भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.63

2.63.1

नारद उवाच ॥
नारायण महाभाग वद वेदविदां वर ॥
राजा केन प्रकारेण सिषेवे प्रकृतिं पराम्

2.63.2

समाधिर्नाम वैश्यो वा निष्कामं निर्गुणं विभुम् ॥
भेजे केन प्रकारेण प्रकृतेरुपदेशतः

2.63.3

किं वा पूजाविधानं च ध्यानं वा मनुरेव च ॥
किं स्तोत्रं कवचं किं वा ददौ राज्ञे महामुनिः

2.63.4

वैश्याय प्रकृतिस्तस्मै किं वा ज्ञानं ददौ परम् ॥
साक्षाद्बभूव सहसा केन वा प्रकृतिस्तयोः

2.63.5

ज्ञानं संप्राप्य वैश्यश्च किं पदं प्राप दुर्लभम् ॥
गतिर्बभूव राज्ञश्च का वा तां च शृणोम्यहम्

2.63.6

श्रीनारायण उवाच ॥
राजा वैश्यश्च संप्राप्य मन्त्रं वै मेधसो मुनेः ॥
स्तोत्रं च कवचं देव्या ध्यानं चैव पुरस्क्रियाम् ॥
जजाप परमं मन्त्रं राजा वैश्यश्च पुष्करे

2.63.7

स्नात्वा त्रिकालं वर्षं च ततः शुद्धो बभूव सः ॥
साक्षाद्बभूव तत्रैव मूलप्रकृतिरीश्वरी

2.63.8

राज्ञे ददौ राज्यवरं मनुत्वं वाञ्छितं सुखम् ॥
ज्ञानं निगूढं वैश्याय ददौ चातिसुदुर्लभम्

2.63.9

यद्दत्तं शूलिने पूर्वं कृष्णेन परमात्मना ॥
निराहारमतिक्लिष्टं दृष्ट्वा वैश्यं कृपामयी

2.63.2.63.10

रुरोद कृत्वा क्रोडे तमचेष्टं श्वासवर्जितम् ॥
चेतनां कुरु भो वत्सेत्युच्चार्य्य च पुनः पुनः

2.63.11

चेतनां च ददौ तस्मै स्वयं चैतन्यरूपिणी ॥
संप्राप्य चेतनां वैश्यो रुरोद प्रकृतेः पुरः

2.63.12

तमुवाच प्रसन्नाऽसौ कृपयाऽतिकृपामयी

2.63.13

श्रीप्रकृतिरुवाच ॥
वरं वृणुष्व हे वत्स यत्ते मनसि वर्त्तते ॥
ब्रह्मत्वममरत्वं वा ततो वाऽतिसुदुर्लभम्

2.63.14

इन्द्रत्वं वा मनुत्वं वा सर्वसिद्धत्वमेव च ॥
तुच्छं तुभ्यं न दास्यामि नश्वरं बालवञ्चनम्

2.63.15

वैश्य उवाच ॥
ब्रह्मत्वममरत्वं वा मातर्मे नहि वाञ्छितम् ॥
ततोऽतिदुर्लभं किं वा न जाने तदभीप्सितम्

2.63.16

त्वय्येव शरणापन्नो देहि यद्वाञ्छितं तव ॥
अनश्वरं सर्वसारं वरं मे दातुमर्हसि

2.63.17

प्रकृतिरुवाच ॥
अदेयं नास्ति मे तुभ्यं दास्यामि मम वाञ्छितम् ॥
यतो यास्यसि गोलोकं पदमेव सुदुर्लभम्

2.63.18

सर्वसारं च यज्ज्ञानं सुरर्षीणां सुदुर्लभम् ॥
तद्गृह्यतां महाभाग गच्छ वत्स हरेः पदम्

2.63.19

स्मरणं वन्दनं ध्यानमर्चनं गुणकीर्त्तनम् ॥
श्रवणं भावनं सेवा कृष्णे सर्वनिवेदनम्

2.63.2.63.20

एतदेवं वैष्णवानां नवधा भक्तिलक्षणम् ॥
जन्ममृत्युजराव्याधियमताडनखण्डनम्

2.63.21

आयुर्हरति लोकानां रविरेव हि सन्ततम् ॥
नवधा भक्तिहीनानामसतां पापिनामपि

2.63.22

भक्तास्तद्गतचित्ताश्च वैष्णवाश्चिरजीविनः ॥
जीवन्मुक्ताश्च निष्पापा जन्मादिपरिवर्जिताः

2.63.23

शिवः शेषश्च धर्मश्च ब्रह्मा विष्णुर्महान्विराट् ॥
सनत्कुमारः कपिलः सनकश्च सनन्दनः

2.63.24

वोढुः पञ्चशिखो दक्षो नारदश्च सनातनः ॥
भृगुर्मरीचिर्दुर्वासाः कश्यपः पुलहोऽङ्गिराः

2.63.25

मेधावी लोमशः शुक्रो वसिष्ठः क्रतुरेव च ॥
बृहस्पतिः कर्दमश्च शक्तिरत्रिः पराशरः

2.63.26

मार्कण्डेयो बलिश्चैव प्रह्लादश्च गणेश्वरः ॥
यमः सूर्य्यश्च वरुणो वायुश्चन्द्रो हुताशनः

2.63.27

अकूपार उलूकश्च नाडीजंघश्च वायुजः ॥
नरनारायणौ कूर्म्म इन्द्रद्युम्नो विभीषणः

2.63.28

नवधा भक्तियुक्ताश्च कृष्णस्य परमात्मनः ॥
एते महान्तो धर्मिष्ठा भक्तानां प्रवरास्तथा

2.63.29

ये तद्भक्तास्ते तदंशा जीवन्मुक्ताश्च सन्ततम् ॥
पापापहारास्तीर्थानां पृथिव्याश्च विशां पते

2.63.2.63.30

ऊर्ध्वं च सप्त स्वर्गाश्च सप्तद्वीपा वसुन्धरा ॥
अधस्सप्त च पाताला एतद्ब्रह्माण्डमेव च

2.63.31

एवंविधानां विश्वानां संख्या नास्त्येव पुत्रक ॥
एवं च प्रतिविश्वेषु ब्रह्मविष्णुशिवादयः

2.63.32

देवा देवर्षयश्चैव मनवो मानवादयः ॥
सर्वाश्रमाश्च सर्वत्र सन्ति बद्धाश्च मायया

2.63.33

महाविष्णोर्लोमकूपे सन्ति विश्वानि यस्य च ॥
स षोडशांशः कृष्णस्य चात्मनश्च महाविराट् ॥

2.63.34

भज सत्यं परं ब्रह्म नित्यं निर्गुणमच्युतम् ॥
प्रकृतेः परमीशानं कृष्णमात्मानमीप्सितम्

2.63.39

निरीहं च निराकारं निर्विकारं निरञ्जनम् ॥
निष्कामं निर्विरोधं च नित्यानन्दं सनातनम्

2.63.36

स्वेच्छामयं सर्वरूपं भक्तानुग्रहविग्रहम् ॥
तेजस्स्वरूपं परमं दातारं सर्वसम्पदाम्

2.63.37

ध्यानासाध्यं दुराराध्यं शिवादीनां च योगिनाम् ॥
सर्वेश्वरं सर्वपूज्यं सर्वेषां सर्वकामदम्

2.63.38

सर्वाधारं च सर्वज्ञं सर्वानन्दकरं परम् ॥
सर्वधर्मप्रदं सर्वं सर्वज्ञं प्राणरूपिणम्

2.63.39

सर्वधर्मस्वरूपं च सर्वकारणकारणम् ॥
सुखदं मोक्षदं सारं पररूपं च भक्तिदम्

2.63.2.63.40

दास्यदं धर्मदं चैव सर्वसिद्धिप्रदं सताम् ॥
सर्वं तदतिरिक्तं च नश्वरं कृत्रिमं सदा

2.63.41

परात्परतरं शुद्धं परिपूर्णतमं शिवम् ॥
यथासुखं गच्छ वत्स भगवन्तमधोक्षजम्

2.63.42

कृष्णेति द्व्यक्षरं मन्त्रं गृहीत्वा कृष्णदास्यदम् ॥
पुष्करं दुष्करं गत्वा दशलक्षमिमं जप

2.63.43

दशलक्षजपेनैव मन्त्रसिद्धिर्भवेत्तव ॥
इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत

2.63.44

वैश्यो नत्वा च तां भक्त्या चागमत्पुष्करं मुने ॥
पुष्करे दुष्करं तप्त्वा स लेभे कृष्णमीश्वरम् ॥
भगवत्याः प्रसादेन कृष्णदासो बभूव सः

2.63.63

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसं वादे दुर्गोपाख्याने सुरथसमाधिमेधस्संवादे प्रकृतिवैश्यसंवादकथनं नाम त्रिषष्टितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc