भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.45

2.45.1

नारायण उवाच ॥
उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम्॥
श्रूयतां मनसाख्यानं यच्छ्रुतं धर्मवक्त्रतः

2.45.2

कन्या भगवती सा च कश्यपस्य च मानसी॥
तेनेयं मनसादेवी मनसा या च दीव्यति

2.45.3

मनसा ध्यायते या वा परमात्मानमीश्वरम् ॥
तेन सा मनसादेवी योगेनैतेन दीव्यति

2.45.4

आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ॥
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः

2.45.5

जरत्कारुशरीरं च दृष्ट्वा यां क्षणमीश्वरः ॥
गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः

2.45.6

वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः ॥
पूजां च कारयामास चकार च पुनः स्वयम्

2.45.7

स्वर्गे च नागलोके च पृथिव्यां बह्मलोकतः ॥
भृशं जपत्सु गौरी सा सुन्दरी च मनोहरा

2.45.8

जगद्गौरीति विख्याता तेन सा पूजिता सती ॥
शिवशिष्या च सा देवी तेन शैवीति कीर्त्तिता

2.45.9

विष्णुभक्ताऽतीव रम्या वैष्णवी तेन नारद ॥
नागानां प्राणरक्षित्री जनमेजययज्ञके

2.45.12

नागेश्वरीति विख्याता सा नागभगिनी तथा ॥
विषं संहर्त्तुमीशा सा तेन सा विषहारिणी ॥2.45.१ ०॥
सिद्धं योगं हरात्प्राप तेनासौ सिद्धयोगिनी॥
महाज्ञानं च गोप्यं च मृतसञ्जीविनीं पराम् ॥१ १॥
महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः ॥
आस्तीकस्य मुनीन्द्रस्य माता सा वै तपस्विनः

2.45.13

आस्तीकमाता विख्याता जरत्कारुरिति स्म सा ॥
प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः

2.45.14

योगिनो विश्वपूज्यस्य जरत्कारोः प्रिया ततः

2.45.15

ॐ नमो मनसायै ॥
जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ॥
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा

2.45.16

जरत्कारुप्रियाऽऽस्तीकमाता विषहरीति च ॥
महाज्ञानयुता चैव सा देवी विश्वपूजिता

2.45.17

द्वादशैतानि नामानि पूजाकाले च यः पठेत् ॥
तस्य नागभयं नस्ति तस्य वंशोद्भवस्य च

2.45.18

नागभीदे च शयने नागग्रस्ते च मन्दिरे ॥
नागक्षते नागदुर्गे नागवेष्टितविग्रहे

2.45.19

इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ॥
नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते

2.45.2.45.20

दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥
स्तोत्रं सिद्धं भवेद्यस्य स विषं भोक्तुमीश्वरः

2.45.21

नागौघं भूषणं कृत्वा स भवेन्नागवाहनः ॥
नागासनो नागतल्पो महा सिद्धो भवेन्नरः

2.45.45

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मनसोपाख्याने मनसास्तोत्रादिक थनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc