भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.105

4.105.1

अथ पञ्चाधिकशततमोऽध्यायः
नारायण उवाच
अथ वैदर्भराजेन्द्रो महाबलपराक्रम् ।
विदर्भदेशे पुण्याश्च सत्यशीलश्च भीष्मकः

4.105.2

राजा नारायणांशश्च दाता च सर्वसंपदाम् ।
धर्मिष्ठस्च गरीयांश्च वरिष्ठश्टापि पूजितः

4.105.3

तस्य कन्या महालक्ष्मी रुक्मिणी योषितां वरा ।
अतीव सुन्दरी रम्या रमा रामासु पूजिता

4.105.4

नवयौवनसंपन्ना रत्नाभरणभूषिता ।
तप्तकाञ्चनवर्णाभा तेजसोज्ज्वलिता सती

4.105.5

शुद्धसत्त्वस्वरूपा सा सत्यशीला पतिव्रता ।
शान्ता दान्ता नितान्ता चाप्यनन्तगुणशालिनी

4.105.6

इन्द्राणी वरुणानी च चन्द्रनारी च रोहिणी ।
कुबेरपत्नी सूर्यस्त्री स्वाहा शान्ता कलावती

4.105.7

अन्यासु रमणीयासु श्रेष्ठा च सुमनोहरा ।
रुक्मिण्या भीष्मकन्यायाः कलां नार्हति षोडशीम्

4.105.8

तां दृष्ट्वा राजराजेन्द्रो वालक्रीडारतां पराम् ।
बालां सुशोभां कुर्वन्तीं यथाऽभ्रेषु विधोः कलाम्

4.105.9

शरत्पूर्णेन्दुशोभाढ्यां शरत्कमललोचनाम् ।
विवाहयोग्यां युवतीं लज्जानम्राननां शुभम्

4.105.10

सहसा चिन्तितो धर्मो धर्मशीलश्च सुव्रतः ।
सुतां पप्रच्छ पुत्रांश्च ब्राह्मणांश्च पुरोहितान्

4.105.11

कं वृणोमि सुतार्ध च वराहं प्रवरं वरम् ।
मुनिपुत्रं देवपुत्रं राजेन्द्रसुतमीप्सितम्

4.105.12

विवाहयोग्या कन्या मे वर्धमाना मनोहरा ।
शीघ्रं पश्य वरं याग्यं नवयौवनसंस्थितम्

4.105.14

धर्मशीलं सत्यसंधं नारायणपरायणम् ।
महाकुलप्रसूतं च सर्वत्रैव प्रतिष्ठितम्

4.105.15

करोषि राजपुत्रं चेद्रणशास्त्रविशारदम् ।
महारथं प्रतापार्हं रणमूर्ध्नि च सुस्थिरम्

4.105.16

करोषि देवपुत्रं चेद्देवं गुणयुतं तथा ।
करोषि मुनिपुत्रं चेच्चतुर्वेदविशारदम्

4.105.17

वावदूकं विचारज्ञं सिद्धान्तेषु नितान्तकम् ।
नृपेन्द्रवचनं श्रुत्वा तमुवाच मुनेः सुतः

4.105.18

गोतमस्य शतानन्दो वेदवेदाङ्गपारगः ।
आप्तः प्रवक्ता विज्ञश्च धर्मी कुलपुरोहितः ॥
पृथिव्यां सर्वतत्त्वज्ञो निष्णातः सर्वकर्मसु

4.105.19

शतानन्द उवाच
राजेन्द्र त्वं च धर्मज्ञो धर्मशास्त्रविशारदः ।
पृर्वाख्यानं च वेदोक्तं कथयामि निशामय

4.105.20

भुवो भारावतरणे स्वयं नारायणो भुवि ।
वसुदेवसुतः श्रीमान्परिबूर्णतमः प्रभुः

4.105.21

विधातुश्च विधाता च ब्रह्मेशशेषवन्दितः ।
ज्योतिःस्वरूपः परमो भक्तानुग्रहविग्रहः

4.105.22

परमात्मा च सर्वेषां प्राणिनां प्रकृतेः परः ।
निर्लिप्तश्च निरीहप्तश्च साक्षी च सर्वकर्मणाम्

4.105.23

राजेन्द्र तस्मै कन्यां च परिपूर्णतमाय च ।
दत्त्वा यास्यसि गोलोकं पितॄणां शतकैः सह

4.105.24

लभ सारूप्यमुक्तिं च कन्या दत्त्वां परत्र च ।
इहैव सर्वपूज्यश्च भव विश्वगुरोर्गुरुः

4.105.25

सर्वस्वं दक्षिणां दत्त्वा महालक्ष्मीं च रुक्मिणीम् ।
समर्पणं कुरुविभो कुरुष्व जन्मखण्डनम्

4.105.26

विधाता निखितो राजन्संबन्धः सर्वसंमतः ।
द्वारकानगरे कृष्णं शीघ्रं प्रस्थापय द्विजम्

4.105.27

कृत्वा शुभक्षणं तूर्ण सर्वेषामपि संमतम् ।
आनीय परमात्मानं भक्तानुग्रहविग्रहम्

4.105.28

ध्यानानुरोधहेतुं च नित्यदेहमनुत्तमम् ।
दृष्टिमात्रात्कुरु नृप स्वजन्मकर्मखण्डनम्

4.105.29

यं न जानन्ति चत्वारो वेदाः संतश्च देवताः ।
सिद्धेन्द्राश्च मुनीन्द्राश्च देवा ब्रह्मादयस्तथा

4.105.30

ध्यायन्ते ध्यानपूताश्च योगिनो न विदन्ति यम् ।
सरस्वती जडीभूता वेदाः शास्त्राणियानि च

4.105.31

सहस्रवक्त्रः शेषश्च पञ्चवक्त्रः सदाशिवः ।
चतुर्मुखो जगद्धाता कुमारः कार्तिकस्तथा

4.105.32

ऋषयो मुनयश्चैव भक्ताः परमवैष्णवाः ।
अक्षमाः स्तवने यस्य ध्यानासाध्यश्च योगिनाम्

4.105.33

बालकोऽहं महाराज तद्गुणं कथयामि किम् ।
शतानन्दवचः श्रुत्वा प्रफुल्लवदनो नृपः

4.105.34

आनिङ्गनं ददौ तस्मै समुत्थाय जवेन च ।
नानारत्नं मुवर्ण च वस्त्रं च रत्नभूषणम्

4.105.35

ददौ तस्मै प्रदानं च प्रसादसुमुखो नृपः ।
गजेन्द्र तुरगं श्रेष्ठं रथं च मणिनिर्मितम्

4.105.36

रत्नसिहासनं रम्यं धनं च विपुलं तथा ।
भूमिं च सर्वसस्याढ्यां शश्वद्वृष्टिकरीं शुभाम्

4.105.37

अकृष्टसाध्यां पूज्यां च ग्रामं सर्वप्रशंसितम् ।
एतस्मिन्नन्तरे रुक्मिश्चुकोप नृपनन्दनः

4.105.38

कम्पितोऽधर्मयुक्तश्च रक्तास्यो रक्तलोचनः ।
उवाच पितरं व्रिप्रं सभायामस्थिरस्तदा

4.105.39

उत्याय तिष्ठन्पुरतः सर्वेषां च सभासदाम्

4.105.40

रुक्मिरुवाच
श्रृणु राजेन्द्र वचनं हितं तथयं प्रशंसितम् ।
त्यज वाक्यं भिक्षुकाणां लोभिनां क्रोधिनामहो

4.105.41

नर्तकानां च वैश्यानां भट्टानामर्थिनामपि ।
कायस्थानां च भिक्षूणामसत्यं वचनं सदा

4.105.42

घटकानां नाटकानां स्त्रीलुब्धाना च कामिनाम् ।
दरिद्राणां च मूर्खाणां स्तुतिपूर्व वचः सदा

4.105.43

निहत्य कालयवनं राजेन्द्रं दूरतो भिया ।
उवायेन महाबाहो लब्धं कृष्णेन तद्धनम्

4.105.44

द्वारकाया धनी कृष्णो यवनस्य धनेन च ।
जरासंधभयेनैव समुद्राभ्यन्तरे गृही

4.105.45

जरासंधशतं चैव क्षणेनैव च लीलया ।
क्षमोऽहं हन्तुमेकाकी राज्ञश्चान्यस्य का कथा

4.105.46

दुर्वाससश्च शिष्योऽहं रणशास्त्रविशारदः ।
ध्रुवं भीष्मक तेनैव विश्वं संहर्तुमीश्वरः

4.105.47

मत्समः पर्शुरामश्च शिशुपालश्च मत्समः ।
सखा च बलवाञ्छूरः स्वर्गं जेतुं स च क्षमः

4.105.48

महेन्द्रं सगणं जेतुमहमीशः क्षणेन च ।
जित्वा युद्धे जरासंधं दुर्बलं योगिनं नृप

4.105.49

अहंकारयुतः कृष्णो पीरं स्वं मन्यते धिया ।
यद्यायास्यति मद्ग्रामं विवाहं कर्तुमीप्सितम्

4.105.50

ध्रुवं प्रस्थापयिष्यामि क्षणेन यममन्दिरम् ।
अहो नन्दस्य वैश्यस्य तस्मै गोरक्षकाय च

4.105.51

साक्षाज्जाराय गोपीनां गोपालोच्छिष्टभोजिने ।
करोषि कन्यास्वीकारं देवयोग्यां च रुक्मिणीम्

4.105.52

दातुमिच्छसि वाक्येन भिङुकस्य द्विजस्य च ।
राजेन्द्र बुद्धिहीनोऽसि वचनाद्वद्ग(दुर्ब) लस्य च

4.105.53

मा राजपुत्रो माशूरो म कुलीनश्च मा शुचिः ।
मा दाता मा धनाढ्यश्च मा योग्यो मा जितेन्द्रियः

4.105.56

कन्यां देहि सुपुत्राय शिशुपालाय भूमिप ।
बलेन रुद्रतुष्टाय राजेन्द्रतनयाय च

4.105.56

निमन्त्रणं कुरु नृप नानादेशभवान्नृपान् ।
बान्धवांश्च मुनीन्द्रांश्च पत्रद्वारा त्वरान्वितः ५५ ॥
अङ्गं कलिङ्गं मगधं सौराष्ट्रं वल्कलं वरम् ।
राटं वरेन्द्रं वङ्गं च गुर्जरटिं च पठेरम्

4.105.57

महाराष्ट्रं विराटं च मुद्गलं च मुरङ्गकम् ।
भल्लकं गल्लकं खर्व दुर्गं प्रस्थापय द्विजम्

4.105.58

घृतकुल्यासहस्रं च मधुकुल्यासहस्रकम् ।
दधिकुल्यासहस्रं च दुग्धकुल्यासहस्रकम्

4.105.59

तैलकुल्यापञ्चशतं गुडकुल्याद्विलक्षकम् ।
शर्कराणां राशिशतं मिष्टान्नानां चतुर्गुणम्

4.105.60

यवगोधूमचूर्णानां पिष्टराशिशतं शतम् ।
पृथुकानां राशिलक्षमन्नानां च चतुर्गुणम्

4.105.61

अथ श्रुत्वा च तद्वाक्यं राजेन्द्रः सपुरोहितः ।
चकार मन्त्रणां तूर्ण निर्जने मन्त्रिणा सह

4.105.62

द्विजं प्रस्थापयामास द्वारकां योग्यमीप्सितम् ।
कृत्वा च शुभलग्नं च सर्वेषामभिवाञ्छितम्

4.105.63

राजा संभृतसंभारो बभूव सत्वरं मृदा ।
निमन्त्रणं च सर्वत्र चकार च सुताज्ञया

4.105.64

विप्रः सुधर्मां संप्राप्य नृपैर्देवैश्च वेष्टिताम् ।
प्रददी पत्रिकां भद्रामुग्रसेनाय भूभृते

4.105.65

प्रफुल्लवदनो राजा श्रुत्वा पत्रं सुमङ्गलम् ।
सुवर्णानां सहस्रं च ब्राह्मणेभ्यो ददौ मुदा

4.105.66

दुंदुभिं वादयामास द्वारकायां च सर्वतः ।
देवान्मुनीन्नृपांश्चैव ज्ञातिवर्गाश्च बान्धवान्

4.105.67

भट्टांश्च भिक्षुकांश्चैव भोजयामास सादरम् ।
श्रीकृष्णस्य सृवेषं च कारयामास भूपतिः

4.105.68

अतीव रम्यमतुलं त्रेषु लोकेषु दुल्रभम् ।
यात्रां च कारयामास जगतां प्रवरं वरम्

4.105.69

वेदमन्त्रेण रम्येण माहेन्द्रे सुमनोहरे ।
आदौ ब्रह्मा रथस्थश्च सावित्र्या सहितो ययौ

4.105.70

रथस्यश्च महाहृष्टो भवान्या च भवः स्वयम् ।
शेषश्चापि दिनेशश्च गणेशश्चापि कार्तिकः

4.105.71

महेन्द्रश्चतथा चन्द्रो वरुणः पवनस्तथा ।
कुबेरश्च यमो वह्निरीशानोऽपि ययौ मुदा

4.105.72

देवानां च त्रिकोट्यश्च मुनीनां षष्टिकोटयः ।
राजेन्द्राणां त्रिलक्षं च श्वेतच्छत्रं त्रिलक्षकम्

4.105.73

उग्रसेनो बभौ राजा नक्षत्रेषु यथा शशी ।
ययौ प्रसन्नवदनः कुण्डिनाभिमुखो बली

4.105.74

रत्ननिर्माणयानेन बलदेवो महाबलः ।
वसुदेवश्चोद्धवश्च नन्दोऽक्रूरश्च सात्यकिः

4.105.75

गोपाला यादवेन्द्राश्च चन्द्रवंश्याश्च ते ययुः ।
धृतराष्ट्रसुताः सर्वे दुर्योधनपुलोगमाः

4.105.76

युधिष्ठिरस्तथा भीमः फाल्गुनो नकुलस्तथा ।
सहदेवश्च यानैश्च प्रययुः पञ्च पाण्डवाः

4.105.77

भीष्मो द्रोणश्च कर्णश्चाप्यश्वत्थामा महाबलः ।
कृपाचार्यश्च शकुनिः शल्यश्चप्रययौ मुदा

4.105.78

भटानां च त्रिकोट्यश्च विप्राणां शतकोटयः ।
संन्यासिनां सहस्रं च यतीनां ब्रह्मचारिणाम्

4.105.79

द्विसहस्रं जितक्रोधाश्चावधूतास्तथैव च ।
उत्पलानां सहस्रं च सहस्रं पुष्पकारिणाम्

4.105.80

नानाशिर्पकराश्चैव विचित्रं चित्रमेव च ।
लक्षं च वाद्यभाण्डानां नर्तकानां च लक्षकम्

4.105.81

गन्धर्वाणां गायकानां लक्षमेव तु नारद ।
तत्र कल्पे भक्त्येव गन्धर्वश्चोपबर्हणः

4.105.82

पञ्चाशत्कामिनीभिश्च त्वमेव तेषु मध्यगः ।
विद्याधरीणां लक्षं च लक्षमप्सरसां तथा

4.105.83

किन्नराणां त्रिलक्षं चगन्धर्वाणां त्रिलक्षकम्

4.105.105

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ रुक्मिण्युद्वाहे
पञ्चाधिकशततमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc