ब्रह्मवैवर्त पुराण · अध्याय 4.23
नारद उवाच ॥
केन पापेन बलिजो गर्दभत्वमवाप ह ॥
दुर्वासाः केन दोषेण शशाप दानवेश्वरम्
केन पुण्येन वा नाथ बलिनः श्रीहरेः पदम् ॥
सहसैकत्वमुक्तिं च संप्राप दानवाधिपः
मुने सर्वं सुविस्तार्य वद संदेहभञ्जन ॥
अहो कविमुखे काव्यं नूत्नंनूत्नं पदेपदे
श्रीनारायण उवाच ॥
शृणु वत्स प्रवक्ष्येऽहमितिहासं पुरातनम् ॥
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने
पाद्मकल्पे च वृत्तान्तं विचित्रं सुमनोहरम् ॥
नारायणकथोपेतं कर्णपीयूषमुत्तमम्
यत्र कल्पे कथा चेयं तत्र त्वमुपबर्हणः ॥
आकल्पजीवी सश्रीकः सुन्दरः स्थिरयौवनः
पंचाशत्कामिनीनां च पतिः शृङ्गारतत्परः ॥
वरेण ब्रह्मणस्त्वं च सुकण्ठो गायनेश्वरः
अनुक्षणं पपुस्तास्ते सुन्दरं मुखपङ्कजम् ॥
निमेषरहिताः सर्वाः कामबाणप्रपीडिताः
तासां प्राणैश्च घटितो विधिना त्वमिव श्रुतम् ॥
दिवानिशं सहचरा न जीवन्ति त्वया विना ॥
पुष्पोद्याने च रहसि स्थानेस्थाने मनोरमे ॥
गह्वरेषु च शैलानां कन्दरेषु नदीषु च
काननेषु च रम्येषु श्मशाने जन्तुवर्जिते ॥
यथामनोरथं ताश्च क्रीडां चक्रुस्त्वया सह
तदा दैवाद्विधेः शापाद्भूत्वा दासीसुतो भवान् ॥
अधुना ब्रह्मणः पुत्रो वैष्णवोच्छिष्टभोजनात्
असंख्यकल्पजीवी च वैष्णवप्रवरो महान् ॥
ज्ञानदृष्ट्या सर्वदर्शी प्रिय शिष्यश्च धूर्जटेः
तस्य कल्पस्य वृत्तान्तं मुने मत्तो निशामय ॥
विस्तार्य दैत्यवृत्तांतं कथयामि सुधोपमम्
एकदैव बलेः पुत्रो नाम्ना साहसिको बली ॥
स्वतेजसा सुराञ्जित्वा प्रतस्थे गन्धमादनम्
चन्देनोक्षितसर्वाङ्गो रत्नभूषणभूषितः ॥
रत्नसिंहासनस्थश्च बहुसैन्यसमन्वितः
एतस्मिन्नन्तरे तेन पथा याति तिलोत्तमा ॥
रूपेणाप्सरसां श्रेष्ठा नानावेषविधायिनी
चारुचम्पकवर्णाभा रत्नाभरणभूषिता ॥
नवयौवनसम्पन्ना कामबाणप्रपीडिता
ईषद्धास्य प्रसन्नास्या दिव्यवस्त्रं सुबिभ्रती ॥
वक्रभूभङ्गयुक्ता सा गजेन्द्रमन्दगामिनी
स्तनमूरुं मुखेन्दुं च दृष्ट्वा साहसिको युवा ॥
वायुना मुक्तवस्त्रायास्तस्या मूर्च्छामवाप ह
सा ददर्श बलेः पुत्रमतीव सुमनोहरम् ॥
प्रफुल्लमालतीमालां बिभ्रतं नवयौवनम्
शरत्पार्वणचन्द्रास्यं सुस्मितं सुमनोहरम् ॥
दृष्ट्वा तं विस्मिता कामात्कटाक्षं च चकार सा
क्रीडायै चन्द्रलोकं च गच्छन्ती चन्द्रकामुकी ॥
तस्थौ केन च्छलेनैव मत्ता शृङ्गारलालसा
दर्शंदर्शं च तस्यास्य प्रहस्य वक्रचक्षुषा ॥
मुखस्याच्छादनं चक्रे वाससा सा पुनःपुनः
पुलकांकितसर्वाङ्गं धर्मकर्मसमन्वितम् ॥
बभूव काममत्ताया योनौ कण्डूयनं जलम्
विसस्मार शशधरं बलिपुत्रमनोरथा ॥
अहो को वेद भुवने दुर्ज्ञेयं पुंश्चलीमनः
पुंश्चल्यां यो हि विश्वस्तो विधिना स विडम्बितः ॥
बहिष्कृतश्च यशसा धर्मेण स्वकुलेन च
वाञ्छितं नूतनं प्राप्य विनश्यति पुरातनम् ॥
तदा स्वकर्मसाध्या सा को वा तस्याः प्रियोऽप्रियः
दैवे कर्मणि पैत्र्ये च पुत्रे बन्धौ न भर्तरि ॥
दारुणं पुंश्चलीचित्तं सदा शृङ्गारकर्मणि
प्राणाधिकं रतिज्ञं साऽमृतदृष्ट्या च पुंश्चली ॥
रत्नप्रदं रत्नविज्ञं विषदृष्ट्या हि पश्यति
सर्वेषां स्थलमस्त्येव पुंश्चलीनां न कुत्रचित् ॥
दारुणा पुंश्चली जातिर्नरघातिभ्य एव च
निष्कृतिः सर्वभोगान्ते सर्वेषामस्ति निश्चितम्॥
न पुंश्चलीनां विप्रेन्द्र यावच्चन्द्रदिवाकरौ
अन्यासां कामिनीनां च कीटं हन्तुं च या दया ॥
सा नास्ति पुंश्चलीनां तु कान्तं हन्ति पुरातनम्
कान्तं दृष्ट्वा हिनस्त्येव सोपायेनावलीलया ॥
रतिज्ञं नूतनं प्राप्य विषतुल्यं पुरातनम्
पृथिव्यां यानि पापानि पुंश्चलीष्वेव भारते ॥
तिष्ठन्ति ताभ्यो न पराः पापिष्ठाः सन्ति केचन
पुंश्चलीपरिपक्वान्नं सर्वपातकनिश्चितम् ॥
दैवे कर्मणि पैत्र्ये च न देयं च तथा जलम्
अन्नं विष्ठा जलं मूत्रं पुंश्चलीनां च निश्चितम् ॥
दत्त्वा पितृभ्यो देवेभ्यो भुक्त्वा च नरकं व्रजेत्
शतवर्षं कालसूत्रे पचत्येव सुदारुणे ॥
घोरान्धकारे कृमयस्तं दशन्ति दिवानिशम्॥
पुंश्चल्यन्नं च यो भुङ्क्ते दैवाद्यदि नराधमः ॥
सप्तजन्मकृतं पुण्यं तस्य नश्यति निश्चितम्
आयुः श्रीयशसां हानिरिह लोके परत्र च ॥
तस्माद्यत्नाद्रक्षणीयं पाकपात्रं कलत्रकम्
पुंश्चलीदर्शने पुण्यं यात्रासिद्धिर्भवेद्ध्रुवम् ॥
स्पर्शने च महापापं तीर्थस्नानाद्विशुध्यति
स्नानं दानं व्रतं चैव जपश्च देवपूजनम् ॥
निष्फलं पुंश्चलिनां च भारते जीवनं वृथा ॥
कथितं कुलटाख्यानं दुर्ज्ञेयं च यथागमम् ॥
संवादं च तयोस्तत्र प्रकृतं शृणु नारद
स पुनश्चेतनां प्राप्य तां दृष्ट्वैव बलेः सुतः ॥
कामातुरः प्रमत्तश्च जगाम कुलटान्तिकम्
उवाच कुटिलापाङ्गी पीनश्रोणिपयोधराम् ॥
व्रीडया वाससा वक्त्रमाच्छन्नं कुर्वती मुदा
साहसिक उवाच ॥
कासि त्वं कस्य कन्यासि कस्य कान्तासि कामिनि ॥
स्वयं क्व यासि कं सुभ्रूः पुण्यवन्तं मनोहरम्
कल्पान्ते तपसा पूतं भोक्तुं त्वामेव सुन्दरि ॥
यं तं यासि याहि सा त्वं भृत्यं मां कर्तुमर्हसि
क्रीणीहि रतिपुण्येन मां भृत्यं रतिलोलुपम् ॥
शृङ्गारलोलुपा त्वं च शृङ्गारं देहि कामुकि
त्वया सह ममाश्लेषो विधिना च विनिर्मितः ॥
निरूपितं यत्तेनैव वार्यते केन तत्प्रिये
वाक्यं पीयूषसदृशं सस्मितं वद सुन्दरि ॥
शीघ्रं भुजलतापाशैर्बन्धनं कुरु निर्जने
आसनं देहि कल्याणि स्वोरुं कनकसन्निभम्॥
स्तनमण्डलकुम्भं च पात्रयोग्यं प्रदर्शय
तीक्ष्णास्त्रेण कटाक्षेण जर्जरं कुरु भामिनि ॥
कामसर्पक्षतं पादस्पर्शनेनारुजं कुरु
अधरोष्ठामृतं स्वादु देहि मे क्षुधिताय च ॥
पक्वदाडिमबीजाभं दन्तं दर्शय सुन्दरम।५३।
गम्भीरनाभिं त्रिवलीं द्रष्टुमिच्छामि सुन्दरि ॥
नीवीप्रमोक्षणं कर्तुमिच्छा मे वर्तते सदा
श्रोणीं पश्यामि ललितां मुनिमानसमोहिनीम् ॥
शरन्मध्याह्नपद्मानां प्रभामोचनलोचनाम्
शरत्पार्वणचन्द्रास्यं प्रसन्नं च प्रदर्शय ॥
सा च तद्वचनं श्रुत्वा तमुवाच स्मरातुरा
दृष्ट्वाऽऽर्त कामबाणेन मानसंक्षयकामिनी ॥
तिलोत्तमोवाच॥
पतिस्त्वत्सदृशो नाथ कामिनीनां मनीषितः
बलिपुत्रोऽसि धर्मिष्ठो रूपवान्गुणवान्युवा ॥
शृङ्गारनिपुणः कान्तः कामशास्त्रविशारदः।५८॥
सदा मनोज्ञः स्त्रीणां त्वं सुवेषश्च स्वभावतः॥
सुवेषं सुन्दरं शान्तं कान्तं दान्तमरोगिणम्
शृङ्गारज्ञं गुणज्ञं त्वां युवानं रसिकं शुचिम् ॥
स्त्रीमनोज्ञं दयालुं च बलिष्ठं सन्तमीश्वरम्॥
दातारमनुरक्तं च कान्तमिच्छति कामिनी
एते सर्वे गुणाः कान्त सन्ति कान्ते त्वयि ध्रुवम्॥
त्वां न वाञ्छन्ति याः कान्तास्ता अविज्ञाश्च वञ्चिताः
संतोषं ते करिष्यामि समागम्य विधोर्गृहात्॥
वेषं कृत्वा तु चन्द्रार्थं यात्राऽद्य तस्य कामिनी ॥
अन्याश्लेषणमात्रेण भविता धर्मलङ्घना
याश्च धर्मान्न रक्षन्ति तासां च जीवनं वृथा ॥
चन्द्राश्लेषं न जानन्ति यास्ता मूढाः प्रकीर्तिताः ॥
ता एव मातृगर्भस्था न प्राज्ञाः पौरुषै रसैः
स्ववैद्यौमदनश्चन्द्रो मरुत्वान्नलकूबरः ॥
एभिर्नालिङ्गिता यास्ता वञ्चिता रतिकर्मभिः
दिवानिशं मानसं मे तेषां क्रीडां च चिन्तयेत् ॥
विशेषतः कामदेवो निपुणो रतिकर्मणि
चन्द्रशृङ्गारमाश्लेषमालापममृताधिकम् ॥
अद्य तस्य रतिदिनं तेन तच्चिन्तयेन्मनः
तिलोत्तमावचः श्रुत्वा जहास बलिनन्दनः ॥
सकामश्च सपुलकस्तामुवाच रहःस्थले
साहसिक उवाच ॥
ब्रह्मणा निर्मिता त्वं च कौतुकेन तिलोत्तमे ॥
अतो वरा चाप्सरसां विदग्धरसिकेश्वरी
सुन्दोपसुन्दयोर्नाशः निमित्तेन प्रयत्नतः ॥
सर्वरूपगुणाधारा विधिना च कृता पुरा
सर्वं जानासि सर्वज्ञे विज्ञा सुरतकर्मणि ॥
हर्षेण श्रोतुमिच्छामि वद वो मानसं वचः
अतिप्रियश्च को वा च कः स्वभावो वरानने ॥
अवश्यं गोपनीयं च श्रोतुमिच्छामि सुन्दरि ॥
गन्धर्वाणां सुराणां च राज्ञां पुण्यवतामपि॥
सर्वेषां प्राणतुल्या त्वमेषु ते कः परः प्रियः
असुरस्य वचः श्रुत्वा प्रहस्य सा तिलोत्तमा॥
मुखमाच्छादनं चक्रे विलोक्य वक्रचक्षुषा
सत्यं सारमन्तरस्थमव्यक्तमतिगोपनम् ॥
उवाच मानसं वाक्यमज्ञातं विदुषामपि
॥ तिलोत्तमोवाच ॥ ॥
कथनीयं साहसिक पुंश्चलीनां मनोवचः ॥
स्त्रीजातीनां च सर्वासामुपहासकरं परम्
सर्वेषामपि दुर्ज्ञेयं चरितं योषितामपि ॥
विशेषतोऽपि दुर्ज्ञेयं पुंश्चलीनां मनोवचः
वेदवेदाङ्गशास्त्रान्तं सर्वं जानाति पंडितः ॥
कान्त नांतं विजानाति दिशामाकाशयोषिताम्
विषादप्यप्रियो वृद्धो रत्नादपि च योषिताम् ॥
युवा सर्वस्वहर्ता चेत्प्राणेभ्योऽपि परः प्रियः
युवानं सुन्दरं दृष्ट्वा ह्यार्ता भवति पुंश्चली ॥
विशेषतः सुवेषं च दृष्ट्वैव हतचेतना
निमेषरहिता तस्य लोचनाभ्यां पिबेन्मुखम् ॥
योनौ जलं क्षरेत्तस्याः सद्यः कुण्डूयनं भवेत्
मनोऽतिलोलमस्थैर्यं सर्वाङ्गानि चकम्पिरे ॥
जडीभूतं शरीरं च प्रदग्धं मदनानलात्
संप्राप्य तं चेद्रहसि साऽऽलापं कुरुते स्फुटम् ॥
सकटाक्षं स्मेरवक्त्रं दर्शयित्वा पुनः पुनः
तथा यदि वशं कर्तुं न शशाक जितेन्द्रियम् ॥
स्वमङ्गं दर्शयित्वा तमन्तर्वाक्यं स्फुटं वदेत्
दुःसाध्ये नायके दुःखं भवेदाजन्मजन्मनि ॥
तत्तुल्यं तत्परं प्राप्य तं विस्मरति पुंश्चली
पुंश्चलीनामप्रियः कः कः प्रियो वा महीतले ॥
योऽतिशृङ्गारनिपुणः स च प्राणाधिकः प्रियः
पूर्वजारं पतिं पुत्रं भ्रातरं पितरं प्रसूम् ॥
विशिष्टं नूतनं प्राप्य सर्वं त्यजति लीलया
न दानेन न मानेन सत्येन स्तवनेन वा ॥
नोपकारेण प्रीत्या वा सा साध्या सुरतिं विना
शयने भोजने चापि स्वप्ने ज्ञाने दिवानिशम् ॥
नित्यं सत्पुरुषाश्लेषं स्मरन्ति कुलटा स्त्रियः ॥
शृङ्गारनिपुणानां च ध्यानसाध्या चिरं परम्॥
दारुणा पुंश्चली जातिः प्रार्थयेच्च नवंनवम्
सर्वासां कुलटानां च चरित्रं कथितं मया ॥
अकथ्यं गोपनीयं च मम हृद्वचनं शृणु
मम सन्ति प्रियतरा गन्धर्वेषु सुरेषु च॥
युवानो रतिशूराश्च कामशास्त्रविशारदाः
विशेषतः शशधरे स्नेहो मे विद्यते परः ॥
ततोऽतिरिक्तः सर्वस्मादपि कामः प्रियो मम
प्रियो मे कामसदृशो न भूतो न भविष्यति ॥
स्मरस्य स्मरणात्तूर्णं सुस्निग्धं मानसं मम
इत्येवं कथितं सर्वमात्मनो योषितामपि ॥
आज्ञां कुरु महाराज यास्यामि चन्द्रसन्निधिम्
चन्द्रस्थानात्तव स्थानं समागत्य सुनिश्चितम्॥
संतोषं तव दैत्येन्द्र करिष्यामि न संशयः
श्रुत्वैवं बलिपुत्रश्च जहासोच्चैः पुनः पुनः ॥
सा वक्रचक्षुषाऽऽलोक्य तं जहास स्मरातुरा
छलेन दर्शयामास कठिनं स्तनयोर्युगम् ॥
चारुचम्पकवर्णाभं वर्तुलं पीनमुच्छ्रितम्
श्रोणीं सुकठिनां रम्यां रम्भास्तम्भविनिन्दिनीम् ॥
सकटाक्षं स्मेरमुख कपोलं पुलकाञ्चितम्
रहःस्थानं समासाद्य कामेन हतचेतना ॥
पुलकाञ्चितसर्वाङ्गी लोचनाभ्यां पपौ मुखम्
तस्य रूपं च वेषं च दर्शंदर्शं पुनःपुनः ॥
मुखस्याच्छादनं भावात्कुर्वर्ती सूक्ष्मवाससा
अतिकामातुरां दृष्ट्वा सुप्राज्ञो बलिनन्दनः ॥
पप्रच्छ कामिनां कामी भावं विज्ञातुमुत्सुकः
साहसिक उवाच ॥
किं करिष्यसि मां सत्यं वद पङ्कजलोचने॥
कार्यान्तरं करिष्यामि सुचिरं स्थातुमक्षमः
कामिनीषु बलात्कारो न धर्मो धर्मिणां प्रिये॥
विशेषतोऽतिविदुषां नास्माकं स्वकुलोचितः
शृङ्गारं देहि वा गच्छ रतिं कर्तुं सुरान्तिके ॥
कः क्षमो वा वशीकर्तुं पुंश्चलीं बहुगामिनीम्
दानवस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुका ॥
आत्मानमधमंमन्या भिद्यमाना स्मरास्त्रतः
तिलोत्तमोवाच ॥ ॥
कथमेवं ब्रूहि त्वं मे कान्तः प्राणाधिकः प्रियः ॥
कथं वा कोपयुक्तोऽसि कुरु कार्यं मनीषितम्
त्वामेवं विमुखं कृत्वा यामि चन्द्रान्तिकं यदि ॥
तवाभिशापात्तत्रैव सद्यो विघ्नो भविष्यति
विहारं कुरु भद्रं ते करिष्यति हरिः स्वयम् ॥
पदेपदे शुभं तस्य यः स्त्रीमानं च रक्षति ॥१ ०८॥
अवमन्य स्त्रियं मूढो यो याति पुरुषाधमः ॥
पदेपदे तदशुभं करोति पार्वती सती
तिलोत्तमावचः श्रुत्वा जहास बलिनन्दनः ॥
कामशास्त्रेषु निष्णातस्तद्भावं बुबुधे सुधीः
भावं विज्ञाय भावज्ञः कामशास्त्रविशारदः ॥
करे धृत्वा समाश्लिष्य चुचुम्ब मुखपङ्कजम्
जगाम च तया सार्धं गन्धमादनगह्ररम् ॥
ददर्श तत्र गत्वा च स्थानं जन्तुविवर्जितम्
संस्थाप्य रत्नदीपांश्च धूपं च सुमनोहरम् ॥
शय्यां रतिकरीं कृत्वा सुष्वाप च तया सह
नानाप्रकारशृङ्गारं चकार काममोहितः ॥
तिलोत्तमा तं बुबुधे सुरादपि विचक्षणम्
विपरीतरतौ तुष्टा बभूव रसिकेश्वरी ॥
दिवानिशं न बुबुधे नवसंगममूर्च्छिता
तिलोत्तमा कामभावाद्बलिपुत्रमुवाच ह॥
कृत्वा वक्षसि प्राणेशं स्तनयोरन्तरे मुदा
तिलोत्तमोवाच ॥
कदा द्रक्ष्याम्यहं कान्त मुखचन्द्रं मनोहरम् ॥
एवंभूतं शुभदिनं कदा मे भविता पुनः
अयि किं रूपमाश्चर्यं गुणो वा तव दानव ॥
ध्रुवं शृङ्गारनिपुणस्त्वत्परो नास्ति कश्चन
मां विस्मरसि कालेन पुरुषः षट्पदो यथा ॥
स्त्रीणां सत्पुरुषाश्लेष आजीवं मनसि स्थितः
सत्संगमः शुभदिने पुण्यात्पुण्यवतां भवेत् ॥
सद्विच्छेदो दुःखहेतुर्मरणादतिरिच्यते
पीयूषभोजनात्स्वर्गवासादपि च दुर्लभः ॥
सत्संगमः सुखमयोऽप्यसत्सङ्गो विषाधिकः
क्षणं तिष्ठ महाराज पुनरालिंगनं कुरु ॥
त्वया सार्धं मम प्राणा यास्यन्ति चेतसा सह
इत्येवमुक्त्वा कुलटा कृत्वा वक्षसि सादरम् ॥
पुमंगसंगोत्पुलका मूर्च्छामाप सुखेन च
कुलटालिंगनालापात्सोऽतिकामी बभूव ह ॥
यथा दीप्तः कृष्णवर्त्मा वर्धते हविषाऽधिकम्
पुनश्चकार शृंगारमसुरोऽष्टविधं मुने ॥
चुंबनं च नवविधं यथास्थाने यथोचितम्
नखदन्तकरैः क्रीडां चकार विविधां पुनः ॥
किंकिणीनां कंकणानां बभूव शब्द उल्बणः ॥
मुनेर्दुर्वाससस्तेन ध्यानभङ्गो बभूव ह
अदृष्टस्य तयोस्तत्र वल्मीकाच्छादितस्य च ॥
योगासनं कुर्वतश्च गन्धमादनगह्वरे
ध्यायतश्चरणांभोजं कृष्णस्य परमात्मनः ॥
न पपात तयोर्दृष्टिः समीपस्थे महामुनौ ॥
कामात्मनोर्न हि ज्ञानं कामेन हतचेतसोः
सहसा चेतनां प्राप्य प्रज्वलन्ब्रह्मतेजसा ॥
ददर्श पुरतस्तौ तु मुनिरुन्मील्य लोचने
दिवानिशं न जानन्तौ संयुक्तौ काममोहितौ ॥
दृष्ट्वा चुकोप तेजस्वी रुद्रांशो भगवान्विभुः
उवाच तौ विहारान्ते रक्तपङ्कजलोचनः ॥
ध्यानप्राप्तपदाम्भोजविच्छेदोद्विग्नमानसः
दुर्वासा उवाच ॥
उत्तिष्ठ गर्दभाकार निर्लज्ज पुरुषाधम ॥
भक्तप्रधानस्य बलेः पुत्रः पशुसमप्रभः
देवो वा मानवो वाऽपि दैत्यगन्धर्वराक्षसाः ॥
लज्जां कुर्वन्ति सततं स्वजातौ च पशून्विना
ज्ञानलज्जाविहीना च खरजातिर्विशेषतः ॥
तस्मात्त्वं दानवश्रेष्ठ खरयोनिं व्रजाधुना
तिलोत्तमे त्वमुत्तिष्ठ लज्जाहीना च पुंश्चली ॥
एतादृशी स्पृहा दैत्ये व्रज योनिं च दानवीम्
इत्येवमुक्त्वा स मुनिस्तस्थौ तत्र रुषा
ज्वलन् ॥ तौ च तुष्टुवतुर्भीतावुत्थाय व्रीडितौ मुनिम
साहसिक उवाच ॥
त्वं ब्रह्मा त्वं च विष्णुश्च त्वं च साक्षान्महेश्वरः ॥
हुताशनस्त्वं सूर्यश्च सृष्टिस्थित्यन्तकारकः
क्षमापराधं भगवन्कृपां कुरु कृपानिधे ॥
मूढापराधं सततं यः क्षमेत्स सदीश्वरः
इत्येवमुक्त्वा दैत्येन्द्रो रुरोदोच्चैः पुरो मुनेः ॥
कृत्वा तृणानि दशने पपात चरणाम्बुजे
तिलोत्तमोवाच ॥
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ॥
विधिसृष्टौ च सर्वेषां मूढा स्त्रीजातिरेव च
ततोऽतिमत्ता कुलटा सदा कामातुरा परा ॥
लज्जाभीतिश्चेतना च न सन्ति कामुके विभो
इत्युक्त्वा रोदनं कृत्वा जगाम शरणं मुनेः ॥
विना विपत्तौ केषांचिज्ज्ञानं भवति भूतले ॥
तयोर्दृष्ट्वा च वैकल्यं बभूव करुणा मुनेः
दुर्वासा उवाच ॥
अतिशापः प्रसादो वा भवेद्दैवेन दानव ॥
सत्कीर्तिरपकीर्तिर्वा प्राक्तनप्रभवा ध्रुवम्
विष्णुभक्तबलेः पुत्रः सद्वंशप्रभवो
जनः ॥ जनकाद्विष्णुभक्तोऽसि जानामि त्वां सुनिश्चितम्
जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम् ॥
यथा श्रीकृष्णपादाङ्कः कालीयवंशमस्तके
संप्राप्य गार्दभीं योनिं वत्स निर्वाणतां व्रज ॥
पूर्वं कृष्णार्चनफलं न हि लुप्तं सतां चिरात्
वृन्दारण्यं तालवनं व्रज शीघ्रं व्रजान्तिकम् ॥
प्राणांस्त्यक्त्वा हरेश्चक्रान्मुक्तिं प्राप्स्यसि निश्चितम्
तिलोत्तमे भारते त्वं बाणपुत्री भविष्यसि ॥
श्रीकृष्णपौत्रश्लेषेण पुनः पूता भविष्यसि
इत्येवमुक्त्वा स मुनिर्विरराम महामुने ॥
तौ जग्मतुर्यथास्थानं प्रणम्य मुनिपुंगवम्
इत्युक्तं सर्ववृत्तान्तं दैत्यस्य खरजन्मनः ॥
तिलोत्तमा बाणपुत्री ह्युषाऽनिरुद्धकामिनी
इति श्रीबह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे तिलोत्तमाबलिपुत्रयोर्ब्रह्मशापप्रस्तावो नाम त्रयोविंशोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0