भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.133

4.133.1

अथ त्रयस्त्रिंशदधिकशततमोऽध्यायः
शौनक उवाच
अध्य मे सफलं जन्म चीवितं च सुजीवितम् ।
यत्फलं ब्रह्मवैवर्ते निर्विघ्नं मोक्षकारणम्

4.133.2

अभयं देहि हे वत्स हे तात मह्यमेव च ।
तदा निवेदनं किंचिदस्तीति च करोम्यहम्

4.133.3

सूत उवाच
त्यज भीतिं महाभाग प्रश्नं कुरु यदिच्छसि ।
सर्वं ते कथयिष्यामि यद्यद्गोप्यं मनोहरम्

4.133.4

शौनक उवाच
अधुना श्रोतुमिच्छामि पुराणानां च लक्षणम् ।
संख्यानमपि तेषां च फलमस्यैव पुत्रक

4.133.5

सूत उवाच
विस्तराणि पुराणानि चेतिहासश्च शौनक ।
संहितां पञ्चरात्राणि कथयामि यथागतम्

4.133.6

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं विप्र पुराणं पञ्चलक्षणम्

4.133.7

एतदुपपुराणानां लक्षणं च विदुर्बुधाः ।
महतां च पुराणानां लक्षणं कथयामि ते

4.133.8

सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषां च पालनम् ।
कर्मणां वासना वार्तामनूनां चाक्रमेण च

4.133.9

वर्णनं प्रलयानां च मौक्षस्य च निरूपणम् ।
उत्कीर्तनं हरेरेव वेदानां च पृथक्पृथक्

4.133.10

दशाधिकं लक्षणं च महतां परिकीर्तितम् ।
संख्यानं च पुराणानां निबोध कथयामि ते

4.133.11

परं ब्रह्मपुराणं च सहस्राणां दशैव तु ।
पञ्चोनषष्टिसाहस्रं पाद्ममेव प्रकीर्तितम्

4.133.12

त्रयोविंशतिसाहस्रं वैष्णवं च विदुर्बुधाः ।
चतुर्विंशतिसाहस्रं शैवं चैव निरूपितम्

4.133.13

ग्रन्थोऽष्टादशसाहस्रं श्रीमद्भागवतं विदुः ।
पञ्चविंशतिसाहस्रं नारदीयं प्रकीर्तितम्

4.133.14

मार्कण्डं नवसाहस्रं पुराणं पण्डिता विदुः ।
चतुःशताधिकं पञ्चदशसाहस्रमेव च

4.133.15

परमग्निपुराणं च रुचिरं परिसीर्तितम् ।
चतुर्दशसहस्राणि परं पञ्चशताधिकम्

4.133.16

पुराणप्रवरं चैव भविष्यं परिकीर्तितम् ।
अष्टादशसहस्रं च ब्रह्मवैवर्तमीप्सितम्

4.133.17

सर्वेषां च पुराणानां सारमेव विदुर्बुधाः ।
एकादशसहस्रं तु परं लिङ्गपुराणकम्

4.133.18

चतुर्विंशतिसाहस्रं वाराहं परिकीर्तितम् ।
एकाशीतिसहस्रं च परमेव शताधिकम्

4.133.19

वरं स्कन्दपुराणं च सद्भिरेवं निरूपितम् ।
वामनं दशसाहस्रं कौर्म सप्तदशैव तु

4.133.20

मात्स्यं चतुर्दश प्रोक्तं पुराणं पण्डितैस्तथा ।
ऊनविशतिसाहस्रं गारुडं परिकीर्तितम्

4.133.21

परं द्वादशसाहस्रं ब्रह्माढं परिकीर्तितम् ।
एवं पुराणसंख्यानं चतुर्लक्षमुदाहृतम्

4.133.22

अष्टादशपुराणानामेवमेव विदुर्बुधाः ।
एवं चोपपुराणानामष्टादश प्रकीर्तिता

4.133.23

इतिहासो भारतं च वान्मीकं काव्यमेव च ।
पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्वकम्

4.133.24

वसिष्ठं नारदीयं च कापिलं गौतमीयकम् ।
परं सनत्कुमारीयं पञ्चरात्रं च पञ्चकम्

4.133.25

पञ्चकं सहितानां च कृष्णभक्तिसमन्वितम् ।
ब्रह्मणाश्च शिवस्यापि प्रह्लादस्य तथैव च

4.133.26

गौतमस्य कुमारस्य संहिताः परिकीर्तिताः ।
इति ते कथितं सर्व क्रमेण च पृथक्पृथक्

4.133.27

अस्त्येवं विपुलं शास्त्रं ममापि च यथागमम् ।
उवाचेदं पुराणं च गोलोके रासमण्डले

4.133.28

श्रीकृष्णो भगवान्साक्षाद्ब्रह्माणं च स्वभक्तकम् ।
ब्रह्मा धर्म च धर्मिष्ठं धर्मो नारायणं मुनिम्

4.133.29

नारायणो नारदं च नारदो मां च भक्तकम् ।
अहं त्वां च मुनिश्रेष्ठ वरिष्ठं कथयामि तत्

4.133.30

सुदर्लभं पुराणं च ब्रह्मवैवर्तमीप्सितम् ।
यद्वृणोत्येव विश्वौघं जीविनां परमात्मकम्

4.133.31

तद्ब्रह्म साक्षिरूपं च कर्मणामेव कर्मिणाम् ।
तद्ब्रह्म विवृतं यत्र तद्विभूतिमनुत्तमाम्

4.133.32

तेनेदं ब्रह्मवैवर्तमित्येवं च बिदुर्बुधाः ।
पुण्यप्रदं पुराणं च मङ्गलं मङ्गलप्रदम्

4.133.33

सुगोप्यं च रहस्यं च यत्र रम्यं नवं नवम् ।
हरिभक्तिप्रदं चैव दुर्लभं हरिदास्यदम्

4.133.34

सुखदं ब्रह्मदं सारं शोकसंतापनाशनम् ।
सरितां च यथा गङ्गा सद्यो मुक्तिप्रदा शुभा

4.133.35

तिर्थातां पुष्करं शुद्धं यथा काशी पुरीषु च ।
सर्वेषु भारतं वर्षं सद्यो मुक्तिप्रदं शुभम्

4.133.36

यथा सुमेरुः शैलेषु पारिजातं च पुष्पतः ।
पत्रेषु तुलसीपत्रं व्रतेष्वेकादशीव्रतम्

4.133.37

वृक्षेषु कल्पवृक्षश्च श्रीकृष्णश्च सुरेषु च ।
ज्ञानीन्द्रेषु महादेवो योगीन्द्रेषु गणेश्वरः

4.133.38

सिद्धेन्द्रेष्वेव कपिलः सूर्यस्तेजस्विनां यथा ।
सनत्कुमारो भगवान्वैष्णवेषु यथाऽग्रणीः

4.133.39

भूपेषु च यथा रामो लक्ष्मणश्च धनुष्मताम् ।
देवीषु च यथा दुर्गा महापुण्यवती सती

4.133.40

प्राणाधिका यथा राधा कृष्णस्य प्रेयसीषु च ।
ईश्वरीषु यथा लक्ष्मीः पण्डितेषु सरस्वती

4.133.41

तथा सर्वपुराणेषु ब्रह्मवैवर्तमेव च ।
नातो दिशिष्टं सुखदं मधुरं च सुपुण्यदम्

4.133.42

संदेहभञ्जनं चैव पुराणं परिकीर्तितम् ।
इह लोके च सुखदं सुप्रदं सर्वसंपदाम्

4.133.43

शुभदं पुण्यदं चैव विघ्ननिघ्नकरं परम् ।
हरिदास्यप्रदं चैव परलोके प्रहर्षदम्

4.133.44

यज्ञानामपि तीर्थानां व्रतानां तपसां तथा ।
भुवः प्रदक्षिणस्यापि फलं नास्य समानकम्

4.133.45

चतुर्णामपि वेदानां पाठादपि वरं फलम् ।
श्रृणोतीदं पुराणं च संयतश्चेह पुत्रक

4.133.46

गुणवन्तं च विद्वांसं वैष्णवं पुत्रमालभेत् ।
श्रृणोति दुर्भगा चेत्तु सौभाग्यं स्वामिनो लभेत्

4.133.47

मृतवत्सा काकवन्ध्या महावन्ध्या च पापिनी ।
पुराणश्रवणाल्लेभे पुत्रं च चिरचीविनम्

4.133.48

अपुत्रो लभते पुत्रमभार्यो लभते प्रियाम् ।
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः

4.133.49

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः

4.133.50

अरण्ये ब्रान्तरे भीतो दावाग्नो मुच्यते ध्रुवम् ।
अघं कुष्ठं च दारिद्र्यं रोगं शोकं च दारुणम्

4.133.51

पुण्यवान्श्रवणादेव नैव जानात्यपुण्यवान् ।
श्लोकार्ध श्लोकपादं वा यः शृणोति सुसंयतः

4.133.52

गोलक्षदानपुण्यं च लभते नात्र संशयः ।
युतुःखडं पुराणं च शुद्धकाले जितेन्द्रियः

4.133.53

संकल्पतो यः शृणोति भक्त्या दत्त्वा च दक्षिणाम् ।
यद्बाल्ये यच्चकौमारे वार्धके यच्च यौवने

4.133.54

कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।
रत्ननिर्माणयानेन धृत्वा श्रीकृष्णरूपकम्

4.133.55

नित्यं गत्वा च गोलोकं कृष्णदास्यं लभेद्भूवम् ।
असंख्यब्रह्मणां पाते न भवेत्तस्य पातनम्

4.133.56

समीपे पार्षदो भूत्वा सेवां च कुरुते चिरम् ।
श्रुत्वा च ब्रह्मखण्डं च सुस्नातः संयतः शुचिः

4.133.57

पायसं पिष्टकं चैव फलं ताम्बूलमेव च ।
भोजयित्वा वाचकं च तस्मै दद्यात्सुवर्णकम्

4.133.58

चन्दनं शुक्लमाल्यं च सूक्ष्मवस्त्रं मनोहरम् ।
निवेद्य वासुदेवं च वाचकाय प्रदीयते

4.133.59

श्रुत्वा च प्रकृतेः खण्डं सुश्राव्यं च सुधोपमम् ।
भोजयित्वा च दध्यन्नं तस्मै दद्याच्च ॥
काञ्चनम्

4.133.60

सवत्सां सुरभिं रम्यां दद्याद्वै भक्तिपूर्वकम् ।
श्रुत्वा गणपतेः खण्डं विघ्ननाशाय संयतः

4.133.61

स्वर्णयज्ञोपवीतं च श्वेताश्वच्छत्रमाल्यकम् ।
प्रदीयते वायकाय स्वस्तिकं तिललड्डुकम्

4.133.62

परिपक्वफलान्येव कालदेशोद्भवानि च ।
श्रीकृष्णजन्मखण्डं च श्रुत्वा भक्तश्च भक्तितः

4.133.63

वाचकाय प्रदद्याच्च परं रत्नाङ्गुलीयकम् ।
सूक्ष्मवस्त्रं च माल्यं च स्वर्णकुण्डलमुत्तमम्

4.133.64

माल्यं च वरदोलां च सुपक्वं क्षीरमेव च ।
सर्वस्वं दक्षिणां दद्यात्स्तवनं कुरुते ध्रुवम्

4.133.65

शतकं ब्राह्मणानां च भोजयेत्परमादरात् ।
ब्रह्मणं वैष्णवं शास्त्रनिष्णातं पण्डितं वरम्

4.133.66

कुरुते वाचकं शुद्धमन्यथा निष्फलं भवेत् ।
श्रीकृष्ण विमुखाद्दुष्टान्नोपदिष्टाच्च ब्राह्मणात्

4.133.67

श्रीकृष्णभक्तियुक्तं च पुराणं यः शृणोति च ।
भक्तिं पुण्यं न लभते हन्ति पुण्यं पुराकृतम्

4.133.68

श्रीकृष्णभक्तियुक्ताच्च पुराणं यः शृणोति च ।
भक्तिं पुण्यं च लभते यात्यन्ते श्रोहरेः पदम्

4.133.69

एतत्ते कथितं सर्व यच्छ्रु तं गुरुवक्त्रतः ।
बिदायं देहि विप्रेन्द्र यामि नारायणाश्रमम्

4.133.70

दृष्ट्वा विप्रसमूहं च नमस्कर्तुं समागतः ।
कथितं ब्रह्मवैवर्तं भवतामाज्ञया परम्

4.133.71

नमोऽस्तु ब्राह्मणेभ्यश्च कृष्णाय परमात्मने ।
शिवाय ब्रह्मणे नित्यं गणेशाय नमो नमः

4.133.72

कायेन मनसा वाचा परं भक्त्या दिवानिशम् ।
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम्

4.133.73

नमो देव्यै सरस्वत्यै पुराणगुरवे नमः ।
सर्वविघ्नविनाशिन्यै दुर्गादेव्यै नमो नमः

4.133.74

युष्माकं पादद्मानि दृष्ट्वा पुण्यानि शौनक ।
अद्य सिद्धाश्रमं यामि यत्र देवो गणेश्वरः

4.133.133

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्धे नारदनारयणसंवादे
सूतशौनकसंवादे त्रयस्त्रिंदशधिकशततमोऽध्यायः

समाप्तोऽयं श्रीमद्ब्रह्मवैवर्तपुराणस्थश्रीकृष्णजन्मखण्डस्योत्तरार्धः ।
समाप्तमिदं श्रीमद्ब्रह्मवैपर्तपुराणस्य चतुर्थं श्रीकृष्णजन्मखण्डं
श्रीमद्व्यासमुनिप्रणीतं ब्रह्मवैवर्तपुराणं च

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc