भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.131

4.131.1

अधै कत्रिंशदधिकशततमोऽध्यायः
शौनक उवाच
अत्यपूर्वमुपाख्यानं श्रुतं परममाद्भुतम् ।
सुगोप्यं च सुगोप्यं रम्यं रम्यं नवं नवम्

4.131.2

किमनिर्वचनीयं च कमनीयं मनोहरम् ।
सुदुर्लभा कथा प्रोक्ता पुराणेषु पुरातनी

4.131.3

एवंभूतं च सुदिनं कदाऽस्माकं फविष्यति ।
तज्जन्म सफलं धन्यं यत्र वैष्णवसंगमः

4.131.4

गर्भवासोच्छेदनं च कर्ममूलनिकृन्तनम् ।
हरिदास्यप्रदं शुद्धं भक्तानां भक्तिवर्धनम्

4.131.5

असाधुसङ्गदुर्बुद्धिपापोन्मूलनकारणम् ।
गणेशजन्मोपख्यानं पुराणेषु सुदुर्लभम्

4.131.6

तुलसीराधिकाख्यानं किमपूर्व श्रुतं परम् ।
अन्यद्यद्यद्गोपनीयं व्यक्तमव्यक्तमीप्सितम्

4.131.7

सर्वं श्रुतं महाभाग परिबूर्णं मनोहरम् ।
अधुना श्रोतुमिच्छामि वह्नेरुत्पत्तिमीप्सिताम्
स्वर्णस्य च महाभाग तन्मे व्याख्यातुमर्हसि

4.131.8

सूत उवाच
सामग्रीकरणं सृष्टेर्जलमेव हुताशनः ।
तथैव प्रकृतिर्नित्या महानेव तथैव च

4.131.9

यथा दिशो महाकाशो ययैव सृष्टिगोलकम् ।
प्रकृतेर्महतश्च स्याद्य थाऽहंकार एव च

4.131.10

यथैव शब्दस्तन्मात्रं तथैव च हुताशनः ।
तथाऽपि तत्समुत्पत्तिं कथयामि निशामय

4.131.11

एकदा सृष्टिकाले च ब्रह्मानन्तमहेश्वराः ।
श्वेतद्वीपं ययुः सर्वे द्रष्टुं विष्णुं जगत्पतिम्

4.131.12

परस्परं च संभाषां कृत्वा सिंहासनेषु च ।
ऊचुः सर्वे सभामध्ये सुरम्ये पुरतो विभोः

4.131.13

विष्णुगात्रोद्भवास्तत्र कामिन्यः कमलाकलाः ।
तत्र नृत्यन्ति गायन्ति विष्णुगाथाश्च ॥
सुस्वरम्

4.131.14

तासां च कठिनां श्रोणिं कठिनं स्तनमण्डलम् ।
सस्मितं मुखपद्मं च दृष्ट्वा ब्रह्मा सुकामुकः

4.131.15

मनोनिवारणं कर्तुं न शशाक पितामहः ।
वीर्यं पपात चच्छाद लज्जया वाससा विभुः

4.131.16

तद्वीर्यं वस्त्रसहितं प्रतप्तं कामतापतः ।
क्षीरोदे प्रेरयामास संगीते विरते द्विज

4.131.17

जलादुत्थाय पुरुषः प्रज्वलन्ब्रह्मतेजसा ।
उवास ब्रह्मणः क्रोडे लज्जितस्य च संसदि

4.131.18

एतस्मिन्नन्तरे रुष्टो जलादुत्थाय सत्वरः ।
प्रणम्य वरुणो देवान्बालं नेतुं समुद्यतः

4.131.19

बालो दधार ब्रह्माणं बाहुम्यां च भयाद्रुदन् ।
किं चिन्नोवाच जगतां विधाता लज्जया द्विज

4.131.20

बालकस्य करे धृत्वा चकारऽऽकर्षणं रुषा ।
वरुणश्च सभामध्ये तं चिक्षेप प्रजापतिः

4.131.21

पपात दूरतो देवो वरुणो दुर्बलस्ततः ।
मूर्छां संप्राप मृतवत्कोपदृष्ट्या विधेरहो

4.131.22

चेतनं कारयामासामृतदृष्ट्या च शंकरः ।
संप्राप्य चेतनं तत्र तमुवाच जलेश्वरः

4.131.23

वरुण उवाच
बालो जले समुद्भूतो मम पुत्रोऽयमीप्सितः ।
अहं गृहीत्वा यास्यामि ब्रह्मा मां ताडयेत्कथम्

4.131.24

ब्रह्मोवाच
वालकः शरणापन्नो मयि विष्णो महेश्वर ।
कथं दास्यामि भीतं च रुदन्तं शरणागतम्

4.131.25

शरणागतदीनार्तं यो न रक्षेदपण्डितः ।
पच्यते निरये तावद्यावच्चन्द्रदिवाकरौ

4.131.26

उभयोर्वचनं श्रुत्वा प्रहस्य मधुसूधनः ।
उवाच तत्र सर्वज्ञः सर्वेशश्च यथोचितम्

4.131.27

श्रीभगवानुवाच
दृष्ट्वा तु कामिनीश्रोणिं वीर्यं धातुः पपात तत् ।
लज्जया प्रेरयामास क्षीरोदे निर्मले जले

4.131.28

ततौ बभूव बालश्च धर्मतो विधिपुत्रकः ।
क्षेत्रज्ञश्च सुतः शास्त्रे वरुणस्यापि गौणतः

4.131.29

महादेव उवाच
यो विद्यायोनिसंबन्धो वेदेषु च निरूपितः ।
शिष्ये पुत्रे च समता चेति वेदविदो विदुः

4.131.30

मन्त्रं ददातु वरुणो विद्यांच बारकाय च ।
पुत्रो विधातुर्वङ्निश्च शिष्यश्य वरुणस्य च

4.131.31

विष्णुर्ददातु बालाय दाहिकां सक्तिमुज्ज्वलाम् ।
सर्वदग्धो हुताशश्च निर्वाणो वरुणेन च

4.131.32

विष्णुश्च दाहिकां शक्तिं ददौ तस्मै शिवाज्ञया ।
मन्त्रं विद्यां च वरुणो रत्नमालां मनोहराम्

4.131.33

क्रोडे कृत्वा च तं बालं चुचुम्ब मायया सुरः ।
ब्रह्मणे च ददौ साक्षाद्विष्णुशंकरयोरपि

4.131.34

प्रणम्य विष्णुं ब्रह्मा च ययौ शंभुः स्वमन्दिरम् ।
अग्न्युत्पत्तिश्च कथिता स्वर्णोत्पत्तिं निशामय

4.131.35

विलोक्य रम्भां सुश्रोणिं सकामो वह्निरेव च ।
पपात वीर्यं चच्छाद लज्जया वाससा तथा

4.131.36

विलोक्य रम्भां सुश्रोणिं सकामो वह्निरेव च ।
पपात वीर्य चच्छाद लज्जया वाससा तथा

4.131.37

उत्तस्थौ स्वर्णपुञ्जश्च वस्त्रं क्षिप्त्वा ज्वलत्प्रभः ।
क्षणेन वर्धयामास स सुमेरुर्बभूव ह

4.131.38

हिरण्यरेतसं वह्निं प्रवदन्ति मनीषिणः ।
इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि

4.131.131

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारादनाओ
वह्निसुवर्णोत्पत्तिर्नामैकत्रिंशदधिकशततमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc