भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.32

4.32.1

श्रीकृष्ण उवाच ॥
मोहिनीस्तवनेनैव कामस्तुष्टो बभूव ह ॥
चकार शरसंधानमन्तरिक्षे स्थितः स्वयम्

4.32.2

मन्त्रपूतं महास्त्रं च चिक्षेप पितरं मुदा ॥
बभूव चञ्चलो ब्रह्मा कामास्त्रेण च कामुकः

4.32.3

क्षणं निरीक्षणं चक्रे मोहिन्यास्ये पुनःपुनः ॥
ज्ञानं प्राप्य तदा धाता विरराम हरिं स्मरन्

4.32.4

बुबुधे मनसा सर्वं चरितं मन्मथस्य च ॥
शशाप तं सुतमपि विधाता क्रोधविह्वलः

4.32.5

हे काम यौवनोन्मत्त मूढैश्वर्येण गर्वित ॥
भविता दर्पभङ्गस्ते गुरोर्मे हेलनादिति

4.32.6

हतोद्यमो जगामाशु मन्मथो मधुना सह ॥
ब्रह्मणः शापभीतश्च शुष्ककण्ठोष्ठतालुकः

4.32.7

इत्युवाच जगद्धाता मोहिनीं मदनातुराम् ॥
चतुर्वक्त्रं च पश्यन्तीं सस्मितं वक्रचक्षुषा

4.32.8

ब्रह्मोवाच ॥
मातर्मोहिनि गच्छ त्वं निष्फलं कर्म चात्र ते ॥
ज्ञातस्तवाभिप्रायश्च नाहं योग्योऽस्य कर्मणः

4.32.9

वेदे जुगुप्सितं कर्म तदेव कर्तुमक्षमः ॥
वेदकर्ता स्वयमहं व्यवस्थाकारको भवे

4.32.4.32.10

अकीर्तिं वेदवक्तुश्च निन्द्यं च किमतः परम् ॥
उपस्थिता च या योषिदत्याज्या रागिणामपि

4.32.11

श्रुतौ श्रुतमिति त्याज्या सर्वदैव तपस्विनाम् ॥
अहो सर्वैः परित्याज्या पुंश्चली च विशेषतः

4.32.12

धनायुःप्राणयशसां नाशिनी दुःखदायिनी ॥
स्वकार्यतत्परा शश्वत्परकार्यविनाशिनी

4.32.13

निष्ठुरा नवघातिभ्यः सर्वापद्बीजरूपिणी ॥
विद्युद्दीप्तिर्जले रेखा लोभान्मैत्री यथा भवेत्

4.32.14

परद्रोहाद्यथा संपत्कुलटाप्रेम तत्समम् ॥
सर्वेभ्यो हिंस्रजन्तुभ्यो विपद्बीजा सदैव हि

4.32.15

यो विश्वसेत्तां संमूढो विपत्तस्य पदेपदे ॥
त्वं च रूपवती धन्या वञ्चिता कामुकैः सदा

4.32.16

यूनां संपत्स्वरूपा च विषतुल्या तपस्विनाम्॥
त्वमेवाप्सरसां श्रेष्ठा सर्वदा स्थिरयौवना

4.32.17

तवैव कर्म योग्यं च युवानं पश्य सुन्दरि ॥
त्वं विदग्धा च योषित्सु विदग्धान्वेषणं कुरु

4.32.18

विदग्धाया विदग्धेन संगमो गुणवान्भवेत् ॥
जरातुरोऽहं वृद्धश्च तपस्वी वैष्णवो द्विजः

4.32.19

अस्वतन्त्रः पराधीनः का रतिः पुंश्चलीषु मे ॥
अये वत्से गच्छ शीघ्रं विहाय पितरं च माम्

4.32.4.32.20

नात्राऽहं च जगत्स्रष्टा तस्मात्तव पिता सदा॥
मन्मथं चंद्रमित्रं च जयन्तं नलकूबरम्

4.32.21

स्वर्वैद्यौ चंद्रतनयं दितिपुत्रांश्च सुंदरान् ॥
कामशास्त्रेषु निष्णातान्रतिकर्मविशारदान् ॥

4.32.22

या मां यासि हि तांस्त्यक्त्वा सा विदग्धा च कामुकी ॥
सदा संभोगविषये स्त्रियं प्रार्थयते पुमान्

4.32.23

स्त्री चेत्प्रयाति पुरुषं विपरीतं विडम्बनम् ॥
सर्वेषां चैव रत्नानां स्त्रीरत्नं दुर्लभं परम्

4.32.24

स्वयं प्रार्थयते स्वामी न तु स्वामिनमेव च॥
योषिज्जातिषु धिक् ताश्च स्वयं याः समुपस्थिताः

4.32.25

भवेद्दूरं स्वल्पमूल्यं रत्नं स्वयमुपस्थितम् ॥
नित्यं पुमान्स्त्रियं याति स्त्री वा याति च न प्रियम्

4.32.26

लोकाचारेषु वेदेषु न स्त्री याति परप्रियम् ॥
स्ववस्तु भुङ्क्ते यः काले शास्त्रोक्तविधिपूर्वकम्

4.32.27

स पूज्यो न भवेत्पूज्यो यद्रतिः परवस्तुषु ॥
कः कस्य शत्रुरबले निशामय जगत्त्रये

4.32.28

स्वेन्द्रियाः शत्रवः सर्वे शत्रुता यन्निमित्ततः ॥
वेदोक्ताचरणे सर्वं मित्रं च जगतां जगत्

4.32.29

कृते वेदविरुद्धे च मित्रं शत्रुर्भवेद्ध्रुवम् ॥
वेदोक्तं कृतवन्तं च हरिस्तुष्टो दिवानिशम्

4.32.4.32.30

हरौ तुष्टे जगत्तुष्टं तस्मिन्रुष्टे भवो रिपुः ॥
कुत्रास्ति कुलटाजातिः साध्वीजातिश्च कुत्र वा

4.32.31

स्वकीयाचरणात्सर्वं भवे भवति कर्मणः ॥
स्त्रीजातिः प्रकृतेरंशा नारायणविनिर्मिता

4.32.32

दुःशीला पुंश्चली निन्द्या सुशीला च पतिव्रता ॥
पतिव्रतास्तु त्रिविधाः पुंश्चलीषु च योषितः

4.32.33

तासामेवंविधा नास्ति स्वयं याति परप्रियम् ॥
स्त्रीजातीनां च मध्ये च काऽस्त्येवं कुलकज्जला

4.32.34

भवे रत्यै स्वयं दृष्ट्वा वेषं कृत्वा प्रयाति तम् ॥
क्षोभिता यदि पश्यन्ती भक्ष्यद्रव्यमसाध्यकम् ॥

4.32.35

वैकुल्यान्नहि तत्साध्यं सामान्यमेव केवलम् ॥
इत्येवमुक्त्वा जगतां विधाता विरराम च ॥
वक्तुं समुद्यता सा च कोपप्रस्फुरिताधरा

4.32.36

मोहिन्युवाच ॥
ज्ञातं सर्वं जगद्धातश्चरितं तव सांप्रतम्

4.32.37

त्वया निबोधिता नीतिर्मनो मे न स्थिरं भवेत् ॥
भूतं त्वयि विशिष्टं च यावद्दृष्टः क्षणे भवान्

4.32.38

त्वद्वक्त्रदृष्टिमात्रेण सर्वे जाराश्च विस्मृताः ॥
देहं कामाग्निना दग्धं यदा त्यक्तुं समुद्यता

4.32.39

निषिषेध च मां रम्भा प्रददौ मन्त्रमीदृशम् ॥
तदा कामसहायेन त्वत्समीपं समागता

4.32.4.32.40

समधुस्तव शापेन स जगाम हतोद्यमः ॥
अहो गन्तुमशक्ताऽहं त्वया यद्यपि भर्त्सिता

4.32.41

सर्वाङ्गेष्वेव मे जाड्यं बभूव सांप्रतं विभो ॥
कृपां कुरु कृपासिन्धो न मां हन्तुं त्वमर्हसि

4.32.42

तवाश्लेषणमात्रेण विज्वराऽहं सुनिश्चितम् ॥
त्वमेव जगतां धाता कुलटाऽहं च कर्मणा

4.32.43

सन्तो गर्वं न कुर्वन्ति कर्मसाध्याश्च जीविनः ॥
कश्चित्प्रयाति यानेन वहन्ति तं च केचन

4.32.44

करं गृह्णाति नृपतिः कर्मणा ददति प्रजाः ॥
कश्चित्सिंहासनस्थश्च नृपमात्रश्च कश्चन

4.32.45

कर्मणा वाहकाः केचित्केचिद्वाहनपालकाः ॥
सूकरीजठरं कश्चिन्संप्रयाति स्वकर्मणा

4.32.46

कश्चिच्छच्याश्च जठरं तव पुत्राश्च केचन ॥
केचित्कृत्वा हरेर्भक्तिं कर्मणा तस्य पार्षदाः

4.32.47

केचिद्भवन्ति कृमयो विष्ठायां दैवदोषतः ॥
स्वर्गं प्रयान्ति राजेन्द्राः केचिच्च स्वस्वकर्मणा

4.32.48

केचित्प्रयान्ति नरकं विण्मूत्रे तत्र पच्यते ॥
कर्मणा कश्चिदिन्द्रेन्द्रः सुराणां प्रवरः स्वयम्

4.32.49

केचित्सुरा नराः केचित्केचिच्च क्षुद्रजन्तवः ॥
केचिच्च कर्मणा विप्रा वर्णश्रेष्ठा महीतले

4.32.4.32.50

केचिद्भूपा वैश्यशूद्राः केचिच्च म्लेच्छजातयः॥
केचित्स्वकर्मणा प्राज्ञा ज्ञानेन सर्वदर्शिनः

4.32.51

केचिन्मूर्खाः केचिदन्धाः स्वाङ्गहीनाश्च केचन ॥
केचिच्छास्त्रं बोधयन्ति शिष्यवर्गान्स्वकर्मणा

4.32.52

केचित्पठन्ति सर्वार्थं जानन्ति गुरुवक्त्रतः ॥
भवन्ति कर्मणा केचिद्देहे स्थावरजङ्गमे

4.32.53

तपस्वी नवघाती च त्वं च ब्रह्मा च कर्मणा ॥
काचित्स्वकर्मणा साध्वी पूज्येह च परत्र च

4.32.54

काचिद्वेश्या तदाहारं भुङ्क्ते कृत्वाऽङ्ग विक्रयम् ॥
स्वर्वेश्याऽहं सुरपुरे सुरभोग्या सुपूजिता

4.32.99

येषामालिङ्गनेनैव कर्मणां खण्डनं भवेत् ॥
मनः स्वभावबीजं च स्वभावः कर्मबीजकः

4.32.56

तत्कर्मफलबीजं च सर्वेषां जनको हरिः ॥
फलं ददाति नियतं कर्मद्वारा विभुः स्वयम्

4.32.57

सर्वेभ्यो बलवान्नित्यं कर्मरूपी जनार्दनः ॥
कुतो हेतोर्निंन्दिताऽहं त्वयैव भर्त्सिता कथम्

4.32.58

जगत्स्रष्टुरीश्वरस्य पादाब्जं द्रष्टुमागता ॥
स्वप्ने यस्य पदद्वन्द्वं न हि पश्यन्ति योगिनः

4.32.59

तमीश्वरं पतिं कर्तुमिच्छया स्वयमागता ॥
गत्वा हि कस्यचित्स्थानमस्पृश्येह परत्र च

4.32.4.32.60

कस्यचित्पादरजसा यशसा भान्ति योषितः ॥
इत्युक्त्वा मोहिनी शीघ्रं गत्वोवास हरेः पुरः

4.32.61

स्वयं विधाता जगतां चकम्पे कुलटाभयात् ॥
सस्मिता वक्रनयना कामभावं चकार ह

4.32.62

स्वाङ्गं च दर्शयामास कामबाणप्रपीडिता ॥
एतस्मिन्नन्तरे कामः सर्वज्ञः सर्वयोगवित्

4.32.63

आविर्भूय पञ्च बाणान्निचिक्षेप च ब्रह्मणि ॥
सम्मोहनं समुद्वेगं बीजस्तम्भितकारणम्

4.32.64

उन्मत्तबीजं ज्वलदं शश्वच्चेतनहारकम् ॥
एतान्प्रक्षिप्य मदनोऽप्यन्तरिक्षस्थितः स्वयम्

4.32.65

किंकरान्प्रेषयामास संमोहाय पितुर्मुदा ॥
वसन्तं कोकिलालीश्च गन्धवातं मनोहरम्

4.32.67

नियुज्याभ्यन्तरं गत्वा तद्विकारं चकार ह ॥
पुंस्कोकिलः कलं रावमुवाच तत्समीपतः॥।
षट्पदः सुन्दरं सूक्ष्मं जुगुञ्जे पुरतः स्थितः॥
शश्वद्ववौ गन्धवहो मन्दोऽतिशीतलः प्रिये

4.32.68

सततं मुदितस्तत्र बभ्राम च मधुः स्वयम् ॥
पुलकाञ्चितसर्वाङ्गो बभूव जगतां विधिः

4.32.69

ददर्श मोहिनी भावं प्रहस्य च पुनः पुनः ॥
अतीव वक्रनयना कामास्त्रहतचेतना

4.32.4.32.70

विधाता बुबुधे सर्वं सर्वबन्धनिबन्धनम्॥
नियन्तुं न मनः शक्तः सस्मार श्रीहरिं भिया

4.32.71

तुष्टाव मनसा कृष्णं शान्तं हृत्पङ्कजस्थितम् ॥
द्विभुजं मुरलीहस्तं हरिं पीताम्बरं परम्

4.32.72

अतीव कमनीयं च किशोरं स्थिरयौवनम् ॥
रत्नालंकारभूषाढ्यं सस्मितं श्यामसुन्दरम्

4.32.73

ब्रह्मोवाच ॥
रक्ष रक्ष हरे मां च निमग्नं कामसागरे ॥
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे

4.32.74

भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ॥
अतीव निर्मलज्ञानचक्षुःप्रछन्नकारणे

4.32.75

जन्मोर्मिसंघसहिते योषिन्नक्रौघसंकुले ॥
रतिस्रोतःसमायुक्ते गंभीरे घोर एव च

4.32.76

प्रथमामृतरूपे च परिणामविषालये ॥
यमालयप्रदेशाय मुक्तिद्वारातिविस्मृते

4.32.77

बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम् ॥
स्वयं च त्वं कर्णधारः प्रसीद मधुसूदन

4.32.78

मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि॥
सन्ति विश्वेश विधयो हे विश्वेश्वर माधव

4.32.79

न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः ॥
तथापि नः स्पृहा कामे त्वद्भक्तिव्यवधायके

4.32.4.32.80

हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ॥
त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय

4.32.81

इत्युक्त्वा जगतां धाता विरराम सनातनः ॥
ध्यायंध्यायं मत्पदाब्जं शश्वत्सस्मार मामिति

4.32.82

ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ॥
स चैवाकर्ण्य विषये न निमग्नो भवेद्ध्रुवम्

4.32.83

मम मायां विनिर्जित्य संज्ञानं लभते ध्रुवम् ॥
इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत्

4.32.32

॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे ब्रह्ममोहिनीसंवादे द्वात्रिंशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc