भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.34

3.34.1

नारायण उवाच ॥
स प्रातराह्निकं कृत्वा समालोच्य च तैः सह ॥
दूतं प्रस्थापयामास कार्त्तवीर्य्याश्रमं भृगुः

3.34.2

स दूतःशीघ्रमागत्य वसन्तं राजसंसदि ॥
वेष्टितं सचिवैः सार्द्धमुवाच नृपतीश्वरम्

3.34.3

रामदूत उवाच ॥
नर्म्मदातीरसान्निध्ये न्यग्रोधाक्षयमूलके ॥
स भृगुर्भ्रातृभिः सार्द्धं तत्र त्वं गन्तुमर्हसि

3.34.4

युद्धं कुरु महाराज जातिभिर्ज्ञातिभिः सह ॥
त्रिस्सप्तकृत्वो निर्भूपां करिष्यति महीमिति

3.34.5

इत्युक्त्वा रामदूतश्चाप्यगच्छद्रामसन्निधिम् ॥
राजा विधाय सन्नाहं समरं गन्तुमुद्यतः

3.34.6

गच्छन्तं समरं दृष्ट्वा प्राणेशं सा मनोरमा ॥
तमेव वारयामास वासयामास सन्निधौ

3.34.7

राजा मनोरमां दृष्ट्वा प्रसन्नवदनेक्षणः ॥
तामुवाच सभामध्ये वाक्यं मानसिकं मुने

3.34.8

कार्त्तवीर्य्यार्जुन उवाच॥
मामेवाह्वयते कान्ते जमदग्निसुतो महान् ॥
स तिष्ठन्नर्म्मदातीरे रणाय भ्रातृभिः सह

3.34.9

सम्प्राप्य शङ्कराच्छस्त्रं मन्त्रं च कवचं हरेः ।ऽ
त्रिस्सप्तकृत्वो निर्भूपां कर्तुमिच्छति मेदिनीम्

3.34.3.34.10

आन्दोलयन्ति मे प्राणा मनः संक्षुभितं मुहुः ॥
शश्वत्स्फुरति वामाङ्गं दृष्टं स्वप्नं शृणु प्रिये

3.34.11

तैलाभ्यङ्गितमात्मानमपश्यं गर्दभोपरि ॥
औढपुष्पस्य माल्यं च बिभ्रतं रक्तचन्दनम्

3.34.12

रक्तवस्त्रपरीधानं लोहालङ्कारभूषितम् ॥
क्रीडन्तं च हसन्तं च निर्वाणाङ्गारराशिना

3.34.13

भस्माच्छन्नां च पृथिवीं जपापुष्पान्वितां सति ॥
रहितं चन्द्रसूर्य्याभ्यां रस्तसन्ध्यान्वितं नभः

3.34.14

मुक्तकेशां च नृत्यन्तीं विधवां छिन्ननासिकाम् ॥
रक्तवस्त्रपरीधानामपश्यं चाट्टहासिनीम्

3.34.19

सशरामग्निरहितां चितां भस्मसमन्विताम् ॥
भस्मवृष्टिमसृग्वृष्टिमग्निवृष्टिमपीश्वरि

3.34.16

पक्व तालफलाकीर्णां पृथिवीमस्थिसंयुताम्॥
अपश्यं कर्परौघं च छिन्नकेशनखान्वितम्

3.34.17

पर्वतं लवणानां च राशीभूतं कपर्दकम्॥
चूर्णानां चैव तैलानामदृशं कन्दरं निशि

3.34.18

अदृशं पुष्पितं वृक्षमशोककरवीरयोः ॥
तालवृक्षं च फलितं तत्र चैव पतत्फलम्

3.34.19

।
स्वकरात्पूर्णकलशः पपात च बभञ्ज च ॥
इत्यपश्यं च गगनात्सम्पतच्चन्द्रमण्डलम्

3.34.3.34.20

अपश्यमम्बरात्सूर्य्यमण्डलं समम्पतद्भुवि ॥
उल्कापातं धूमकेतुं ग्रहणं चन्द्रसूर्य्ययोः

3.34.21

विकृताकारपुरुषं विकटास्यं दिगम्बरम् ॥
आगच्छन्तं चाग्रतस्तमपश्यं च भयानकम्

3.34.22

बाला द्वादशावर्षीया वस्त्रभूषणभूषिता ॥
संरुष्टा याति मद्गेहादित्यपश्यमहं निशि

3.34.23

आज्ञां त्वं देहि राजेन्द्र त्वद्गेहाद्यामि काननम् ॥
वदसि त्वं मामिति च निश्यपश्यमहं शुचा

3.34.24

रुष्टो विप्रो मां शपते संन्यासी च तथा गुरुः ॥
भित्तौ पुत्तलिकाश्चित्रा नृत्यन्तीश्च ददर्श ह

3.34.25

चञ्चलानां च गृध्राणां काकानां निकरैः सदा ॥
पीडितं महिषाणां च स्वमपश्यमहं निशि

3.34.26

पीडितं तैलयन्त्रेण भ्रामितं तैलकारिणा ॥
दिगम्बरान्पाशहस्तानपश्यमहमीश्वरि

3.34.27

नृत्यन्ति गायकाः सर्वे गानं गायन्ति मे गृहे ॥
विवाहं परमानन्दमित्यपश्यमहं निशि

3.34.28

रमणं कुर्वतो लोकान्केशाकेशि च कुर्वतः ॥
अदृशं समरं रात्रौ काकानां च शुनामपि

3.34.29

मोटकानि च पिण्डानि श्मशानं शवसंयुतम् ॥
रक्तवस्त्रं शुक्लवस्त्रमपश्यं निशि कामिनि

3.34.3.34.30

कृष्णाम्बरा कृष्णवर्णा नग्ना वै मुक्तकेशिनी॥
विधवाऽऽश्लिष्यति च मामपश्यं निशि शोभने ॥

3.34.31

नापितो मुण्डते मुण्डं श्मश्रुश्रेणीं च मे प्रिये ॥
वक्षःस्थलं च नखरमित्यपश्यमहं निशि

3.34.32

पादुका चर्मरज्जूनामपश्यं राशिमुल्बणम् ॥
चक्रं भ्रमन्तं भूमौ च कुलालस्येति सुन्दरि

3.34.33

वात्यया घूर्णमानं च शुष्कवृक्षं तमुत्थितम् ॥
पूर्णमानं कबन्धं वै चापश्यं निशि सुव्रते

3.34.34

ग्रथितां मुण्डमालां च चूर्णमानां च वात्यया ॥
अतीव घोरदशनामप्यपश्यमहं वरे

3.34.35

भूतप्रेता मुक्तकेशा वमन्तश्व हुताशनम् ॥
मां भीषयन्ति सततमित्यपश्यमहं निशि

3.34.36

दग्धजीवं दग्धवृक्षं व्याधिग्रस्तं नरं परम् ॥
अङ्गहीनं च वृषलमप्यपश्यमहं निशि

3.34.37

गेहपर्वतवृक्षाणां सहसा पतनं परम् ॥
मुहुर्मुहुर्वज्रपातमप्यपश्यमहं निशि

3.34.38

कुक्कुराणां शृगालानां रोदनं च मुहुर्मुहुः ॥
गृहे गृहे च नियतमपश्यं सर्वतो निशि

3.34.39

अधश्शिरस्तूर्द्ध्वपादं मुक्तकेशं दिगम्बरम् ॥
भूमौ भ्रमन्तं गच्छन्तं चाप्यपश्यमहं नरम्

3.34.3.34.40

विकृताकारशब्दं च ग्रामादौ देव रोदनम् ॥
प्रातः श्रुत्वैवावबुद्धः क उपायो वदाधुना

3.34.41

नृपतेर्वचनं श्रुत्वा हृदयेन विदूयता ॥
सगद्गदं च रुदती तमुवाच नृपेश्वरम्

3.34.42

मनोरमोवाच ॥
हे नाथ रमणश्रेष्ठ श्रेष्ठ सर्वमहीभृताम् ॥
प्राणातिरेक प्राणेश शृणु वाक्यं शुभावहम्

3.34.43

नारायणांशो भगवाञ्जामदग्न्यो महाबली ॥
सृष्टिसंहर्तुरीशस्य शिष्योऽयं जगतः प्रभोः

3.34.44

त्रिःसप्तकृत्वो निर्भूपां करिष्यामि महीमिति ॥
प्रतिज्ञा यस्य रामस्य तेन सार्द्धं रणं त्यज

3.34.45

पापिनं रावणं जित्वा शूरं त्वमपि मन्यसे ॥
स त्वया न जितो नाथ स्वपापेन पराजितः

3.34.46

यो न रक्षति धर्म्मं च तस्य को रक्षिता भुवि ॥
स नश्यति स्वयं मूढो जीवन्नपि मृतो हि सः

3.34.47

शुभाशुभस्य सततं साक्षी धर्म्मस्य कर्मणः ॥
आत्मारामः स्थितः स्वान्तो मूढस्त्वं नहि पश्यसि

3.34.48

पुत्रदारादिकं यद्यत्सर्वैश्वर्य्यं सुधर्मिणाम् ॥
जलबुद्बुदवत्सर्वमनित्यं नश्वरं नृप

3.34.49

संसारं स्वप्नसदृशं मत्वा सन्तोऽत्र भारते॥
ध्यायन्ति सततं धर्म्मं तपः कुर्वन्ति भक्तितः

3.34.3.34.50

दत्तेन दत्तं यज्ज्ञानं तत्सर्वं विस्मृतं त्वया ॥
अस्ति चेद्विप्रहिंसायां कुबुद्धे त्वन्मनः कथम्

3.34.51

सुखार्थे मृगयां गत्वा तत्रोपोष्य द्विजाश्रमे ॥
भुक्त्वा मिष्टमपूर्वं च हतो विप्रो निरर्थकम्

3.34.52

गुरु विप्रसुराणां च यः करोति पराभवम् ॥
अभीष्टदेवस्तं रुष्टो विपत्तिस्तस्य सन्निधौ

3.34.53

स्मरणं कुरु राजेन्द्र दत्तात्रेयपदाम्बुजम् ॥
गुरौ भक्तिश्च सर्वेषां सर्वविघ्नविनाशिनी

3.34.54

गुरुदेवं समभ्यर्च्य तं भृगुं शरणं व्रज ॥
विप्रे देवे प्रसन्ने च क्षत्त्रियाणां नहि क्षतिः

3.34.59

विप्रस्य किंकरो भूपो वैश्यो भूपस्य भूमिप ॥
सर्वेषां किङ्कराः शूद्रा ब्राह्मणस्य विशेषतः

3.34.96

अयशः शरणं शश्वत्क्षत्रियस्य च क्षत्रिये ॥
महद्यशस्तच्छरणं गुरुदेवद्विजेषु च

3.34.57

ब्राह्मणं भज राजेन्द्र गरीयांसं सुरादपि ॥
ब्राह्मणे परितुष्टे च सन्तुष्टाः सर्वदेवताः

3.34.58

इत्येवमुक्त्वा राजेन्द्रं क्रोडे कृत्वा महासती॥
मुहुर्मुहुर्मुखं दृष्ट्वा विललाप रुरोद च

3.34.59

क्षणं तिष्ठ महाराज पुनरेवमुवाच सा ॥
स्नानं कुरु महाराज भोजयिष्यामि वाञ्छितम्

3.34.3.34.60

चन्दनागुरुकस्तूरीकर्पूरैः कुंकुमैर्युतम् ॥
अनुलेपं करिष्यामि सर्वांगे तव सुन्दर

3.34.61

क्षणं सिंहासने तिष्ठ क्षणं वक्षसि मे प्रभो॥
सभायां पुष्परचिते तल्पे पश्यामि शोभनम्

3.34.62

शतपुत्राधिकः प्रेम्णा सतीनां वै पतिर्नृप ॥
निरूपितो भगवता वेदेषु हरिणा स्वयम्

3.34.63

मनोरस्तवचः श्रुत्वा राजा परमपण्डितः ॥
बोधयामास तां राज्ञीं ददौ प्रत्युत्तरं पुनः

3.34.64

कार्त्तवीर्य्यार्जुन उवाच ॥
शृणु कान्ते प्रवक्ष्यामि श्रुतं सर्वं त्वयेरितम् ॥
शोकार्तानां च वचनं न प्रशंस्यं सभासु च

3.34.65

सुखं दुःखं भयं शोकः कलहः प्रीतिरेव च ॥
कर्म भोगार्हकालेन सर्वं भवति सुन्दरि

3.34.66

कालो ददाति राजत्वं कालो मृत्युं पुनर्भवम् ॥
कालः सृजति संसारं कालः संहरते पुनः

3.34.67

करोति पालनं कालः कालरूपी जनार्दनः ॥
कालस्य कालः श्रीकृष्णो विधातुर्विधिरेव च

3.34.68

संहर्त्तुर्वाऽपि संहर्त्ता पातुः पाता च कर्मकृत् ॥
स कर्मणां कर्मरूपी ददाति तपसां फलम् ॥
कः केन हन्यते जन्तुः कर्मणा वै विना सति॥ ऽ

3.34.69

स्रष्टा सृजति सृष्टिं च संहर्त्ता संहरेत्पुनः ॥
पाता पाति च भूतानि यस्याज्ञां परिपालयेत्

3.34.3.34.70

यस्याज्ञया वाति वातः सन्ततं भयविह्वलः ॥
शश्वत्सञ्चरते मृत्युः सूर्य्यस्तपति सन्ततम्

3.34.71

वर्षतीन्द्रो दहत्यग्निः कालो भ्रमति भीतवत् ॥
तिष्ठन्ति स्थावराः सर्वे चरन्ति सततं चराः

3.34.72

वृक्षाश्च पुष्पिताः काले फलितः पल्लवान्विताः ॥
शुष्यन्ति कालतः काले वर्द्धन्ते च तदाज्ञया

3.34.73

आविर्भूता तिरोभूता सृष्टिरेव तदाज्ञया ॥
तस्याज्ञया भवेत्सर्वं न किञ्चित्स्वेच्छया नृणाम् ॥

3.34.74

नारायणांशो भगवाञ्जामदग्न्यो महाबलः ॥
त्रिस्सप्तकृत्वो निर्भूपां करिष्यति महीमिति

3.34.75

प्रतिज्ञा विफला तस्य न भवेत्तु कदाचन ॥
निश्चितं तस्य वध्योऽहमिति जानामि सुव्रते

3.34.76

ज्ञात्वा सर्वं भविष्यं च शरणं यामि तत्कथम् ॥
प्रतिष्ठितानां चाकीर्त्तिर्मरणादतिरिच्यते

3.34.77

इत्येवमुक्त्वा राजेन्द्रः समरं गन्तुमुद्यतः ॥
वाद्यं च वादयामास कारयामास मंगलम्

3.34.78

शतकोटिर्नृपाणां च गजेन्द्राणां त्रिलक्षकम् ॥
अक्षौहिणीनां शतकं महाबलपराक्रमम्

3.34.79

अश्वानां च गजानां च पदातीनां तथैव च ॥
असंख्यकं रथानां च गृहीत्वा गन्तुमुद्यतः

3.34.3.34.80

बभूव स्तिमिता साध्वी दृष्ट्वा तं गमनोन्मुखम् ।
धृतवन्तं च सन्नाहमक्षयं सशरं धनुः

3.34.81

क्रीडागारे क्षणं तस्थौ कृत्वा कान्तं स्ववक्षसि ॥
पश्यन्ती तन्मुखाम्भोजं चुचुम्ब च मुहुर्मुहुः

3.34.34

इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कार्तवीर्यार्जुन संनाहो नाम चतुस्त्रिंशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc