भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.54

4.54.1

नारद उवाच ॥
अतः परं किं रहस्यं बभूव मुनिसत्तम ॥
कथं जगाम भगवान्मथुरां नन्दमन्दिरात्

4.54.2

नन्दो दधार प्राणांश्च विच्छेदेन हरेः कथम् ॥
गोपाङ्गना यशोदा वा कृष्णैकतानमानसाः

4.54.3

चक्षुर्निमेषविच्छेदाद्या राधा न हि जीवति ॥
कथं दधार सा देवी प्राणान्प्राणेश्वरं विना

4.54.4

येये तत्सङ्गिनो गोपाः शयनासनभोगतः ॥
कथं विसस्मरुस्ते च तादृशं बांधवं व्रजे

4.54.5

श्रीकृष्णो मथुरां गत्वा किं किं कर्म चकार सः ॥
स्वर्गारोहणपर्यन्तं तद्भवान्वक्तुमर्हति

4.54.6

श्रीनारायण उवाच ॥
कंसश्चकार यज्ञं च समाहूतो धनुर्मखम् ॥
जगाम तत्र भगवांस्तेन राज्ञा निमन्त्रितः

4.54.7

राजा प्रस्थापयामास चाक्रूरं भगवत्प्रियम् ॥
अक्रूरः प्रेरितो राज्ञा गत्वा च नन्दमन्दिरम्

4.54.8

श्रीकृष्णं च गृहीत्वा स सगणं मथुरां गतः ॥
कृष्णः श्रीमथुरां गत्वा जघान नृपतिं मुने

4.54.9

जघान रजकं चैव चाणूरं मुष्टिकं गजम् ॥
चकार पित्रोरुद्धारं बान्धवानां च बान्धवः

4.54.4.54.10

कुब्जया सह शृङ्गारं कृत्वा च कौतुकेन च ॥
तं च प्रस्थापयामास गोलोकं गोपिकापतिः

4.54.11

चकार कृपया विष्णुर्मालाकारस्य मोक्षणम् ॥
कृपया चोद्धवद्वारा बोधयामास गोपिकाः

4.54.12

तदोपनीतो भगवानवन्तीनगरं ययौ ॥
चकार विद्याग्रहणं मुनेः सांदीपनेर्गुरोः

4.54.13

ततो जित्वा जरासन्धं निहत्य यवनेश्वरम् ॥
उग्रसेनं च नृपतिं चकार विधिपूर्वकम्

4.54.14

गत्वा समुद्रनिकटं निर्माय द्वारकां पुरीम् ॥
जहार रुक्मिणीं देवीं जित्वा नृपतिसंघकम्

4.54.15

कालिंदीं लक्ष्मणां शैब्यां सत्यां जांबवतीं सतीम् ॥
मित्रविंदां नाग्नजितीं समुद्वाहं चकार सः

4.54.16

निहत्य नरकं भूपं रणेन दारुणेन च ॥
पत्नीषोडशसाहस्रं विहारं च चकार सः

4.54.17

जहार पारिजातं च जित्वा शक्रं च लीलया ॥
चिच्छेद बाणहस्तांश्च जित्वा च चन्द्रशेखरम्

4.54.18

पौत्रस्य मोक्षणं कृत्वा पुनरागत्य द्वारकाम् ॥
आत्मानं दर्शयामास लोकांश्च प्रतिमन्दिरम्

4.54.19

योगे च वसुदेवस्य तीर्थयात्राप्रसंगतः ॥
प्राणाधिष्ठातृदेवीं च ददर्श तत्र राधिकाम्

4.54.4.54.20

पूर्णे च शतवर्षे च सुदाम्नः शापमोक्षणे ॥
पुनर्ययौ तया सार्द्धं पुण्यं वृन्दावनं वनम्

4.54.21

पुनश्चतुर्दशाब्दं च तया सार्धं जगत्पतिः ॥
चकार रासं रासे च पुण्यक्षेत्रे च भारते

4.54.22

पूर्णमेकादशाब्दं च निवृत्य नन्दमंदिरे ॥
मथुरायां द्वारकायां पूर्णमब्दशतं विभुः

4.54.23

चकार भारहरणं पृथिव्यां पृथुविक्रमः॥
पंचविंशतिवर्षे च शतवर्षाधिकं मुने

4.54.24

तिष्ठञ्जगाम गोलोकं पृथिव्यां च पुरातनः ॥
यशोदायै च नन्दाय वृषभानाय धीमते

4.54.25

राधामात्रे कलावत्यै ददौ सामीप्यमोक्षणम् ॥
कृष्णेन सार्द्धं गोपी च राधिका च कुतूहलात्

4.54.26

निबध्य धर्मसेतुं च वेदोक्तं च युगे युगे ॥
इत्येवं कथितं सर्वं समासेन महामुने

4.54.27

श्रीकृष्णचरितं रम्यं चतुर्वर्गफलप्रदम् ॥
ब्रह्मादिस्तम्बपर्यन्तं सर्वं नश्वरमेव च

4.54.28

भज तं परमानन्दं सानन्दं नन्दनन्दनम् ॥
स्वेच्छामयं परं ब्रह्म परमात्मानमीश्वरम्

4.54.29

परमव्ययमव्यक्तं भक्तानुग्रहविग्रहम् ॥
सत्य नित्यं स्वतंत्रं च सर्वेशं प्रकृतेः परम्

4.54.4.54.30

निर्गुणं च निरीहं च निराकारं निरञ्जनम्

4.54.54

इति श्रीब्रह्मैववर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधिकासंवादो नाम चतुष्पञ्चाशत्तमोऽध्यायः

॥
श्रीकृष्णार्पणमस्तु ॥
॥ पूर्वार्द्धं समाप्तम् ॥ ॥
॥ शुभं भवतु ॥
इदं पुस्तकं मुम्बय्यां श्रीकृष्णदासात्मजेन क्षेमराजेन स्वकीये श्रीवेङ्कटेश्वर ( स्टीम् ) मुद्रणयन्त्रालयेऽङ्कयित्वा प्रकाशितम् ।
संवत् १९८८, शकाब्दाः १८५३

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc