ब्रह्मवैवर्त पुराण · अध्याय 2.44
नारायण उवाच ॥
कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथागमम्॥
देवी मङ्गलचण्डी च तदाख्यानं निशामय
तस्याः पूजादिकं सर्वं धर्मवक्त्राच्च यच्छ्रुतम् ॥
श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि
चण्डायां वर्त्तते चण्डी जाग्रती शत्रुमण्डले ॥
मङ्गलेषु च या दक्षा मङ्गला सैव चण्डिका
दुर्गायां विद्यते चण्डी मङ्गलोऽपि महीसुते ॥
मङ्गलाऽभीष्टदेवी या सा स्यान्मङ्गलचण्डिका
मंगलो मनुवंशश्च सप्तद्वीपावनीपतिः ॥
तस्य पूज्याऽभीष्टदेवी तेन मंगलचण्डिका
मूर्त्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ॥
कृपारूपाऽतिप्रत्यक्षा योषितामिष्टदेवता
प्रथमे पूजिता सा च शङ्करेण पुरा परा ॥
त्रिपुरस्य वधे घोरं विष्णुना प्रेरितेन च
ब्रह्मन्ब्रह्मोपदेशेन दुर्गप्रस्थे च सङ्कटे ॥
आकाशात्पतिते याने रुषा दैत्येन पातिते
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः ॥
सा च मंगलचण्डीयमभवद्रूपभेदतः
उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो ॥
भगवान्वृषरूपश्च सर्वेशश्च बभूव ह
युद्धशक्तिस्वरूपाऽहं भविष्यामि तदाज्ञया ॥
मयाऽऽत्मना च हरिणा सहायेन वृषध्वज
जहि दैत्यं च देवेश सुराणां पदघातकम् ॥
इत्युक्त्वाऽन्तर्हिता देवी शम्भोः शक्तिर्बभूव सा
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ॥
मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः
तुष्टुवुः शंकरं देवा भक्तिनम्रात्मकन्धराः ॥
सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ॥
ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्करः शुचिः
पूजयामास तां शक्तिं देवीं मङ्गलचण्डिकाम् ॥
पाद्यार्घ्याचमनीयैश्च बलिभिर्विविधैरपि
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ॥
छागैर्मेषैश्च महिषैर्गण्डैर्मायाविभिर्वरैः
वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि ॥
मधुभिश्च सुधाभिश्च पक्वैर्नानाविधैः फलैः
सङ्गीतैर्नर्त्तनैर्वाद्यैरुत्सवैः कृष्णकीर्त्तनैः ॥
ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन विधिपूर्वकम्
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ॥
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ॥
ऐं क्रूं फट्स्वाहेत्येवं चाप्येकविंशाक्षरो मनुः॥
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ॥
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्
मन्त्रसिद्धिर्भवेद्यस्य स विष्णुः सर्वकामदः ॥
ध्यानं च श्रूयतां ब्रह्मन्वेदोक्तं सर्वसम्मतम्
देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् ॥
सर्वरूपगुणाढ्यां च कोमलांगीं मनोहराम्
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ॥
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्॥
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम्
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ॥
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम्
संसारसागरे घोरे पोतरूपां वरां भजे
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ॥
प्रयतः सङ्कटग्रस्तो येन तुष्टाव शङ्करः
शङ्कर उवाच ॥
रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके ॥
संहर्त्रि विपदां राशेर्हर्षमंगलकारिके
हर्षमंगलदक्षे च हर्षमंगलचण्डिके ॥
शुभे मंगलदक्षे च शुभमंगल चण्डिके
मंगले मङ्गलार्हे च सर्वमंगलमंगले ॥
सतां मंगलदे देवि सर्वेषां मंगलालये
पूज्या मंगलवारे च मंगलाभीष्टदैवते ॥
पूज्ये मंगलभूपस्य मनुवंशस्य सन्ततम्
मंगलाधिष्ठातृदेवि मंगलानां च मंगले ॥
संसारे मंगलाधारे मोक्षमंगलदायिनि
सारे च मंगलाधारे पारे त्वं सर्वकर्मणाम् ॥
प्रतिमंगलवारं च पूज्ये त्वं मंगलप्रदे
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मगलचण्डिकाम् ॥
प्रतिमंगलवारे च पूजां कृत्वा गतः शिवः
देव्याश्च मंगलस्तोत्रं यः शृणोति समाहितः ॥
तन्मंगलं भवेच्छश्वन्न भवेत्तदमंगलम्
प्रथमे पूजिता देवी शम्भुना सर्वमंगला ॥
द्वितीये पूजिता देवी मंगलेन ग्रहेण च
तृतीये पूजिता भद्रा मंगलेन नृपेण च ॥
चतुर्थे मंगले वारे सुन्दरीभिश्च पूजिता ॥
पञ्चमे मङ्गलाकांक्षैर्नरैर्मंगलचण्डिका
पूजिता प्रतिविश्वेषु विश्वेशैः पूजिता सदा ॥
ततः सर्वत्र संपूज्य सा बभूव सुरेश्वरी
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने ॥
देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः
तन्मंगलं भवेच्छश्वन्न भवेत्तदमंगलम् ॥
वर्द्धन्ते तत्पुत्रपौत्रा मंगलं च दिने दिने
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मङ्गलोपाख्याने तत्स्तोत्रादिकथनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0