भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.115

4.115.1

अथ पञ्चदशाधिकशततमोऽध्यायः
नारायण उवाच
अथ भीता रक्षकास्ते समूतुर्बाणमीश्वरम् ।
स्कन्दं गणेशं दुर्गां च दण्डवत्प्रणिपत्य च

4.115.2

रक्षका ऊचुः
अहो दुष्टश्च कालोऽयमतीव दुरतिक्रमः ।
स्वतन्त्रा बालिका प्रौढा पतिमिच्छति सांप्रतम्

4.115.3

असङ्गसंगमं नाथ साधूनां दुःखकारणम् ।
संसर्गजा गुणा दोषा भवन्ति सततं नृणाम्

4.115.4

चित्रलेखा स्वयं दूती समानीय परं वरम् ।
रणशूरं महावीरं नृपेन्द्रं च महारथम्

4.115.5

युवानं व्याधिहीनं च कन्दर्पादपि सुन्दरम् ।
संभोगं कारयामास बुबुधे न दिवानिशम्

4.115.6

सांप्रतं तव कन्या साऽप्यूषागर्भवती सती ।
कुलजा कुलयोश्चैव तप्ताङ्गारस्वरूपिणी

4.115.7

दौहित्रो वाऽपि दौहित्री बभुव सांप्रतं तव।
कन्यां पश्य महाप्रौढां नगरीं नागरान्विताम्

4.115.8

नखविक्षतसर्वाङ्गीं वराधीनां च चञ्चलाम् ।
पुंसश्च सङ्गिरीं शश्वद्रहस्ये रतिसङ्गिनीम्

4.115.9

सस्मितां सकटाक्षां च चच़ञ्चलेक्षणवीक्षताम् ।
एवं श्रुत्वा लज्जितश्च बाणस्तत्र चुकोप ह

4.115.10

युद्धाय च मतिं चक्रे वारितः शभुना भृशम् ।
वारितश्च गणेशेन स्कन्देन शिवया तथा

4.115.11

भैरव्या भद्रकाल्या च योगिनीभिश्च संततम् ।
अष्टभिर्भैरवैश्चैव रुद्रैरेकादशात्मकैः

4.115.12

भूतैः प्रेतैश्च कूष्माण्डैर्वेतालैर्ब्रह्मराक्षसैः ।
योसीन्द्रैरपि सिद्धेन्द्रै रुद्रैश्चण्डादिभिस्तथा

4.115.13

कोटर्या प्रामदेव्या च यथा मात्रा हिताय च ।
उवाच शंकरो बाणं मूढं पण्डितमानिनम्
हितं सत्यं नीतिशास्त्रं परिणामसुखावहम्

4.115.14

महादेव उवाच
शृणु बाण प्रवक्ष्यामि कथामेतां पुरातनीम् ।
भुवो भारावतरणे भारते स्वयमीश्वरः

4.115.15

निहत्य सर्वान्राजेन्द्रान्द्वारकायां विराजते ।
यस्य लोमसु विश्वानि तस्य वासः सदीश्वरः

4.115.16

वासुदेव इति ख्यातः कथ्यते तेन कोविदैः ।
धातुर्विधाता भगवांश्चक्रपाणिः स्वयं भुवि

4.115.17

ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतेः परः ।
निर्गुणश्च निरीहश्च भक्तानुग्रहविग्रहः

4.115.18

परं ब्रह्म परं धाम परमात्मा च देहिनः ।
यस्मिन्गते शवो जीवो संग्रामस्तेन संभवेत्

4.115.19

शस्त्रविद्धो महाकाशो यथा मूढ दिशस्तथा ।
तथाऽऽत्मा च निराकारो देही च ध्यानहेतुना

4.115.20

तस्य पुत्रोऽनिरुद्धश्च महाबलपराक्रमः ।
त्रैलोक्यमपि संहर्तुं क्षणेन च क्षमः स्वयम्

4.115.21

सर्वे वेवाश्च दैत्याश्च बलवन्तो महारथाः ।
ते सर्वे चानिरुद्धस्य कलां नार्हन्ति षोडशीम्

4.115.22

ययोरेव समं वित्तं ययोरेव समं बलम् ।
तयोर्विवाहो मैत्री च न तु पुष्टविपुष्टयोः

4.115.23

बलिः पिता ते दैत्यानां सारभूतो महारथः ।
क्षणेन येन नीतश्च सुतलं स हरेः कला

4.115.24

सर्वे चांशकलाः पुंसः परिपूर्णतमस्य च ।
वृन्दावनेश्वरस्यापि कृष्णस्य परमात्मनः

4.115.25

पार्वत्युवाच
ध्यायते ध्याननिष्ठश्च हृत्पद्मे च दिवानिश्म् ।
ब्रह्मा महेशः मेषश्च भगवन्तं सनातनम्

4.115.26

दिनेशश्च गणेशश्च योगीन्द्राणां गुरोर्गुरुः ।
ध्यायते परमात्मानं भगवन्तं सनातनम्

4.115.27

सनत्कुमारः कपिलो नरो नारायणस्तथा ।
ध्यायते हृदयाम्भोजे भगवन्तं सओ

4.115.28

मनवश्च मुनीन्द्राश्च सिद्धेन्द्रा योगिनां वराः ।
ध्यानासाध्यं च ध्यायन्ते भगवन्तं सओ

4.115.29

सर्वादिं सर्वबीजं च सर्वेशं च परात्परम् ।
ध्यायन्ते ज्ञानिनः सर्वे भगवन्तं सओ

4.115.30

गणेश उवाच
अभाग्यं च बलेश्चापि वैष्णवस्य महात्मनः ।
मूढोऽयमीदृशः पुत्रः प्रह्लादस्य च धीमतः

4.115.31

स्कन्द उवाच
अये भ्रातर्न श्रुता च हिरण्यकशिपोः कथा ।
हिरण्याक्षस्य च मधोः कैटभस्य महात्मनः

4.115.32

पूर्वजास्तेऽपि ते दैत्या महाबलपराक्रमाः ।
क्रमेण विष्णुना नीता लीलया यमसादनम्

4.115.33

भगवान्यस्य संहर्ता स्वयं नारायणः प्रभुः ।
तस्य को रक्षिता भ्रातर्निवर्तस्व शुभायच

4.115.34

तेषां च वचनं श्रुत्वा तानुवाचासुरेश्वरः ।
कोपरक्तास्यनयनो धनुष्पाणिर्यथाऽन्तकः

4.115.35

बाण उवाच
शृणु मातः प्रवक्ष्यामि शृणु तात महेश्वर ।
शृणु भ्रातर्गणपते शृणु भ्रातश्च कार्तिक

4.115.36

शुभशुभं प्राक्तनेन प्राणिनां कर्मिणां तथा ।
कृतकर्मातिरिक्तं च कार्य केषां च वर्तते

4.115.37

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति

4.115.38

यस्माच्च यस्य निर्वाणं विधात्रा लिखितं पुरा ।
तदेव नित्यं सत्यं च निषेकः केन वार्यते

4.115.39

संग्रामे कातरो यो हि निष्फलं तस्य जीवनम् ।
जयी यशस्च लभते मृतः स्वर्गं च गच्छति

4.115.40

प्रविश्य कन्यां गृह्णाति नगरं शिवरक्षितम् ।
पार्वत्या च गणेशेन युद्धेन बलिना तथा

4.115.41

को वा गृह्णाति कन्यां च कस्य वा जीवितस्य च ।
सगर्भा तव कन्येति सभायां रक्षको वदेत्

4.115.42

इति मे वज्रतुल्यं च श्रुतिकौटं परं वचः ।
अतोऽनिरुद्वं हत्वा च घातयिष्यामि कन्यकाम्
अन्यथा ज्वलदग्नौ च त्यक्ष्यामि च कलेवरम्

4.115.43

कोटर्युवाच
शृणु वत्स प्रवक्ष्यामि माताऽहं तेऽपि धर्मतः ।
तुरन्तेनापि पृत्रेण पित्रोर्दुःर्ख पदे पदे

4.115.44

कन्या परगृहीता साऽप्यन्यस्मै दातुमक्षमा ।
श्रीकृष्णस्यापि पौत्राय प्रद्युम्नस्य सुताय च

4.115.45

अनिरुद्धाय महते स्वेच्छया देहि कन्यकाम् ।
पूतोऽसि भारते वर्षे सप्तभिः पितृभिः सह

4.115.46

यौतुकं देहि सर्वस्वं यशसे महसे भुवि ।
अन्यथा रणमध्ये च त्वां हनिष्यति माधवः

4.115.47

सुदशंनेन चकेण को वा त्वां रक्षितुं क्षमः ।
कोटरीवचनं श्रुत्वा चुकोप दैत्यपुंगवः

4.115.48

प्रययौ रथमारुह्य यत्र पौत्रो हरेर्मुने ।
स्कन्दः सेनापतिर्भूत्वा प्रययौ शंकराज्ञया

4.115.49

बाणः स्वस्त्ययनं चक्रे गणेशश्च शिवः स्वयम् ।
बाणं शुभाशिषं चक्रे पार्वती कोटरी तथा

4.115.50

अष्टौ च भैरवाश्चैव रुद्राश्चैकादशैव ते ।
सर्वे युद्धाय हन्तारो बभूवुः शस्त्रपाणयः

4.115.51

एतस्मिन्नन्तरे दूतोऽप्यनिरुद्धमुवाच ह ।
पार्वत्या प्रेरितश्चैव बाणपत्न्या च सत्वरम्

4.115.52

दूत उवाच
अनिरुद्धोत्तिष्ठ भद्रं पार्वतीवचनं शृणु ।
भव सांनाहिको वत्स कुरु युद्धं बहिर्भव

4.115.53

भीतोषा रुदती त्रस्ता सस्मार पार्वतीं सतीम् ।
रक्ष रक्ष महामाये मत्प्रणेश्वरमीप्सितम्

4.115.54

अभेयेऽप्यभयं देहि संग्रामे घोरदारुणे ।
त्वमेव जगतां माता स्नेहस्ते सर्वतः समः

4.115.55

अथानिरुद्धः संनाही शस्त्रपाणिर्बभूव ह ।
ऊषादत्तं रथं प्राप्य चकाराऽऽरोहणं मुदा

4.115.56

बहिः संभूय शिबिराद्ददर्श बाणमीश्वरः ।
सांनाहिकं शस्त्रपाणिं रक्तास्यलोचनं परम्

4.115.57

दृष्ट्वाऽनिरुद्धं बाणश्च तमुवाच रुषाऽन्वितः ।
घोरसंग्राममध्ये च विषोक्तिं प्रज्वलन्निव

4.115.58

बाण उवाच
अये वीर महादुष्ट नीतिशास्त्रविवर्जित ।
चन्द्र वंशकुलाङ्गार पुण्यक्षेत्रेऽयशस्कर

4.115.59

पिता ते शम्बरं हत्वा जग्राह तस्य कामिनीम् ।
ततो जातो भवनेव निरोधं स्वकुलक्षमम्

4.115.60

पितामहो वासुदेवो मथुरायां च क्षत्रियः ।
गोकुले वैश्यपुत्रश्च नाम्ना च नन्दनन्दनः

4.115.61

वृन्दावने च गोपस्य नन्दस्य पशुरक्षकः ।
साक्षाज्जारश्च गोपीनां दुष्टः परमलम्पटः

4.115.62

जघान पूतनां सद्यो नारीघाती ह्यधार्मिकः ।
आगत्य मथुरां कुब्जां जघान मैथुनेन च

4.115.63

दुर्बलं नरकं हत्वा स्त्रीसमूहं मनोहरम् ।
जग्राह योनिलुब्धश्च स्वपुत्रमतिनिष्ठुरः

4.115.64

भीष्मकं मानवं जित्वा तत्पुत्रं चापि दुर्बलम् ।
जग्राह कन्यकां तस्य देवयोग्यां च रुक्मिणीम्

4.115.65

सत्राजितः सूर्यभृत्यो देवात्प्राप मणीश्वरम् ।
घातयित्वा ह्युपायेन जग्राह मणिकन्यकाम्

4.115.66

कुरुपाण्डवयुद्धं च कारयित्वा च दारुणम् ।
युधिष्ठिरस्य यज्ञे च शिशुपालं जघान सः

4.115.67

दन्तवक्त्रं च शाल्बं च जरासंधं च दारुणः ।
संजहार भुवो भूपसमूहमतिदारुणम्

4.115.68

उपायान्नरकं हत्वा सर्वस्वं तज्जहार सः ।
दुर्बलो राजभीतश्चसमुद्रं शरणं गतः

4.115.69

जित्वा च भ्रातरं शक्रं भार्याया वचनेन च ।
जग्राह पारिजातं च पुष्पं च स्वर्गदुर्लभम्

4.115.70

कंसं निहत्याधर्मिष्ठो भ्रातरं मातुरेव च ।
जग्राह तस्य सर्वस्वं परं किं कथयामि ते

4.115.71

जत्वा च भल्लुकं युद्धे जग्राह तस्य कन्यकाम् ।
तत्पितुर्भगिनी कुन्ती चतुर्णां कामिनी भुवि

4.115.72

द्रौपदी भ्रातृपत्नी च पप़ञ्चानां कामिनी तथा ।
गोष्ठीनो योनिलुब्धश्च शश्वत्परमलम्पटः

4.115.73

तज्ज्येष्ठो बरदेवश्च शश्वत्पिबति वारुणीम् ।
यमुनां भ्रातृपत्नीं च करोत्याह्वानमीप्सितम्

4.115.74

जहार भगिनीं तस्य कौःतेयः शक्रनन्दनः ।
सुभद्रां मातुलसुतां संनिबोध कुलक्रमम्

4.115.75

बाणस्य वचनं श्रुत्वा चुकोप कामनन्दनः ।
उवाच परमार्थं च योग्यं प्रत्युत्तरं मुने

4.115.76

अनिरुद्ध उवाच
पिता मे कामदेवश्च ब्रह्मपुत्रः पुरा शुचिः ।
यस्यास्त्रेण वशीभूतं त्रैलोक्यं सततं शृणु

4.115.77

शिवकोपानलेनैव भस्मीभूतः स्वकर्मतः ।
कृष्णस्य पुत्रोऽप्यधुना सर्वेषां परमात्मनः

4.115.78

पतिव्रता रतिर्माता पतिशोकेन सांप्रतम् ।
शम्बरस्य गृहे तस्थौ हृता तेन बलेन च

4.115.79

छायां मायावतीं दत्त्वा मायया शयनेन च ।
रतिं स्वधर्म संरक्ष्य धर्मसाक्षी च तद्गृहे

4.115.80

निहत्य शम्बरं शत्रुं गृहीत्वा स्वप्रियां सतीम् ।
आजगाम द्वारकां च चन्द्रसुर्यौ च साक्षिणौ

4.115.81

पितामहं वासुदेवं त्वं किं जानामि मूढवत् ।
यं च सन्तोन जानन्ति वेदाश्चत्वार एव च

4.115.82

वासुः सर्वनिवासश्च विश्वानि यस्य लोमसु ।
तस्य देवः परं ब्रह्म वासुदेव इति स्मृतः

4.115.83

शंकरं पृच्छ साक्षाच्च यस्य भृत्योऽधुना भवान् ।
कृष्णभृत्यस्य च बलेः पुत्रोऽसि किंकरात्मजः

4.115.84

गोकुले वैश्यपुत्रत्वं ब्रूहि त्वं ज्ञानदुर्बल ।
भोजनं वेदविहितं शश्वत्क्षत्त्रियवैश्ययोः

4.115.85

द्रोणः प्रजापतिः श्रेष्ठा धरा तस्य प्रिया सती ।
पुत्रं च तपसा लेभे परमात्मानमीश्वरम्

4.115.86

द्रोणो नन्दो वैश्यराजो यशोदा सा धरा सती ।
वृषभानसुता राधा सुदाम्नः शापकारणात्

4.115.87

त्रिंशत्कोटिं च गोपीनां गृहीत्वा भर्तुराज्ञया ।
पुण्यं च भारतं क्षेत्रं गोलोकादाजगामसा

4.115.88

ताभिः सार्ध स रेमे च स्वपत्नीभिर्मुदाऽन्वितः ।
पाणिं जग्राह राधायाः स्वयं ब्रह्मा पुरोहितः

4.115.89

गोपकोटिश्च गोलोकादाजगाम् मृदाऽन्विता ।
तेजसा हरितुल्यास्ते पार्षदप्रवरा हरेः

4.115.90

गोरक्षणं हरेरेव गोपवेषस्य चाऽऽत्मनः ।
गोपानां शिशुरक्षार्थं मायेशस्यापि मायया

4.115.91

पूतना बलिकन्या च भगिनी च तवासुर ।
दृष्ट्वा च वामनं विन्ध्या चकार पुत्रमानसम्

4.115.92

एवंभूतो यदि मम पुत्रो भवति सांप्रतम् ।
स्तनं ददामि तनयं कृत्वा वक्षसि सुन्दरम्

4.115.93

तस्याःपूर्णं मानसं च चकार भगवान्प्रभुः ।
स्तनं दत्त्वा च गोलोकं ययौ सा रत्नयानतः

4.115.94

कुब्जा सा भगिनी पूर्वं रावणस्य दुरात्मनः ।
श्रीरामं चकमे कामान्नाम्ना शूर्पणखा सती

4.115.95

नासां चिच्छेद तस्याश्च लक्ष्मणो धार्मिकेश्वरः ।
तपसा च वरं लेभे ब्रह्मणः प्रियमीश्वरम्

4.115.96

तेन पुण्येन तंलब्ध्वा गोलोकं सा जगाम ह ।
गोपी बभूव गोलोके कृष्णस्याऽऽलिङ्गनेन च

4.115.97

नरको हरिवध्यश्च स्वपूर्वप्राक्तनेन च ।
पाणिं जग्राह कन्यानां साक्षिणौ शशिभास्करौ

4.115.98

भीष्मकन्या महालक्ष्मीः शीकृष्णस्य प्रिया सती ।
वैकुण्ठादागता साध्वी ब्रह्मणोऽनृमतेन च

4.115.99

सत्राजितस्य कन्या सा सत्यभामा वसुंधर ।
ददौ कृष्णाय राजा स तं मणिं यौतुकेन च

4.115.100

भुवो भारावतरणहेतुना गमनं हरेः ।
संजहार भुवो भारं कुरुपाण्डवयुद्धतः

4.115.101

शिशुपालो दन्तवक्त्रो जयो विजय एव च ।
द्वारिणौ द्वारषट्के च वैकुण्ठे श्रीहरेरपि

4.115.102

कुमारशापात्पतितौ प्राप्य जन्मत्रयं ध्रुवम् ।
हिरण्यकशिपुश्चैव तवैव पूर्वपूरुषः

4.115.103

तस्य भ्राता हिरण्याक्षस्तेनैव वरुणो जितः ।
हरिर्नृसिंहरूपेण तं जघानावलीलया

4.115.104

सूकरेण हतोऽन्यश्च पूर्वजन्मकथां शृणु ।
द्वितीये जन्मनि पुरा रावणः कुम्भकर्णकः

4.115.105

श्रीरामेण हतौ तौ द्वौ शेषजन्म कलौ तयोः ।
श्रीकृष्णेन हतौ तौ द्वौ धर्मपुत्रावुभौ तथा

4.115.106

जरासंधश्च शाल्वश्च दुरात्मा कंस एव च ।
प्राक्तनात्तस्य वध्यास्ते भुवो भारजिहीर्षया

4.115.107

मांधातुः सुतमध्ये च यवनश्चापि प्राक्तनात् ।
लक्ष्मीश्वरस्य कृष्णस्य धनेन किं प्रयोजनमा

4.115.108

प्रतिज्ञया च सत्यायाः पुण्यकव्रतकारणात् ।
पारिजातं समनीय चकार स्वात्मनो व्रतम्

4.115.109

स्वयं जाम्बवती देवी दुर्गांशा भल्लुकात्मजा ।
पाणिं जग्राह तस्याश्च तपसा भारते हरिः

4.115.110

कुन्त्याश्च क्षेत्रजाः पुत्राः केवलं भर्तुराज्ञया ।
कलौ निषिद्धं त्रियुगे प्रसिद्धं पलपैतृकम्

4.115.111

युधिष्ठिरो धर्मपुत्रो भीमश्च पवनात्मजः ।
महेन्द्रपुत्रो धर्मिष्ठः फाल्गुनो विजयी भुवि

4.115.112

यस्मै पाशुपतं शंभुः प्रददौ च स्वयं पुरा ।
अश्वमेधं गवालम्भं संन्यासं पलपैतृकम्

4.115.113

देवरेण सुतोत्पत्तिं कलौ पञ्च विवर्जयेत् ।
द्रौपद्याः पञ्च भर्तारः शंकरस्य वरेण च

4.115.114

बलदेवः पुष्पमधु पूतं पिबति नित्यशः ।
चकार यमुनाह्वानं स्नानार्थं धार्मिकः शुचिः

4.115.115

सुभद्रां च ददौ कृष्णः फाल्गुनाय महात्मने ।
कन्यकां मातुलानां च दाक्षिणात्यः परिग्रहः

4.115.116

देशेष्वन्येषु दोषोऽयमित्याह कमलोद्भवः

4.115.115

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ वाणानिरुद्धसंओ
पञ्चदशाधिकशततमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc