भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.36

3.36.1

नारायण उवाच ॥
मत्स्यराजे निपतिते राजा युद्धविशारदः ॥
राजेन्द्रान्प्रेषयामास युद्धे शस्त्रविशारदान्

3.36.2

बृहद्बलं सोमदत्तं विदर्भं मिथिलेश्वरम् ॥
निषधाधिपतिं चैव मगधाधिपतिं तथा

3.36.3

आययुः समरे योद्धुं जामदग्न्यं महारथाः ॥
त्रितयाक्षौहिणीभिश्च सेनाभिः सह नारद

3.36.4

रामस्य भ्रातरः सर्वे वीरास्तीक्ष्णास्त्रपाणयः ॥
वारयामासुरस्त्रैश्च तानेव रणमूर्द्धनि

3.36.5

ते वीराः शरजालेन दिव्यास्त्रेण प्रयत्नतः ॥
वारयामासुरेकैकं भ्रातृवर्गान्भृगोस्तथा ॥

3.36.6

आययौ समरे शीघ्रं दृष्ट्वा तांश्च पराजितान् ॥
पिनाकहस्तः स भृगुर्ज्वलदग्निशिखोपमः

3.36.7

चिक्षेप नागपाशं च जामदग्न्यो महाबलः ॥
चिच्छेद तं गारुडेन सोमदत्तो महाबलः

3.36.8

भृगुः शङ्करशूलेन सोमदत्तं जघान ह ॥
बृहद्बलं च गदया विदर्भं मुष्टिभिस्तथा

3.36.9

मैथिलं मुद्गरेणैव शक्त्या वै नैषधं तथा ॥
मागधं चरणोद्घातैरस्त्रजालेन सैनिकान्

3.36.3.36.10

निहत्य निखिलान्भूपान्संहाराग्निसमो रणे ॥
दुद्राव कार्त्तवीर्यं च जामदग्न्यो महाबलः

3.36.11

दृष्ट्वा तं योद्धुमायान्तं राजानश्च महारथाः॥
आययुः समरं कर्त्तुं कार्त्तवीर्य्यं निवार्य्य च

3.36.12

कान्यकुब्जाश्च शतशः सौराष्ट्राः शतशस्तथा ॥
राष्ट्रीयाः शतशश्चैव वीरेन्द्राः शतशस्तथा

3.36.13

सौम्या वाङ्गाश्च शतशो महाराष्ट्रास्तथा दश ॥
तथा गुर्जरजातीयाः कलिङ्गाः शतशस्तथा ॥

3.36.14

कृत्वा तु शरजालं च भृगुश्चिच्छेद तत्क्षणम् ॥
तं छित्त्वाऽभ्युत्थितो रामो नीहारमिव भास्करः

3.36.15

त्रिरात्रं युयुधे रामस्तैः सार्द्धं समराजिरे ॥
द्वादशाक्षौहिणीं सेनां तथा चिच्छेद पर्शुना

3.36.16

रम्भास्तम्भसमूह च यथा खड्गेन लीलया ॥
छित्त्वा सेनां भूपवर्गं जघान शिवशूलतः

3.36.17

सर्वांस्तान्निहतान्दृष्ट्वा सूर्य्यवंशसमुद्भवः ॥
आजगाम सुचन्द्रश्च लक्ष राजेन्द्रसंयुतः

3.36.18

द्वादशाक्षौहिणीभिश्च सेनाभिः सह संयुगे ॥
कोपेन युयुधे रामं सिंहं सिंहो यथा रणे

3.36.19

भृगुः शङ्करशूलेन नृपलक्षं निहत्य च ॥
द्वादशाक्षौहिणीं सेनामहन्वै पर्शुना बली

3.36.3.36.20

निहत्य सर्वाः सेनाश्च सुचन्द्रं युयुधे बली ॥
नागास्त्रं प्रेरयामास निहृतं तं भृगुः स्वयम्

3.36.21

नागपाशं च चिच्छेद गारुडेन नृपेश्वरः ॥
जहास च भृगुं राजा समरे च पुनः पुनः

3.36.22

भृगुर्नारायणास्त्रं च चिक्षेप रणमूर्धनि ॥
अस्तं ययौ तं निहन्तुं शतसूर्यसमप्रभम्

3.36.23

दृष्ट्वाऽस्त्रं नृपशार्दूलश्चावरुह्य रथात्क्षणात् ॥
न्यस्तशस्त्रः प्राणमच्च स्तुत्वा नारायणं शिवम्

3.36.24

तमेव प्रणतं त्यक्त्वा ययौ नारायणान्तिकम् ॥
अस्त्रराजो भगवतो रामः संप्राप विस्मयम्

3.36.25

भृगुः शक्तिं च मुसलं तोमरं पट्टिशं तथा ॥
गदां पर्शुं च कोपेन चिक्षिपे तज्जिघांसया

3.36.26

जग्राह काली तान्सर्वान्सुचन्द्रस्यन्दनस्थिता ॥
चिक्षेप शिवशूलं स नृपमाल्यं बभूव तत्

3.36.27

ददर्श पुरतो रामो भद्रकालीं जगत्प्रसूम् ॥
वहन्तीं मुण्डमालां च विकटास्यां भयंकरीम्

3.36.28

विहाय शस्त्रमस्त्रं च पिनाकं च भृगुस्तदा ॥
तुष्टाव तां महामायां भक्तिनम्रात्मकन्धरः

3.36.29

परशुराम उवाच ॥
नमः शङ्करकान्तायै सारायै ते नमो नमः ॥
नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः

3.36.3.36.30

नमो नमो जगद्धात्र्यै जगत्कर्त्र्यै नमोनमः ॥
नमोऽस्तु ते जगन्मात्रे कारणायै नमो नमः

3.36.31

प्रसीद जगतां मातः सृष्टिसंहारकारिणि ॥
त्वत्पादौ शरणं यामि प्रतिज्ञां सार्थिकां कुरु

3.36.32

त्वयि मे विमुखायां च को मां रक्षितुमीश्वरः ॥
त्वं प्रसन्ना भव शुभे मां भक्तं भक्तवत्सले

3.36.33

युष्माभिः शिवलोके च मह्यं दत्तो वरः पुरा ॥
तं वरं सफलं कर्तुं त्वमर्हसि वरानने

3.36.34

रेणुकेयस्तवं श्रुत्वा प्रसन्नाऽभवदम्बिका ॥
मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयत

3.36.35

एतद्भृगुकृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ॥
महाभयात्समुत्तीर्णः स भवेदेव लीलया

3.36.36

स पूजितश्च त्रैलोक्ये तत्रैव विजयी भवेत् ॥
ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दकः

3.36.37

एतस्मिन्नन्तरे ब्रह्मा भृगुं धर्मभृतां वरम् ॥
आगत्य कथयामास रहस्यं राममेव च

3.36.38

ब्रह्मोवाच ॥
शृणु राम महाभाग रहस्यं पूर्वमेव च ॥
सुचन्द्रजयहेतुं च प्रतिज्ञाफलमेव च

3.36.39

दशाक्षरी महाविद्या दत्ता दुर्वाससा पुरा ॥
सुचन्द्रायैव कवचं भद्रकाल्याः सुदुर्लभम्

3.36.3.36.40

कवचं भद्रकाल्याश्च देवानां च सुदुर्लभम् ॥
कवचं तद्गले यस्य सर्वशत्रुविमर्दकम्

3.36.41

अतीव पूज्यं शस्तं च त्रैलोक्यजयकारणम्॥
तस्मिन्स्थिते च कवचे कस्त्वं जेतुमलं भुवि

3.36.42

भृगो गच्छतु भिक्षार्थं करोतु प्रार्थनां नृपम् ॥
सूर्य्यवंशोद्भवो राजा दाता परमधार्मिकः

3.36.43

प्राणांश्च कवचं मन्त्रं सर्वं दास्यति निश्चितम्

3.36.44

भृगुः संन्यासिवेषेण गत्वा राजान्तिकं मुने ॥
भिक्षां चकार मन्त्रं च कवचं परमाद्भुतम्

3.36.45

राजा ददौ च तन्मन्त्रं कवचं परमादरात् ॥
ततः शङ्करशूलेन तं जघान नृपं भृगुः

इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे भृगुकार्तवीर्ययुद्धवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc