भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.51

4.51.1

श्रीकृष्ण उवाच ॥
नारायणांशो भगवान्स्वयं धन्वन्तरिर्महान् ॥
पुरा समुद्रमथने समुत्तस्थौ महोदधेः

4.51.2

सर्ववेदेषु निष्णातो मंत्रतन्त्रविशारदः ॥
शिष्यो हि वैनतेयस्य शङ्करस्योपशिष्यकः ॥

4.51.3

शिष्याणां च सहस्रेण गतः कैलासमीश्वरि ॥
ददर्श तक्षकं मार्गे लेलिहानं भयानकम्

4.51.4

लक्षनागैः परिवृतं शूलतुल्यं विषोल्बणम् ॥
भोक्तुं कोपात्समायांतमेवं दृष्ट्वा जहास च

4.51.5

दम्भी धन्वन्तरेः शिष्यो धृत्वा तक्षकमुल्बणम् ॥
मंत्रेण जृंभितं कृत्वा निर्विषं तं चकार ह

4.51.6

अमूल्यं मणिरत्नं च जहार मस्तके स्थितम् ॥
करेण भ्रामयित्वा च प्रेरयामास दूरतः॥

4.51.7

निश्चेष्टस्तक्षकस्तस्थौ तत्र मार्गे यथा मृतः ॥
गणा निवेदनं चकुर्गत्वा वासुकिसन्निधिम्

4.51.8

वासुकिस्तत्समाकर्ण्य प्रज्वलन्नतिकोपतः ॥
सर्पान्प्रस्थापयामासासंख्यांश्चैव विषोल्बणान्

4.51.9

सर्पसेनाग्रणीनां च मुख्यान्पञ्च विशारदान् ॥
द्रोणकालीयकर्कोटपुण्डरीकधनंजयान्

4.51.4.51.10

सर्वे नागाः समाजग्मुर्यत्र धन्वन्तरिः स्वयम् ॥
भयमापुः शिष्यगणा दृष्ट्वा नागानसंख्यकान्

4.51.11

नागनिश्वासवातेन सर्वे शिष्या मृता इव॥
निश्चेष्टा ज्ञानरहिताः शेरते धरणीतले

4.51.12

धन्वन्तरिश्च भगवान्पीयूषवर्षणेन च ॥
जीवयामास शिष्यांश्च मंत्रेण च गुरुं स्मरन्

4.51.13

चेतनां कारयित्वा च शिष्याणां च जगद्गुरुः ॥
चकार जृंभितं मन्त्रैः सर्पसंघं विषोल्बणम्

4.51.14

सर्वे बभूवुर्निश्चेष्टा जृंभितास्ते मृता इव ॥
कोऽपि नालं ततो देवि वार्तां दातुं गणेषु च

4.51.15

वासुकिर्बुबुधे सर्वं सर्वज्ञः सर्वसंकटम् ॥
आजुहाव जगद्गौरीं भगिनीं ज्ञानरूपिणीम्

4.51.16

वासुकिरुवाच ॥
मनसे त्वं समागच्छ नागान्रक्षातिसङ्कटात् ॥
जगत्त्रये महाभागे पूजा तव भविष्यति

4.51.17

वासुकेर्वचनं श्रुत्वा प्रहस्योवाच कन्यका ॥
वाक्यपीयूषतुल्यं च विनयावनतस्थिता

4.51.18

मनसोवाच ॥
नागेन्द्र शृणु मद्वाक्यं यास्यामि समरं प्रति ॥
भद्राभद्रं दैवसाध्यं करिष्यामि यथोचितम्

4.51.19

तं शत्रुं संहरिष्यामि लीलया समरस्थले ॥
अहं यं निहनिष्यामि तं को रक्षितुमीश्वरः

4.51.4.51.20

यदि ब्रह्मादयो देवाः समायान्ति रणस्थले ॥
तथापि तव शत्रुं च प्रजेष्यामि न संशयः

4.51.21

गुरुर्मे भगवाञ्छेषः सिद्धमन्त्रं च दत्तवान् ॥
नारायणस्य जगतामीशस्य परमाद्भुतम्

4.51.22

बिभर्मि कवचं कण्ठे परं त्रैलोक्यमङ्गलम् ॥
संसारं भस्मसात्कृत्वा पुनः स्रष्टुमहं क्षमा

4.51.23

शिष्याऽहं मंत्रशास्त्रेषु शंभोर्भगवतः पुरा ॥
महाज्ञानं दत्तवान्स मह्यं च कृपया विभुः

4.51.24

शंभोश्च शिष्यो गरुडो गणयामि न तं ध्रुवम् ॥
धन्वंतरिस्तच्छिष्याणामेकः किं गणयामि तम्

4.51.25

इत्युक्त्वा सा जगामैका त्यक्त्वा नागगणान्रुषा ॥
प्रणम्य श्रीहरिं शंभुं शेषं च हृष्टमानसा

4.51.26

यत्र धन्वन्तरिर्देवः प्रसन्नवदनेक्षणः ॥
तत्राजगाम सा देवी कोपरक्तेक्षणा रुषा

4.51.27

दृष्टिमात्रेण सर्वाश्च जीवयामास सुन्दरी ॥
विषदृष्ट्या शत्रुशिष्यान्निश्चेष्टांश्च चकार ह

4.51.28

धन्वन्तरिस्तु भगवान्मन्त्रशास्त्रविशारदः ॥
मन्त्रेण यत्नं कृतवान्नोत्थापयितुमीश्वरः

4.51.29

दृष्ट्वा धन्वंतरिं देवी प्रहस्योवाच सत्वरम् ॥
बहूक्तिमर्थयुक्तां च साहंकारा सुरेश्वरि

4.51.4.51.30

मनसोवाच ॥
मन्त्रार्थं मन्त्रशिल्पं च मन्त्रभेदं महौषधम् ॥
वद जानासि किं सिद्ध शिष्योऽसि गरुडस्य च

4.51.31

अहं च वैनतेयश्च शिष्यौ शंभोश्च विश्रुतौ ॥
सुकल्पकालं सुचिरमहं धन्वन्तरे शृणु

4.51.32

इत्युक्त्वा सरसः पद्मं समानीय जगत्प्रसूः ॥
मन्त्रसंवलितं कृत्वा प्रेरयामास कोपतः

4.51.33

दृष्ट्वाऽऽगतं पद्मपुष्पं ज्वलदग्निशिखोपमम् ॥
(धन्वतरिश्च निःश्वासैर्भस्मसात्तच्चकार ह)

4.51.34

तच्च धन्वतरिर्दृष्ट्वा समंत्ररेणुमुष्टिना ॥
चकार निष्कलं भस्म तां प्रहस्यावलीलया

4.51.35

देवी जग्राह शक्तिं च ग्रीष्मसूर्यसमप्रभाम् ॥
मंत्रसंवलितां कृत्वा प्रेरयामास तं रिपुम्

4.51.36

दृष्ट्वा जाज्वल्यमानां तां शक्तिं धन्वतरिः स्वयम् ॥
विष्णुदत्तेन शूलेन स तु चिच्छेद लीलया

4.51.37

तां च शक्तिं वृथा दृष्ट्वा प्रजज्वालेश्वरी रुषा ॥
जग्राह नागपाशं च घोरमव्यर्थमुल्बणम्

4.51.38

नागलक्षसमायुक्तं सिद्धमन्त्रेण मन्त्रितम् ॥
प्रेरयामास कोपेन कालान्तकसमप्रभम्

4.51.39

धन्वतरिर्नागपाशं दृष्ट्वा च सस्मितो मुदा ॥
सस्मार गरुडं तूर्णमाजगाम खगेश्वरः

4.51.4.51.40

सर्पास्त्रमागतं दृष्ट्वा गरुडो हरिवाहनः ॥
विधाय चञ्चुना शीघ्रं बुभुजे क्षुधितश्चिरम्

4.51.41

नागास्त्रं निष्फलं दृष्ट्वा कोपरक्तेक्षणा भृशम् ॥
जग्राह भस्ममुष्टिं च शिवदत्तां पुरा प्रिये

4.51.42

भस्ममुष्टिं मन्त्रपूतां दृष्ट्वा च प्रेरितां यथा ॥
पक्षवातेन चिक्षेप शिष्यं पश्चान्निधाय च

4.51.43

निरस्तां भस्ममुष्टिं च दृष्ट्वा देवी चुकोप ह ॥
जग्राह शूलमव्यर्थं हन्तुं धन्वन्तरिं स्वयम्

4.51.44

शिवदत्तं च शूलं च शतसूर्यसमप्रभम् ॥
अव्यर्थशूलं लोकेषु प्रलयाग्निसमप्रभम्

4.51.45

अथ ब्रह्मा तथा शंभुराजगाम रणाजिरम् ॥
धन्वंतरेश्च रक्षार्थं शमनार्थं खगस्य च

4.51.46

दृष्ट्वा शंभुं जगद्गौरी विधिं च जगतां पतिम् ॥
भक्त्या ननाम तावेव निःशङ्का शूलधारिणी

4.51.47

धन्वन्तरिश्च गरुडः प्रणनाम सुरेश्वरौ ॥
तुष्टाव परया भक्त्या तौ च चक्रतुराशिषम्

4.51.48

उवाच ब्रह्मा मधुरं हितं धन्वतरिं मुदा ॥
पूजार्थं मनसायाश्च लोकानां हितकाम्यया ॥

4.51.49

ब्रह्मोवाच ॥
धन्वंतरे महाभाग सर्वशास्त्रविशारद ॥
रणं ते मनसा सार्द्धं न हि साम्यं च मे मतम्

4.51.4.51.50

शिवदत्तेन शूलेन दुर्निवार्येण सर्वतः ॥
त्रैलोक्यं भस्मसात्कर्तुं क्षमेयं त्रिदशेश्वरी

4.51.51

ध्याने कौथुमशाखोक्तं कृत्वा भक्त्या समाहितः ॥
दत्त्वा षोडशोपचारं देव्याश्च कुरु पूजनम्

4.51.52

आस्तिकोक्तेन स्तोत्रेण स्तवनं कर्तुमर्हसि ॥
परितुष्टा च मनसा वरं तुभ्यं प्रदास्यति

4.51.53

ब्रह्मणो वचनं श्रुत्वा चकारानुमतिं शिवः ॥
वैनतेयश्च संप्रीत्या बोधयामास यत्नतः

4.51.54

एषां च वचनं श्रुत्वा स्नात्वा शुचिरलंकृतः ॥
विधिं पुरोहितं कृत्वा पूजां कर्तुं समुद्यतः

4.51.55

धन्वन्तरिरुवाच ॥
इहागच्छ जगद्गौरि गृहाण मम पूजनम्॥
पूज्या त्वं त्रिषु लोकेषु पुरा कश्यपकन्यके

4.51.56

त्वया जितं जगत्सर्वं देवि विष्णुस्वरूपया ॥
तेन तेऽस्त्रप्रयोगश्च न कृतो रणभूमिषु

4.51.57

इत्युक्त्या संयतो भूत्वा भक्तिनम्रात्मकंधरः ॥
गृहीत्वा शुक्लकुसुमं ध्यानं कर्तुं समुद्यतः

4.51.58

चारुचम्पकवर्णाभां सर्वाङ्गसुमनोहराम् ॥
ईषद्धास्यप्रसन्नास्यां शोभितां सूक्ष्मवाससा

4.51.59

सुचारुकबरीशोभां रत्नाभरणभूषिताम् ॥
सर्वाभयप्रदां देवीं भक्तानुग्रहकातराम्

4.51.4.51.60

सर्वविद्याप्रदां शान्तां सर्वविद्याविशारदाम् ॥
नागेन्द्रवाहिनीं देवीं भजे नागेश्वरीं पराम्

4.51.61

ध्यात्वैवं कुसुमं दत्त्वा नानाद्रव्यसमन्वितम् ॥
दत्त्वा षोडशोपचारं पूजयामास तां प्रिये

4.51.62

स्तोत्रं चकार यत्नाच्च पुलकाञ्चितविग्रहः ॥
पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकंधरः

4.51.63

धन्वतरिरुवाच ॥
नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः ॥
नमः कश्यपकन्यायै वरदायै नमो नमः

4.51.64

नमः शंकरकन्यायै शंकरायै नमो नमः ॥
नमस्ते नागवाहिन्यै नागेश्वर्यै नमो नमः

4.51.69

नम आस्तीकजननि जनन्यै जगतां मम ॥
नमो जगत्कारणायै जरत्कारुस्त्रियै नमः

4.51.66

नमो नागभगिन्यै च योगिन्यै च नमो नमः ॥
नमश्चिरं तपस्विन्यै सुखदायै नमो नमः

4.51.67

नमस्तपस्यारूपायै फलदायै नमो नमः ॥
सुशीलायै च साध्व्यै च शान्तायै च नमो नमः

4.51.68

इत्येवमुक्त्वा भक्त्या च प्रणनाम प्रयत्नतः ॥
तुष्टा देवी वरं दत्त्वा सत्वरं स्वालयं ययौ

4.51.69

ब्रह्मरुद्रवैनतेयाः समाजग्मुर्निजालयम् ॥
धन्वंतरिश्च भगवाञ्जगाम निजमन्दिरम्

4.51.4.51.70

जग्मुर्नागाः प्रहृष्टाश्च फणाराजिविराजिताः ॥
इत्येवं कथितं सर्वं स्तवराजं मया तव

4.51.71

विधिना मातरं भक्तिमास्तीकश्च चकार ह ॥
तदा तुष्टा जगद्गौरी पुत्रं तं मुनिपुंगवम्

4.51.72

इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ॥
वंशजानां नागभयं नास्ति तस्य न संशयः

4.51.51

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे धन्वन्तरिदर्पभंगमनसाविजयो नामैकपञ्चाशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc