भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.6

3.6.1

शौनक उवाच ॥
नारायणवचः श्रुत्वा नारदो हृष्टमानसः ॥
किं पप्रच्छ पुनः साधो तन्मे ब्रूहि तपोधन

3.6.2

सूत उवाच ॥
नारायणवचः श्रुत्वा नारदो हृष्टमानसः ॥
व्रतारम्भविधानं च संप्रष्टुमुपचक्रमे ॥

3.6.3

नारद उवाच ॥
कृतं केन प्रकारेण व्रतमेतच्छुभावहम्॥
तन्मे ब्रूहि मुनिश्रेष्ठ पार्वत्या भर्तुराज्ञया

3.6.4

ललाभ जन्म भूतेशः कृते सुव्रतया व्रते ॥
ब्रह्मन्केन प्रकारेण तन्नः शंसितुमर्हसि

3.6.5

नारायण उवाच॥
कथयित्वा कथां दिव्यां विधानं च व्रतस्य च ॥
स्वयं विधाता तपसां जगाम तपसे शिवः

3.6.6

हरेराराधनव्यग्रो मूर्त्तिभेदधरो हरिः ॥
हरिभावनशीलश्च हरिध्यानपरायणः ॥

3.6.7

परमानन्दपूर्णश्च ज्ञानानन्दः सनातनः ॥
दिवानिशं न जानाति हरिमन्त्रं बहिः स्मरन्

3.6.8

प्रहृष्टमनसा देवी पार्वती भर्तुराज्ञया ॥
किङ्करान्प्रेरयामास विप्रांश्च व्रतहेतवे

3.6.9

आनीय सर्वद्रव्याणि व्रते योग्यानि यानि च॥
व्रतं कर्तुं समारेभे शुभदा सा शुभे क्षणे

3.6.10

सनत्कुमारो भगवानाजगाम विधेः सुतः ॥
मूर्त्तिमांस्तेजसा राशिः प्रज्वलन्ब्रह्मतेजसा

3.6.11

ब्रह्माऽऽजगाम हृष्टश्च ब्रह्मलोकात्सभार्य्यकः ॥
अतित्रस्तो हि भगवानाजगाम महेश्वरः

3.6.12

विष्णुः क्षीरोदशायी च सलक्ष्मीकश्चतुर्भुजः ॥
भगवाञ्जगतां पाता शास्ता भर्त्ता सपार्षदः

3.6.13

वनमालाधर श्यामो भूषितो रत्नभूषणैः ॥
तथा सम्भृतसम्भारो रत्नयानेन नारद

3.6.14

सनकश्च सनन्दश्च कपिलश्च सनातनः ॥
आसुरिश्च क्रतुर्हंसो वोढुः पञ्चशिखोऽरुणिः

3.6.15

यतिश्च सुमतिश्चैव वसिष्ठश्च सहानुगः ॥
पुलहश्च पुलस्त्यश्चाप्यत्रिश्च भृगुरंगिराः

3.6.16

अगस्त्यश्च प्रचेताश्च दुर्वासाश्च्यवनस्तथा ॥
मरीचिः कश्यपः कण्वो जरत्कारुश्च गौतमः

3.6.17

बृहस्पतिरुतथ्यश्च संवर्तः सौभरिस्तथा ॥
जाबालिर्जमदग्निश्च जैगीषव्यश्च देवलः ॥

3.6.18

गोकामुखो वक्ररथः पारिभद्रः पराशरः ॥
विश्वामित्रो वामदेव ऋष्यशृंगो विभाण्डकः

3.6.19

मार्कण्डेयो मृकण्डुश्च पुष्करो लोमशस्तथा ॥
कौत्सो वत्सश्च दक्षश्च बालाग्निरघमर्षणः

3.6.20

कात्यायनः कणादश्च पाणिनिः शाकटायनः ॥
शंकुरापिशलिश्चैव शाकल्यः शङ्ख एव च

3.6.21

एते चान्ये च बहवः सशिष्या मुनयो मुने ॥
आवां च धर्म्मपुत्रौ च नरनारायणौ समौ

3.6.22

दिक्पालाश्च तथा देवा यक्षगन्धर्वकिन्नराः ॥
आजग्मुः पर्वताः सर्वे सगणाः पार्वतीव्रते

3.6.23

हिमालयः शैलराजः सापत्यश्च सभार्यकः ॥
सगणः सानुगश्चैव रत्नभूषणभूषितः

3.6.24

तथा सम्भृतसम्भारो नानाद्रव्यसमन्वितः ॥
मणि माणिक्यरत्नानि व्रते योग्यानि यानि च

3.6.29

नानाप्रकारवस्तूनि जगत्यां दुर्लभानि च ॥
लक्षं च गजरत्नानामश्वरत्नं त्रिलक्षकम्

3.6.26

दशलक्षं गवां रत्नं शतलक्षं सुवर्णकम् ॥
रुचकानां हीरकाणां स्पर्शानां च तथैव च

3.6.27

मुक्तानां च चतुर्लक्षं कौस्तुभानां सहस्रकम् ॥
सुस्वादुनानाद्रव्याणां लक्षभाराणि कौतुकी ॥
अनन्तरत्नप्रभव आजगाम सुताव्रते

3.6.28

ब्राह्मणा मनवः सिद्धा नागा विद्याधरास्तथा ॥
संन्यासिनो भिक्षुकाश्च बन्दिनः पार्वतीव्रते

3.6.29

विद्याधरी नर्तकी च नर्त्तकाऽप्सरसां गणाः ॥
नानाविधा वाद्यभाण्डा आजग्मुः शिवमन्दिरम्

3.6.30

कैलासराजमार्गं च चन्दनेन सुसंस्कृतम् ॥
आम्रपल्लवसूत्राढ्यं कदलीस्तम्भशोभितम्

3.6.31

दूर्वाधान्यफलैः पर्णलाजपुष्पैर्विभूषितम् ॥
निर्मितं पद्मरागेण ददृशुस्ते गणा मुदा

3.6.32

उच्चैः सिंहासनेष्वेते पूजिताः शङ्करेण च ॥
कैलासवासिनः सर्वे परमानन्दसंयुताः

3.6.33

दानाध्यक्षः शुनासीरः कुबेरः कोशरक्षकः ॥
आदेष्टा च स्वयं सूर्य्यः परिवेष्टा जलाधिपः

3.6.34

दध्नां नद्यः सहस्राणि दुग्धानां च तथैव च ॥
सहस्राणि घृतानां च गुडानां च शतानि च

3.6.35

माध्वीकानां सहस्राणि तैलानां च शतानि च ॥
लक्षाणि चैव तक्राणां बभूवुः पार्वतीव्रते

3.6.36

पीयूषाणां च कुम्भानि शतलक्षाणि नारद ॥
मिष्टान्नानां शर्कराणां बभूवुर्लक्षराशयः ॥
यवगोधूमचूर्णानां घृताक्तानां च नारद

3.6.37

स्वस्तिकानां च पूर्णानां बभूवुर्लक्षराशयः ॥
गुडसंस्कृतलाजानां बभूवुः कोटिराशयः

3.6.38

शालीनां पृथुकानां च राशीनां दशकोटयः॥
वरतण्डुलराशीनां मुने संख्या न विद्यते

3.6.39

स्वर्णरौप्यप्रवालानां मणीनां च महामुने ॥
बभूवुः पर्वतास्तत्र कैलासे पार्वती व्रते

3.6.40

पायसं पिष्टकं चैव शाल्यन्नं सुमनोहरम् ॥
चकार लक्ष्मीः पाकं च व्यञ्जनं घृतसंस्कृतम्

3.6.41

बुभुजे देवर्षिगणैः शिवो नारायणेन च ॥
बभूवुर्लक्षविप्राश्च परिवेषणकारकाः

3.6.42

ताम्बूलं च ददौ तेभ्यः कर्पूरादिसुवासितम् ॥
रत्नसिंहासनस्थेभ्यो विप्रलक्षाः सुदक्षकाः

3.6.43

रत्नसिंहासनस्थं च विष्णुं क्षीरोदशायिनम् ॥
सेव्यमानं पार्षदैश्च सस्मितैः श्वेतचामरैः

3.6.44

ऋषिभिः स्तूयमानं च सिद्धैर्देवगणैस्तथा ॥
विद्याधरीणां नृत्यानि पश्यन्तं सस्मितं मुदा

3.6.485

गन्धर्वाणां च संगीतं श्रुतवन्तं मनोहरम् ॥
पप्रच्छ शङ्करो ब्रह्मन्ब्रह्मेशं प्रीतिपूर्वकम्

3.6.46

ब्रह्मणा प्रेरितो युक्तं व्रतं कर्त्तव्यमीप्सितम् ॥
देवर्षिगणपूर्णायां सभायां संपुटाञ्जलिः

3.6.47

श्रीमहादेव उवाच ॥
मदीयं वचनं नाथ श्रीनिवास शृणु प्रभो ॥
तपस्स्वरूप तपसां कर्मणां च फलप्रद

3.6.48

व्रतानां जपयज्ञानां पूजानां सर्वपूजित ॥
सर्वेषां बीजरूपेण वाञ्छाकल्पतरो हरे

3.6.49

सुपुण्यं च व्रतं कर्त्तुं ब्रह्मन्निच्छति पार्वती ॥
पुत्रार्थिनी सा शोकार्त्ता हृदयेन विदूयता

3.6.50

रतिभंगे कृते देवैर्व्यर्थवीर्य्यशुचार्दिता ॥
प्रबोधिता मया साध्वी विविधैर्वचनामृतैः

3.6.51

सत्पुत्रं स्वामिसौभाग्यं सुव्रता याचते व्रते ॥
ताभ्यां विना न सन्तुष्टा स्वप्राणांस्त्यक्तुमिच्छति

3.6.52

पुरा त्यक्त्वा स्वदेहं च पितृयज्ञे च मानिनी ॥
मन्निन्दया हिमवति पुनर्जन्म ललाभ सा

3.6.53

सर्वं जानासि वृत्तान्तं सर्वज्ञं त्वां वदामि किम् ॥
दीनां तां वद तत्त्वज्ञ परिणामशुभप्रदाम्

3.6.54

दुर्निवार्य्यश्च सर्वेश स्त्रीस्वभावश्च चापलः॥
दुस्त्यज्यं योगिभिः सिद्धैरस्माभिश्च तपस्विभिः

3.6.55

जितेन्द्रियैर्जितक्रोधैः स्त्रीरूपं मोहकारणम् ॥
सर्वमायाकरण्डं च कामवर्द्धनकारणम्

3.6.56

ब्रह्मास्त्रं कामदेवस्य दुर्भेद्यं जयकारणम् ॥
सुनिर्मितं च विधिना सर्वाद्यं विधिपूर्वकम्

3.6.57

मोक्षद्वारकपाटं च हरिभक्तिनिरोधनम् ॥
संसारबन्धनस्तम्भरज्जुरूपमकृन्तनम्

3.6.58

वैराग्यनाशबीजं च शश्वद्रागविवर्द्धनम् ॥
पत्तनं साहसानां च दोषाणामालयं सदा

3.6.59

अप्रत्ययानां क्षेत्रं च स्वयं कपटमूर्तिमत् ॥
अहङ्काराश्रयं शश्वद्विषकुम्भं सुधामुखम्

3.6.60

सर्वैरसाध्यमानं च दुराराध्यं च सर्वदा ॥
स्वकार्य्यसाध्याचाराढ्यं कलहांकुरकारणम्

3.6.61

सर्वं निवेदितं ब्रह्मन्कर्त्तव्यं वक्तुमर्हसि ॥
कार्य्यं सर्वं परामर्शे परिणामसुखावहम्

3.6.62

श्रीनारायण उवाच ॥
इत्येवमुक्त्वा भगवान्निरीक्ष्य ब्रह्मणो मुखम् ॥
विरराम सभामध्ये स्तुत्वा च कमलापतिम्

3.6.63

शङ्करस्य वचः श्रुत्वा प्रहस्य जगदीश्वरः ॥
हितं च नीतिवचनं प्रवक्तुमुपचक्रमे

3.6.64

श्रीविष्णुरुवाच ॥
सुपुण्यकव्रतं सारं सतीसन्तानहेतवे ॥
स्वामिसौभाग्यबीजं च पत्नी ते कर्तुमिच्छति

3.6.69

सर्वासाध्यं दुराराध्यं सर्वकामफलप्रदम् ॥
सुखदं सुखसारं च मोक्षदं पार्वतीश्वर

3.6.66

आत्मा साक्षिस्वरूपश्च ज्योतीरूपः सनातनः ॥
निराश्रयश्च निर्लिप्तो निरुपाधिर्निरामयः

3.6.67

भक्तप्राणश्च भक्तेशो भक्तानुग्रहकारकः॥
दुराराध्यो हि योऽन्येषां भक्तानामतिसाधकः

3.6.68

भक्त्यधीनो हि भगवान्सर्वसिद्धो हि निष्फलः ॥
ते यस्य च कलाः पुंसो ब्रह्मविष्णुमहेश्वराः

3.6.69

महान्विराड्यदंशश्च निर्लिप्तः प्रकृतेः परः ॥
अव्ययो निग्रहश्चोग्रो भक्तानुग्रहविग्रहः

3.6.70

उग्रग्रहो ग्रहाणां च ग्रहनिग्रहकारकः।
त्रिकोटिजन्ममध्ये च न साध्यो भवता विना

3.6.71

लब्धवा हि भारते जन्म हरिभक्तिं लभेन्नरः ॥
सेवनं क्षुद्रदेवानां कृत्वा सप्तसु जन्मसु

3.6.72

सूर्य्यमन्त्रमवाप्नोति केवलं स तदाशिषा ॥
सूर्य्यमन्त्रं समाराध्य त्रिषु जन्मसु भारते

3.6.73

प्राप्नोति शैवं मन्त्रं च सर्वदं मानवो मुदा ॥
संसेव्य परया भक्त्या त्वामेवं सप्तजन्मसु

3.6.74

प्राप्नोति मायामन्त्रं च त्वत्पदाब्जप्रसादतः ॥
शतं जन्मसु चाराध्य मायां नारायणीं पराम्

3.6.75

नारायणकलां सेव्यां समवाप्नोति मानवः ॥
कलां निषेव्य वर्षेऽत्र पुण्यक्षेत्रे सुदुर्लभे

3.6.76

कृष्णभक्तिमवाप्नोति भक्तसंसर्गहैतुकीम् ॥
संप्राप्य भक्तिं निष्पक्वां भ्रामंभ्रामं च भारते

3.6.77

प्राप्नोति परिपक्वां च भक्तिं भक्तनिषेवया ॥
तदा भक्तप्रसादेन देवानामाशिषा शिव ॥
श्रीकृष्णमन्त्रं प्राप्नोति निर्वाणफलदं परम्

3.6.78

कृष्णव्रतं कृष्णमन्त्रं सर्वकामफलप्रदम् ॥
कृष्णतुल्यो भवेद्भक्तश्चिरं कृष्णनिषेवया

3.6.79

महति प्रलये पातः सर्वेषां वै सुनिश्चितम् ॥
न पातः कृष्णभक्तानां साधूनामविनाशिनाम्

3.6.80

अविनाशिनि गोलोके मोदन्ते कृष्णकिंकराः ॥
हसन्ति ते सुनिश्चिन्ता देवान्ब्रह्मादिकाञ्छिव

3.6.81

त्वं संहर्त्ता च सर्वेषां न भक्तानां महेश्वर ॥
माया मोहयते सर्वान्भक्तान्न कृपया मम

3.6.82

माया नारायणी माता सर्वेषां कृष्णभक्तिदा ॥
न कृष्णभक्तिं प्राप्नोति विना मायानिषेवणम्

3.6.83

सा च नारायणी माया मूलप्रकृतिरीश्वरी ॥
कृष्णप्रिया कृष्णभक्ता कृष्णतुल्याऽविनाशिनी

3.6.84

सा च तेजस्स्वरूपा च स्वेच्छाविग्रहधारिणी ॥
आविर्भूता च देवानां तेजसाऽसुरनिग्रहे

3.6.85

निहत्य दैत्यसंघांश्च दक्षपत्न्यां च भारते ॥
ललाभ दक्षस्तपसा जन्म चानेकजन्मनः ॥

3.6.86

त्यक्त्वा देहं पितुर्यज्ञे सा सती तव निन्दया ॥
जगाम देवी गोलोकं कृष्णशक्तिः सनातनी

3.6.87

गृहीत्वा विग्रहं तस्या गुणरूपाश्रय परम् ॥
भ्रामंभ्रामं भारते त्वं विषण्णोऽभूः पुरा हर

3.6.88

प्रबोधितो मया त्वं च श्रीशैलेषु सरित्तटे ॥
ललाभ जन्म सा शैलकान्तायामचिरेण च

3.6.89

करोतु पुण्यकं साध्वी सुव्रता सुव्रतं शिवा ॥
राजसूयसहस्राणां पुण्यं शंकर पुण्यके

3.6.90

राजसूयसहस्राणां व्रते यत्र धनव्ययः ॥
न साध्यं सर्वसाध्वीनां व्रतमेतत्त्रिलोचन

3.6.91

स्वयं भूतेशनाथस्त्वं पुण्यकस्य प्रभावतः ॥
पार्वतीगर्भजातश्च वरः पुत्रो भविष्यति

3.6.92

स्वयं देवगणानां स यस्मादीशः कृपानिधिः ॥
गणेश इति विख्यातो भविष्यति जगत्त्रये

3.6.93

यस्य स्मरणमात्रेण विघ्ननाशो भवेद्ध्रुवम्॥
जगतां हेतुनाऽनेन विघ्ननिघ्नाभिधो विभुः

3.6.94

नानाविधानि द्रव्याणि यस्माद्देयानि पुण्यके॥
भुक्त्वा लम्बोदरत्वं च तेन लम्बोदरः स्मृतः

3.6.99

शनिदृष्ट्या शिरश्छेदाद्गजवक्त्रेण योजितः ॥
गजाननः शिशुस्तेन सर्वेषां सर्वसिद्धिदः

3.6.96

दन्तभङ्गः परशुना पर्शुरामस्य वै यतः ॥
हेतुना तेन विख्यातश्चैकदन्ताभिधः शिशुः

3.6.97

पूज्यश्च सर्वदेवानामस्माकं जगतां विभुः ॥
सर्वाग्रे पूजनं तस्य भविता मद्वरेण वै

3.6.98

पूजासु सर्वदेवानामग्रे संपूज्य तं जनः ॥
पूजाफलमवाप्नोति निर्विघ्नेन वृथाऽन्यथा

3.6.99

गणेशं च दिनेशं च विष्णुं शम्भुं हुताशनम् ॥
दुर्गामेतान्सन्निषेव्य पूजयेद्देवतान्तरम्

3.6.100

गणेशपूजने विघ्नं निर्मूलं जगतां भवेत् ॥
निर्व्याधिः सूर्य्यपूजायां शुचिः श्रीविष्णुपूजने

3.6.101

मोक्षश्च पापनाशश्च यशश्चैश्वर्यमुत्तमम् ॥
तत्त्वज्ञानं सुतृप्तीनां बीजं शंकरपूजनात्

3.6.102

स्वबुद्धिशुद्धिजननं कीर्त्तितं वह्निपूजनम् ॥
विधिसंस्कृतवह्नेस्तु पूजातो ज्ञानतो मृतिः

3.6.103

दाता भोक्ता च भवति शंकराग्निनिषेवणात् ॥
हरिभक्तिप्रदं चैव परं दुर्गार्च्चनं शिवम्

3.6.104

विपरीतं त्रिजगतामेतेषां पूजनं विना ॥
एवं क्रमो महादेव कल्पे कल्पेऽस्ति निश्चितम्

3.6.105

एते शश्वद्विद्यमाना नित्याः सृष्टिपरायणाः ॥
आविर्भावतिरोभावौ चैतेषामीश्वरेच्छया ॥

3.6.106

इत्युक्त्वा श्रीहरिस्तत्र विरराम सभातले ॥
प्रहृष्टा देवता विप्राः पार्वत्या सह शंकरः

3.6.6

इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे व्रताज्ञाग्रहणं नाम षष्ठोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc