भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.14

4.14.1

॥ श्रीनारायण उवाच ॥
एकदा नन्दपत्नी च स्नानार्थं यमुनां ययौ ॥
गव्यपूर्णं गृहं दृष्ट्वा जहास मधुसूदनः

4.14.2

दधिदुग्धाज्यतक्रं च नवनीतं मनोरमम् ॥
गृहस्थितं च यत्किंचिच्चखाद मधुसूदनः

4.14.3

मधु हैयङ्गवीनं यत्स्वस्तिकं शकटस्थितम् ॥
भुक्त्वा पीत्वांऽशुकैर्वक्त्रसंस्कारं कर्तुमुद्यतम्

4.14.4

ददर्श बालकं गोपी स्नात्वाऽऽगत्य स्वमन्दिरम् ॥
गव्यशून्यं भग्नभाण्डं मध्वादिरिक्तभाजनम्

4.14.5

दृष्ट्वा पप्रच्छ बालांश्च अहो कर्मेदमद्भुतम्॥
यूयं वदत सत्यं च कृतं केन सुदारुणम्

4.14.6

यशोदावचनं श्रुत्वा सर्वमूचुश्च बालकाः ॥
चखाद सत्यं बालस्ते नास्मभ्यं दत्तमेव च

4.14.7

बालानां वचनं श्रुत्वा चुकोप नन्दगेहिनी ॥
वेत्रं गृहीत्वा दुद्राव रक्तपङ्कजलोचना

4.14.8

पलायमानं गोविन्दं ग्रहीतुं न शशाक ह ॥
ध्यानासाध्यं शिवादीनां दुरापमपि योगिनाम्

4.14.9

यशोदा भ्रमणं कृत्वा विश्रान्ता घर्मसंयुता ॥
तस्थौ कोपपरी तात्मा शुष्ककण्ठौष्ठतालुका

4.14.4.14.10

विश्रान्तां मातरं दृष्ट्वा कृपालुः पुरुषोत्तमः ॥
संतस्थौ पुरतो मातुः सस्मितो जगदीश्वरः ॥

4.14.11

करे धृत्वा च तं देवी समानीय स्वमालयम्॥
बद्ध्वा वस्त्रेण वृक्षे च तताड मधुसूदनम्

4.14.12

बद्ध्वा कृष्णं यशोदा सा जगाम स्वालयं प्रति ॥
हरिस्तस्थौ वृक्षमूले जगतां पतिरीश्वरः

4.14.13

श्रीकृष्णस्पर्शमात्रेण सहसा तत्र नारद ॥
पपात वृक्षः शैलाभः शब्दं कृत्वा भयानकम्

4.14.14

सुवेषः पुरुषो दिव्यो वृक्षादाविर्बभूव ह ॥
दिव्यस्यन्दनमारुह्य जगाम स्वालयं पुरः

4.14.15

प्रणम्य जगतीनाथं शातकौम्भपरिच्छदम् ॥
किशोरः सस्मितो गौरो रत्नालङ्कारभूषितः

4.14.16

सा वृक्षपतनं दृष्ट्वा भिया त्रस्ता व्रजेश्वरी ॥
क्रोडे चकार बालं तं रुदन्तं श्यामसुन्दरम्

4.14.17

आजग्मुर्गोकुलस्थाश्च गोपा गोप्यश्च तद्गृहम् ॥
यशोदां भर्त्सयामासुः शान्तिं चक्रुः शिशोर्मुदा

4.14.18

अत्यन्तस्थविरे काले तनयोऽयं बभूव ह ॥
धनं धान्यं च रत्नं वा तत्सर्वं पुत्रहेतुकम्

4.14.19

सुमतिर्नास्ति ते सत्यं ज्ञातं नन्दव्रजेश्वरि ॥
न भक्षितं यत्पुत्रेण तत्सर्वं निष्फलं भुवि

4.14.4.14.20

पुत्रं बद्ध्वा गव्यहेतोर्वृक्षमूले च निष्ठुरे॥
गृहकर्मणि व्यग्रायां दैवाद्वृक्षः पपात ह

4.14.21

वृक्षस्य पतनाद्गोपी भाग्याद्बालोऽपि जीवितः ॥
प्रनष्टे बालके मूढे वस्तूनां किं प्रयोजनम्

4.14.22

आशिषं युयुजुर्विप्रा बन्दिनश्च शुभावहाम् ॥
द्विजेन कारयामासुर्नामसंकीर्तनं हरेः

4.14.23

एवं कृत्वा जनाः सर्वे प्रययुर्निजमन्दिरम् ॥
उवाच पत्नीं नन्दश्च रक्तपङ्कजलोचनः

4.14.24

नन्द उवाच ॥
यास्यामि तीर्थमद्यैव कण्ठे कृत्वा तु बालकम् ॥
अथवा त्वं गृहाद्गच्छ त्वया मे किं प्रयोजनम्

4.14.25

शतकूपाधिका वापी शतवापीसमं सरः ॥
सरःशताधिको यज्ञः पुत्रो यज्ञशताधिकः

4.14.26

तपोदानोद्भवं पुण्यं जन्मान्तरसुखप्रदम् ॥
सुखप्रदोऽपि सत्पुत्र इहैव च परत्र च

4.14.27

पुत्रादपि परो बन्धुर्न भूतो न भविष्यति ॥
एवमुक्त्वा स्वभार्यां च तस्थौ नन्दः स्वमन्दिरे॥
यशोदा रोहिणी चैव नियुक्ता गृहकर्मणि

4.14.28

नारद उवाच ॥
सुवेषः पुरुषः को वा वृक्षरूपी च गोकुले ॥
भगवन्हेतुना केन वृक्षत्वं समवाप ह

4.14.29

॥ नारायण उवाच ॥
कुबेरतनयः श्रीमान्नाम्ना यो नलकूबरः ॥
जगाम नन्दनवनं क्रीडार्थं सह रम्भया

4.14.4.14.30

निर्जने सरसस्तीरे पुष्पोद्याने मनोहरे ॥
वटवृक्षसमीपे च सौरभे पुष्पवायुना

4.14.31

विधाय पुष्पशयने रत्नदीपैश्च दीपितम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवसंयुतम्

4.14.32

परितः पुष्पमाल्यैश्च क्षौमवस्त्रैश्च वेष्टितम्॥
तत्र रम्भां समानीय विजहार यथेच्छया

4.14.33

शृङ्गाराष्टप्रकारं च विपरीतादिकं सुखम् ॥
चुम्बनं षट्प्रकारं च यथास्थाने निरूपितम्

4.14.34

अङ्ग प्रत्यङ्गसंयोगत्रिविधाश्लेषणं मुदा॥
नखदन्तकरक्रीडां चकार रसिकेश्वरः

4.14.35

जलात्स्थले स्थलात्तोये कामशास्त्रविशारदः ॥
रतिभोगप्रकुर्वन्तं ददर्श देवलो मुनिः

4.14.36

नग्नां रम्भां मुक्तकेशीं पीनश्रोणिपयोधराम्॥
नखदन्तक्षताङ्गीं च पुलकाञ्चितविग्रहाम्

4.14.37

पश्यन्तीं प्राणनाथं च पश्यन्तं सस्मितं मुदा॥
वक्रभ्रूभङ्गसंयुक्तां कामुकीं च ददर्श ताम्

4.14.38

रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम्॥
विचित्ररत्नमाल्यैश्च पुष्पमाल्यैश्च भूषिताम्

4.14.39

किङ्किणीजालसंयुक्तां सिन्दूर बिन्दुसंयुताम् ॥
तया युक्तं पुलकितं नोत्तिष्ठन्तं स्मरान्वितम्

4.14.4.14.40

वृक्षत्वं याहि पापिष्ठेत्युवाच मुनिपुंगवः॥
शशाप रम्भां कामार्तां मानुषी त्वं भवेति च

4.14.41

जन्मेजयस्य सुभगा भविता कामिनीति च॥
त्वमेव गोकुलं गच्छ वृक्षरूपी भवेति च

4.14.42

श्रीकृष्ण स्पर्शमात्रेण पुनरायास्यसि गृहम् ॥
रम्भे त्वमिन्द्रसंयोगात्पुनरायास्यसि ध्रुवम्

4.14.43

इत्येवमुक्त्वा स मुनिर्जगाम निजमन्दिरम्।
कुबेरतनयः श्रीमान्स जगाम निजालयम्

4.14.44

इत्येवं कथितं विप्र रम्भाख्यानं वदामि ते ॥
सुचन्द्रस्य गृहे रम्भा ललाभ जन्म भारते

4.14.45

कन्या लक्ष्मीस्वरूपा च बभूव सुन्दरी वरा ॥
तां च सालंकृतां कृत्वा सुचन्द्रो नृपतीश्वरः

4.14.46

नानाकौतुकसंयुक्तां ददौ जन्मेजयाय च॥
जन्मेजयस्य सुभगा बभूव महिषी वरा

4.14.47

स्थानेस्थाने निर्जने च राजा रेमे तया सह ॥
एकदा नृपतिश्रेष्ठश्चाश्वमेधेन दीक्षितः

4.14.48

अश्वसंगोपनं कृत्वा तस्थौ शक्रश्च मन्दिरे॥
यज्ञाश्वं रुचिरं मत्वा कौतुकेन च सुन्दरी

4.14.49

द्रष्टुं जगाम सा साध्वी चाश्वमेकाकिनी मुदा ॥
शक्रोऽश्वनिकटे भूत्वा धर्षयामास तां सतीम्

4.14.4.14.50

तया निवार्यमाणश्च रेमे तत्र तया सह ॥
मूर्च्छामवाप शक्रश्च बुबुधे न दिवानिशम्

4.14.51

सा च संभोगमात्रेण देहं तत्याज योगतः ॥
नृपस्य लज्जया भीत्या शक्रः स्वर्गे जगाम ह

4.14.52

राजा श्रुत्वा मृतां दृष्ट्वा विललाप भृशं मुहुः॥
यज्ञं समाप्य विप्रेभ्यो ददौ पूर्णां च दक्षिणाम्॥

4.14.53

रम्भा च मानवं देहं त्यक्त्वा स्वर्गं जगाम ह ॥
इत्येवं कथितं सर्वं वृक्षार्जुनविभञ्जनम्

4.14.94

नलकूबरमोक्षश्च रम्भायाश्च महामुने ॥
पुण्यदं कृष्णचरितं जन्ममृत्युजरापहम् ॥
इत्येवं कथितं सर्वमपरं कथयामि ते

4.14.14

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे वृक्षार्जुनभञ्जनं नाम चतुर्दशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc