भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.16

4.16.1

श्रीनारायण उवाच ॥
माधवो बालकैः सार्द्धमेकदा हलिना सह ॥
भुक्त्वा पीत्वा च क्रीडार्थं जगाम श्रीवनं मुने

4.16.2

तत्र नानाविधां क्रीडां चकार मधुसूदनः ॥
कृत्वा तां शिशुभिः सार्द्धं चालयामास गोधनम्

4.16.3

ययौ मधुवनं तस्माच्छ्रीकृष्णो गोधनैः सह ॥
तत्र स्वादु जलं पीत्वा वने च स महाबलः ॥

4.16.4

तत्रैकदैत्यो बलवाञ्छ्वेतवर्णो भयंकरः ॥
विकृताकारवदनो बकाकारश्च शैलवत्

4.16.5

दृष्ट्वा च गोकुलं गोष्ठे शिशुभिर्बलकेशवौ ॥
यथा ह्यगस्त्यो वातापिं सर्वं जग्रास लीलया

4.16.6

बकग्रस्तं हरिं दृष्ट्वा सर्वे देवा भयान्विताः ॥
चक्रुर्हाहेति संत्रस्ता धावन्तः शस्त्रपाणयः

4.16.7

शक्रश्चिक्षेप वज्रं च मुनेरस्थिविनिर्मितम् ॥
न ममार बकस्तस्मात्पक्षमेकं ददाह च

4.16.8

नीहारास्त्रं शशधरः शीतार्तस्तेन दानवः ॥
यमदण्डं सूयर्पुत्रस्तेन कुण्ठो बभूव ह

4.16.9

वायव्यास्त्रं च वायुश्च तेन स्थानान्तरं ययौ ॥
वरुणश्च शिलावृष्टिं चकार तेन पीडितः

4.16.4.16.10

हुताशनश्च वाह्नेन पक्षांश्चैव ददाह सः ॥
कुबेरस्यार्धचन्द्रेण छिन्नपादो बभूव ह

4.16.11

ईशानस्य च शूलेन बभूव मूर्च्छितोऽसुरः ॥
ऋषयो मुनयश्चैव कृष्णं चकुर्भियाऽऽशिषम्

4.16.12

एतस्मिन्नन्तरे कृष्णः प्रज्वलन्ब्रह्मतेजसा ॥
ददाह दैत्यसर्वाङ्गं बाह्याभ्यन्तरमीश्वरः

4.16.13

तत्सर्वं वमनं कृत्वा प्राणांस्तत्याज दानवः ॥
बकं निहत्य बलवाञ्छिशुभिर्गोधनैः सह

4.16.14

ययौ केलिकदम्बानां काननं सुमनोहरम् ॥
एतस्मिन्नन्तरे तत्र वृषरूपधरोऽसुरः

4.16.15

नाम्ना प्रलम्बो बलवान्महाधूर्तश्च शैलवत् ॥
शृङ्गाभ्यां च हरिं धृत्वा भ्रामयामास तत्र वै

4.16.16

दुद्रुवुर्बालकाः सर्वे रुरुदुश्च भयातुराः ॥
बलो जहास बलवाञ्ज्ञात्वा भ्रातरमीश्वरम्

4.16.17

बालकान्बोधयामास भयं किमित्युवाच ह ॥
तद्विषाणं गृहीत्वा च स्वयं श्रीमधुसूदनः

4.16.18

भ्रामयित्वा च गगने पातयामास भूतले ॥
प्राणांस्तत्याज दैत्येन्द्रो निपत्य च महीतलम्

4.16.19

जहसुर्बालकाः सर्वे ननृतुश्च जगुर्मुदा ॥
हत्वा प्रलम्बं श्रीकृष्णो बलेन सह सत्वरम्

4.16.4.16.20

गोधनं चारयामास ययौ भाण्डीरमीश्वरः ॥
गच्छन्तं माधवं दृष्ट्वा केशी दैत्येश्वरो बली

4.16.21

वेष्टयामास तं शीघ्रं खुरेण विलिखन्महीम् ॥
मूर्ध्नि कृत्वा हरिं तुष्टो गगनं शतयोजनम्

4.16.22

उत्पात्य भ्रामयामास पपात च महीतले ॥
जग्राह स हरिं पापी चर्वयामास कोपतः

4.16.23

स भग्नदन्तो दैत्यश्च वज्राङ्गचर्वणादहो ॥
श्रीकृष्णतेजसा दग्धः प्राणांस्तत्याज भूतले

4.16.24

स्वर्गे दुन्दुभयो नेदुः पुष्पवृष्टिर्बभूव ह ॥
एतस्मिन्नन्तरे तत्र पार्षदा दिव्यरूपिणः

4.16.25

तत्राजग्मुः स्यन्दनस्था द्विभुजाः पीतवाससः ॥
किरीटिनः कुण्डलिनो वनमालाविभूषिताः ॥

4.16.26

विनोदमुरलीहस्ताः क्वणन्मञ्जीररञ्जिताः ॥
चन्दनोक्षितसर्वाङ्गा गोपवेषधरा वराः

4.16.27

ईषद्धास्यप्रसन्नास्या भक्तानुग्रह कातराः ॥
प्रदीप्तं रथमास्थाय रत्नसारविनिर्मितम्

4.16.28

भाण्डीरवनमाजग्मुर्यत्र सन्निहितो हरिः ॥
दिव्यवस्त्रपरीधाना रत्नालंकारभूषिताः

4.16.29

प्रणमय्य हरिं स्तुत्वा जग्मुर्गोलोकमुत्तमम् ॥
मुक्त्वा देहं परित्यज्य वैष्णवाः पुरुषास्त्रयः ॥
संप्राप्य दानवीं योनिं बभूबुः कृष्णपार्षदाः

4.16.4.16.30

नारद उवाच ॥
के ते च दिव्यपुरुषा वैष्णवा दैत्यरूपिणः ॥
कथयस्व महाभाग कृतं किं परमाद्भुतम्

4.16.31

नारायण उवाच ॥
शृणु बह्मन्प्रवक्ष्येऽहमितिहासं पुरातनम्

4.16.33

श्रुतं महेशवदनात्सूर्यपर्वणि पुष्करे॥
हरेर्गुणप्रसङ्गेन कथयामास शंकरः । ३२॥
संपृष्टो मुनिसंघैश्च मया धर्मेण ब्रह्मणा ॥
ब्रह्मपुत्र महाभाग कथां भुवनपावनीम्

4.16.34

कथयामास विस्तार्य सावधानं निशामय ॥
गन्धर्वेशो गन्धवाहः पर्वते गन्धमादने

4.16.35

महांस्तपस्विप्रवरो हरिसेवनतत्परः ॥
पुत्रा बभूवुश्चत्वारो गन्धर्वप्रवरा मुने

4.16.36

सस्मरुः कृष्णपादाब्जं स्वप्ने ज्ञाने दिवानिशम्॥
ते च दुर्वाससः शिष्याः श्रीकृष्णार्चनतत्पराः

4.16.37

नित्यं दत्त्वा च कमलं संपूज्य तं पपुर्जलम् ॥
वसुदेवः सुहोत्रश्च सुदर्शनसुपार्श्वकौ

4.16.38

चत्वारो वैष्णवश्रेष्ठास्तेपुस्ते पुष्करे तपः ॥
चिरकालं तपस्तप्त्वा बभूवुः सिद्धमन्त्रिणः

4.16.39

ज्येष्ठो दुर्वाससो योगं संप्राप्य योगिनां वरः॥
सिद्धश्चाकृतदारश्च प्रज्वलन्ब्रह्मतेजसा

4.16.4.16.40

सद्यो देहं परित्यज्य बभूव कृष्णपार्षदः ॥
एकदा भ्रातरस्ते च जग्मुश्चित्रसरोवरम्॥

4.16.41

पद्मानि कृष्णपूजार्थमाहर्तुमुदये रवेः ॥
पद्मानां चयनं कृत्वा गच्छतो वैष्णवान्मुने

4.16.42

दृष्ट्वा निबध्य संजग्मुः सर्वे शंकरकिंकराः ॥
बलिष्ठा दुर्बलान्धृत्वा जग्मुः शंकरसन्निधिम्

4.16.43

ते सर्वे शंकरं दृष्ट्वा प्रणेमुः शिरसा भुवि ॥
तानुवाच शिवः शीघ्रं प्रयुज्याशिषमुत्तमाम् ॥
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः

4.16.44

शिव उवाच ॥
के यूयं पद्महर्तारः पार्वत्याश्च सरोवरे

4.16.45

लक्षयक्षै रक्षणीयं पार्वतीव्रतहेतवे ॥
नित्यं सहस्रकमलं ददाति हरये सती

4.16.46

व्रते त्रैमासिके भक्त्या पतिसौभाग्यवर्द्धने ॥
शिवस्य वचनं श्रुत्वा तमूचुर्वैष्णवा भिया ॥
पुटाञ्जलियुताः सर्वे भक्तिनम्रात्मकन्धराः

4.16.47

गन्धर्वा ऊचुः ॥ ॥
वयं गन्धर्वप्रवरा गन्धवाहसुता विभो

4.16.48

हरये कमलं दत्त्वा पिबामो जलमीश्वर ॥
वयं न विद्मो हे नाथ पार्वत्या रक्षितं सरः

4.16.49

गृहाण कमलं सर्वं युष्माकं च फलं कुरु ॥
न दास्यामोऽद्य कमलं पास्यामोऽद्य जलं हर

4.16.4.16.50

किं वा कथं न पास्यामस्तुभ्यं दत्तानि तानि च ॥
नित्यं ध्यात्वा यत्पदाब्जं पद्मेन पूजयामहे

4.16.51

साक्षात्तस्मै प्रदत्त्वा च पद्मं पूता वयं प्रभो ॥
एकं ब्रह्म ह्यद्वितीयं क्व देहः क्व च रूपवान्

4.16.52

भक्तानुग्रहतो देहो रूपभेदश्च मायया ॥
किं तु गृहाण पद्मानि त्वमेव मत्प्रभुः प्रभो

4.16.53

यतो नो मानसं पूर्णं तद्रूपं दर्शयाच्युत ॥
द्विभुजं कमनीयं च किशोरं श्यामसुन्दरम्॥

4.16.54

विनोदमुरलीहस्तं पीतांबरधरं परम् ॥
एकवक्त्रं द्विनयनं चन्दनागुरुचर्चितम्

4.16.55

ईषद्धास्यप्रसन्नास्यं रत्नालंकारभूषितम् ॥
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्

4.16.56

मयूरपिच्छचूडं च मालतीमाल्यभूषितम् ॥
पारिजातप्रसूनानां मालाराजिविभूषितम्

4.16.57

कोटिकन्दर्पलावण्यलीलाधाममनोहरम् ॥
गोपीसंघैर्दृश्यमानं सस्मितैर्वक्रलोचनैः

4.16.58

नवयौवनसंपन्नं राधावक्षस्थलस्थितम् ॥
ब्रह्मादिभिः स्तूयमानं वन्द्यं ध्येयमभीप्सितम्

4.16.59

स्वात्मारामं पूर्णकामं भक्तानुग्रहकातरम् ॥
इत्युक्त्वा पुरतः शम्भोस्तस्थुर्गन्धर्वपुङ्गवाः

4.16.4.16.60

श्रीकृष्णरूपश्रवणात्पुलकाङ्कितविग्रहः ॥
गन्धर्वाणां वचः श्रुत्वा शिवस्तानित्युवाच ह

4.16.61

श्रीकृष्णरूपश्रवणात्साश्रुपूर्णविलोचनः ॥
मयैव यूयं विज्ञाता वैष्णवप्रवरा महीम्

4.16.62

पूतां कर्तुं च भ्रमथ चरणाम्भोजरेणुना ॥
अहं वाञ्छां करोम्येव श्रीकृष्णभक्तदर्शने

4.16.63

समागमो हि साधूनां त्रिषु लोकेषु दुर्लभः ॥
पार्वत्याश्च सुराणां च सदा यूयं मम प्रियाः

4.16.64

आत्मनश्चात्मभक्तेभ्यो वैष्णवाश्च प्रियाश्च नः ॥
किन्तु मोघं च न भवेन्मया यत्स्वीकृतं पुरा

4.16.65

तच्छ्रूयतां महाभागाः पार्वतीव्रतकर्मणि॥
सरसश्चैव पद्मानि यैर्हृतानि व्रतान्तरे

4.16.66

ते तूर्णमासुरीं योनिं गमिष्यन्ति न संशयः ॥
न हि श्रीकृष्णभक्तानामशुभं विद्यते क्वचित्

4.16.67

संप्राप्य मानवीं योनिं गोलोकं यास्यथ ध्रुवम् ॥
यूयं श्रीकृष्णरूपं च प्रत्यक्षं द्रष्टुमुत्सुकाः

4.16.68

ध्रुवं द्रक्ष्यथ भो वत्सा वृन्दारण्ये च भारते ॥
दृष्ट्वा कृष्णं ततो मृत्युं संप्राप्य वैष्णवोत्तमाः

4.16.69

दिव्यं स्यंदनमारुह्य गमिष्यथ हरेर्गृहम्॥
अधुना वाञ्छनीयं च रूपं द्रष्टुमिहोत्सुकाः

4.16.4.16.70

तत्सर्वं पश्यतेत्युक्त्वा दर्शयामास तच्छिवः ॥
रूपं दृष्ट्वा साश्रुनेत्राः प्रणम्य सर्वरूपिणम्

4.16.71

आजग्मुर्दानवीं योनिमिति ते दानवेश्वराः ॥
वसुदेवः पुरा मुक्तः सुहोत्रश्च बकासुरः

4.16.72

सुदर्शनः प्रलम्बोऽयं स्वयं केशी सुपार्श्वकः ॥
हरस्य वरदानेन दृष्ट्वा रूपमनुत्तमम्

4.16.73

मृत्युं संप्राप्य श्रीकृष्णाज्जग्मुस्ते कृष्णमन्दिरम् ॥
इत्येवं कथितं विप्र हरेश्चरितमद्भुतम् ॥
बककेशिप्रलम्बानां मोक्षणं मोक्षकारकम्

4.16.74

नारद उवाच ॥
श्रुतं सर्वं महाभाग त्वत्प्रसादाद्यदद्भुतम्

4.16.72

अधुना श्रोतुमिच्छामि पार्वत्या किं कृतं व्रतम् ॥
को वाऽऽराध्यो व्रतस्यास्य किं फलं नियमश्च कः

4.16.76

कानि द्रव्याणि भगवन्व्रतोपयोगिकनि च ॥
कतिकालं व्रतं किं वा प्रतिष्ठायां निरूपणम्

4.16.77

सुविचार्य वद विभो श्रोतुं कौतूहलं मम ॥
श्रीनारायण उवाच ॥
व्रतं त्रैमासिकं नाम पतिसौभाग्यवर्धनम्

4.16.78

आराध्यो भगवान्कृष्णो राधिकासहितो मुने ॥
विषुवे च समारंभः समाप्तिर्दक्षिणायने

4.16.79

संयम्य पूर्वदिवसे कृत्वाऽवश्यं हविष्यकम्॥
स्नात्वा वैशाखसंक्रान्त्यां संकल्प्य जाह्नवीतटे

4.16.4.16.80

घटे मणौ शालग्रामे जले वा पूजयेद्व्रती॥
ध्यायेद्भक्त्या च राधेशं संपूज्य पञ्च देवताः

4.16.81

ध्यानं च सामवेदोक्तं निबोध कथयामि ते ॥
नवीननीरदश्यामं पीतकौशेय वाससम्

4.16.82

शरत्पार्वणचन्द्रास्यमीषद्धास्यसमन्वितम् ॥
शरत्प्रफुल्लपद्माक्षं मञ्जुलाञ्छनरंजितम्

4.16.83

मानसं गोपिकानां च मोहयन्तं मुहुर्मुहुः ॥
राधया दृश्यमानं च राधावक्षःस्थलस्थितम्

4.16.84

ब्रह्मानन्तेशधर्माद्यैः स्तूयमानमहं भजे ॥
ध्यात्वा कृष्णं च ध्यानेन तमावाह्य व्रती मुदा

4.16.85

ध्यायेत्तदा राधिकां च ध्यानं मध्यंदिनेरितम् ॥
राधां रासेश्वरीं रम्यां रासोल्लासरसोत्सुकाम् ॥

4.16.86

रासमण्डलमध्यस्थां रासाधिष्ठातृदेवताम् ॥
रासेश्वरोरःस्थलस्थां रसिकां रसिकप्रियाम्

4.16.87

रसिकप्रवरां रम्यां रमां च रमणोत्सुकाम् ॥
शरद्राजीवराजीनां प्रभामोचनलोचनाम्

4.16.88

वक्रभ्रूभङ्गसंयुक्तां मञ्जीरेणैव रञ्जिताम् ॥
शरत्पार्वणचन्द्रास्यामीषद्धास्यमनोहराम्

4.16.89

चारुचम्पकवर्णाभां चन्दनेन विभूषिताम् ॥
कस्तूरीबिन्दुना सार्धं सिंदूरबिंदुना युताम्

4.16.4.16.90

चारुपत्रावलीयुक्तां वह्निशुद्धांशुकोज्ज्वलाम् ॥
सद्रत्नकुण्डलाभ्यां च सुकपोलस्थलोज्ज्वलाम्

4.16.91

रत्नेन्द्रसारहारेण वक्षःस्थलविराजिताम् ॥
रत्नकङ्कणकेयूरकिङ्किणीरत्नरञ्जिताम्

4.16.92

सद्रत्नसाररचितक्वणन्मञ्जीररञ्जिताम् ॥
ब्रह्मादिभिश्च सेव्येन श्रीकृष्णेनैव सेविताम्

4.16.93

सर्वेशेन स्तूयमानां सर्वबीजां भजाम्यहम् ॥
इति ध्यात्वा च कृष्णेन सहितां तां च पूजयेत्

4.16.94

भक्त्या दत्त्वा प्रतिदिनमुपचारांश्च षोडश ॥
प्रत्येकं च पृथक्कृत्वा सर्वं दद्याद्व्रती मुदा

4.16.95

सहस्रकमलं दिव्यं शतमष्टोत्तरं मुने ॥
होमं कुर्याद्व्रती नित्यमष्टोत्तरशताहुतीः

4.16.96

दद्याद्भक्त्या च कृष्णाय स्वाहेत्युच्चार्य यत्नतः ॥
रसालस्य कदल्याश्च ह्यामं वा पक्वमेव च

4.16.97

नित्यमष्टोत्तरशतं दद्याद्भक्त्याऽक्षतैः फलम् ॥
नित्यं च भोजयेद्भक्त्या ब्राह्मणानां शतं मुने

4.16.98

होमं कुर्याद्व्रती नित्यमष्टोत्तरशताहुतीः ॥
दद्याद्भक्त्या च कृष्णाय राधिकासहिताय च

4.16.99

तिलेन हवनं कुर्यादाज्यमिश्रेण नारद ॥
वाद्यं च वादयेन्नित्यं कारयेद्धरिकीर्तनम्

4.16.4.16.100

एवं मासत्रयं कृत्वा प्रतिष्ठां तदनन्तरम् ॥
प्रतिष्ठादिवसे तत्र विधानं शृणु नारद॥

4.16.101

कमलानां च नवतिसहस्राण्यक्षतानि च ॥
ब्राह्मणानां सहस्राणि नव विप्रेन्द्र यत्नतः

4.16.102

भोजयेत्परमान्नानि स्वादूनि मिष्टकानि च ॥
फलं विंशाधिकं सप्तशतं नवसहस्रकम्

4.16.103

दद्यान्नानाविधं द्रव्यं नैवेद्यं सुमनोहरम् ॥
संस्कृताग्निं च संस्थाप्य होमं कुर्याद्विचक्षणः

4.16.104

नवतिं च सहस्राणि हुत्वाऽऽज्येन तिलेन च ॥
सवस्त्रं च सभोज्यं च यज्ञसूत्रफलान्वितम्

4.16.109

गन्धपुष्पार्चितान्भक्त्या दद्यान्नवतिलड्डुकान् ॥
दद्यान्नवतिकुम्भांश्च शीततोयप्रपूरितान्

4.16.106

एवंविधं व्रतं कृत्वा दद्याद्विप्राय दक्षिणाम् ॥
दक्षिणायाः परिमितं वेदेषु यन्निरूपितम्

4.16.107

वृषेन्द्राणां सहस्रं च स्वर्णशृङ्गसमन्वितम् ॥
इत्येवं कथितं विप्र कृतं त्रैमासिकव्रतम्

4.16.108

विशिष्टसंततिकरं पतिसौभाग्यवर्द्धनम् ॥
व्रतस्यास्य प्रभावेण सौभाग्यं शतजन्मनि

4.16.109

सत्पुत्रजननी सा च भवेज्जन्मशतं ध्रुवम् ॥
कदाऽपि न भवेत्तस्या भेदश्च पतिपुत्रयोः

4.16.4.16.110

दासतुल्यो भवेत्पुत्रो भर्ता च स्ववचस्करः ॥
अनुक्षणं भवेद्राधाकृष्णभक्तियुता सती

4.16.111

भवेद्व्रतप्रभावेण प्राप्तज्ञानहरिस्स्मृतिः ॥
व्रतं च सामवेदोक्तं कृतं पूर्वमथावयोः

4.16.112

सर्वेषां च व्रतानां च श्रेष्ठं शृणु वदामि ते ॥
स्वायंभुवस्य च मनोः शतरूपाभिधा सती

4.16.113

तया कृतं प्रथमतः कृत्वाऽगस्त्यं पुरोहितम् ॥
तदा कृतं देवहूत्या चाकूत्या च कृतं तदा

4.16.114

पुरोहितं पुलस्त्यं च कृत्वा श्रुत्युक्त्या मुने ॥
चकार रोहिणी तत्तु क्रतुं कृत्वा पुरोहितम्

4.16.115

रतिश्चकार तद्भक्त्या गौतमस्तत्पुरोहितः ॥
अकारि तद्व्रतं भक्त्या तारया गुरुकान्तया

4.16.116

महासंभृतसंभारा वसिष्ठस्तत्पुरोहितः ॥
तद्दृष्ट्वा गुरुपत्न्याश्च शक्रशच्या कृतं व्रतम्

4.16.117

महासम्भृतसम्भारस्तत्पुरोधा बृहस्पतिः ॥
व्रतं चकार स्वाहा च सर्वतोऽपि विलक्षणम्

4.16.118

अतिसंभृतसंभारो मरीचिस्तत्पुरोहितः ॥
तद्दृष्ट्वा पार्वती ब्रह्मन्नुवाच शंकरं मुदा ॥
पुटाञ्जलियुता देवी भक्तिनम्रात्मकन्धरा

4.16.119

पार्वत्युवाच ॥
आज्ञां कुरु जगन्नाथ करोमि व्रतमुत्तमम्

4.16.4.16.120

आवयोरिष्टदेवस्य व्रतानां च परं व्रतम् ॥
हरेराराधनं नाथ सर्वमंगलकारणम्

4.16.121

इष्टं दत्तं श्रुतेः पाठं तीर्थं पृथ्व्याः प्रदक्षिणम् ॥
हरेराराधनस्यापि कलां नार्हति षोडशीम्

4.16.122

बहिरभ्यंतरे यस्य हरिस्मृतिरनुक्षणम् ॥
जीवन्मुक्तस्य तस्यैव मुक्तिर्भवति दर्शनात् ॥

4.16.123

तस्य पादाब्जरजसा सद्यः पूता वसुन्धरा ॥
तस्य दर्शनमात्रेण पुनाति भुवनत्रयम्

4.16.124

ब्रह्मा विष्णुश्च धर्मश्च शेषस्त्वं च गणेश्वरः ॥
ध्यायंध्यायं यत्पदाब्जं तेजसा तत्समो महान्

4.16.125

यश्च यं सन्ततं ध्यायेत्स तमाप्नोति निश्चितम् ॥
गुणेन तेजसा बुद्ध्या ज्ञानेन तत्समो भवेत्

4.16.126

कृष्णस्य स्मरणाद्ध्यानात्तपसा तस्य सेवया ॥
मया प्राप्तो हि भगवान्स्वामी वा पुत्र एव च

4.16.127

प्रलब्धं लीलया सर्वं पूर्णं मन्मानसं तदा ॥
स्वामी मे त्वादृशः पुत्रौ कार्त्तिकेयगणेश्वरौ

4.16.128

पिता हिमाद्रिः कृष्णांशो मम किं दुर्लभं प्रभो ॥
पार्वतीवचनं श्रुत्वा सुप्रीतः शंकरः स्वयम् ॥
प्रहस्योवाच मधुरं पुलकांकितविग्रहः

4.16.129

॥
श्रीमहादेव उवाच ॥ ॥
महालक्ष्मीस्वरूपासि किमसाध्यं तवेश्वरि

4.16.4.16.130

सर्वसम्पत्स्वरूपा त्वमनन्तशक्ति रूपिणी ॥
त्वं च यस्य गृहे देवि स चैश्वर्यस्य भाजनम्

4.16.131

न लक्ष्मीर्यद्गृहे तस्य जीवनान्मरणं वरम् ॥
अहं ब्रह्मा च विष्णुश्च त्वयि भक्त्या शुभप्रदे

4.16.132

संहारे सृष्टिकाले च त्वत्प्रसादाद्वयं क्षमाः ॥
को वा हिमालयः कोऽहं कौ कार्त्तिकगणेश्वरौ ॥

4.16.133

त्वद्विहीना अशक्ताश्च त्वया च वयमीश्वराः ॥
युक्ताः पतिव्रतायाश्च याः पुराज्ञाः श्रुतौ श्रुताः

4.16.134

गृहीत्वाऽऽज्ञामीश्वरस्य व्रतं कुरु पतिव्रते ॥
व्रतमेतत्कृतं याभिस्ताभ्यः कुरु विलक्षणम्

4.16.135

सनत्कुमारो भगवान्व्रते तेऽस्तु पुरोहितः ॥
कमलानां ब्राह्मणानां द्रव्याणां दायकोऽप्यहम्

4.16.136

कुबेरं द्रव्यकोशे च रक्षकं कुरु सुन्दरि ॥
व्रते च दानाध्यक्षोऽहं धनदात्री च श्रीः स्वयम्

4.16.137

पाठको वह्निदेवश्च वरुणो जलदायकः ॥
वस्तूनां वाहका यक्षास्तदध्यक्षः षडाननः

4.16.138

स्थानसंस्कार कर्ता च व्रतेऽत्र पवनः स्वयम् ॥
परिवेष्टा स्वयं शक्रश्चन्द्रोऽधिष्ठापको व्रते

4.16.139

सूर्यश्च दाननिर्वक्ता योग्यायोग्यं यथोचितम् ॥
व्रतोपयुक्तं यद्द्रव्यं दत्त्वा नियमितं प्रिये

4.16.4.16.140

ततोऽधिकं फलं पुष्पं हरये देहि सुन्दरि ॥
व्रते नियमितान्विप्रान्भोजयित्वा ततोऽधिकाम्

4.16.141

असंख्यान्ब्राह्मणान्देवि भक्त्या कुरु निमन्त्रणम् ॥
समाप्तिदिवसे स्वर्णं रत्नं मुक्तां प्रवालकम्

4.16.142

व्रतोक्तां दक्षिणां दत्त्वा सर्वं देहि द्विजातये ॥
इत्युक्त्वा शंकरस्तां च कारयामास तद्व्रतम्

4.16.143

व्रतं चकार सा दुर्गा सर्वाभ्यश्च विलक्षणम् ॥
इत्येवं कथितं विप्र पार्वत्या यद्व्रतं कृतम्

4.16.144

रत्नं वोढुमशक्ताश्च ब्राह्मणाः पार्वतीव्रते ॥
इतिहासः श्रुतः सर्वः प्रकृतं शृणु नारद

4.16.145

श्रीकृष्णबालचरितं नूत्नं नूत्नं पदे पदे ॥
हत्वा तान्दानवेन्द्रांश्च शिशुभिः सह गोकुले

4.16.146

जगाम स्वगृहं कृष्णः कुबेरभवनोपमम् ॥
सर्वेभ्यो वनवार्ता च प्रोक्ता च शिशुभिर्मुदा

4.16.147

श्रुत्वैवं विस्मिताः सर्वे नन्दो भयमवाप ह ॥
आनीय वृद्धान्गोपांश्च गोपिकाः स्थविरास्तथा

4.16.148

युक्तिं चकार तैः सार्द्धमालोच्य समयोचिताम् ॥
कृत्वा युक्तिं च गोपेशस्तत्स्थानं त्यक्तुमुद्यतः

4.16.149

गन्तुं वृन्दावनं सर्वानुवाच तत्क्षणं मुने॥
नन्दाज्ञां च समाकर्ण्य ते सर्वे गन्तुमुद्यताः

4.16.4.16.150

गोपाश्च गोपिकाश्चैव बालका बालिकास्तथा ॥
कृष्णेन हलिना सार्धं प्रययुर्बालका मुदा

4.16.151

संगीतं च प्रगायन्तो नानावेष समन्विताः ॥
वेणुप्रवादकाः केचित्केचिच्छृङ्गप्रवादकाः

4.16.152

करतालकराः केचिद्वीणाहस्ताश्च केचन॥
शरयन्त्रकराः केचिच्छृङ्गहस्ताश्च केचन

4.16.153

नवपल्लवकर्णाश्च केचिद्गोपालबालकाः ॥
केचिन्मुकुलकर्णाश्च पुष्पकर्णाश्च केचन

4.16.154

नवमाल्यकराः केचित्केचिदाजानुमालिनः ॥
केचित्पल्लवचूडाश्च पुष्पचूडाश्च केचन

4.16.155

गोपालबालकाः सर्वे विप्रेन्द्र नवकोटयः ॥
जग्मुर्गोप्यो वयस्याश्च कोटिशः कोटिशो मुदा

4.16.196

वृद्धाश्च कोटिशस्तत्र बृहच्छ्रोण्यश्चलत्कुचाः ॥
राधिकासहचारिण्यो बाला गोपालिका मुने

4.16.157

ताः सुशीलादयो भव्या नानालंकारभूषिताः ॥
दिव्यवस्त्रपरीधानाः सस्मितास्ता ययुर्मुदा

4.16.158

काश्चिदारुह्य शिबिकां रथमारुह्य काश्चन ॥
राधा स्यन्दनमारुह्य शातकौम्भपरिच्छदम्

4.16.159

ताभिर्युक्ता ययौ देवी रत्नालंकार भूषिता ॥
यशोदा रोहिणी चैव रत्नालंकारभूषिता

4.16.4.16.160

ययौ स्यन्दनमारुह्य शातकौम्भपरिच्छदम् ॥
नन्दः सुनन्दः श्रीदामा गिरिभानुर्विभाकरः

4.16.161

वीरभानुश्चन्द्रभानुर्गजस्थाः प्रययुर्मुदा ॥
श्रीकृष्णबलदेवौ तौ रत्नालंकारभूषितौ

4.16.162

स्वर्ण स्यन्दनमास्थाय जग्मतुः परया मुदा ॥
कोटिशः कोटिशो गोपा वृद्धाश्च यौवनान्विताः

4.16.163

अश्वस्थाश्च गजस्थाश्च रथस्थाश्चैव केचन ॥
गोपा ययुर्मुदा युक्ताश्चोद्धता नन्दकिंकराः

4.16.164

वृषस्था गर्दभस्थाश्च संगीततानतत्पराः ॥
अपरा राधिकादास्यस्त्रिसप्तशतकोटयः

4.16.165

मुदान्विताः सस्मिताश्च स्वर्णालंकारभूषिताः ॥
काश्चित्सिन्दूरहस्ताश्च काश्चित्कज्जलवाहिकाः ॥

4.16.166

काश्चित्कन्दुकहस्ताश्च काश्चित्पुत्तलिकाकराः ॥
भोगद्रव्यकराः काश्चित्क्रीडाद्रव्यकरा वराः

4.16.167

वेषद्रव्यकराः काश्चित्काश्चिन्मालाकरा वराः ॥
काश्चिद्वाद्यकहस्ताश्च प्रययुर्गोपिका मुदा

4.16.168

वह्निशुद्धांशुकानां च वाहिकाश्चैव काश्चन ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रववाहिकाः

4.16.169

काश्चित्संगीतनिरताः काश्चिच्चित्रकथारताः॥
कोटिशः कोटिशो रम्याः प्रययुः शिबिकान्विताः॥

4.16.4.16.170

कोटिशः कोटिशश्चाश्वाः कोटिशः कोटिशो रथाः ॥
कोटिशः कोटिशश्चैव शकटा द्रव्यपूरिताः

4.16.171

कोटिशः कोटिशश्चैव वृषेन्द्रा द्रव्यवाहकाः ॥
कोटिशः कोटिशश्चैव दशलक्षाणि हस्तिनाम्

4.16.172

हस्तिपांकुशयुक्तानि ययुर्वृन्दावनं वनम् ॥
सर्वे वृन्दावनं गत्वा दृष्ट्वा शून्यगृहं मुने

4.16.173

वृक्षमूले यथास्थानं तस्थुः सर्वे यथोचितम् ॥
उवाच गोपाञ्छ्रीकृष्णो गृहांश्चेष्टतमान्व्रजाः

4.16.174

अद्य संतिष्ठतेत्येवं श्रुत्वा श्रीकृष्णभाषितम् ॥
कुत्र सन्ति गृहाः कृष्णेत्येवमूचुस्तु गोपकाः ॥
इति तेषां वचः श्रुत्वा श्रीकृष्णो वाक्यमब्रवीत्

4.16.175

श्रीकृष्ण उवाच ॥
अत्र स्थाने गृहाः सन्ति प्रसन्ना देवनिर्मिताः

4.16.176

देवप्रीतिं विना शक्ता नहि द्रष्टुं च केचन ॥
अद्य तिष्ठत गोपालाः संपूज्य वनदेवताः

4.16.177

प्रातर्यूयं गृहान्रम्यान्द्रक्ष्यथाद्य ध्रुवं मुदा ॥
धूपदीपादिनैवेद्यैर्बलिभिः पुष्पचन्दनैः

4.16.178

देवीं च वटमूलस्थां पूजां कुरुत चण्डिकाम् ॥
कृष्णस्य वचनं श्रुत्वा गोपाः संपूज्य देवताम् ॥
भुक्त्वा भोगान्दिने रात्रौ तत्रैव सुषुपुर्मुदा

4.16.16

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे बकप्रलम्बकेशिवधपूर्वकवृन्दावनगमनं नाम षोडशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc