भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.73

4.73.1

अथ त्रिसप्ततितमोध्यायः
नारायण उवाच
अथ कृष्णश्च सानन्दं नन्दं तं पितरं बलः ।
बोधयामास शोकार्तं दिव्यैराध्यात्मिकादिभिः

4.73.2

उच्चै रुदन्तं निश्चेष्टं पुत्रविच्चेदकातरम् ।
दत्त्वा तस्मै मणिश्रेष्ठमित्युवाच जगत्पतिः

4.73.3

श्रीभगवानुवाच
निबोध नन्द सानन्दं त्यज शोकं मुदं लभ ।
ज्ञानं गृहाण मद्दत्तं यद्दतं ब्रह्मणे पुरा

4.73.4

यद्यद्दत्तं च शोषाय गणेशायेश्वराय च ।
दिनेशाय मुनीशाय योगीशाय च पुष्करे

4.73.5

कःकस्य पुत्रः कस्तातः का माता कस्यचित्कुतः।
आयान्ति यान्ति संसारं परं स्वकृतकर्मणा

4.73.6

कर्मानुसाराज्जन्तुश्च जायते स्थानभेदतः ।
कर्मणा कोऽपि जन्तुश्च योगीन्द्राणां नृपस्त्रियाम्

4.73.7

द्विजापत्न्यां क्षत्रियाणां वैश्यायां शूद्रयोनिषु ।
तिर्यग्योनिषु कश्चिच्च कश्चित्पश्वादियोनिषु

4.73.8

ममैव मायया सर्वे सानन्दा विषयेषु च ।
देहत्यामे विषण्णाश्च विच्छेदे बान्धवस्य च

4.73.9

प्रजाभूमिधनादीनां विच्छेदो मरणाधिकः ।
नित्यं भवति मूढश्च न च विद्वाञ्छुचा युतः

4.73.10

मद्भक्तो भक्तियुक्तश्च मद्याजी विजितेन्द्रियः ।
मन्मन्त्रोपासकश्चैव मत्सेवानिरतः शुचिः

4.73.11

मद्भयाद्वाति वातोऽयं रविर्भाति च नित्यशः ।
भाति चन्द्रो महेन्द्रश्च कालभेदे च वर्षति

4.73.12

वह्निर्वहति मृत्युश्च चरत्येव हि जन्तुषु ।
बिभर्ति वृक्षः कालेन पुष्पापि च फलानि च

4.73.13

निराधारश्च वायुश्च वाय्वाधारश्च कच्चिपः ।
शेषश्च कच्छपाधारः शेषाधारश्च पर्वतः

4.73.14

तदाधाराश्च पातालाः सप्त एव हि पङ्क्तितः ।
निश्चलं च जलं तस्माज्जलस्था च वसुंधरा

4.73.15

सप्तस्वर्ग धराधारं ज्योतिश्चकं ग्रहाश्रयम् ।
निराधारश्च वैकुण्ठो ब्रह्माण्डेम्यः परो वरः

4.73.16

तत्परश्चापि गोलोकः पञ्चाशत्को टियोजनात् ।
ऊर्ध्व निराश्रयश्चापि रत्नसारविनिर्मितः

4.73.17

सप्तद्वारः सप्तसारः परिखासप्तसंयुतः ।
लक्षप्राकारयुक्तश्च नद्या विरजया युतः

4.73.18

वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा ।
योजनायुतमानं च यस्यैकं शृङ्गमुज्ज्वलम्

4.73.19

शतकोटियोजनश्च शैल उच्छ्रित एव च ।
दैर्ध्यं तस्य शतगुणं प्रस्थं च लक्षयोजनम्

4.73.20

योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः ।
अमूल्यरत्ननिर्माणो वर्तुलश्चन्द्रबिम्बवतु

4.73.21

पारिजातवनेनैव पुष्पितेन च वेव्टितः ।
कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च

4.73.22

नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा ।
त्रिकोटिरत्नभवनो गोपीलक्षैश्च रक्षितः

4.73.23

रत्नप्रदीपयुक्तश्च रत्नतल्पसमन्वितः ।
नानाभोगसमायुक्तो सधुवापीशतैर्वृतः

4.73.24

पीयूषवापीयुक्तश्च कामभोगसमन्वितः ।
गोलोकगृहसंख्यानवर्णने वा विशारदः

4.73.25

न कोऽपि वेद विद्वान्वा वेदविद्वान्व्रजेश्वरः ।
अमूल्यरत्ननिर्माणभवनानां त्रिकोटिभिः

4.73.26

शोभितं सुन्दरं रम्यं राधाशिविरमुत्तमम् ।
अमूल्यरत्नकलशैरुज्ज्वलं रत्नदर्पणैः

4.73.27

असूल्यरत्नस्तमभानां राजिभिश्च विराजितम् ।
नानाचित्रविचित्रैश्च चित्रितं श्वेतचामरैः

4.73.28

माणिक्यमुक्तासंसक्तं हीरावारसमन्वितम् ।
रत्नप्रदीपसंसक्तं रत्नसोपानसुन्दरम्

4.73.29

अमूल्यरत्नपत्रैश्च तल्पराजिविराजितम् ।
अमूल्यरत्नचित्रैश्च त्रिभिश्चित्रविचित्रितैः

4.73.30

तिसृभिः परिखाभिश्च त्रिभिर्द्वारैश्च दुर्गमैः ।
युक्तं षोडशकक्षाभिः प्रतिद्वारेषु वाऽन्तरम्

4.73.31

गोपीषोडशलक्षैश्च संनियुक्तैरितस्ततः ।
वह्निशुद्धांशुकाधानै रत्नभूषणभूषितैः

4.73.32

तप्तकाञ्चनवर्णाभैः शतचन्द्रसमन्वितैः ।
राधिकारिंकरीवर्गैर्युक्तमभ्यन्तरं वरम्

4.73.33

अमूल्यरत्ननिर्माणप्रङ्गणं सुमनोहरम् ।
अमूल्यरत्नस्तम्भानां समूरैश्च सुशोभितम्

4.73.34

रत्नमङ्गलकुम्भैश्च फलपल्लवसंयुतैः ।
संयुतं रत्नवेदीभिर्मुक्ता युक्ताभिरीप्सितम्

4.73.35

अमूल्यरत्नमुकुरैः शोभितं सुन्दरैरहो ।
अमूल्यरत्ननिर्माणं भवनानां वरं गृहम्

4.73.36

रत्नसिंहासनस्था च गोपीलक्षैश्च सेविता ।
कोटिपूर्णेन्दुशोभाढ्या श्वेतचम्पकसंनिभा

4.73.37

अमूल्यरत्ननिर्माणभूषणैश्च विभूषिता ।
अमूल्यरत्नवसना बिभ्रती रत्नदर्पणम्

4.73.38

रत्नपद्मं च रुचिरं सव्यदक्षिणहस्ततः ।
दाडिम्बकुसुमाकारं सिन्दूरं सुमनोहरम्

4.73.39

सुशोभितं सृगमदैरिष्टैश्चन्दनबिन्दुभिः ।
दधती कबरीभारं मालतीमल्यमण्डितम्

4.73.40

रचितं वामभगेन मुनीन्द्राणां मनोहरम् ।
एवंभूतं (ता) तत्र राधा गोपीभिः परिसेविता

4.73.41

श्वेतचामरहस्ताभिस्तत्तुल्याभिश्च सर्वतः ।
अमूल्यरत्ननिर्माणैर्भूषिताभिश्च भूषणैः

4.73.42

मत्प्राणाधिष्ठातृदेवी देवीनां प्रवरा वरा ।
सुदाम्नः सा च शापेन वृषभानसुताऽधुना

4.73.43

शताब्दिको हि विच्छेदो भविष्यति मया सह ।
तेन भारावतरणं करिष्यसि भुवः पितः

4.73.44

तदा यास्यामि गोलोकं तया सार्धं सुनिश्चतम् ।
त्वया यशोदया चाऽपि गोबैर्गोपीभिरेव च

4.73.45

वृषभानेन तत्पत्न्या कलावत्या च बान्धवैः ।
एवं च नन्दं सानन्दं यशोदां कथयिष्यसि

4.73.46

त्यज शोक्रं महाभाग व्रजैः सार्धं व्रजं व्रज ।
अहमात्मा च साक्षी च निर्लिप्तः सर्वजीविषु

4.73.47

जीवो मत्प्रतिबिम्बश्च इत्येवं सर्वसंमतम् ।
प्रकृतिर्मद्विकारा च साऽप्यहं प्रकृतिः स्वयम्

4.73.48

यथा दुग्धे च धावल्यं न तर्योर्भैद एव च ।
यथा जले तथा शैत्यं यथा वह्नौ च दाहिका

4.73.49

यथाऽऽकाशे तथा शब्दो भूमौ गन्धो यथा नृप ।
यथा शोभा च चन्द्रे च यथा दिनकरे प्रभा

4.73.50

यथा दीवस्तथाऽऽत्माहं तथैव राधया सह ।
त्यज त्वं गोपिकाबुद्धिं राधायां मयि पुत्रताम्

4.73.51

अहं सर्वस्य प्रभावः सा च प्रकृतिनीश्वरी ।
श्रूयतां नन्द सानन्दं मद्विभूतिं सुखावहाम्

4.73.52

पुरा या कथिता तात ब्रह्मणे व्यक्तजन्मने ।
कृष्णोऽहं देवतानां च गोलोके द्विभुजः स्वयम्

4.73.53

चतुर्भुजोऽहं वैकुण्ठे शिवलोके शिवः स्वयम् ।
ब्रह्मलोके च ब्रह्माऽहं सूयस्तेजस्विनामहम्

4.73.54

पवित्राणामहं वह्निर्जलमेव द्रवेषु च ।
इन्द्रियाणां मनश्चास्मि समीरः शीघ्रगामिनाम्

4.73.55

यमोऽहं दण्डकर्त णां कालः कलयतामहम् ।
अक्षराणामकारोऽस्मि साम्नां च साम एव च

4.73.56

इन्द्रश्चतुर्दशेन्द्रेषु कुबेरो धनिनामहम् ।
ईशानोऽहं दिमीशानां व्यापकानां नभस्तथा

4.73.57

सर्वान्तरात्मा जीवेषु ब्राह्मणश्चाऽऽश्रमेषु च ।
धनानां च रत्नमहममूल्यं सर्वदुर्लभम्

4.73.58

तैजसानां सुवर्णोऽहं मणीनां कौस्तुभः स्वयम् ।
वैष्णवानां कुमारोऽहं योगीन्द्राणां गणेश्वरः

4.73.59

पुष्पाणां पारिजातोऽहं तीर्थानां पुष्करः स्वयम् ।
शालग्रामस्तथाऽर्च्यानां पत्राणां तुलसीति च

4.73.60

सेनापतीनां स्कन्दोऽहं लक्ष्मणोऽहं धनुष्मताम् ।
राजेन्द्राणां च रामोऽहं नक्षत्राणामहं शशी

4.73.61

मासानां मर्गशीर्षोऽहमृतूनामस्मि माधवः ।
वारेष्वादित्यवारोऽहं तिथिष्वेकादशीति च

4.73.62

सहिष्णूनां च पृथिवी माताऽहं बान्धवेषु च ।
अमृतं भक्ष्यवस्तूनां गव्येष्वाज्यमहं तथा

4.73.63

कल्पवृक्षश्च वृक्षाणां सुरभिः कामधेनुषु ।
गङ्गाऽहं सरितां मध्ये कृतपापविनाशिनी

4.73.64

वाणीति पण्डितानां च मन्त्राणां प्रणवस्तथा ।
विद्यासु बीजरूपोऽहं सस्यानां धान्यमेव च

4.73.65

अश्वत्थः फलिनामेव गुरूणां मन्त्रदः स्वयम् ।
कश्यपश्च प्रजेशानां गरुडः पक्षिणां तथा

4.73.66

अनन्तोऽहं च नागानां नराणां च नराधिपः ।
ब्रह्मर्षीणां भृगुरहं देवर्षीणां च नारदः

4.73.67

राजर्षीणां च जनको महर्षीणां शुकस्तथा ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनीः

4.73.68

बृहस्पतिर्बुद्धिमतां कवीनां शुक्र एव च ।
ग्रहाणां च शनिरहं विश्वकर्मा च शिल्पिनाम्

4.73.69

मृगाणां च मृगेन्दोऽहं वृषाणां शिववाहनम् ।
ऐरावतो गजेन्द्राणां गायत्री छन्दसामहम्

4.73.70

वेदाश्च सर्वशास्त्राणां वरुणो यादसामहम् ।
उर्वश्यप्सरसामेव समुद्राणां जलार्णवः

4.73.71

सुमेरुः पर्वतानां च रत्नवत्सु हिमालयः ।
दुर्गा च प्रकृतीनां च देवीनां कमलालया

4.73.72

शतरूपा च नारीणां मत्प्रियाणां च राधिका ।
साध्वीनामपि सावित्री वेदमाता च निश्चितम्

4.73.73

प्रह्लादश्चापि दैत्यानां बलिष्ठानां बलिः स्वयाम् ।
नारायणर्षिर्भगवाञ्ज्ञानिनां मध्य एव च

4.73.74

हनूमान्वानराणां च पाण्डवानां धनंजयः ।
मनसा नागकन्यानां वसूनां द्रोण एव च

4.73.75

द्रोणो जलधराणां च वर्षाणां भारतं तथा ।
कामिनां कामदेवोऽहं रम्भा च कामुकीषु च

4.73.76

गोलोकश्चास्मि लोकानासुत्तमः सर्वतः परः ।
मातृकासु शान्तिरहं रतिश्च सुन्दरीषु च

4.73.77

धर्मोऽहं साक्षिणां मध्ये संध्या च वासरेषु च ।
देवेष्वहं च माहेन्दो राक्षसेषु विभीषणः

4.73.78

कालाग्निरुद्रो रुद्राणां संहारो भैरवेषु च ।
शङ्खेषु पाञ्चजन्योऽहमङ्गेष्वपि च मस्तकः

4.73.79

परं पुराणसूत्रेषु चाहं भागवतं वरम् ।
भारतं चेतिहासेषु पञ्चरात्रेषु कापिलम्

4.73.80

स्वायंभुवो मनूनां च मुनीनां व्यासदेवकः ।
स्वधाऽहं पितृपत्नीषु स्वाहा वङ्निप्रियासु च

4.73.81

यज्ञानां नाजसूयोऽहं यज्ञपत्नीषु दक्षिणा ।
शस्त्रास्त्रज्ञेषु रामोऽहं जमदग्निसुतो महान्

4.73.82

पौराणिकेषु सूतोऽहं नीतिमत्स्वङ्गिरा मुनिः ।
विष्णुव्रतं व्रतानां च बलानां दैवमेव च

4.73.83

ओषधीनामहं दूर्वा तृणानां कुशमेव च ।
धर्मकर्मसु सत्यं च स्नेहपात्रेषु पुत्रकः

4.73.84

अहं व्याधिश्च शत्रूणां ज्वरो व्याधिष्वहं तथा ।
मद्भक्तिष्वपि मद्दास्यं वरेषु च वरः स्मृतः

4.73.85

आश्रमाणां गृहस्थोऽहं संन्यासी च विवेकिनाम् ।
सुदर्शनं च शस्त्राणां कुशलं च शुभाशिषाम्

4.73.86

एश्वर्याणां महाज्ञानं वैराग्यं च सुखेष्वहम् ।
मि (इ) ष्टवाक्यं प्रीतिदेषु दानेषु चाऽऽत्मदानकम्

4.73.87

संचयेषु धर्मकर्म कर्मणां च मदर्चनम् ।
कठोरेषु तपश्चाहं फलेषु मोक्ष एव च

4.73.88

अष्टसिद्धिषु प्राकाम्यमहं काशीपुरीषु च ।
नगरेषु तथा काञ्ची स देशो यत्र वैष्णवः

4.73.89

सर्वाधारेषु स्थूलेषु अहमेव महान्विराट् ।
परमाणुरहं विश्वे महासूक्ष्मेषु नित्यशः

4.73.90

वैद्यानामश्विनीपुत्रौ जौषधीषु रसायनम् ।
धन्वन्तरीर्मन्त्रविदां विषादः क्षयकारिणाम्

4.73.91

रागाणां मेघमल्लारः कामोदस्तत्प्रियासु च ।
मत्पार्षदेषु श्रीदामा मद्वन्वुष्वहमुद्धवः

4.73.92

पशुजन्तुषु गौश्चहं चन्दनं काननेषु च ।
तीर्थपूतश्च पूतेषु निःशङ्केषु च वैष्णवः

4.73.93

न वैष्णवात्परः प्राणी मन्मन्त्रोपासकश्च यः ।
वृक्षेष्वङ्कुररूपोऽहमाकारः सर्ववस्तुषु

4.73.94

अहं च सर्वभूतेषु मयि सर्वे च संततम् ।
यथा वृक्षे फलान्येव फलेषु चाङ्कुरस्तरोः

4.73.95

सर्वकारणरूपोऽहं न च मत्कारणं परम् ।
सर्वेशीऽहं न मेऽपीशो ह्यहं कारणकारणम्

4.73.96

सर्वेषां सर्वबीजानां प्रवदन्ति मनीषिणः ।
मन्मायामोहितजना मां न जानन्ति पापिनः

4.73.97

पापग्रस्तेन दुर्बुद्ध्या विधिना वञ्चितेन च ।
स्वात्माऽहं सर्वजन्तूनां स्वाम्यहं नादृतः स्वयम्

4.73.98

यत्राहं शक्तयस्तत्र क्षुत्पिपासादयस्तथा ।
गते मयि तथा यान्ति नरदेहे (वे) यथाऽनुगाः

4.73.99

हे व्रजेश नन्द तात ज्ञानं ज्ञात्वा व्रजं व्रज ।
कथयस्व च तां राधां यशोदां ज्ञानमेव च

4.73.100

ज्ञात्वा ज्ञानं व्रजेशश्च जगाम स्वानुगैः सह ।
गत्वा च कथयामास ते द्वे च योषितां वरे

4.73.101

ते च सर्वे जहः शोकं महाज्ञानेन नारद ।
कृष्णो यद्यपि निर्लिप्तो मायेशो मायया रतः

4.73.102

यशोदया प्रेरितश्च पुनरागत्य माधवम् ।
तुष्टाव परमानन्दं नन्दश्च नन्दनन्दनम्

4.73.103

सामवेदोक्तस्तोत्रेण कृतेन ब्रह्मणा पुरा ।
पुत्रस्य पुरतः स्थित्वा रुरोद च पुनः पुनः

4.73.73

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ नन्दादि-
णोकप्रमोचनं नाम त्रिसप्ततितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc