ओंकारं विन्यसेन्मूलं मध्ये श्रींकारमुच्यते ।
स्वाहान्तं विन्यसेत् तत्र अग्रे स्त्रींकारमुच्यते ॥
विन्यसेद् गन्धपुष्पञ्च धूपदीपञ्च दापयेत् ।
पश्चाद् देव समायुक्तं आचार्यं स्थापिते बुधः ॥
बहले ब्रह्मसारस्य चन्द्रार्के अर्कमूलतः ।
मध्ये विष्णुस्तथा न्यस्य सर्वसंहारमूर्तयः ॥
महाकायं क्षेत्रपालं ब्रह्मज्ञानमिति स्मृतम् ।
प्रतिष्ठेदिन्द्रसंयुक्तं भगवन्तं सदाशिवम् ॥
ब्रह्मावालं जित्रियाजां द्विवृद्धिं जितवेत्ति ।
कण्ठकहृदयपादनाभिगुह्यशिराशिर ॥
प्. १५८)
पुनः पुनः प्रविन्यस्य ओंकारं मन्त्रविन्यसेत् ।
ब्राह्मणान् स्वास्तिवाचञ्च सर्ववाद्यञ्च घोषयेत् ॥
* * * * बलिं कृत्वा * * * * मुत्तमम् ।
नवभेद क्षेत्रपाले विधिवत् क * * पुनः ॥
* * * * * * * * * * * *
पृथक् ।
शास्त्रोक्तं विधिं कृत्वा स्थापनं वृद्धिदं शुभम् ॥
लक्षणेन यथा कर्मं स्थानभ्रंशं विनश्यति ।
इति ब्रह्मयामले शतसहस्रसंहितायां क्षेत्रपालविधिर्नाम
एकचत्वारिंशत्पटलः
अथातस्संप्रवक्ष्यामि मातॄणां शूलसंग्रहम् ।
उत्तरं दक्षमयनमुत्तरमुत्तरन्तथा ॥
दक्षिणमयनञ्चैव षण्मासञ्चैव वर्जयेत् ।
उत्तरोत्तरमभ्युक्तमुत्तरं सर्वसंग्रहम् ॥
इत्येते संग्रहं शूलं सर्वकामार्थसाधनम् ।
सुभिक्षं क्षेममारोग्यं सर्वसस्य विवर्धनम् ॥
चातुर्वण्यं हितञ्चैव सर्वारिष्टविनाशनम् ।
ग्रामे वा नगरे वापि सर्वशान्तिकरं शुभम् ॥
सुवर्णरजतं लोहं दारुशूलं तथैव च ।
मृत्तुमृण्मयस्यार्धञ्च मुहूर्तं गृहसंग्रहम् ॥
प्. १५९)
स्वस्तिवाचक वाक्यञ्च ब्रह्मघोषन्तथैव च ।
पटहं मद्दलं तालं करटीतिमिला तथा ॥
शंखकालसमायुक्तं मातृघोषं तथैव च ।
आचार्य शिष्यसंयुक्तं वस्त्राभरणमेव च ॥
अंकुरार्पण पूर्वोक्तं मधिवासन कर्मणि ।
मातृमण्टपसंयुक्तं शान्तिनं शान्तिकर्मणि ॥
स्थण्डिलं तत्र कुर्वीत अष्टद्रोणन्तु शालिभिः ।
तदर्धन्तण्डुलञ्चैव तण्डुलार्धतिलन्तथा ॥
तस्यार्धं तिलसंयुक्तं दर्भमुष्टिन्तु विस्तृतम् ।
तन्मध्ये पंकजं लिख्य सर्वालंकारशोभितम् ॥
अश्वत्थोदुम्बरं प्लक्ष वटवृक्षं तथैव च ।
चतुरश्रसमं कृत्वा हस्तमात्रप्रमाणकम् ॥
स्थण्डिले विन्यसेत् पीठं आचार्यस्साधकैस्सह ।
पाद्यमाचमनीयञ्च गन्धपुष्पादि चार्चयेत् ॥
पाद्यादि सर्वमन्त्रेण अर्चयित्वा विधानतः ।
अजं रुधिर मांसादि सर्वे हविर्निवेदयेत् ॥
निवेदनन्तु निर्माल्यं सर्वञ्चैव विसर्जयेत् ।
ताम्बूलं सद्यमन्त्रेण साधकाचार्य पूत्रकः ॥
आचार्य अ * मन्त्रस्य मृत्युपीठस्य साधनम् ।
प्रदक्षिणञ्चैव आलयस्य प्रदक्षिणम् ॥
प्. १६०)
प्रतिमन्दक्षिणञ्चैव आचार्यं सर्वमातृकम् ।
प्र * * * * * * * सदाशिव शिवस्तथा ॥
वसवश्चाष्टभिश्चैव द्वादशादित्य एव च ।
रद्रमेकादश सर्वे अश्विन्याश्च समन्वितम् ॥
इन्द्राग्नि यमनिर्-ऋति वारुणवायुरेव च ।
सोमेशोन्यस्तथा चैव आगछन्तु नमो नमः ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डी गणरुद्रका ॥
इत्येते क्रमशश्चैव माणाञ्च नमो नमः ।
योगिनी डाकिनी चैव साकिनी पूतना ततः ॥
पालिनी दुन्दुभिश्चैव तथोच्छिष्टा च मातरः ।
भूतप्रेत पिशाचाश्च वेतालञ्च तथैव च ॥
कुमारग्र(र)कूश्माण्ड महादेव ग्रहस्तथा ।
सर्वञ्च सर्वलोकञ्च सर्वपीठञ्च देवता ॥
द्वात्रिंशदधिपश्चैव आगछन्तु नमो नमः ।
आचार्यं मन्त्रसंयुक्तं सावका संहिता च वै ॥
महाकालस्य विन्यस्य मातृमण्डलसंग्रहम् ।
द्वितीयं लक्षणैर्युक्तं शिल्पिसायकसंग्रहम् ॥
यात्रा पात्रपीठस्य द्वा वा पीठे शिल्पिना कृतम् ।
सर्वलक्षणसंयुक्तं शिल्पिनां लक्षणैर्युतम् ॥
प्. १६१)
इत्येते क्रमशश्चैव शूलं ग्रभगृहं भवेत् ।
सर्वलक्षणसंयुक्तं शिल्पि चित्रकलक्षणं ॥
ब्राह्मणा क्षत्रिया वैश्या शूद्रैर्वा शूद्रलक्षणम् ।
दशतालं नवतालं तु विप्रस्य नवतालं क्षत्रियस्य तु ॥
अष्टतालन्तु वैश्यस्य सप्ततालन्तु शूद्रकः ।
वामदक्षिण खड्गञ्च मध्यमा शूलपत्रकम् ॥
चतुरंगुलि विस्तारं पत्रखड्गञ्च वक्त्रकम् ।
द्वितालं सर्ववर्णञ्च शूलस्थापनमेव च ॥
अग्रं दशांगुलवक्त्रं पीठाष्टांगुलवक्त्रकम् ।
पीठन्तु षोडशांगुल्यं चतुरश्रं पीठसंग्रहम् ॥
सर्वलक्षणसंयुक्तं चित्रपत्र * * * * ।
शान्तिकञ्चैव कालीस्थापनमुत्तमम् ॥
* पीठक्रमञ्चैव हस्तमात्र प्रमाणकम् ।
सर्वलक्षणसंयुक्तं सर्वचित्रविचित्रकम् ॥
सर्वांगं सर्वसंयुक्तं शिल्पचित्रकलक्षणम् ।
शूलपत्रञ्च देवस्य ब्रह्मब्रह्मञ्च विन्यसेत् ॥
वामपत्रं तथैशान्यां दक्षिणं विष्णुपत्रकम् ।
इत्येते अधिदेवा वा शूलपत्रस्य देवता ॥
शूलपीठं महाकालं मध्यमञ्च विधीयते ।
बहुवीरञ्च पीठस्य अस्त्रपीठस्य विन्यसेत् ॥
प्. १६२)
अग्रपीठस्य दण्डं वै पादपीठं तदीशितम् ।
शान्त्यर्थस्य विस्तारं त्रिभागं भागमेव च ॥
दण्डं वक्त्रेणसंयुक्तं षोडशांगुलविस्तृतम् ।
त्रिभागं घण्टविस्तारं सर्वलक्षणसंयुतम् ॥
पादपीठस्य विस्तारं द्वितालं चतुरंगुलम् ।
सर्वचित्रकलेख्यञ्च अष्टपत्रं सकर्णिकम् ॥
वामांगमभिसंयुक्तं मनोन्मनि मयान्तकम् ।
द्वात्रिंशदधि दैवत्यं अभ्यन्तराभ्यन्त देवता ॥
मध्ये दण्डस्य देवानां अष्टमञ्चाधियोगिनी ।
इत्येते क्रमशश्चैव शूलसंग्रहमेव च ॥
ब्राह्मण क्षत्रियी वैश्या शूद्रो वा पुत्र वृद्धिदम् ।
सर्वलोकहितं पुण्यं सर्वशान्तिकरं परम् ॥
सर्वव्याधिविनाशञ्च सर्वारिष्टविनाशनम् ।
ग्रामं ग्रामपतिञ्चैव शूलसंग्रहमेव च ॥
ब्राह्मण क्षत्रियो वैश्य कर्ता भर्ता विवर्धनम् ।
महामारी प्रशमनं वातव्याधि विनाशनम् ॥
सुभिक्षं ग्रामवृद्धिञ्च सर्वसस्य विवर्धनम् ।
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथैव च ॥
मुहूर्तकालहीनञ्च कालकलन्तथैव च ।
सर्वदोषं विशेषेण कर्तव्यं सर्ववर्जितम् ॥
प्. १६३)
लोहार्चनञ्च शूलञ्च लोहार्थं मात्रशूलकम् ।
इति ब्रह्मयामले शतसहस्रसंहितायां शूलस्थापनविधिर्नाम
चत्वारिंशत्पटलः
अथातस्संप्रवक्ष्यामि प्रायश्चित्त विधिक्रमम् ।
मातृशान्तिषु योगेषु यथादोष प्रवृत्तये ॥
तद्दोष शमनार्थाय प्रायश्चित्त विनिर्णयम् ।
प्रासादञ्च्छिन्नभिन्नञ्च कालेन पतितेन च ॥
शैलं वा प्रतिमं वापि क्षतं वा भग्नमेव वा ।
सिरा चैव परैर्वापि पतितं भिन्नमेव वा ॥
हीनको व्याधितो वापि आलयं प्रतिमां तथा ।
तोरणं पतितञ्चैव द्वौसूर्य प्रभयोरपि ॥
भूमिं वा कम्पनञ्चैव अग्निना दहनेपि वा ।
समयी साधकश्चैव पुत्रकावार्य संयुतः ॥
यजमानव्याधिपीठं चित्रकेटकसर्वतः ।
हीनाद्वै दक्षिणेर्यत्र हनहीनमथापि वा ॥
हेमे तु द्रव्यहीने तु वस्त्रहीनञ्च तद्भवेत् ।
देवं न रूपं विज्ञेयं प्रायश्चित्तं प्रशस्तकम् ॥
नवाक्षरेण मन्त्रेण प्रत्येकाष्टशतं हुतम् ।
समिधा तिलपर्यन्तं देव्या गायत्री हूयते ॥
प्रासादे मण्टपे भिन्ने शूलादष्टायुधानि च ।
नवशक्तिसमायुक्तं होमयेत् तु शताष्टकम् ॥
प्रासादं भिन्नहीनन्तु बालस्थानं प्रकल्पयेत् ।
प्रासादं तत्र कुर्वीत आचार्यश्शिल्पिभिस्सह ॥
पूर्वोक्तेन विधानेन संप्रोक्षणमथाचरेत् ।
तत्र हीनहुते चैव मूलमन्त्रञ्च कारयेत् ॥
मातॄणाञ्च प्रतिष्ठान्ते सुधाचित्रादि शोभिते ।
चण्डालहीनवर्णञ्च श्वानस्पर्शनसंकरे ॥
संकरेतरजातीनां पतितोन्मत्तका अपि ।
खण्डस्फुटित भिन्नञ्च कवाटं स्तंभयोरपि ॥
संप्रोक्षणं प्रकर्तव्यं पूर्ववद्विधिचोदितम् ।
ग्रामादिपत्तनस्यान्ते नराणां व्याधिपीडिते ॥
सर्वामुख प्रयत्नेन संप्रोक्षणमतः कुरु ।
तत्रैवं न कुर्यात् तु पूर्वोक्तेन विधानतः ॥
पूर्वोक्तेन विधाने पुंसवं कारयेद्बुधः ।
तत्रैव स्नपनं कुर्यात् तथा वित्तानुसारतः ॥
तत्रैव तद्धानेन्मन्त्री नवाक्षरेण बुद्धिमान् ।
सहस्रन्नवकञ्चैव अष्टोत्तरशतं हुतम् ॥
तत्रैव त्रिविधं होमं उत्तमादि यथाक्रमम् ।
सर्व द्रव्येषु शान्तानि पूर्णाहुतिं विशेषतः ॥
प्. १६५)
आचार्य व्याधिप्राप्तस्यात् कर्ता वा व्याधिपीडितः ।
होमयेन्मूलमन्त्रेण त्याज्या तिलसंयुतम् ॥
अग्निना दहने वस्त्रे आलये प्रतिमापि वा ।
सर्वद्रव्येषु संयुक्तं नवबीजेन होमयेत् ॥
भूमेर्वा कम्पने चैव रोगेषु कलहेषु च ।
तोरणं पतनञ्चैव मूलमन्त्रेण संयुतम् ॥
होमयेत् पञ्चविंशत्या हुत्वा वै कैः पृथक् पृथक् ।
नवाक्षरेण मन्त्रेण उत्तालक्तन्तथैव च ॥
चण्डालस्पर्शने चैव यत्र भिन्नञ्च वर्जयेत् ।
भाण्डमन्यत्तु संस्थाप्य प्रणवेन तु संयुतम् ॥
शयनैर्वा मरणैर्वा जलसंप्रोक्षणं विधिः ।
श्वानैर्वा म्लेच्छजाती च शिल्पिर्वा चित्रकर्मणि ॥
आलयाभ्यन्तरे चैव गमने दोषकृद्भवेत् ।
प्रायश्चित्तन्तु कर्तव्यं संप्रोक्षणमथा चरेत् ॥
देवीनामर्चने काले यथादोषं प्रवर्तते ।
लिंगं वा प्रतिमां वापि परशुं शूलमेव वा ॥
घण्टाञ्च कलशञ्चैव धनुर्नारा च मेव च ।
अन्त्यैश्चायुधैर्युक्तं बलिबालेष्वयं तथा ॥
प्रमादात्पतिते भिन्ने यथा संभवतो मता ।
यथालाभं गृहीत्वा हुत्वा देवीं निवेदयेत् ॥
पगे नो. १६७ नोत् अवैलब्ले इन् थिस् त्रन्स्च्रिप्त्.
प्. १६७)
हुत्वा वै मूलमन्त्रेण पुनः प्रदक्षिणमारभेत् ।
दिव्यन्तरिक्ष भौमानि निमित्ता शत्रुदनाशुभम् ॥
काकैर्वा कुक्कुटैर्वापि शृंखल * * * * * ।
महावातभयं वापि यत्रदीर्घञ्च मानुषे ॥
मानुषैर्वा विरोधस्स्यात् * * * * * * * * ।
* * * * * * * * * * ध्वजपातने
॥
प्रमादाद्यत्र हीने तु सर्वयुक्त प्रमाणकैः ।
मूलगायत्रि मन्त्रेण सहस्रं वा शताष्टकम् ॥
स्वचक्रं परचक्रं वा क्षोभयुद्धं यथा भवेत् ।
देव्या गायत्री मन्त्रेण होमयेन्मूलविद्यया ॥
दर्वीव होमद्रव्येव निष्कले प्रतिमेपि वा ।
कालित्थश्च लडं वापि मूलमन्त्रेण होमयेत् ॥
यत्र कुम्भं प्रतिष्ठाप्य पतितं चेत्प्रमादतः ।
नवाक्षरेण मन्त्रेण तदेवं होमयेद्बुधः ॥
स्नपनस्याधिवासेन कलशं भग्नमेव च ।
तत्रैक कलशे मध्ये यदादोषं प्रवर्तते ॥
ध्वजे च पतिते वापि ध्वजादण्डस्य भेदने ।
तत्र होमं प्रकुर्वीत समयाद्यासु विद्यया ॥
पशूनां छेदने यत्र उदरे वत्सदृश्यते ।
तद्दोषशमनार्थाय प्रायश्चित्तं विशेषतः ॥
प्. १६८)
जप्त्वा संप्रोक्षणं कृत्वा ततश्चोत्सवमारभेत् ।
सप्ताहमपि कुर्वीत उत्सवं प्रत्यहं बुधः ॥
स्नपनञ्च प्रकर्तव्यं यथाशास्त्रानुसारतः ।
तत्तच्छान्तिं प्रकूर्वीत प्रजोत्पातकमारणम् ॥
सर्वदुःखकरं नित्यत्यं यजमानव्याधि पीडितः ।
होमयेद् विधिवत्पूर्वं मूर्तमादिषु योजयेत् ॥
नित्योत्सवविहीने तु सन्धिहीने तथैव च ।
तस्य होमं प्रकूर्वीत मूलमन्त्रादिसंयुतम् ॥
एकं पञ्चदशं वापि एकाष्टं पूजहीनके ।
मासेन नवं कुर्यात् पञ्चाशच्च शताष्टकम् ॥
अर्धमासे दशत्येकं स्नापयेत् तु यथाविधि ।
मासादिवत्सरान्ते तु प्रायश्चित्तं यथाविधि ॥
एककालं द्विकालं वा त्रिकालं वा न पूज्य च ।
एकादशकरात्रं वा देव्यादि छिन्न पूज्य च ॥
यस्य कालविहीने तु तस्य शान्तिं समारभेत् ।
कालाधिकं भवेत् तत्र होमाद * * कं भवेत् ॥
यस्य हीने विदे वियाने तदा पृष्टे प्रतिलोमानुलोमकैः ।
ग्रामे वा नगरे वापि नराणां व्याधिपीडितम् ॥
तस्मात् सर्वप्रयत्नेन देवि सान्निध्यकारकम् ।
प्रायश्चित्तं प्रकुर्वीत वाद्यहीनं तथैव च ॥
प्. १६९)
करमुद्रा विहीनन्तु होमस्थानन्तु यद्भवेत् ।
नृत्तकाले प्रमादाद्वा नराणां पातने सति ॥
तथा होमं प्रकुर्वीत पशुं हत्वा यथाविधि ।
आज्याहुति सहस्रं वा क्षेत्रशान्तिं तथा कुरु ॥
तस्मान् नृत्तं समारभ्य ग्रामादीनां प्रदक्षिणम् ।
मार्जनं ताटनं कुर्यात् देव्योवन्तु वर्जयेत् ॥
मार्जना हीने तु ताट्यं स्थाननाशं भविष्यति ।
तस्मात् सर्व प्रयत्नेन शान्तिहोमं समाचरेत् ॥
ततस्तु शेषमातोद्यं पटहादि यथाक्रमम् ।
नरादि मक्षिकान्तानि न कुर्यात् तत्र लंघनम् ॥
प्रमादाल्लंघयित्वा तु हुत्वा देव्या निवेदयेत् ।
नवाग्नीव शिवं ध्यात्वा अर्चयेन्मूलविन्यसेत् ॥
अन्यांस्तु लंघयित्वा तु देवीं तत्र प्रपूजयेत् ।
उत्सवो दिश्यावद्यस्तु धार्यते त्रिषु पौरुषम् ॥
महादोषः प्रवर्तन्ते वदामीतिरजस्वला ।
दोषानुरूपं संवक्ष्ये शान्तिं कुर्याद् विचक्षणः ॥
प्रतिष्ठाकालक्रिया सर्वे कारयेत् सुसमाहितः ।
एवं परीक्ष्य बहुधा कारयेत् तत्र वित्तमः ॥
आचार्यं पूजयेत् सम्यक् वस्त्रहेमांगुलीयकैः ।
इति ब्रह्मयामले शतसहस्रसंहितायां प्रायश्चित्तविधिर्नाम
त्रिचत्वारिंशत्पटलः
प्. १७०)
शूलस्य लक्षणं वक्ष्ये शृणुब्रह्मन्यथा क्रमम् ।
प्रतिमायांश्च चायामञ्चोत्तमं मध्यमाधमम् ॥
नाभेरन्तं तदूर्ध्वन्तु ललाटान्तमुत्तमं भवेत् ।
तत् तन् मध्यमं ज्ञेयं तदर्धं मध्यमं भवेत् ॥
तस्मान्मध्यं समावर्थवर्तयेदर्धचन्द्रवत् ।
मध्यभागेन कर्तव्यं मध्यभागं यथा भवेत् ॥
मध्यभागलतायां वै हस्त्रनेयस्त्रियं भवेत् ।
ग्रीवा पीठाक्षरं नेत्रे ब्रह्माणी च चतुर्भुजे ॥
चतुर्वक्त्रसमोपेतं वक्त्रे वक्त्रे विलोचनम् ।
पद्ममाला समोपेता कृष्णाजिनविभूषितम् ॥
उपवीतधरां देवीं चित्र * * * * * * ।
पंकजासनसंयुक्तं हंसासनमथापि वा ॥
कमण्डलुं वामहस्ते दक्षिणे अक्षसूत्रकम् ।
* * * * * * के पंकजासनसंयुतम् ॥
एवं विधनतन्नेत्रः लक्षणेनसमन्वितम् ।
नेत्रोपरि नेत्रे च वैष्णवी लक्षणान्वितम् ॥
कालालगांगसंयुक्ता तथा चाष्टभुजान्वितम् ।
हारकेयूरसंयुक्तं रक्ताम्बरविभूषितम् ॥
ईदृशां विन्यसेन्नेत्री त्रिणेत्रं शान्तरूपिणम् ।
विधिना * ञ्च कर्तव्यं वायव्यां लक्षणान्वितम् ॥
प्. १७१)
पार्श्वयोस्तु भागाभ्यां पार्श्वशूलं यथा भवेत् ।
मध्य भागस्य पार्श्वञ्च पार्श्वशूलं यथा भवेत् ॥
तस्यां शूलं यथाभागं बाहुलञ्चोच्यते क्रमात् ।
तासां पदस्य विस्तारमष्टांगैः कारयेद् बधः ॥
अष्टभागैकभागन्तु तासां बाहुलमुच्यते ।
तदर्धं वैकदेशे तु अनुपूर्वक्रमेण तु ॥
भ्रामयेद् विततो विद्वान् लक्षणेन समन्वितम् ।
मध्यभागस्य पार्श्वे तु तद्भागे परिवर्तयेत् ॥
भागद्वयं तथा मध्ये ग्रासद्वैव विचक्षणः ।
तस्यां शूलयथाभागं त्रिभिर्भागैस्तु मूलतः ॥
ग्रीवा पीठं प्रकर्तव्यं चतुरश्रं सुशोभनम् ।
सप्तभागैकबाहुल्यं पीठविस्तारतो भवेत् ॥
कौशुकादिमुनौ जाति पीठकोणेषु शोभितम् ।
घण्टाजालसमायुक्तं पिप्पली पत्रशोभितम् ॥
ग्रीवा पीठं भवेदेवमुपशोभासमन्वितम् ।
पीठं वै पार्श्वतश्चैव भागद्वयविना विनाशयेत् ॥
पार्श्वशूलं यथाग्रन्तु ईषच्छेदादिकं भवेत् ।
स्वर्णेनैव प्रकर्तव्यं शूलं वै देवता भवेत् ॥
स्वर्णरजते सर्वे सुवर्णं शूलमुच्यते ।
रजतेन प्रकर्तव्यं राजदंशूलमुच्यते ॥
प्. १७२)
राजतं मध्यमं ज्ञेयं मध्यमं तत्प्रकीर्तितम् ।
राजतन्तु भवेत् सर्वं त्रिशूलं कारयेद् बुधः ॥
शुद्धेनैव प्रकर्तव्यं कन्यसं शूलमुच्यते ।
शुभाकारं भवेत् सर्वं पू * * * * * न्वितम् ॥
एतेष्वेकं समाश्रित्य कारयेत् तत्र वित्तमः ।
अवाटवादिरा नालं कृमिकोटर वर्जितम् ॥
योजयेत् तत्र वित्प्राज्ञो यथा विस्ताररूपतः ।
आसनेनाभि कर्तव्यं सारमध्यं सुशोभनम् ॥
तद्भागं त्रिगुणानालं आयुधं च प्रकीर्तितम् ।
ग्रीवाभागं त्रिभागैकं नाहं तस्य प्रकीर्तिता ॥
पीठे वै वीरभद्रस्यात् यथा विधि पुरस्सरम् ।
तत्पीठस्य तु विस्तारं तदर्धा येन कीर्तिता ॥
विस्तारं सर्वभागैकं बाहुलञ्च प्रकीर्तितम् ।
वर्तभागैकमुत्सेधं पीठस्यैव प्रकीर्तितम् ॥
ग्रीवं पीठस्य चाकारमधस्तात् सदृशं भवेत् ।
चतुरश्रं भवेदूर्ध्वमधस्ताच्च तताश्रकम् ॥
वृत्ताकारं भवेदूर्ध्वमधस्ता धृतमुच्यते ।
एवं पीठं प्रकर्तव्यमूर्ध्वाधः पद्मशोभितम् ॥
वीरभद्रादि मातॄणां शूलपीठे तु विन्यसेत् ।
एवं वै लक्षणं प्रोक्तं शूलस्त्वेव समासतः ॥
प्. १७३)
गर्भादेन प्रकर्तव्यं शास्त्र दृष्टेन कर्मणा ।
एवमेव प्रकर्तव्यं शूललक्षणसंयुतम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां शूललक्षणविधिर्नाम
चतुश्चत्वारिंशत्पटलः
शूलप्रतिष्ठां प्रवक्ष्यामि शृणु ब्रह्मन्यथा क्रमम् ।
प्रासादस्याग्रतः कुर्यात् ऐशान्यन्तु विशेषतः ॥
नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ।
मण्टपं कारयेत् तत्र शास्त्रदृष्टेन कर्मणा ॥
मण्टपञ्चतुरश्रन्तु लक्षणेन समन्वितम् ।
त्रिविधैकं समाशृत्य मण्टपं कारयेद् बुधः ॥
(नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ।
मण्टपं कारयेत् तत्र)
द्विविधं मण्टपं प्रोक्तं चोत्तरे वासनं भवेत् ।
षोडशस्तम्भसंयुक्तं चतुष्तोरणसंयुतम् ॥
पञ्चभागं त्रिभागैकं देवी विस्तारमुच्यते ।
तद्विभागैकमुत्सेधं दर्पणोदरसन्निभम् ॥
मेखलात्रय संयुक्तं सर्वलक्षणसंयुतम् ।
यदैकमेखलां कुर्यात् * * * * * * * * ॥
* * * * * * द्रोक्तमेखलाया समन्तथा ।
प्रथमा मे * * प्रोक्ता चोक्तमाद्यप्रकीर्तिता ॥
तस्मादंगुलहीना च द्वितरा * प्रकीर्तिता ।
मध्यमा सा च प्रकीर्तिता ॥
उत्सेधन्तावदेवोक्त तस्माद्विस्तारमुच्यते ।
दिक्सोपान समायुक्त मनोज्ञा च प्रकीर्तिता ॥
उत्सेधन्तावदेवोक्तं तस्माद्विस्तारमुच्यते ।
दिक्सोपानं भवेत् ब्रह्मन् चतुर्दिक्षुक्रमेण तु ॥
चतुद्वारसमायुक्तं दर्भमालावलम्बितम् ।
वापनोपरि सञ्छन्नं पुष्पमालोपशोभितम् ॥
धूपदईपसमायुक्तं तोरणैश्च समन्वितम् ।
प्लक्षोदुम्बरमश्वत्थं वटं पूर्वादितः क्रमात् ॥
प्लक्षन्तु तोरणञ्चैन्द्रे याम्ये चौदुम्बरं भवेत् ।
अश्वत्थम् वारुणं ज्ञेयं वटं सौम्ये च कीर्तितम् ॥
एवं वै तोरणं ज्ञेयं लक्षणेन समन्वितम् ।
भूमौ ततः प्रविष्टञ्च तदूर्ध्वञ्च चतुर्भुजम् ॥
आपन्तोरणसंयुक्तं लक्षणेनसमन्वितम् ।
अर्चयित्वा विधानेन कलशं तेषान्तु मूलतः ॥
एवं वा मण्टपं कृत्वा ध्वजस्य स्थापनं कुरु ।
अधिवासनं विना पूर्वे ध्वजमुथापयेद् गुरुः ॥
ध्वजमुत्थाय विधिना स्थण्डिलं तत्र कारयेत् ।
स्थण्डिलञ्च प्रकर्तव्यं देविकायां विचक्षणः ॥
प्. १७५)
एकोत्तर पदेष्वेव मध्ये पद्मं प्रकल्पयेत् ।
एकैकान्तरितस्तस्मिन् पदमेकन्तु ह्रासयेत् ॥
द्रोणतण्डुलसंयुक्तं विकिरेन्वसमन्ततः ।
शोभितञ्चैव पद्मैस्तु मध्यमेन तिलेन च ॥
तत्पद्मं कर्णिकायुक्तं लक्षणेन समन्वितम् ।
आसनं कल्पयेत् तत्र शास्त्रदृष्टेन कर्मणा ॥
पञ्चाचार्यसमायुक्तं अथवास समन्वितम् ।
अष्टमंगलसंकीर्णे मंगलं कुरु * * * ॥
* * शायते शूलं सर्वदेवमयं शुभम् ।
जलावाहसंयुक्तं शूलं वै लक्षणान्वितम् ॥
एवं कृत्वा विधानेन शूलं स्थापयेत् बुधः ।
* * * * * * * होमकार्यं समारभेत् ॥
वेदिकायान्तु परितः चैन्द्रादिक्रमयोगतः ।
चतुरश्रं भवेदैन्द्रं योन्याकारन्तु पावके ॥
अर्धचन्द्रो भवेद्याम्ये त्रिकोण नैर्-ऋतं भवेत् ।
वर्तुलं वारुणं ज्ञेयं षट्कोणं वायुगोचरे ॥
सौम्ये पद्मनिभाकारैरैशान्यामष्टकोणकम् ।
एतेषु होमं कर्तव्यं शास्त्रदृष्टेन कर्मणा ॥
समित्सर्पि दधिक्षीरं मधुलाजाधिकं क्रमात् ।
त्रो वेलं प्रकर्तव्यमधिपस्य प्रयत्नतः ॥
प्. १७६)
ततः प्रभाते विमले शूलस्थापनमारभेत् ।
स्थापयेन्मातृमन्त्रेण आचार्यो मन्त्रविग्रहः ॥
मण्टपस्य तु तन्मध्ये वेदिकायां विचक्षणः ।
वेदिकायां मनोज्ञायां शास्त्रोक्तायां वरानने ॥
रत्नन्यासोत्तरे काले शूलन्तत्र प्रतिष्ठयेत् ।
तदन्ते स्नपनं कुर्यादन्ते भूतबलिं क्षिपेत् ॥
अपराह्ने तदन्ते तु यज्ञस्तु यथाक्रमम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां शूलप्रतिष्ठा नाम
पञ्चचत्वारिंशत्पटलः
बलिपीठं प्रकर्तव्यं सर्वतो दिक्षु वै तथा ।
सुमहिनी शोषणी चैव मोहिनी कंपनी तथा ॥
धूम्राक्षी च विशालाक्षी सुमुखी दुर्मुखी तथा ।
तृतीयावरणे कुर्यात् अनिरूपा च तिष्ठति ॥
द्विभुजा श्यामवर्णां च शुभंकरी तथा शुभा ।
ऐशान्यां क्षेत्रपालस्तु लोहजं सेति पितृता ॥
आलयस्य बलीनान्तु पञ्चदण्डान्तमन्तरे ।
परिवारस्यालयं कुर्यात् पीठं वा चोत्तरान्दिशि ॥
तृतीयावरणे यस्य बाह्यतः परिकल्पयेत् ।
प्रतिष्ठिता एकवीरी बहुवीरी प्रकल्पयेत् ॥
प्. १७७)
बहुवीरं विना यत्र एकवीरं न कारयेत् ।
एकवीरं विना यत्र बहुवीरं न कारयेत् ॥
इदमेव प्रकर्तव्यं सर्वशान्तिर्भविष्यति ।
अतः परं प्रवक्ष्यामि मातॄणां लक्षणं शुभम् ॥
श्रीप्रदं पुत्रदञ्चैव धनधान्यसुवर्धनम् ।
सिद्धिदं मुक्तिदञ्चैव परचक्रविनाशनम् ॥
सर्वमारि प्रशमनं सर्वज्वरविनाशनम् ।
तुष्टिपुष्टिविवर्धनञ्च सुभिक्षमायुवर्धनम् ॥
एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।
बलिहोमार्चनैर्युक्तं सर्वपापक्षयं भवेत् ॥
तस्मात् सर्वप्रयत्नेन मातॄणां कारयेद्बुधः ।
पूर्वतो वीरभद्रन्तु पश्चिमे तु विनायकम् ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणि चामुण्डी च ततः परम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां बलिपीठ मात्रलक्षणो नाम
षट्चत्वारिंशत्पटलः
अतः परं प्रवक्ष्यामि योगवृक्षस्य लक्षणं ।
तिमिरशूलस्य मूर्तिस्यासमिधा लक्षणेन च ॥
प्. १७८)
तोरणं पञ्चायुधञ्चैव तथा ब्रह्मन् पुरा पुरा ।
खदिरं पनसञ्चैव बिलपञ्चासनन्तथा ॥
मधुकञ्चंपकञ्चैव वसुरन्देवदारुकम् ।
कदम्बमर्जुनञ्चैव पलाशाशंखमेव च ॥
चन्दनो नागवृक्षञ्च जाती च स्पन्दनस्तथा ।
स्तंबकञ्चैव कष्मर्यं शितीतिमिरमेव च ॥
पलाशखदिराश्वत्थं प्लक्षन्यग्रोधबिल्वकम् ।
शमी वैकंकतं चैव वैणवञ्च क्रमेण तु ॥
निम्बरा राजवृक्षञ्च पाटलञ्च तथैव च ।
देष्टरञ्च हितं शुभ्रं कुज्जजीर्णञ्च वर्जितम् ॥
अग्निदमं स्वयं शुष्कं पिपीलिकाभिश्च सेवितम् ।
पतितञ्चोदितञ्चैव हरिवृश्चिक सेवितम् ॥
भेद्यं वा सुषिरञ्चैव अन्नस्तोमसमन्वितम् ।
सर्पञ्च कृकलासञ्च कृमिच्छिद्रञ्च वर्जितम् ॥
मूलहीनं तथा पुष्पं पलाश जीर्णितन्तु वा ।
त्वक्दोष स्फुटितञ्चैव दोषहीनेन वर्जयेत् ॥
भिन्नाहन्नद * * * * * * * * * *
।
शुष्कदग्ध स्वयं भिन्न दक्षिण प्रवणन्तथा ॥
कीर्णकृमिबन्ध * * संपूर्ण पक्षिसेवितम् ।
* * ञ्चैत्यजाताश्च वर्जनीयात् प्रयत्नतः ॥
प्. १७९)
नदीतीरे तटाके वा ग्राममध्ये च दिक्पथे ।
पूतभ्रमो मा * * * * ण्डाल शबराष्टिते ॥
वातादपग्निदग्धश्च तथैव पर्वतेषु च ।
वृक्षग्राह्यास्तदालाभे भ्रगतजन दूषिते ॥
चक्षुरोषराशियुक्तेवस्त्रीणे जलवर्जिते ।
मरुप्रदेषु देशेषु कैतैकीत्तोमसंकुले ॥
गोमायुवृकभूतिष्ठे ग्रन्थर्क्षश्येन संकुले ।
पक्वापक्वसमाकीर्णं म्लेच्छदेशेषु भीषणे ॥
ग्रामप्रदेशे वल्मीके व्रजनी वृक्षसे शुभम् ।
वृक्षसामान्य संकीर्णे बहनकमृणान्विते ॥
किञ्चिद्दोषेण संग्राह्य बहुदोषं विवर्जयेत् ।
दोषरहितभ्रमण वामे खलत्वं न विन्यसेत् ॥
वृक्षमं कर्मता कुर्यात् शस्त्र दृष्टेन कर्मणा ।
तत्रैव वृक्षाग्रगर्भ प्रवक्ष्यते यथाविधि ॥
सिराश्च विवराश्चैव आपद्गूढ यथा तथा ।
मण्डलञ्च तथा गर्भ वृक्षता चेति सर्वतः ॥
वृक्षदोषसमाख्यात सर्वसंपद्विनाशन ।
अधिकञ्चैव विनाशञ्च स्फुटितं पत्रमेव च ॥
स्थूलश्चैवाग्रतश्चैव सुषिरञ्चैव संप्रवै ।
दन्तिवृक्षदोषेण विनारोगे विवरेराग्रविग्रहम् ॥
प्. १८०)
आपत्रे वह्नि दुर्भिक्षं प्रभेदस्स्यात्स्वयं भवेत् ।
मण्डले वर्ण दोषे तु शुभये सर्वजनक्षयम् ॥
रूक्षतायन नाभयं कर्तुर्भवति नित्यता ।
अधिकेथ भवेद्व्याधि भिन्नो वा विग्रहं भवेत् ॥
स्फुटिते प्राणिनाशस्तु कर्तुकारद्वितन्तवे ।
वक्त्रे तु सर्वसन्तापं स्थूलव्याधिर्भविष्यति ॥
कलशे तु भुविव्याधि सुषिरे स्वामिनाशनम् ।
शुभवृक्षसमाकीर्णं बहुनाकतृणान्विते ॥
पद्मोत्पलं वा नाकीर्णे वृक्षही क्षेत्र समाकुले ।
कुशागर्भ संकीर्णन्ते ग्राह्या वृक्षते सदा ॥
अथोत्तरायणे मासे पूर्वपक्षे तथैव च ।
सुमुहूर्ते च नक्षत्रे कुनान्याय कुलन्तथा ॥
नादं दक्षिणोत्तरायां प्रत्ये गर्भ यथा पुनः ।
पुण्याहं वाचयित्वा तु परिभ्रम्य * * * * ॥
पराङ्मुखस्स नमस्कुर्यात् वृक्षञ्चैव तदा कर्म * * ।
* * * * * * * * * पश्चादायुध
मेव वा ॥
समिधेन च तत्र दण्डञ्च समिधेन सकृद्भवेत् ।
एवं विधिसमायुक्तं परिक्षयेत् तत्र वित्तमः ॥
इति ब्रह्मयामले शतसहस्रसंहितायां योगलक्षणो नाम
सप्तचत्वारिंशत्पटलः
प्. १८१)
प्रतिष्ठाविधिं प्रवक्ष्यामि शृणु ब्रह्मन्यथा क्रमम् ।
आषाढे श्रावणे चैव प्रोष्ठपादे तु मेव च ॥
कार्तिका मार्गशीर्षे तु पौष्यफाल्गुनयोरपि ।
प्रतिष्ठां कारयेन्नूनं कारयेत् तत्र वित्तमः ॥
दक्षिणायन काले तु कृष्णपक्षे शुभे दिने ।
प्रासदस्योत्तरे चैव ऐशान्यान्तु विशेषतः ॥
अथवा पूर्वदेशे तु मण्टपं चतुरश्रकम् ।
दशद्वादशहस्तन्तु तथा षोडशहस्तकम् ॥
कन्यसं मध्यमं श्रेष्ठं त्रिविधं मण्टपं स्मृतम् ।
षोडशस्तम्भसंयुक्तं द्वादशस्तंभमेव च ॥
द्वात्रिंशत्स्तंभसंयुक्तं मण्टपन्तु विशेषतः ।
उत्तरापट्टिकायुक्तं पटलाश्चादितं शुभम् ॥
चतुर्भिस्तोरणैश्चैव चत्वारोपशोभितम् ।
यावद्वार प्रमाणानि तावत् तोरणविस्तरम् ॥
विशदंगुलनाहन्तु तथाष्टदशमेव च ।
परिणाहं तथोत्सेधं विस्तारं चतुरंगुलम् ॥
दर्भैर्मालावृतञ्चैव पुष्पमालाप्रलम्बितम् ।
पलञ्च पल्वलञ्चैव पालिका चपलं कृतम् ॥
छत्रचामारसंयुक्तं अष्टदिग्ध्वजशोभितम् ।
इन्द्रादीशानपर्यन्तं मालया चैव कारयेत् ॥
प्. १८२)
शक्तितोरणसंयुक्तं कदलीस्तंभ इक्षुभिः ।
चित्रध्वजसमाकीर्णे नानापुष्पसमाकुलम् ॥
अष्टदिक्षुध्वजञ्चैव पठे वाहन लेखयेत् ।
इन्द्रद्वारं यमद्वारं वरुणद्वारमेव च ॥
सौम्य द्वारसमायुक्तं अष्टध्वजस्य विस्तरम् ।
द्व्यंगुलं शान्तदं प्रोक्तं सुप्रयोगमथोत्तरे ॥
पूर्वमण्टपसंयुक्तं वेदिका चतुरश्रकम् ।
मण्टपं नवभागे तु मध्यभागे तु वेदिका ॥
पञ्चहस्तं प्रमाणं वा चतुर्हस्तमथापि वा ।
त्रिहस्तं वा द्विहस्तं वा एकहस्तमथापि वा ॥
अष्टांगुलाच्छ्रया मानं दर्पणोदरसन्निभम् ।
* * * * * * * * * * * *
* * ॥
नवकुण्डसमायुक्तं मध्ये देवी समन्वितम् ।
चतुर्हस्तं त्रिहस्तं वा एकहस्ते एव शुभम् ॥
उत्तमाधमविज्ञेयं मेखलात्रयसंयुतम् ।
दग्धा मुद्रा तथा ब्रह्मन् मध्यमं मेखलान्वितम् ॥
वितस्तिन्नयो ज्ञातां साम्यकलासलान्वितम् ।
अग्निकुण्डानि वक्ष्यामि प्रतिमाया विशेषतः ॥
चतुरश्रन्तु मिन्द्रायामाग्नेययां योनिमाश्रितम् ।
अर्धचन्द्रं यमस्थाने त्रिकोणे नैर्-ऋतं भवेत् ॥
प्. १८३)
वारुणे वर्तुलं कुण्डं वायव्यान्तु षडश्रकम् ।
सौम्यायां पद्मकुंडन्तु ऐशान्याच्चाष्टकोणकम् ॥
एकहस्तप्रमाणेन कुण्डं कुर्याद् विचक्षणः ।
मेखलात्रयसंयुक्तं खानहस्तप्रमाणकम् ॥
कृत्रिमात्तोरणे काले मूले पुष्पादिभिः क्रमात् ।
ध्वजासीषु न्यसेत् पश्चात् पीतरक्तं तथासितम् ॥
हरितः श्यामवर्णञ्च शिखण्डहरमेव च ।
धूमाभं पावकाभञ्च पूर्वादीशान्तमेव च ॥
चतुर्हस्तञ्च सर्वापि त्रियस्ति द्वयविस्तृता ।
पार्श्वे कदलि कोपेत दग्रे तु विधा कृता ॥
ध्वजानामधिदेवश्च पूर्वादीशान्तमेव च ।
* * * * * * * प्रवक्ष्यामि पितामह ॥
पश्चाद्वौ वारिकां न्यसेत् * * * * * * * * ।
आग्नेयां वक्रिताननां चर्चिकां दक्षिणे न्यसेत् ॥
नैर्-ऋत्यां पिंगले न्यस्य वारुण्यां विन्यसेत् बुधः ।
इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिष्ठा विधिर्नाम
अष्टचत्वारिंशत्पटलः
अथातस्संप्रवक्ष्यामि अल्लिका लक्षणं शुभम् ।
सर्वलोकहितार्थाय सर्वदोष प्रियाय च ॥
प्. १८४)
पुरामञ्जीरदेहात्मा अंकारो जात एव हि ।
यातु अल्लिसमुद्भूता तत्संयोगेन अल्लिका ॥
वेदेन संयुतं पश्चात् अंकार इति कीर्तितः ।
दारुप्रमाणवलयञ्चर्म बन्धाधिदैवतम् ॥
पाठ्यमानं समुत्पत्ति वद मे परमेश्वर ।
ईश्वर उवाच ॥
सभाया लक्षणं वक्ष्ये शृणु त्वं नन्दिकेश्वर ।
चन्दनारग्वध * * * * * * * * पकम् ॥
अनन्तजीवशमिनिम्बखदिरापनसार्जुनौ ।
आरण्यवृक्षौ च * * * * * * * * * का ॥
कनकं रजतं ताम्रं कांस्यञ्च कनकद्वयम् ।
निव * रगुधयुगखदिरश्चोत्तमा स्मृता ॥
समसारशम्यानि हिरण्मयनिद्रगमौ ।
पनसान्तजीवय आलामध्यमा कथिता ॥
इमे मृत् चंपकार्जुन पल्लश्चाधमास्संप्रकीर्तिताः ।
अन्तस्सारा अपि परे कन्यायाः कथिताः द्रुमाः ॥
एकभूमि स्थितं वृक्षं नरन्य दारुसंयुतम् ।
समस्थलसमुद्भूतं चंतुदूग्वायु संहृतम् ॥
ऊर्ध्ववृत्तं मनोहरं ग्राहषयो वाद्यवृक्षकाः ।
अन्यदोषयुतं वृक्षं वर्जयेत् तु प्रयत्नतः ॥
प्. १८५)
लक्षणोपयुतं वृक्षं कञ्चिद्दोषविवर्जितम् ।
ग्राहयेत् सर्वयत्नेन बलिन्दत्वा विशेषतः ॥
सम्यक् कृष्णकृतस्यास्य ततो मानं प्रकल्पयेत् ।
कर्तुरंगुलिमानेन प्रमाणं कारयेद् बुधः ॥
कनिष्ठायश्च तर्जन्यो अग्ररेखा तु ये यदा ।
समस्सत्रं भवेत् तत् तु चतुरंगुलमुच्यते ॥
यत्र दूतं ममानं स्यात् वाद्यनिर्माण कर्मणि ।
कनिष्ठायाश्च तर्जन्या अग्रप्रान्ते समं यदा ॥
चतुरंगुलमाख्यातं तन्मानं मध्यमं विदुः ।
कनिष्ठायाश्च तर्जन्या मध्यरेखाश्च ये यदा ॥
चतुरंगुलसूत्रं यत् तन्मानञ्च यमं विदुः ।
पञ्चत्रिंशत् समारभ्य यावत् पञ्चादशांगुलम् ॥
तावदाधममानं स्यादुत्तमाधममध्यमैः ।
सप्तत्रिंशेन्नवति त्रिंशत् पञ्चाशच्च द्विहीनकम् ॥
उत्तमा याममानं स्यात् अधमं मध्यमुच्यते ।
एकोनत्रिनपञ्चाशच्चतुःपञ्चविहीनकम् ॥
चत्वारिंशद् द्विचत्वाष्टत्रिंशच्च मध्यमम् ।
अष्टांगुलीनामारां सत्वयमस्सनिगाहिः ॥
विस्तारमानन्ति विमुक्तयाधममध्यमैः ।
पञ्चपञ्चाशदारभ्य यावत् सप्ततिरंगुलिः ॥
प्. १८६)
तावद्विस्तारमानं स्यात् उत्तमाधममध्यमैः ।
एकोन सप्तत्यत्र पञ्चनून सप्तषष्ठिकम् ॥
त्रियूनषाष्टृकञ्चैव पञ्चपञ्चाशदुत्तमम् ।
एकं षष्टित्रिषष्टिश्च सप्तषष्टिश्च मध्यमम् ॥
पं शृंग कुड्यं पौरुक्तम् ।
अन्यदलिनिस्तारमधमं कन्यगर्हितम् ॥
एकोनविंशदारभ्य पञ्चपञ्चशतोवधि ।
मुखविस्तारमानं स्यादोष्ठाश्चांगुष्ठमानकः ॥
आयव्ययोनितार वारांशतिय यत् क्रमात् ।
यथा होमञ्च कर्तव्यं मक्षिकादि प्रभेदकः ॥
द्विभागशक्र च स्थूलं मध्यकोशातकोपमम् ।
एकवर्णे बहुगुणो बहुवर्णो मृति प्रदः ॥
क्वचित् क्वचित् प्रदक्षिणं कबर्हात् स्थाननाशनम् ।
एवं लक्षणहीनन्तु दोष दृष्टविवर्जयेत् ॥
गुणयुक्तं समादाय शिल्पकारं विवर्जयेत् ।
कुण्डद्रव्यं समादाय कांस्यान्तं मृणमयोपि वा ॥
अंगुष्ठाकारमात्रेण कुण्डं लक्षणसंयुतम् ।
चतुरंगुलविस्तारमधिकं वर्तमानतः ॥
रज्जुभिस्सम्यगावेष्ट्य मणिबन्ध प्रमाणकम् ।
एवं दक्षिण कुण्डं स्यात् वामकुण्डविधिं शृणु ॥
प्. १८७)
यावच्छृंगमयैः काष्ठैः कुण्डं कुर्यात् त्रिभेदकम् ।
त्र्यंगुलाधिकं वक्त्रात् कुण्डश्लक्ष्णी कृतं शुभम् ।
इति ब्रह्मयामले शतसहस्रसंहितायां अ?ल्लिकालक्षणविधिर्नाम
एकोनपञ्चाशत्पटलः
नागपाशविधिं वक्ष्ये कर्तव्यं धातुभिः क्रमात् ।
त्र्यंगुलमाकृष्य तदाकारेण बन्धयेत् ॥
शंकुसप्तकमाबध्य पट्टे त्र्यंगुलमानकम् ।
धूपिका नामिकं दिव्या तस्यार्धं कुक्षिवृत्तकम् ॥
अधस्तादर्धसुषिरं शंकुकावेधनं दृढम् ।
गोचर्म द्विविधं प्रोक्तं बाह्याभ्यन्तरमंजुलम् ॥
दर्पणोदरसंकाशं सर्वदोषविवर्जितम् ।
कीलञ्च द्विविधं प्रोक्तमुपकीलञ्च कीलकम् ॥
विस्तृतद्वय हस्तोरोमाचार्य निर्मितम् ।
कीलकस्याष्टदीर्घं स्यात् अंगुष्ठोदरमानकम् ॥
रूपसंकोश कार्ये तु कीलस्यादीमपो भवेत् ।
उपकीलस्याष्टभागं च द्वापत्रय समाकुलम् ॥
मृदुना चर्मणावेष्ट्य वामकुण्डमथो दृढम् ।
वलये सुषिरं कुर्यात् द्वयं वा त्रयमेव वा ॥
जीवाय जीवमानं स्यात् अर्धजीवी भयं तथा ।
विपरीतभया चैव षट्भेदाः कर्तरि क्रमात् ॥
प्. १८८)
विपरीतभया चैव षट्भेदाः कर्तरि क्रमात् ।
कर्तरिपारि * चैव कर्तरी चालिकाद्वयम् ॥
रेखन्तु चानु जीवा च बद्धहस्तानुवागनु ।
अनुपालिश्च पञ्चैते बलकाञ्चालजीवकम् ॥
अलकाद्वालिस्तथा चैव मलकालकालकैश्च तु ।
रेखामिश्रं पञ्चमुखं अनुपोदन्तबन्धनम् ॥
कर्तरिजीवा च अन्त्यादिश्च मानकम् ।
मानञ्चालपमानानि द्वादशार्थ प्रभेदकः ॥
रेखादिमानपर्यन्त द्वादशालापचालिकाः ।
बन्धमुक्तमतिप्रोक्तं मालती भेदकद्वयम् ॥
रेखातरतालानां पारणाचालिकात्रयम् ।
चाका च द्विधा प्रोक्ता बाह्याताल प्रदर्शयो ॥
कपित्थमेकं तत्र स्यात् तालवाच्या ततः परम् ।
भेदा वाच्यं स्तोकवाच्यं बहवाच्यमतः परम् ॥
एकवाच्यं काकवाच्यं हंसवाच्यं तथैव च ।
वचो वाद्यञ्च विद्वद्भिरित्यष्टौ संप्रकीर्तितम् ॥
व्यूहमेकं पर्वतत्वं तथा चैकमुदाहृतम् ।
चतुर्विंशति संयुक्तं शतं संख्य प्रकीर्तिताः ॥
सर्वताल प्रयोगेषु तकारस्तु पदं प्रति ।
प्रथमे नियमे तेषां मजीव्य नियमो भवेत् ॥
प्. १८९)
गोपुरश्च नियमो पश्चात् स्रोतो मृन्नियमस्तथा ।
गतिपूर्वश्च नियमस्ते वंशवगुणस्तथा ॥
दीर्घवग्णिकापि स्यात् अन्तरो नियमः परः ।
सताल नियमोपि स्यात् अन्तरीवसुहस्तकाः ॥
पञ्चस्थाली महीष स्यात् चली च बहुचालिका ।
हस्तप्रक्षेपणं पश्चात् तथैवत्यकथापि च ॥
कर्मा वा वर्तकानान्तु वक्ष्यामि दशसंज्ञितम् ।
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्ट नवोदश ॥
प्रागेका वर्तनं प्रोक्तं द्वितीयावर्तनं तथा ।
तृतीयावर्तनञ्चैव चतुर्था वर्तकं तथा ॥
पञ्चमावर्तनञ्चैव षष्ठावर्तन्तथैव च ।
सप्तमावर्तकञ्चैव अष्टमावर्तकं तथा ॥
इति ब्रह्मयामले शतसहस्रसंहितायां नागपाशविधिर्नाम
पञ्चाशत्पटलः
अतः परं प्रवक्ष्यामि आशौचस्यविधिक्रमम् ।
वर्णजातिविधिञ्चैव अनुलोमविधिं क्रमात् ॥
सूतकप्रेतकञ्चैव आशौचञ्च क्रमेण वा ।
(ब्राह्मणाच्छूद्रकन्याया जातोषष्ठ उच्यते ॥)
ब्रह्मचारी जटाधारी सन्यासी शौच वर्जितः ।
वानप्रस्थश्च बौद्धश्च आशौचस्य विवर्जितः ॥
प्. १९०)
ब्राह्मणानां दशाहञ्च क्षत्रयं द्वादशं भवेत् ।
वैश्यानां षोडशञ्चैव शूद्राणां त्रिंशतिस्तथा ॥
अनुलोमजातानान्तु आशौच विधिं शृणु ।
विप्रस्य नृपकन्यायां जातो सवर्णनामकः ॥
एकादशाहमाशौचं द्विजवत्कर्ममाचरेत् ।
विप्रस्य वैश्यकन्यायां जातोंषष्ठ उच्यते ॥
उपवीत समन्त्रज्ञ द्विजवत्कर्ममाचरेत् ।
सूतकप्रेतकञ्चैव आशौचं द्वादशक्रमात् ॥
ब्राह्मणाच्छूद्रकन्यायां जातः पारशवः स्मृतः ।
निषेकादिविवाहान्त द्विजवत्कर्म माचरेत् ॥
सूतकप्रेतकञ्चैव आशौचं षोडशक्रमात् ।
क्षत्रियाद्विप्रकन्यायां जातो वै सूत उच्यते ॥
सूतकप्रेतकञ्चैव द्वादशञ्च भवेत् क्रमात् ।
ब्राह्मणाद्वैश्यकन्यायां चौयाद्वै कुम्भकारकः ॥
सूतक प्रेतकञ्चैव षोडशन्तु भवेत् क्रमात् ।
अनुलोम क्रमञ्चैव कर्मजाति क्रमं शृणु ॥
रुद्रस्य गणिकाश्चैवमाशौचञ्च षोडश ।
तपस्वी देवदासीनां पक्षाशौचं विधीयते ॥
अन्यथा नृत्तवाद्यञ्च दशपञ्च क्रमेण तु ।
विष्णुदासी दासकानां दशपञ्च क्रमेण वै ॥
प्. १९१)
लिंगार्चन शिवभक्तानां आशौचं पक्षमाचरेत् ।
मातृवर्गमाशौचं पितृवर्गञ्च वर्जयेत् ॥
तद्दासी जननास्सर्वे वेश्यापुत्रो विवर्जयेत् ।
सूतकाशौच मध्ये तु मृतश्चेत्सूतकान्तकम् ॥
मृताशौच मध्ये तु जातकं पूर्णमाचरेत् ।
आदन्तजन्मनस्सय आचौलान्ते शिखिस्मृतः ॥
त्रिरात्रमावृतादेशाद् दशरात्रमतः परम् ।
त्रिवर्षादुदकं पिण्डं श्राद्धान्तं पञ्चमात्परम् ॥
अष्टदार्थकलं ग्राह्यं सपिण्डान्तमतः परम् ।
भार्या तु गर्भिणी चैव गर्भन्यासं विवर्जयेत् ॥
द्विभार्या गर्भिणी चैव एकभार्या प्रसूतिका ।
वपनं नैवकुर्वीत नामकर्म च कारयेत् ॥
मातापितृमृते प्राप्ते क्षौरं कुर्वन्विनश्यति ।
कृत्वा चौलोपकुर्वीनात् उदकपिण्डमेव च ॥
गुर्वाचार्यपत्नीनां गर्भवानपि वापयेत् ।
पितृदीक्षा च कुर्वीरन् जातिक्षौरं न कारयेत् ॥
मातापित्रोस्तु दीक्षायां शुभाशुभ विवर्जितम् ।
शिवानुगमनञ्चैव वपनं सिन्धु सेवनम् ॥
अन्तर्वत्या पतिं कुर्वन् प्रजा भवति ध्रुवम् ।
शावान्नं सूतकान्नञ्च सीमन्तोन्नं तथैव च ॥
प्. १९२)
गो क्षीरे दशवारेण भुक्त्वा चान्द्रायणं चरेत् ।
मातापित्रोस्तु दीक्षायां मध्यमे शुभकर्मणि ॥
सप्ते दीक्षासमाप्तैव शुभक्रमणि कारयेत् ।
बहुपुत्रेण दीक्षा च मध्यमे शुभकर्मणि ॥
प्राप्ते कनिष्ठपुत्रेण दीक्षापि च समाप्यता ।
शुभकर्मेण तेनैव कुर्यादपि विशेषतः ॥
मातापितृपितृव्याणां मातुलैः पूर्वजैर्मृतौ ।
पराचार्य * * * नां गर्भवानपि वापयेत् ॥
अन्तवाग्दहनं कुर्यात् केशाश्मश्रूणि वापयेत् ।
गर्भिणी अष्टमासञ्च गर्भवान्कर्म वर्जयेत् ॥
गर्भितेनैव कर्मेण जातकं मध्यमेव च ।
प्रायश्चित्तञ्च कर्तव्यं पुनः कर्मसमाचरेत् ॥
उत्सवे च प्रतिष्ठायां अर्चने होम एव च ।
यत्कालमध्यमे शौचे कर्मान्त्येशौच माचरेत् ॥
मातुश्च पूर्वदीक्षायां पितॄणान्दहनं भवेत् ।
पितुश्च पूर्वदीक्षायां दहनं वपनं क्रमात् ॥
कन्या उदकपूर्वश्च मृत्युः कर्मपिता यदि ।
कन्यादानान्मुदा चैव भक्ताकर्मञ्च कारयेत् ॥
कन्याभक्तमतैश्चैव रजसायपिधाय च ।
गर्भिणी गर्भान्मरणे सूतिकादशमंगली ॥
सहोदरं सखीपुत्री मृतसूते शौच वर्जयेत् ।
भर्तृवर्गञ्च हीनञ्च सहोदरकर्मकारयेत् ॥
अन्त्ये परिश्रम प्रेतं एकाहमं शौच माचरेत् ।
सर्पबन्धञ्च पाशञ्च अग्निदग्धञ्च खड्गकम् ॥
जलं वृक्षनदी शृंगो औषधञ्च प्रयोगश्च ।
दुर्मरणन्नवमञ्चैव प्रायश्चित्त विधि क्रमात् ॥
अन्तरात्मगजे यैव परमात्मा न योजयेत् ।
नारायण बलिञ्चैव ब्राह्मणानां विशेषतः ॥
ग्रहशान्ति विप्र भोजन कर्मञ्चैव तत्कारयेत् ।
षष्ठमासे चतुर्मासे अथवा च त्रिमासके ॥
पुनस्संस्कार कर्वेण अस्तिसञ्चय ॥
मूल पाठ: brahmayāmalam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0